लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/विषयानुक्रमणिका

श्रीलक्ष्मीनारायणीयसंहितायाः प्रथमखण्डस्य कृतयुगसन्तानस्याऽनुक्रमणिका


१. वैकुण्ठे लक्ष्मीनारायणीयसभायां नारदस्य द्रवीभावभक्त्या नारायणे द्रवरूपेण लीनता । १
२. अक्षरधामनि परब्रह्मब्रह्ममुक्तादीनां द्रवभावेऽपि साकारता । ३
३. लक्ष्मीराधाकृते वैकुण्ठगोलोकधामनिर्माणम् । ४
४. वासुदेवादारभ्य ब्रह्मादिपर्यन्तमीश्वरसृष्टिः । ४
५. वासुदेवस्य श्रीहरिणा स्वतनावीश्वरसृष्टिप्रदर्शनम् । ६
६ ब्रह्मविष्णुमहेशानामनेकत्वं विविधाधिकारित्वं च । ७
७. अव्याकृतधामबदरिकाश्रमधाम्नोर्दिव्यधामता । ८
८ ब्रह्मणः सृष्टिज्ञानार्थं नारायणतनौ सृष्टिप्रदर्शनम् । ९
९. विष्णुप्राविर्भावे ब्रह्मविष्ण्वोर्विवादो भक्तिकवचदिव्यास्त्राणि । ११
१०. तेजोमयब्रह्मलिंगाविर्भावपूर्वकशंकरप्राविर्भावः । १२
११. ब्रह्मलिंगान्तमार्गणे ब्रह्मणः केतकपुष्पस्य चासत्यता पूजाऽनर्हता च, विष्णोः सत्यता पूजार्हता च । १४
१२. असंख्यब्रह्माण्डोत्पत्तिश्चतुर्दशस्तस्तरेषु देवादिवासश्च । १५
१३. क्षणादिमहाप्रलयान्तकालगणना, आयुःप्रमापककालव्यवच्छेदः । १६
१४. मानससृष्टौ ब्रह्मणा गुणाऽज्ञानाऽधर्मादयः सृष्टाः । १७
१५ धर्मसूृष्टिः, रुद्रसृष्टिः, कृतान्तसृष्ट्या रुद्राणां संहारश्च । १८
१६. सात्त्विकरुद्ररुद्राण्यादिसृष्टिः । १९
१७. सात्त्विकी रुद्रस्य दासदासीगणादिसृष्टिः । २१
१८. सनकादिशान्तमानससृष्टिः, तद्गुणनिवासाः, वेदप्राकट्यादि च । २२
१९. सत्पुरुषाणां माहात्म्यकथनम् । २४
२०. मोक्षप्रदस्त्रीसेव्यमहासतीसाध्वीमहागीतानां सूष्टिस्तन्माहात्म्यादिः । २६
२१. उपनिषदात्मकसाध्वीकन्यकानां सृष्टिः । २८
२२. पराविद्यात्मकसाध्वीनां ब्रह्मप्रियात्मकतद्दासीनां च सृष्टिः । २९
२३. गायत्रीसरस्वतीरूपसाध्वीसृष्टिः । ३०
२४. एकादशीनां जयन्तीनां च साध्वीरूपाणां सृष्टिः । ३ १
२५. भक्तिरूपसाध्वीसृष्टिः । ३३
२६. भक्तेर्दासीरूपाऽऽराधनादिसृष्टिः । ३४
२७. महालक्ष्मीरमाराधासतीवृन्दामातृगंगादिसृष्टिः । ३५
२८. भगवद्गुणात्मकदिव्यसाध्वीनां दिव्यगुणचिह्नादि । ३७
२९. नारायणावताररूपनरनारीणां दिव्यचिह्नादि । ३८
३०. पतिव्रताया उत्पत्तिसामर्थ्यादि । ४०
३१. कुंकुमादिद्रव्याऽक्षतादिधान्यताम्बूलादिवल्लीनारीकेलादिफलरक्तगैरिकादिधातुरतिप्रभृतिरसादिजनिः । ४१
३२. कामधेनूत्पत्तिमहिमादि । ४३
३३. ताम्बूलनिमित्तककामदेवोत्पत्तिः, रतिपञ्चबाणक्रियाऽग्नीनामुत्पत्तिश्च । ४४
३४. पत्नीव्रताख्यब्राह्मणोत्पत्तिः,पितृसेवामाहात्म्यादि च । ४६
३५. पत्नीव्रताख्यपुरुषस्योपनयनब्रह्मचर्यगार्हस्थ्यदम्पतीत्वपत्नीधर्ममहिमादि । ४८
३६. ऋणानुबन्धिपुत्रतादि, देशकालादीनां गर्भबिन्दुनिषेके प्राबल्यम्, निषेकसमयः, राजस्वल्यदोषापहरणव्रतं च । ५०
३७ वेधसः प्रथमदिवसीया नारायणीयब्राह्मणमात्रसृष्टिः । ५२
३८. वेधसः सत्यलोके ऋष्यादिरूपा मानसीसृष्टिः । ५३
३९. वेधसो महर्जनतपोलोकेषु मानसीसृष्टिः पितरः । ५४
४०. विविघपितृ-तत्पात्र--तद्देयान्नफलादि-तत्प्राप्ति-फलादिः । ५६
४१. पितृस्तोत्रहोमाग्नियोग्यवृक्षपवित्रस्थानादिः । ५८
४२. मानससूर्योत्पत्तितत्प्रभावस्तोत्रहिरण्मयपुरुष-तद्धामादिः । ५९
४३. मानसचन्द्रोत्पत्तिः, तस्य रोहिणीपक्षपातकृतदक्षकन्यापरिवेदनादिः । ६१
४४. दक्षकृतचन्द्रशिक्षणोत्तरकृतपक्षपातलभ्यदक्षादिशापजन्यक्षयरोगः, सौराष्ट्रीयसोमनाथमहादेवस्थापनोत्तरदक्षभवनगमनादिः । ६२
४५. चन्द्रस्य कलाहासवृद्धिस्थितिनिर्वहणमेव शापरूपं, न तु वीर्यक्षयः शरीरक्षयो वा शापः । ६४
४६. देवयक्षमानुषपशुपक्षिदैत्यदानवनागसर्पस्थावरादिसृष्टिः, तदभिमानिदेवताश्च । ६५
४७. युगवर्ष-युगसिद्धि-पादह्रास मिथुनभाव नगरमानौषधिवर्णाश्रमादिस्थापना । ६७
४८. विश्वरूपस्य हत्यायाश्चतुर्धा वितरणं, वृत्रोत्पत्तिर्वृत्रनाशाय दध्यञ्चाऽस्थिकृतवज्रम्, युद्धं च । ७०
४९. वृत्रनाशोत्तरब्रह्महत्याविनाशकहयमेधादिकरणम् । ७२
५०. वाराहावतारः, पृथिव्युद्धारः, पृथुद्वारा पृथ्वीसमीकरणम् । ७३
५१. मिथुनीसृष्टिप्रारंभः, प्राणप्रयाणसूचकस्वप्नादिः । ७५
५२ चक्रवर्तिचिह्नानि, हिंसापक्षपातिवसोः पतनम्, अहिंसामण्डनम् । ७७
५३. द्वापरधर्माः, रैवतनृपं प्रति नारदागमः, पश्चिमभूविवरपूरणायोपदेशः, ब्रह्मप्रदेशानयनम्, भविष्यत्तत्त्वानां निर्देशः । ८०
५४. प्रपूरितभूविवरंस्थले भावितीर्थनिर्देशः । ८१
५५. वैकुण्ठे रैवतस्तुतिः, मणिभूमेरणोर्ग्रहणम्, तेन विवरपूरणं, द्वितीयचन्द्रो भूत्वा प्रकाशकारको रैवतः, भक्तिप्रसारश्च । ८२
५६. अश्वपट्टसरसि खट्वांगदतपो लक्ष्मीनारायणदर्शनं कुंकुमचन्द्रकनिमित्तकुंकुमबिन्दुक्षरणेन कुंकुमवापीति तीर्थं नगरं, कम्भरागोपालरूपेण लक्ष्मीनारायणाऽवतरणं, सदा निवासश्च । ८४
५७. बर्हिषांगदोत्पत्तिः पत्नीव्रताश्रमे तद्गमनं,सन्मानाऽलाभेन रोषादृषेर्गले मृतसर्पनिक्षेपः, ऋषिपुत्रप्रदत्तः शापः, कुहकसर्पदंशेन मासाभ्यन्तरे मरणशापः, तज्ज्ञात्वा प्रायोपवेशनम्, ऋषीणां श्वेतव्यासस्य चागमनम्, श्रेयः प्रश्नश्चेति । ८१
५८. व्यासोपदेशः, श्रीलक्ष्मीनाराणीयसंहितापारायणोपदेशः, भगवन्मूर्तिधारणा, विभूतिषु मूर्त्यवयवधारणा च । ८७
५९. भगवन्मूर्तिध्यानं, ब्रह्मलोकगतिः, तत्तद्विभूतीनां पूजनं स्तवनं च । ८९
६०. व्रतदानदीतीरे कुहकसर्पधन्वन्तरिवैद्ययोर्वटे परीक्षणं, सर्पदंशः, सर्पसत्रे सेन्द्रकुहकहोमः, ब्रह्मादिवचनाद् रक्षणं च । ९१
६१. सूर्यस्य संज्ञायां श्राद्धदेवमनुयमराजयमुनानामुत्पत्तिः । ९३
६२ संज्ञायाः स्वच्छायारूपनारीं सूर्याय दत्वा स्वपितृगृहगमनम्, छायाया यमं प्रति स्नेहशून्यत्वेनाऽमाननम् । ९४
६३. संज्ञया वडवारूपेण तपः, सूर्योऽश्वरूपेण तस्यामश्विनीकुमारौ रैवतं चोत्पादयामास, विश्वकर्मणा शोणोल्लीढसूर्यस्य खण्डैर्दिव्यचक्रशूलादिशस्त्राण्युत्पादितानि । ९६
६४. यमपुरस्य परिणाहः, चित्रगुप्तादिपुराणि, यमपुरीमार्गेऽष्टादशपुराणि, तेषु प्रेतदशा च । ९८
६५. यमस्य श्रवणादिद्वादशपुत्राणामुत्पत्तिः, तेषां कार्याणि, चत्वारिशन्नरकाणामभिधानानि । ९९
६६. चत्वारिंशन्नरकगामिनां तत्तत्कर्मफलादिकम् । १०१
६७ प्राणिनां नरकभोगोत्तरं प्राप्यजन्मनि चिह्नानि । १०३
६८. नरनारीणां शारीरचिह्नानि, दैवीचिह्नानि । १०५
६९. कमलाया दैवीरेखाचिह्नानि, अन्यनारीणां चिह्नानि च । १०६
७०. शवस्यौर्ध्वदैहिकम्, क्रियापिण्डदानशोकप्रेतशोकादिदशाह्निकम्, प्रेतस्य परितापश्च । १०८
७१. प्रेतानामशुद्धभूमिवासः, प्रेतकृतपीडाः, प्रेतकृतस्वाप्नचिह्नानि, स्वाप्नदर्शनतन्निवारणानि । १०९
७२. केषां प्रेतत्वं, प्रेतानां वासो भोजनादि, प्रेतास्त्रिविधा इति । १११
७३. मृतानां सूतकं, सपिण्डीकरणश्राद्धं, तिलादिदानानि, आतुराणां मन्त्रप्रदानादि । ११३
७४. दानफलं, निषेकसमयः, गर्भदेहनिर्माणं, शारीरकोषाः, पिण्डेनसह ब्रह्माण्डैक्यतादि । ११४
७५. प्रकीर्णकदानं, शय्यादानं, पंचके मृतस्योर्ध्वकार्यादि, अनशनकृन्मृत्युगत्यादि । ११६
७६. मुक्तेर्विविधसाधनानि, निष्कामकृतदत्तवस्तूनि मुक्तिदानि, आत्मशुद्धिः । ११७
७७. नारायणबलिक्रियाकलापः । ११९
७८. आद्यसत्ययुगीयधन्वन्तरिप्रादुर्भावकथा । १२०
७९. अत्रेः सोमस्तस्य बृहस्पतिपत्नीतारायां बुधस्तस्य पुरूरवास्तस्योर्वश्यप्सरायां षट्पुत्राः । १२२
८०. धन्वन्तर्यवतारत्रयकथनम् । १२४
८१. काशीं त्यक्त्वा शंभुप्रभृतिदेवानां मन्दरगिरौ वासः, दिवोदासराज्ये गुणवर्णनं, दिवोदासस्य काशीतो निष्कासनोपायरचनं च । १ २५
८२ शंकरस्य काशीविरहः, दिवोदासस्य विघ्नार्थं योगिनीनां प्रेषणं च । १२७
८३. चतुःषष्टियोगिनीनां रूपान्तरैः काश्यां वासः, रवेरपि द्वादशरूपेण काशीवासः । १२९
८४ शंभुप्रेषितवेधसोऽपि दिवोदासंप्रति कूटश्लोकेनाऽऽशीर्वादो दशाश्वमेधकरणोत्तरं काशीवासः । १३१
८५ शंकरेण द्विचत्वारिंशद्गणानां गणेशस्य च प्रेषणं कृतं, गणेशेन विविधस्वाप्नप्रत्यक्षादिशकुनाऽपशकुनोत्पातादिवर्णनेन प्रजानां काशीतो निष्कासनं कृतमिति । १३२
८६ राज्ञोऽन्तःपुरस्त्रीणां विश्वासाय गणेशेन प्रागुदन्तस्वप्नादि कथितम् । दिवोदासाय भाविविपदादिकथितम् । षट्पंचाशद्गणेशस्थितिश्च । १३४
८७. हरप्रेषितविष्णोस्तीर्थानि, विष्णुना सुगतरूपेण नास्तिकोपदेशद्वारा प्रजा नास्तिक्यः कृताः, दिवोदासप्रतापह्रासः, लक्ष्मीनारायणसंहितासप्ताहश्रवणं, काशीविश्वेश्वरस्थापनं, दिवोदासस्य सप्रजस्य विमानेन वैकुण्ठगतिः । १३५
८८ दिवोदासस्य देवानां काशीतो निष्कासनाऽपराधः । तस्य सर्वदेववत् कार्यसामर्थ्यं वैष्णवधर्मभक्तिप्रवर्तनं च । १३८
८९. नरनारायणोत्पादिताया ऊर्वश्या नृत्योत्सवे स्वर्गे इन्द्रसभायां बृहस्पतेरपमानम्, दुर्वाससो मालायाः कच्चरता, स्वर्गलक्ष्मीनाशः । १४०
९०. बृहस्पत्युत्पादितकृत्यया दुर्वाससः शापपुरुषेण स्वर्गं नष्टप्रायं कृतम्, रत्नानां समुद्रे पातः, तत्प्राप्तये देवदैत्यसन्धिः, मन्दराचलाऽऽनयनं च । १४२
९१. समुद्रमथने विष्णुरूपाणि, वडवानलस्य संकर्षणकृतपानं, शंकरकृतं विषपानं, गणेशपूजनं, विविधरत्नोत्पत्तिश्च । १४४
९२. मोहिनीरूपेण विष्णुना देवेभ्योऽमृतपानदानं, दैत्यानां मृषामदिराप्रदानं, राहुशिरोनाशे केतूत्पत्तिरपि च । १४६
९३. अमृतपाने पंक्तिभेदजन्यरोषाद् देवासुराणां युद्धम् । इन्द्राभिषेकः । १४८
९४. पार्वत्यै पुत्रजिज्ञासमानायै शंभूपदेशः, श्रीकृष्णमन्त्रप्रदानं च । १५०
१५. पुत्रप्रापकपुण्यकाख्यवार्षिकव्रतपूजनदानफलादि । १५२
९६. पुत्रार्थं व्रतकर्त्रीणां दृष्टान्तानि, देवादीनामागमनम्, आशीर्वादाः, कृष्णप्रदत्तं पार्वत्यै स्वदर्शनं च । १५३
९७. पार्वत्यै कृष्णदत्तं स्कन्दगणेशात्मकदर्शनं, शंकरपार्वतीवह्निगंगाशरस्तंबकृत्तिकाद्वारा कार्तिकेयोत्पत्तिः । १५५
९८ कार्तिकेयस्य देवसेनापतित्वनियुक्तिः । १५७
९९. मृत्युपुत्र्याः सेनायाः पतिकार्तिकेयेन युद्धे तारकासुरनाशादिः । १५९
१००. ब्रह्मणो वरदानात् तारकासुरजन्मादिः । १६१
१०१. पार्वत्या सह शंकरस्य सहवासे श्रीकृष्णो ब्राह्मणरूपेणाऽऽगत्य भिक्षुको भूत्वा याचित्वा शंभुना सह संवादं चकारेति । १६२
१०२. भिक्षादानोत्तरं विप्रस्याऽदृश्यता, पिण्डगणेशोत्पत्तिः, गोपुरे पार्वतीस्नानावधि गोपुररक्षार्थं नियुक्तिः । १६४
१०३. गणेशशंकरयोर्युद्धे गणेशमस्तकछेदस्तज्जन्यशोकादिः । १६६
१०४ व्योमवाण्या श्रीकृष्णोऽयं गणेश इति ज्ञापिते विष्णुना हस्तिमस्तकसन्धानं ब्रह्मादिदेवप्रदत्तोपदादिश्च । १६८
१०५. गणेशस्य विशेषेणाऽग्रपूज्यत्व-तन्मन्त्रस्तोत्रकवचादिकानि । १७०
१०६. गणेशशिरच्छेदे शनिदृष्टिः, शिवस्य सूर्यशापः, इन्द्रकरिणो दुर्वासःप्रदत्तपारिजातपुष्पमालामर्दनं, मालास्पर्शान्मस्तकपावनता, ऐरावतस्य मस्तकस्य गणेशमस्तकरूपेण योजना पूज्यता च । १७२
१०७. कार्तिकेयेन पृथ्वीप्रदक्षिणा, गणेशेन पित्रोर्गोश्च प्रदक्षिणा कृता विवाहायेति । १७४
१०८. विश्वरूपप्रजापतिना स्वपुत्र्यौ सिद्धिबुद्धीनाम्न्यौ गणेशाय दत्ते, ताभ्यां क्षेमलाभौ पुत्रौ, कार्तिकेयस्य क्रोधात् क्रौंचाद्रौ गमनम्, मल्लिकार्जुनतीर्थं च । १७५
१०९. स्वप्रजारक्षणाय शीलरक्षणाय च नारायणेन वेधसे नरनारायणाऽवतारावश्यकता कथिता । १७७
११०. नरनारायणाभ्यां स्वजन्मोत्तरं पित्रोः सेवाधर्मप्रशंसनम् । १७८
१११. ब्रह्मचर्यप्रशंसा, कार्तिकेयस्याऽदुरितता । १८०
११२ बद्रिकाश्रमे नरनारायणेन शंकराय वैष्णवीदीक्षाप्रदानम् । तदंगानि । १८३
११३. कैलासे शंभुना पार्वत्यै वैष्णवीदीक्षा प्रदत्ता । तदंगकर्मकाण्डः । १८५
११४. षोडशविधभक्तिः, तप्तचक्रांकनपुण्ड्रादिषु वैदिकप्रमाणानि, तन्महिमा । १८६
११५. ऊर्ध्वपुण्ड्रादिभेदास्तन्माहात्म्यं च । १८८
११६. वैष्णवगुरुप्रदत्तविविधशरणागतिमन्त्राणामर्थानां प्रदर्शनम् । १९०
११७. परब्रह्माऽक्षरधामवैकुण्ठादिविभूतिलीलाब्राह्मीतनुनारायणनारायणीब्रह्मह्रदविरजादिवर्णनम् । १९२
११८. अक्षरधामस्थपरब्रह्मदिव्यवर्णनं, तत्सिंहासनमण्डपादिवर्णनम् । १९४
११९. श्रीहरि-तत्प्रासादपरिकरतत्प्रावरण-तन्मुक्तपार्षदतदवताराऽन्यधामादिः । १९६
१२०. गोलोके विरजाशतशृंगरासमण्डपवृन्दावनाऽक्षयवटभाण्डीरवटराजमार्गवृन्दारकादिवसतिवर्णनम् । १९८
१२१. गोलोकमुख्यप्राकारप्रासादोद्यानान्तर्गतभक्तान्तःपुर प्राकारप्रासादोद्यानाभ्यन्तरप्राकारादिषोडशगोपुरद्वारपालादयः । २०१
१२२. श्रीकृष्णस्य रत्नसिंहासनश्रीकृष्णराधिकातत्स्मृद्धिदिव्यरथचतुर्भुजरूपयानवाहनसरस्वतीमहामाया-
लक्ष्मीशतसहस्राष्टपट्टांगनातदन्यांगनातत्सौधादिवर्णनम् । २०३
१२३. महावैकुण्ठे दिव्यसरयूकौसलवनतद्वसतितत्प्राकारवर्तुलसाकेतभूमिरमारामावैष्णवनिवासादयः । २०६
१२४. महावैकुण्ठे राजमार्गब्रह्मपनसलक्ष्मीपनसमहाप्राकारप्रासादगोपुरसप्तव्यूहादिवर्णनम् । २०९
१२९. महावैकुण्ठे व्यूहाभ्यन्तरप्राकारतद्वसतितदभ्यन्तराऽयोध्यावसति-रमाद्यष्टदासीप्रासाद-तदभ्यन्तरोद्यानतन्मध्यमहालक्ष्मीप्रासादादयः । २११
१२६. महालक्ष्म्याः महाप्रासादस्थविविधरमाकृतसेवासेवास्थान - रत्नसिंहासनतत्स्थनारायणमहालक्ष्मीतत्पार्षदतदन्यमहिष्यादिसेवाः । २१०
१२७. जलावरणोपरिद्वितीयवैकुण्ठवर्णने देवगंगादेवजयोद्यानराजमार्गतद्वैभवप्राकारदेववतीनगरीवैष्णव-
प्रासादविभूतिवैष्णवदासदासीरत्नसिंहासनविष्णुनारायणतत्पत्न्यादयः । २१६
१२८. तृतीयस्य श्वेतद्वीपाख्यवैकुण्ठस्य वर्णने तत्रत्यर्षिमुनितापसनरनारीरत्नोद्यानैरावतीमण्डपविभूतिसिंहासनलक्ष्मीदासदासीप्रभृतयः । २१८
१२९. क्षीरसागरे चतुर्थवैकुण्ठवसतिमण्डपदिव्यभोगशेषतल्पलक्ष्मीनदनदीपर्वतचिरजीविवैष्णवभक्तादयः, वैष्णवशंभुकृतभस्मपुंड्रादिधारणशंका । २२०
१३०. वैष्णवस्य शंभोः वैष्णव्या पार्वत्या भस्मास्थिकपालादिधारणस्य कृते कारणप्रश्नेऽसुरविमोहनाय विष्णोराज्ञया बाह्यतो धारणमिति समाधानम् । २२२
१३१. कश्यपपुत्रहयग्रीवदैत्योत्पत्तिः, तत्कृतवेदज्ञानाऽपहरणं, तन्नाशार्थं नारायणस्य मत्स्यावतारधारणम् । तन्नाशश्च । २२४
१३२. वेधसः सायाह्ने नित्यप्रलये सबीजनौकारक्षार्थं मत्स्यावतारधारणं, हिरण्याक्षहृतपृथिव्युद्धरणार्थं वराहावतारधारणं च । २२६
१३३. पुत्रार्थं दितेस्तपः, ब्रह्मणो वरदानम्, वैकुण्ठगमनं, विष्णुतो नारायणसमपुत्रप्राप्तिवरदानम्, स्वसमजयविजययोः सनकादिशापद्वारा दितेः पुत्रयोर्हिरण्यकशिपुहिरण्याक्षयोः प्राप्तिः । २२८
१३४. स्वप्रासादेन सह पृथ्वीस्तरं नीतवतो हिरण्याक्षस्य वाराहरूपश्रीहरिणा वधः कृतः, पृथ्वी च यथास्थानं स्थापिता । २३१
१३५. हिरण्यकशिपुः सक्रोधो विप्रयज्ञादिनाशाय दैत्यानुत्तेजयन् मन्दराचले तपसे गतवान्, वेधसः सृष्ट्याऽमृतत्ववरं रुद्राल्लब्धवाँश्च । २३२
१३६. हिरण्यकशिपुकृतदेवसुरमुन्यादिद्वेषतद्वैभवतद्विनाशार्थं देवादिकृतविष्णुनिवेदनादि । २३५
१३७. हिरण्यकशिपोः पुत्रे प्रह्लादेऽधीते भगवद्विद्याभिव्यंजनाद् द्वेषप्रयुक्तप्रह्लादमारणोपायाः । २३६
१३८. मारणोपायनैष्फल्यं , शण्डामर्काभ्यां कृतोपदेशः, प्रह्लादकृतदैत्यबालोपदेशः । २३९
१३९. गर्भे प्रह्लादाय नारदोपदेशः, हिरण्यकशिपुविवादः, खड्गाघातः, नृसिंहावतारश्च । २४१
१४०. नृसिंहदर्शनं, तत्तेजोव्यापकता, हिरण्यकशिपु विदारणं, देवप्रह्लादकृतस्तुतिः, सौम्यदर्शनं, लक्ष्मीकृतस्तवः । २४४
१४१. नृहरिणा प्रह्लादाय वरदानं, राज्येऽभिषेकः, नृसिंहाऽदृश्यता । २४७
१४२. रैवताचलपर्वते दामोदराख्यवामनप्रतापदेवादिवास-चमत्कारिकविभूति-कार्तिकपरिक्रमणदिव्यवसतिगयराजकृतयज्ञादयः । २४८
१४३. रैवते वस्त्रापथे विविधतीर्थ-भवेश्वरदामोदरस्वयंभू-त्रिविक्रमवासिष्ठस्वर्णरक्षादितीर्थानि । २५२
१४४. नारायणस्य सत्तीर्थवासो बलिगुणवर्णनं, मन्दराचले बल्यवनत्यर्थं विचारणा, अदितिकश्यपयोः सौराष्ट्रे तपश्चर्या, नारायणदर्शनं स्तुतिः, वरप्राप्तिः, वामनजन्म, बलिपर्यटनं, सौराष्ट्रे यज्ञारंभः । २५४
१४५. वामनस्य तीर्थयात्रा, बलियज्ञे चतुर्दशलोक-वासिनामागमनं, यज्ञमण्डपकुण्डहोमदानादि, वामनस्य रैवताचलयात्रा, वामनपुरस्थितिः, बलिं प्रति आगमनं च । २५७
१४६. वामनस्य यज्ञस्थले प्रवेशः, भूमियाचना, शुक्राचार्यकृन्निषेधेऽपि त्रिपदभूमिदानं, वामनवृद्धिः, द्वितीयपदेनाऽण्डकटाहाद् गंगोत्पत्तिः । २६१
१४७ बलेः पाशबन्धनं, रसातलराज्यदानं, वामनस्य बलिगृहे वासः, इन्द्राय त्रिलोकिदानं, अवभृथस्नानं, वामनस्थलीनगरीकरणं च । २६३
१४८. पुत्रप्राप्तिकरं पयोव्रतम्, अवैधव्यव्रतं च स्फुटं वर्णितम् । २६६
१४९. पूर्वकृतयुगे भोजाख्यस्य नृपस्य मृगाननायाः सप्तजन्मवृत्तान्तावगमः, स्वर्णरेखानदीमाहात्म्यं च । २६८
१५०. प्रस्थाने यात्रादौ च शुभाऽशुभग्रहनक्षत्रवारयोगिनीशकुनानि । २७०
१५१. तीर्थविधयो विविधदानानि च । २७२
१५२. तीर्थे पालनीययमनियमादयः,विविधदानकृच्छ्रव्रतादीनि । २७४
१५३. रैवताचले लुब्धकस्य हरिहरदर्शनोत्तरमिन्द्रेश्वरविष्णुप्रतिष्ठानं, गजपदं, धनदेश्वरत्रिशूलिनीयमेश्वरचित्रगुप्तेश्वरनृसिंहतीर्थानि, वामनद्वादशीशिवरात्र्योश्च व्रतमहिमा । २७७
१५४. तैजसरैवताचले कुमुदमन्दराऽरुणनीलादिपर्वतानां बद्रिकाश्रमनरनारायणलक्ष्मीनारायणसीतारामाऽऽ-
म्रवणजगन्नाथसरस्वतीप्रभतीनामागमन च । २७९
१५५. रैवताचले महालक्ष्म्या आगमनं, तस्याः पूजनदानादि, समुद्रमथनेऽलक्ष्म्या उत्पत्तिस्तत्स्वरूपं तन्निवासस्थानानि, ततो लक्ष्मीतुलसीप्राविर्भावे तद्दिनद्वादशीमहिमा च । २८२
१५६. द्वादश्या हरिवासरत्वे कारणता, लक्ष्म्या विधिवत्पूजनं, लक्ष्म्या निवासस्थानादीनि च । २८५
१५७. रेवतीनक्षत्रखण्डस्यपृथिवीपतननिमित्तं, पञ्चपर्वतात्मकरैवताचले रेवत्या जन्म, चन्द्रे संयोजितरेवतीनक्षत्रे दुर्दमेन सह विवाहः, रेवत्यां पुनः रेवतजन्म, रेवतीकुण्डमहिमा, आमर्दकवृक्षमहिमा, आनर्तपुत्ररेवतः, तत्पुत्रस्य कृतवागाख्यककुद्मिनो गृहे रेवतीजन्म, ककुद्मिरेवत्योर्ब्रह्मसमागमनम्, बलभद्रेण विवाहो रेवत्याः । २८९
१५८. रैवताचले ( गिरनारपर्वते) दामोदरकुण्डे श्राद्धे तिथिफलं नक्षत्रफलं सत्पात्राणि विविधपितरः, तद्देयवस्तूनि च । २९३
१५९. पत्नीव्रताख्यविप्रस्य रैवताचले तीर्थयात्रायां दामोदरपूजादिना साक्षाद् दर्शनं, समाधौ सर्वधामसर्वलोकदर्शन, स्वस्य नारायणाऽवतारप्रदर्शनं, नारायणहदे श्राद्धार्थमागमश्च । २९६
१६०. द्वयोर्नारायणयोर्नारायणह्रदे ब्रह्मधामगोलोकवैकुण्ठाऽमृताऽव्याकृतश्वेतद्वीपक्षीरसागरबदरिका-
श्रमधामेश्वरलोकजीवलोकादिखगोलभूगोलस्थाना सार्वभौमश्राद्धतर्पणस्तवनफलानि च । २९९
१६१. रैवताद्रिवस्त्रापथतीर्थक्षेत्रमाहात्म्यादि । ३०६
१६२. परब्रह्मणोऽर्धांगस्थमहामायाधृतराधालक्ष्मीसावित्रीशिवादिरूपाणि । मधुकैटभनाशार्थं धृतमोहिनीरूपं च । ३०८
१६३. रंभासुरपुत्रस्य महिषासुरस्योत्पत्तिः, तद्विनाशकर्त्र्याः कात्यायन्यामहाकाल्या उत्पत्तिश्च । ३१०
१६४. असुरसुरसैन्ययोर्युद्धं, देव्याऽसुरसैन्यनाशनम्, महिषासुरनाशो देवीस्तुतिः । ३१२
१६५. वेधसा स्ववीर्यहोमेनाऽष्टमहर्षिसर्जनम्, आङ्गिरसदक्षगृहे देव्याः सत्या जन्मकारणम्, प्राचेतसदक्षभवनकारणम्, ब्राह्मनारदस्य काश्यपनारदोद्भवनकारणम्, दक्षस्य पुत्राः पुत्र्यश्च, शुेभनिशुंभादिदानवोत्पत्तिः, देवानां पराजयः, देवीप्रार्थना च । ३ १४
१६६. कैलासे देवकृतपार्वतीस्तुतिः, पार्वत्या स्वदेहोत्पादिता कौशिकी विन्ध्याचलीं गता, तत्र शुंभप्रेषितसुग्रीवदूतागमनम्, धूम्राक्षनाशः, कालीप्रादुर्भावः, चण्डमुण्डादिनाशनिमित्तकचामुण्डाऽऽख्या। ३१७
१६७. रक्तबीजेन देवीयुद्धेऽनन्तदेवीनां रक्तबीजानां चोत्पत्तिः, मूलरक्तबीजनाशो निशुंभनाशः, शुंभस्याऽपशकुनानि, दानवानां समारोहः, चतुर्दशभुवनीयदेवीसैन्यागमः, सञ्जीवन्याद्यौषधिसमुपस्थितिः, भेरीशंखादिध्वनिवर्धिते युद्धे महाविनाशे विभावर्या निद्रास्त्रप्रयोगः, सैन्यजीवनं, देवीनां कालकवलमन्त्रप्राप्तिः । ३१९
१६८. अनेकविधदेवीनामनेकविधाऽसुराणां च सैन्ययोः कालकवलमन्त्रमन्त्रितशस्त्राऽस्त्रादिभिर्भूव्योमयुद्धम्, ब्रह्मास्त्रप्रयोगः, शुंभस्य मृषामाया, शुंभनाशः, देवीस्तोत्रं, पारितोषिकार्पणम्, स्तोत्रफलम्, भाविदेवीनिर्देशः । ३२३
१६९. विभावर्या सतीजन्म, महोत्सवः, दक्षाय दिव्यसतीदर्शनम्, स्तुतिः, सुताध्यानम्, शिवाशिवयोः परब्रह्मण्यैक्यबोधः । ३२७
१७०. गोलोके राधारतौ कृष्णनेत्रनिद्रायै शापः, श्रीकृष्णांगेभ्यो राधागोपगोपीगोगणहंसश्वेततुरगसिंहरथपंचकशिवशिवामहालक्ष्मीसरस्वतीरतिमूर्तिसावित्र्याद्याविर्भावः, सत्याः शिवाऽर्पणे शिववैराग्यं, कृष्णनेत्रस्थशिवाया वैराजपुत्रीत्वं, ततो देवेन्द्रियजकात्यायनीत्वं, दक्षपुत्रीसतीत्वं, हिमालयपुत्रीपार्वतीत्वम् । ३३१
१७१. शंभोर्वैराजललाटादुत्पत्तिः, शिवाया दक्षगृहेप्राकट्योत्तरं ब्रह्मनारदयोरागमनम्, नारदोक्तचिह्नरेखाभिः शिवपत्नीत्वनिश्चयेनसत्या वार्षिकतपोव्रतकरणम्, द्वादशाब्दे सतीजयन्त्युत्सवे सस्त्रीकब्रह्मविष्णुसुराणामागमनम्, सतीतपः प्रेक्ष्य ब्रह्मादीनां कैलासगमनम्, सतीपाणिग्रहणवरदानार्थं शंकरायोपदेशश्च । ३३५
१७२. सत्यै शंकरदर्शनम्, भार्या भवेति वरदानं, शंभोः कैलासगमनम्, ब्रह्मणो दक्षगृहगमनम्, कैलासं प्रत्यागमनम्, शंकरस्य जनवाहिन्या दक्षगृहं प्रतिगमनम्, सतीविवाहः, सत्यां रूपे मोहितब्रह्मणो रेतःपातः । तेन मेघानां वालखिल्यानां चोत्पत्तिः, जनवाहिन्याः कैलासे आगमः, जनवाहवर्गविसर्जनम्, कैलासकन्दरायां सतीशंकरयोर्विहरणम् । ३३८
१७३. सतीशिवयोर्हिमाचले विहारः, गृहनिर्माणाय सतीप्रार्थना, गृहयोग्यपर्वतादिनामानि, हिमालये कैलासपुरीनिर्माणं, सतीकृतसंसारतरणप्रश्नः, शिवोक्ता नवधा हरिभक्तिः, शिवकृतपूर्वकल्पीयतपसा हरिदर्शनम्, हरिभोग्यं शिवस्याऽभोग्यमितिधत्तूरभस्मादिधारणम्, पार्वत्योक्तहरिनैवेद्य-
महिमा ३४३
१७४. दक्षस्य शंभुगृहे त्रिवारं गमनम्, पुनः पुनरवमानम्, नैमिषारण्ये सत्रे भृग्वादीनां परस्परं शापः, दक्षकृतशंभुनिन्दा, कनखले दक्षयज्ञे देवादीनामागमनम्, शंभोरनागमे दधीचस्य दक्षाय शापादिकम् । ३४९
१७५. सत्या व्योम्ना स्वसृविमानाद्यवलोकनम्, दक्षयज्ञे गमनाय शंभोराज्ञा, कैलासे नारदागमः, यज्ञाद् दधीचिनिर्गमः, यज्ञे सतीगमनम्, वृद्धनमस्कारादि, शंकराऽऽसनाऽदर्शनम्, सतीदक्षवाक्यानि, सतीदेहत्यागः । ३५४
१७६. सतीपार्षदकृतयुद्धं, दक्षाय व्योमवाणी, नारदस्य पुनः कैलासगमनम्, शंभोर्जटातो वीरभद्रोत्पत्तिः, अवशिष्टगणानां कैलासाऽऽगमः, कालिकागण-
ज्वरभूतसिंहादिसैन्यसर्जनम्, यज्ञं प्रतिप्रेषणम्, नारदस्य यज्ञं प्रत्यागमः, सूचनम्, गणसैन्यसंख्यादि, दक्षादेरपशकुनानि । ३५८
१७७. भीतदक्षप्रार्थना, विष्णुन्यायवाक्यं, शैवानां तदितरेषां च युद्धं, यज्ञादिध्वंसः, ऋत्विजामंगभंगानि, सुदर्शनेनापि शिवाऽऽविष्टवीरभद्राऽनाशः, शंकरागमनम्, सर्वेषां पुनः संजीवनम्, यज्ञसमाप्तिः, दक्षस्य तपश्चर्या । ३६३
१७८. सतीदाहोत्तरं भस्मास्थीनि समादाय शंकरस्य गंगातटे शोकः, सतीस्तोत्रं सतीदर्शनं पार्वतीजन्मवचनं च । ३६७
१७९. मेनायै शंभुना सतीजन्मार्थसूचनम्, मेना धन्या कलावती तिस्रः पितृकन्या श्वेतद्वीपं जग्मुः, तत्र सनत्कुमारशापः, क्रमशो हिमगिरेः सीरध्वजजनकस्य वृषभानुवैश्यस्य च पत्न्यो जाताः, क्रमशस्तत्पुत्र्यः शिवा सीता राधा चेति । मेनायां सन्ध्यारागिणी कुटिलाब्रह्मनदी काली चेति पुत्रीत्रयं सुनाभपुत्रश्चेतिजाताः । ३६९
१८०. हिमगिरावदृश्यसत्याः देवकृतस्तुतिः, सतीजन्मवरदानम्, मेनाहिमाद्र्योस्तपः, मेनागर्भः, कालीजन्म, दिव्यदर्शनम्, महोत्सवः । ३७१
१८१. नारदस्य वृद्धविप्ररूपेण हिमगिरिगृहाऽऽगमनम्, पार्वत्या रेखाभिः अगुणस्य पत्नीत्वमुक्तम्, हिमालयस्य चिन्ता, अगुणादिशब्दार्थस्फुटता, शिवपत्नी भाविनीति निर्णयः, वृद्धब्राह्मणत्वं विहाय नारदरूपेणाऽऽकाशपथा महेन्द्रपुरीं प्रतिगमनम् । ३७४
१८२. सत्याः तपः, सतीहिमालययोः स्वप्ने शंभुना तापसवेषेण दत्तदर्शनम् । ३७६
१८३. शंकरस्य ललाटस्वेदबिन्दोर्मंगलग्रहस्योत्पत्तिः । ३७७
१८४. विधुरशंकरस्य सतीस्मरणम्, व्योमवाणी, गोलोकगमनम्, तत्र वृषभरूपेण विहरणम्, सत्याः शंभोर्हिमालयं प्रत्यागमनाय कृष्णं प्रति प्रार्थना, कृष्णेन मोहिनीरूपेण सह सत्ये चागमनम्, ब्रह्मणः मोहिनीदर्शनेन स्खलनम्, तद्वीर्याल्लक्षशो ब्रह्मसरसः पर्यो जाताः, कामोऽपि स्खलितस्तेन शृंगारकवसन्तकौ जातौ, मोहिनी शंकरमादाय हिमालये चागत्य शंकरं परिरब्धा, धातुः स्खलितः सप्तर्षिभिः पत्रपुटे धृतो वायवेऽर्पितः, आकाशवाणी, वायुना वानररूपेणाऽञ्जनीकर्णे क्षिप्तः, ततो हनुमानुत्पन्नः, सः सूर्यं फलं मत्वा भक्षितुं दधार, स्वमातरं नीत्वा
वैकुण्ठं जगाम, तत्र मातरं संस्थाप्य वैष्णवो भूत्वा पृथ्व्यां चचार, पदा शनैश्चरमताडयत्, त पन्नतिनारीरूपं पत्तले ररक्ष । ३७८
१८६. गंगावतारशृंगे शंभोस्तपः, पार्वत्याः सेवा, इन्द्रप्रेषितकामकृतबाणप्रयोगः, तृतीयनेत्रोत्थवह्निना कामदाहः, रतिविलापः, अनंगस्य प्रद्युम्नात्मक-
भाविसदेहस्य वरदानम्, रतेः शम्बरगृहे वासः, क्रोधाग्निरूपवडवानलस्य समुद्रे वासः । ३८४
१८६. पार्वत्याः शोको नारदोपदेशस्तपोनिषेधस्तथापि गौरीशृंगे पञ्चसहस्रवर्षाणि तपः, तपःस्थिता गौरी सप्तर्षिभिः परीक्षिताऽऽशीर्भिर्योजिता च । ३८९
१८७. सप्तर्षिभिः पार्वत्याः प्राणग्लहतपः शंकराय निवेदितम्, वृद्धजटिलविप्ररूपेण शंकरदर्शनम्, स्वाऽगुणविगुणवर्णनम्, पार्वत्याः शंभोः सद्गुणार्थग्राहिता, शंभोः स्वरूपेण दर्शनम्, मिथः सुखालापः, विवाहार्थं निर्णयवचनं, तपःपूर्णता च । ३९३
१८८ पार्वत्याः स्वागतम्, मण्डपे शंभोर्नटरूपेणनर्तनम्, पार्वत्या याञ्चा, मेनाशैलाभ्यां नांगीकृता, पुनः शंभोर्वैष्णववेषेणाऽऽगमनम्, शिवाय न देयेति निन्दनम्, मेनाशैलयोरभावाऽऽविर्भावः । ३९८
१८९. शिवप्रेषितसप्तर्षीणां हिमालयगृहगमनम्, पर्वतादीनामावाहनम्, पार्वत्या वाग्दानार्थं मन्त्रणा, वाग्दानं लग्नदिननिर्णयः । ४००
१९०. हिमालयेन पक्वान्नरत्नोपकरणानां राशयः कारिताः, मंगलं कारितम्, पर्वतादयो निमन्त्रिताः, समागताः, नगरशोभा मण्डपशोभा च विश्वकर्मकृता । ४०२
१९१. शंकरेण लग्नपत्रिका प्राप्ता, चतुदर्शलोकस्थानिनो निमन्त्रिता आययुः, शिवस्य वरयोग्यवेशः, मण्डपस्थापननान्दीप्रभृतिमंगलकर्म, वरयात्राक्रमव्यवस्था, पूर्वं नारदः प्रेषितः । ४०५
१९२. वरयात्रायां वरवाहिन्या जनवाहानां च शोभा, मेनाकृतं वाहिन्या वरस्य च निरीक्षणं, कुरूपशंकरदर्शनान्मेनायाः शोकः । ४०१
१९३. मेनाया उद्विग्नप्रलापाः, मेनाशोकनाशार्थं शंकरस्य सहेतुकबहुरूपधरत्वमिति विष्णुनोपदिष्टम्, हरस्य विष्णुरूपता, गणानां वैष्णवरूपता कृता, मेनाशैलकृतं लाजाभिर्वर्धनं पूजनं द्वाराचारः । ४१ ।
१९४.कुलदेवीपूजनं, पार्वत्या यज्ञोपवीतकम् शिवप्रेषिताभरणादीनि, शिवस्य मण्डपागमः, मधुपर्कादि, शिवस्य नामगोत्रादिः, पार्वतीपाणिग्रहः, दानं वह्निप्रदक्षिणम्, ब्रह्मणोऽन्ये वालखिल्या उत्पन्नाः, वेदिकाचारो लोकाचारः, व्यंग्यादिः, रतिप्रार्थनया कामसजीवनता, भोज्यसत्कारः, पतिव्रताधर्माः, कैलासगमनं च । ४११
१९५. शंकरोक्ता कालीति नर्मवचसा तपः कृत्वा गौरी जाता, कौशिकी काली जाता, सोमनन्दीति व्याघ्रो गणो जातः । ४२२
१९६. दारुवने भिक्षार्थं गतस्य नग्नस्य शंकरस्य दर्भशलाकया लिगपातनं द्वादशखण्डास्तानि ज्योतिर्लिंगानि, पुनः सलिंगत्वं च । ४२४
१९७. गुरोः पूजनमहिमादिः । ४२८
१९८. सन्ध्या - पितृचतुष्टयसंघ-काम-रति-बाणाऽरुन्धत्युत्पत्तिः । ४३०
१९९. शंकरस्य मोहिनीदर्शनेन धातुपातात् स्वर्णखन्याद्युत्पत्तिः । ४३२
२००. ब्रह्मणा सावित्र्यां मानसपुत्रा उत्पादिताः, नारदोत्पत्तिः, सृष्ट्यर्थं नियोगे नारदस्य तन्निषेधः, ब्रह्मणः शापादुपबृंहणाख्यगन्धर्वोऽभवत्,
पुनर्ब्रह्मसभायां गायनकाले शापः, शरीरत्यागश्च । ४३५
२०१. उपबर्हणगन्धर्वात्मकनारदमृत्युः, पत्नीनां विलापाः, ब्रह्मादिभ्यो जीवनायाऽभ्यर्थना । ४३८
२०२. आयुर्वेदादिरीत्या व्याधिनाशनोपायाः, मालावतीपत्नी प्रार्थनया ब्रह्मणा उपबर्हणस्य पुनर्जीवनदानम्, तत्प्रदं षोडशाऽक्षरमन्त्रकवचम्, पुनः द्रुमिलशूद्रस्य गोपस्य कलावत्यां काश्यपनारदवीर्यद्वारा नारदजन्म, सनत्कुमारद्वारा वैष्णवी दीक्षा, मातृमरणोत्तरं वर्षसहस्रं तपस्तप्त्वा देहं त्यक्त्वा गोलोकं गत्वा पुनर्ब्रह्मणः कण्ठदेशान्मानसनारदोत्पत्तिः । ४४०
२०३. ब्रह्मणा नारदाय सृष्ट्यर्थमुपदिष्टम्, नारदेन ज्ञानद्वारा तदंगीकृतम्, वैष्णवगुरुमन्त्रार्थं कैलासगमनं च । ४४५
२०४. शंकरेण नारदायाऽऽह्निकं नारायणपूजनं तत्त्वज्ञानं भक्ष्याऽभक्ष्यं परब्रह्मादि च कथितम् । ४४७
२०५. नारदस्य बदरिकाश्रमगमनम्, नरनारायणदर्शनम्, गीत्यास्तवनं, दिव्यताप्रापणं, भक्त्युपदेशनम्, विवाहकरणाऽऽज्ञापनं चेति । ४५०
२०६. वह्नेः सर्वभक्षित्वदोषहारकाऽग्नितीर्य-नारदतपःस्थल- नारदशिलातीर्थमार्कण्डेयचिरजीवित्वाख्यानपूर्वकमार्कण्डेयशिलातीर्थादि । ४५२
२०७. वैनतेयशिलातीर्थगारुडीशिलातीर्थपंचमुखीगंगातीर्थनारसिंहीशिलातीर्थब्रह्मतीर्थ - सररवतीतीर्थद्रवधारात्मकेन्द्रपदतीर्थमानसोद्भेदतीर्थवसुधारातीर्थपंचधारातीर्थख्यानानि । ४५६
२०८. सोमकुण्डतीर्थाऽऽदित्यकुण्डतीर्थचतुःपुरुषार्थतीर्थोर्वशीसमुत्पत्तिकुण्डतीर्थाद्याख्यानानि । ४५८
२०९. मेरुतीर्थदण्डपुष्करिणीमानसोद्भेदनरनारायणजन्मस्थानधर्मोर्वशीसंगमकूर्मोद्धारब्रह्मावर्त्तादितीर्थतत्क्षेत्रप्रसादचरणामृतमहिमादिः । ४६१
२१०. नारदस्य ब्रह्मसभागमनं, विवाहाय नियोगः, सृंजयपुत्रीमालावत्या सह विवाहयात्रा, लग्नम्, लक्षपुत्राः लक्षपुत्र्यः, ततो द्विलक्षवर्षोंत्तरं कृतमालानदीतीरे तपसे गमनम् । ४६३
२११. अग्निवंशवर्णनम् । ४६५
२१२. चतुर्दशभुवनीयकाश्यपीयप्रजानां कथनम् । ४६६
२१३. ब्रह्मक्षत्रर्षीणां वंशादिकथनम् । ४६८
२१४. पञ्चषष्ट्यधिकद्विशतकल्पानां ततोऽधिककल्पानां चतुर्दशमनूनां च निर्देशः । ४७०
२१५. कलियुगस्वभावगुणदोषादिप्रवर्तनम् । ४७२
२१६. कलिधर्माणां विशेषतो निरूपणम् । ४७४
२१७. द्वारिकामाहात्म्ये शर्यातिपुत्राऽऽनर्ताऽऽनीतगोलोकखण्डात्मकसौराष्ट्रे शुभाऽशुभवृक्षवल्ल्यादिसहितद्वारिकातदुद्यानादिनिर्मितिः । ४७६
२१८- दिव्यद्वारिकावर्णनं, श्रीकृष्णस्मृताऽसंख्यसुरमुन्याद्यागमनतत्पूजनतन्निवसनतत्तीर्थमाहात्म्य-कलितारणप्रतापश्च । ४७९
२१९. गोमतीतीर्थचक्रतीर्थेतिहासपूर्वकमाहात्म्यम् । ४८२
२२०. गोमतीतीर्थचक्रतीर्थविधिफलादिः । ४८४
२२१. गोमतीसागरसंगमतीर्थलक्ष्मीसप्तह्रदतीर्थविधिः। ४८५
२२२. नृगराज्ञो गोदानव्यत्यासे कृकलासजन्म, श्रीकृष्णकृतमुक्तता, नृगकूपतीर्थं च । ४८७
२२३. दुर्वासोरथवहनकर्मणिव्यापृतायाः रुक्मिण्यास्तृषानिवृत्त्यर्थं श्रीकृष्णचरणघातनिःसृतगंगाजलाख्य-रुक्मिणीतीर्थादिः, रुक्मिणीत्रिस्वरूपता च । ४८८
२२४. उद्धवेन सह गोकुलगोपीनां कृष्णेन सह गोपीतटाके समागमेन तत्तीर्थमाहात्म्यम् । ४८९
२२५ गोपीचन्दनमहिमा, निर्गुणत्वादि । ४९१
२२६. ब्रह्मकुण्डसूर्यवरुणकुबेरप्रभृतिदेवसरोवरादि, पञ्चनद्यादि, षट्त्रिंशत्तीर्थादि च । ४९२
२२७. द्वारिकाक्षेत्ररक्षकाणां नामानि, दुर्वाससः स्नाननिमित्तं कुशादिदैत्यानां नाशः, कुशेश्वरादितीर्थानि, वामनादितीर्थानि, पट्टराज्ञीतीर्थानि च । ४१५
२२८. द्वारिकावासश्रीकृष्णपूजनमाहात्म्यफलादि । ४९८
२२९ शिवभक्तस्य सोमशर्मणः पितॄणां द्वारिकायात्रादिना मोक्षणम् । ४९९
२३०. शंखोद्धारपिण्डारकरुक्मिणीसरिदगस्त्यतडाग यज्ञवाटतीर्थैकादशीद्वादशीव्रतजागरणादिमहिमा । ५०२
२३१. सिहराशिस्थबृहस्पतौ गोदावर्यासहितानांसर्वतीर्थसर्वदेवसर्वपार्षदानां द्वारिकातीर्थे समागमनं वासश्च ।५ ०३
२३२. काशीस्थमायानन्दयतेर्वज्रलेपपापनाशकद्वारिकायात्रालुमहिमकथनादिद्वारा द्वारकामहिमा च । ५ ०६
२३३. त्रिस्पृशैकादशीव्रतफलपूजनादि । ५०७
२३४. मुरदानवयुद्धनिमित्तकैकादशीप्राविर्भावव्रतादेशादि । ५१०
२३५ उन्मीलनीनामैकादशीव्रतविधिपूजादि । ५१४
२३६. पक्षवर्धिन्येकादशीव्रतपूजामाहात्म्यादि । ५१६
२३७ एकादशीव्रतजागरणमहिमा । २१७
२३८. मार्गशीकृष्णपक्षीयोत्पत्येकादशीव्रतविधिफलादि । स्वर्णांगदनृपकथा । ५२०
२३९ मार्गशीर्षशुक्लपक्षीयमोक्षदैकादशीव्रतविधाने वैश्वानरनृपतिपित्रुद्धारादि । ५२३
२४० पौषकृष्णसफलैकादशीव्रतेन लुंभकनृपतिराज्यलाभादि । ५२६
२४१. पौषशुक्लपुत्रदैकादशीव्रतेन केतुमन्नृपतेः पुत्रलाभः । ५२९
२४२. माघकृष्णषट्तिलैकादशीव्रतेन कपिलानार्या अन्नाऽमृतादिलाभः । ५३१
२४३. माघशुक्लजयैकादशीव्रतेन माल्यवतीमाल्यवतोर्गान्धर्वयोः पिशाचत्वमुक्तिः । ५३४
२४४. फाल्गुनकृष्णविजयैकादशीव्रतेन सहस्रार्जुननाशार्थं तपसा पर्शुरामविजयः । ५ ३७
२४५ फाल्गुनशुक्लाऽऽमलक्येकादशीव्रतमाहत्म्ये लक्ष्मीललाटभूषार्थम् आमलकीवृक्षाऽऽविर्भावः, तस्य पूजनमाहात्म्यादि । धात्रीफलमाहात्म्यम् । ५३ ९
२४६. चैत्रकृष्णपापमोचन्येकादशीव्रतेन मेधाविमुनितपोलाभः,मञ्जुघोषाऽप्सरसः पिशाचीत्वमुक्तिश्च । ५४३
२४७. चैत्रशुक्लकामदैकादशीव्रतेन ललिताललितगन्धर्वयोः पौण्ड्रस्य शापेन जातस्य पिशाचत्वस्य मुक्तिः । १७
२४८. वैशाखकृष्णवरूथिन्येकादशीव्रतेन मरीचिपत्नीकलाया वरूथाख्यशिष्यस्य गुरुपत्नीवाक्यभक्तस्य संगदोषजपापादुद्धारः । ५१०
२४९. वैशाखशुक्लमोहिन्येकादशीव्रतेन पापिवैश्यधृष्टबुद्धेः कौण्डिन्योपदिष्टव्रतकरणात् मुक्तिरिति । ५५३
२५० ज्येष्ठकृष्णाऽपरैकादशीव्रतमाहात्म्ये वज्रलेपसंकरीकरणादिपापनाशः, वानरयोगाद्गर्भवत्याः शलभायतिन्या व्रतकरणेन निर्दोषता मुक्तिश्च । ५५६
२५१. ज्येष्ठशुक्लनिर्जलैकादशीव्रतेन बुभुक्षितस्य क्रतोः ऋषेः सोपाख्यानक्षुधाशान्त्यादिफलप्राप्तिः । ५५९
२५२. आषाढकृष्णयोगिन्येकादशीव्रतेन हेममालियक्षस्य कुष्ठादिरोगनाशः । ५६२
२५३ - आषाढशुक्लशयन्येकादशीव्रतमाहात्म्ये वामनावतारकृतशयनं, चातुर्मास्ये यमनियमसंयमव्रतदमनतपःशोषणत्यागसेवनदानोपकारसद्व्रतादयः । ५६५
२५४ श्रावणकृष्णकामिकैकादशीव्रतेन श्रवणपितॄणां सिद्धिप्राप्तिः रतेश्च कामाख्यपतिप्राप्तिश्च । ५६९
२५५. श्रावणशुक्लपुत्रदैकादशीव्रतमाहात्म्ये पुरुरवानृपतेः प्राग्भवाऽऽख्यानं, पवित्रारोपणमहिमा च, व्रतेन पुरुरवस ऊर्वश्यां पुत्रलाभः । ८१७१
२५६ भाद्रकृष्णाऽजैकादशीव्रतेन विश्वामित्रकृतसत्यपरीक्षायां हरिश्चन्द्रस्य सर्वदुःखनिवृत्तिः । ५७४
२५७. भाद्रशुक्लपद्मैकादशीव्रतमाहात्म्ये मान्धातुर्देशे शूद्रतपोजन्यवृष्टिप्रतिबन्धे व्रतेन वृष्ट्यानयनम् । ५७६
२५८. आश्विनकृष्णेन्दिरैकादशीव्रतेन इन्द्रसेननृपपितृचन्द्रसेनप्रभृतीनां यमलोकान्मोक्षणम् । ५७९
२५९. आश्विनशुक्लपाशांकुशैकादशीव्रतेन वामदेवर्षिशिष्यवेदशिरसोऽनाचारेण यमपुरीप्राप्तावपि मोक्षणम् । ५८१
२६०. कार्तिककृष्णरमैकादशीव्रतमाहात्म्यः, कुन्दपुत्र्याः चन्द्रभागायाः पत्युरिन्द्रसेनस्य व्रतदिने मरणात् स्वर्गं ततः पत्न्याः स्वर्गगत्युत्तरं व्रतपुण्येन द्वयोर्मोक्षः। ५८४
२६१. कार्तिकशुक्लप्रबोधिन्येकादशीव्रतमाहात्म्यं, कर्मचण्डालराक्षसस्य व्रतफलेन मुक्तिः, चान्द्रायणंव्रतं च । ५८६
२६२. कार्तिके कर्तव्यकृच्छ्रव्रतानां निरूपणम् । ५९०
२६३. पुरुषोत्तममासस्य कृष्णपक्षकमलैकादशीव्रतमाहात्म्यं, नियमाः, तदुद्यापनम्, शाकटायनस्य व्रतेन मणिप्राप्तिर्लक्ष्मीप्राप्तिः, पुलस्त्यकुबेररावणादीनां सुवर्णलाभादिः । ५९२
२६४. पुरुषोत्तममासस्य शुक्लपक्षधामदैकादशीव्रतेन पुण्डरीकनृपस्य पत्न्याः कुमुदवत्याः पतिसेवाशून्याया अपि अक्षरधामप्राप्तिः । ५९५
२६५. सर्वासामेकादशीनां महोद्यापनमहादानादीनि । ५९७
२६६. वार्षिकप्रतिपद्व्रतेषु जगत्सर्जनसरस्वतीजन्मकूर्म-जन्मकरवीरागमनलक्ष्मीव्रतमौनव्रताऽशोकव्रत-
नवरात्राऽन्नकूटधनव्रतद्वादशभानुव्रतवह्न्युत्पत्ति-सतीभस्मधूलीव्रतनरनारायणजन्मविष्णुजन्मब्रह्मजन्मव्रतानि । ९९९
२६७. वार्षिकद्वितीयाव्रतेषु ब्रह्मसावित्रीलग्नचन्द्रो-त्पत्त्यश्विनीकुमारोत्पत्तिब्रह्मतपःसूर्योत्पत्तिसंकर्षण-रामोत्पत्तिविश्वकर्माऽशोकशयनेन्द्रजन्मदुर्गाव्रत-
यमुनायमभोजनाऽर्यमादिपित्रुत्पत्तिकामधेनूत्पत्ति-सूर्यशाणोल्लीढताशंभुतपांसि । ६०१
२६८. वार्षिकतृतीयाव्रतेषु गौरीतपोव्रताऽक्षयतृतीया-त्रेताद्यतिथिपर्शुरामजयन्तीकदलीव्रतलक्ष्मीतपो-व्रतकालीगौरीव्रतहरगौरीलग्नव्रतसामगश्रावणी-
कोटीश्वरीमाहिषघ्नलक्षेश्वरीबृहद्गौरीविष्णुगौरीहर-गौरीब्रह्माशीर्गौरीविष्णुसौभाग्यसुन्दरीव्रतकुलदाव्रतानि । ६०३
२६९. वार्षिकचतुर्थीव्रतेषु गणेशात्मकवासुदेवसंकर्षण-प्रद्युम्नाऽनिरुद्धव्रतसतीजन्मव्रतरथन्तरकल्पवाराह-
जयन्तीगणेशजयन्तीगोप्रदक्षिणासिद्धिविनायकव्रत-
कपर्दीशनागव्रतकरकाव्रतांगारकव्रतकाशीविनायकव्रतढुंढिराजव्रतानि । ६०६
२७०. वार्षिकपञ्चमीव्रतेषु मत्स्यजयन्तीश्रीपञ्चमीतपोव्रत पृथ्वीव्रतचन्द्रक्षयनाशव्रत हयग्रीवजयन्ती नाहपञ्चमीपिृतृव्रत जीवन्तिकानाग-व्रतऋषिपंचमीनागक्षीरव्रतगोपालकृष्णजयन्तीव्रत-ललिताव्रतजयाव्रतनागव्रतकृष्णपितृपूजावसन्त-पञ्चमीकम्भरालक्ष्मीव्रतानि । ६१०
२७१. वार्षिकषष्ठीव्रतेषु कार्तिकस्वामिजयन्तीदिवाकर-व्रतस्कन्दशरजन्मोत्सवसूपौदनाऽशनव्रतकल्कि-जयन्तीललिताहरिप्राप्तिव्रतचन्दनषष्ठीकपिलाषष्ठी-सूर्यषष्ठीकात्यायनीव्रतदेवसेनाव्रतवह्निपूजातारक
वधकृत्स्कन्दव्रतचम्पाषष्ठीविष्णुज्ञयन्तीवैधससूर्य-जयन्तीवरुणजयन्तीपशुपतिव्रतादीनि । ६१२
२७२. वार्षिकसप्तमीव्रतेषु दिक्पालव्रतजाह्नवीव्रतकमल-व्रतनिम्बसूर्यव्रतशर्करासप्तमीन्द्रसूर्यव्रतविवस्वदभि-
षेकव्रताऽव्यंगव्रतशीतलासप्तमीचन्द्राऽऽभरणव्रत-फलसप्तमीशुभसप्तमीपञ्चगव्यव्रतशाकव्रतमित्रसूर्य-
व्रतमार्तण्डाऽभयव्रतसार्वकामिकाप्तिव्रताऽचलव्रत-त्रिलोचनाजयन्तीभास्करीसप्तमीपुत्रप्रदाऽर्कपुटव्रतानि । ६१३
२७३. वार्षिकाऽष्टमीव्रतेषु पार्वतीजयन्ती, अशोककलिकाव्रतमहाष्टमी, दुर्गाष्टमी, दुर्गात्रिलोचनशुक्लदुर्गादेवीव्रतसन्ततिवर्धनव्रतदशाहफलव्रत-
कृष्णाष्टमीराधाष्टमीदुर्वाष्टमीज्येष्ठमहालक्ष्म्यष्टमी-कम्भरालक्ष्मीजयन्तीदुर्गाव्रतकरकाव्रतश्रीकृष्ण-
नारायणस्वामिभगवज्जयन्तीव्रतकालाष्टमीगोपाष्टमी-व्रतदर्भमिथुनकव्रतकालश्राद्धाष्टमीभैरवाष्टमीभद्र-
कालीव्रतश्रीकृष्णनारायणकाश्यवतरणव्रतविद्याव्रत-पट्टराज्ञीकृतपूजनव्रतानि भीमादेवीव्रतशीतलाष्टमीऋषभजयन्तीव्रतानि च । ६१५
२७४. वार्षिकनवमीव्रतेषु श्रीरामजयन्तीश्रीहरिजयन्ती-भद्रकालीयोगिनीव्रतरमाव्रतोमाव्रतैन्द्रीव्रतदुःखहा-
लक्ष्मीव्रतनकुलव्रतनन्दादुर्गाव्रताऽदुःखनवमीव्रता-ऽविधवानवमीनवरात्रनवमीव्रताऽक्षयानवमीकूष्मा-
ण्डनवमीनन्दिनीनवमीमहालक्ष्मीमहानन्दाऽऽनन्दापूजासत्पात्रादीनि च । ६१९
२७५ वार्षिकदशमीव्रतेषु धर्मराजव्रतविष्णुव्रतगंगादश-हरामन्वादितिथिसर्वाशापूर्तिव्रतदशावतारपूजा-
व्रतविजयादशमीसार्वभौमव्रताऽऽरोग्यव्रतविश्वेदेवाऽङ्गिरसयमव्रतादीनि । ६२१
२७६. वार्षिकैकादशीव्रतेषु एकादशीपाल्यनियमपवित्रा-रोपणव्रतदानिलीलाव्रतधर्मजयन्त्यादीनि । ६२२
२७७. वार्षिकद्वादशीव्रतेषु मदनव्रतभर्तृद्वादशीमाधवकर-कशाकाऽलवणदधिव्रतपवित्रारोपणवामनजयन्ती-
पद्मनाभव्रतगोवत्सद्वादशीदामोदरव्रतनीराजनव्रत-तुलसीविवाहसाध्यव्रताऽऽदित्यव्रतरूपव्रतसुजन्म-
द्वादशीव्रतशालग्रामहरिपूजात्रिस्पृशोन्मीलनीपक्ष-वर्धिनीवज्जुलीजयाविजयाजयन्त्यपराजिताद्वादश्यादीनि । ६२३
२७८. वार्षिकत्रयोदशीव्रतेषु मदनकामव्रतदौर्भाग्यश-मनव्रतत्रिविक्रमार्चनसावित्रीजयापार्वतीव्रतरति-
कामव्रतगोत्रिरात्रव्रतबालादिश्राद्धकलियुगादितिथि-त्रिरात्राऽशोकव्रतयमदीपदानधनलक्ष्मीपूजनश्रीकृष्ण-
नारायणस्वामिपूजनाऽनंगव्रतकमलाहरिपूजन-कल्पादितिथिविश्वकर्मजयन्तीमहाशिवरात्रिधनदव्रतादीनि । ६२६
२७९. वाषिकचतुर्दशीव्रतेषु श्रीकृष्णनारायणलक्ष्म्युद्वाह-व्रतमहालक्ष्मीयात्राशिवार्चनदमनार्चनहाटकेश्वर-जयन्तीनरसिंहजयन्त्योंकारेश्वरयात्रास्ननायात्रा-जदलाहरणरुद्रव्रतपवित्रारोपणाऽनन्तचतुर्दशीव्रत-
कालीव्रतहतनिमग्नादिश्राद्धधर्मराजपूजननरकचतु-र्दशीयमतर्पणाभ्यंगस्नानहमपनुमदर्चनभूतार्चन-
मन्त्रसाधनपाशुपतव्रतब्रह्मकूर्चव्रतपाषाणव्रतशिव-व्रतपूजनदत्तात्रेयजयन्तीविरूपाक्षव्रतयमतर्पणशिवरात्रिदुर्गाव्रतादीनि । ६२९
२८०. वार्षिकपूर्णिमाऽमावास्याव्रतेषु श्राद्धाऽमान्मवादि-तिथिहनुमज्जयन्तीवैशाखस्नानारंभकूर्मजयन्ती-
धर्मराजव्रतभावुकाऽमावटसावित्रीबिल्वत्रिरात्र-ब्रतमन्वादितिथिज्येष्ठाभिषेकयात्रागुरुव्यासपूजा-
गोपद्मव्रतकोकिलाव्रतचातुर्मास्यनियमशिवशय-नोत्सवदीपपूजानारीकेलपूणिंमाऋग्यजुःश्रावणी-
सामगभाद्रतृतीयाश्रावणीरक्षाबन्धनहयग्रीवजयन्ती-शिवपवित्रारोपणकोकिलाव्रतसमाप्तिकुशग्रहण-
प्रौष्ठपद्युमामहेशव्रतशक्रव्रतसर्वपितृश्राद्धामारास-लीलाकार्तिकस्नानारंभशरद्व्रतकोजागरव्रतलक्ष्मी-
पूजादीपोत्सवशारदापूजाऽभ्यंगस्नानदेवदीपोत्सव-त्रिपुरीपूर्णिमाचातुर्मास्यसमाप्तिमन्वादितिथिभक्ति-
जयन्तीस्कन्ददर्शनव्रतमाघस्नानारंभाऽम्बाजयन्ती-होलिकादण्डारोपणद्वापरयुगादितिथिपयोव्रता-
रंभदोलोत्सववसन्तोत्सवाऽभ्यंगस्नानोत्सवाऽऽम्र-कुसुमप्राशनमन्वादितिथिधूलिवन्दनादीनि । ६३२
२८१. वार्षिकप्रकीर्णकव्रतेषु दोलाव्रतरथयात्रादोलोत्सव-श्रावणकार्तिकधनुर्मासमकरसंक्रान्तिवसन्तोत्सव-
प्रेंखारोहणहोलिकापुष्पदोलकैसरचन्दनाम्बरश्राद्ध-सरस्वत्युत्सवद्वादशीव्रतफलोद्यापनानि । ६३६
२८२. श्रीलक्ष्मीनारायणव्रतं, तदुद्यापनं, ध्वजारोपणं, लेपनं रक्षणं, सुमतिनृपसुमतिराज्ञ्योः प्राग्जन्मनि
शुद्रयोर्विभाण्डकं प्रति वृत्तान्तोक्तिः । ६३८
२८३. हरिपञ्चकव्रतमासोपवासव्रततदुद्यापनयुगादिमन्वादितिथिदानमहिमा । ६४१
२८४. सूर्यसोममंगलबुधगुरुशुक्रशनिव्रतानि । ६४२
२८५. दशमीविद्धैकादशीव्रताऽकरणे रुक्मांगदाख्याने एकादशीव्रतबलाद् यमपुरीरिक्तत्वे ब्रह्माणं प्रति यमस्य सशोकनिवेदनादि । ६४४
२८६. यमराजस्य सत्तापटत्यागमिषेणपितामहेन संवादो मोहिनीस्त्रीसमुत्पादनं तां शिक्षयित्वा रैवताद्रौ रुक्मांगदं प्रति तस्याः प्रेषणम् । ६४७
२८७. रुक्मांगदः पुत्रे धर्मांगदे राज्यं विन्यस्य वनं जगाम, तत्राऽश्वपट्टसरस्तीरवासिपत्नीव्रतर्षिकथितं स्वपूर्वजन्मादि शुश्राव, ततो रैवताचले मोहिन्याः प्राप्तिः । समयशपथश्च । ६४९
२८८. रुक्मांगदस्य कार्तिकव्रते मोहिनीकृतनिरोधः, पुनश्च स्वपटहघोषणायां प्रबोधिनीव्रतानुमतियाचनायां मोहिनीकृतविरोधः । ६५२
२८९. पटहघोषं कुर्वतो धर्मांगदस्य रैवतप्रदक्षिणारंभे पितुः समागमे, मोहिन्या एकादशीव्रतविनाशकहठेन ऋषिभिर्नृपस्य सम्वादः । ६५४
२९०. धर्मांगदकृतो मोहिनीं प्रति अनुनयः, रुक्मांगदस्य व्रतदार्ढ्यं, धर्मांगदमात्रा सन्ध्यावल्या कृतोपदेशेऽपि मोहिन्या पुत्रशिरसोऽभ्यर्थनम् । ६५७
२९१. रुक्मांगदेन सामोत्तरं क्रूराया इच्छाया खड्गेन पुत्रशिरश्छिन्नम्, देवेषु पश्यत्सु सुतदारनृपाणां मोक्षगतिः, मोहिन्यै धिक्प्रवादाः, पुरोहितशापेन भस्मीभूता मोहिनी पुनर्जीविता । ६६०
२९२. ब्रह्माण्डे वासमलभमानया मोहिन्याऽर्थितेन ब्रह्मणा वसुना च व्रतपूर्वतिथिप्रान्तभागे दत्तवासो लब्धः, सा यमलोकादिगतिप्रवाहकर्त्री विद्धातिथिकर्त्रीं जाता सदेहाऽपि च । ६६२
२९३. श्रीपुरुषोत्तममासमाहात्म्ये तदाद्यदिवसीयव्रततपो- दानस्नानप्रभृतिकर्तव्यादि । ६६५
२९४. बदरिकाश्रमे नरनारायणदर्शनार्थम् आगतैर्देहिभिर्मल- मासस्याऽस्पृश्यत्वेन तिरस्कारे सति मलमासस्य वैकुण्ठगमनं, तत्रत्यनारायणेन सह गोलोकगमनं, तत्र श्रीकृष्णराधिकापूजनोत्तरं सभाग्याऽऽ- शीर्वादान् संप्राप्याऽक्षरधाम प्रति गमनम् । द्वितीयायां पूजनम् । ६६९
२९५. श्रीनारायणश्रीकृष्णब्रह्मणाम् मलमासस्य च ब्रह्मह्रद- ब्रह्मसरोवरस्नानोत्तरं श्रीपुरुषोत्तमसमीपगमनं, निवेदनम्, अधिकमासस्य पुरुषोत्तमनामैश्वर्य- स्वामिकत्वादिप्राप्तिः, तृतीयायां पूजनदानादिफलं, श्रीनारायणश्रीकृष्णब्रह्ममलमासानां पुनः स्व- धामाऽऽगमनम् । ६७२
२९६. श्रीनारायणाधिमासयोर्वैकुण्ठवसतिः ब्रह्माण्डेष्व- धिकमासव्रतार्थं दुन्दुभिवोषणा, तच्छ्रुत्वा क्षीर- सागरपुत्रीरमया तृतीयासायं च चतुर्थीप्रातर्व्रतपूजादि- करणेन वैकुण्ठे नारायणपत्नीत्वप्राप्तिर्महिमा च । ६७५
२९७. विराजपुत्र्याः शारदाया अधिकमासपञ्चम्यां व्रतपूजादिकरणेन नारायणपत्नीत्वं पवित्रत्वम् अराजस्वल्यं कुमारिकात्वम् अगर्भाकत्वं, सरस्वतीता च । ६७८
२९८. पितृमानसकन्याभिः मेधाधन्याकलावतीभिः अधिकमासदुन्दुभिश्रवणेन षष्ठ्यां त्रिकालनक्तव्रतेन क्रमात् पार्वतीसीताराधाभिधपुत्रीलाभेन
जामातृत्वेन शंकररामकृष्णानां सम्बन्धफलप्राप्तिरिति । ६८१
२९९. विश्वकर्मणः सिद्धिबुद्धिपुत्रीभ्यां मातापितृसेवया व्रतबोधकदुन्दुभिश्रवणेन अधिकमाससप्तम्या एकभुक्तव्रतेन च श्रीकृष्णदर्शनं रूपद्वयं गोलोकवासः गणपत्यात्मककृष्णपत्नीत्वं च प्राप्तमिति । ६८३
३००. ब्रह्मणो मानसानां दुन्दुभिघण्टकम्बुनाम्नां पुत्राणां घण्टानीराजनाझल्लर्याख्यानां पुत्रीणां कांस्यपञ्चपात्रधूपध्रनाम्नाम् अपत्यानां च दुन्दुभिघोषणाश्रवणोत्तरम् अष्टम्या अधिमासे व्रतेनाऽक्षरेशगोलोकेशवैकुण्ठेशदर्शनम्, तत्तद्धामसु सृष्टिसु च प्रतिमन्दिरमनेकरूपैः स्थापनं मुक्तिराशीर्वादाश्च । ६८६
३०१. विराट्पुत्रस्य वह्नेस्तत्पुत्रस्य हिरण्यस्य च क्रमाद् दाहकत्वजडत्वादिदोषान्वितस्य कल्पवृक्षाश्रितजनताभिरनादरे कृते मेरौ मरणोन्मुखस्य दुन्दुभिश्रवणेऽधिकमासनवमीव्रतपूजनकरणेन यज्ञादौ सर्वमान्यता भगवन्मुखता भगवदाभूषणस्वरूपता दिव्यपार्षदता धामप्राप्तिश्च । ६०९
३०२. वैकुण्ठे पृथ्वीकृतभगवत्प्रार्थना भाररूपाणां परिचयः, अधिकमासदशमीव्रतेन दिव्यावसुमती भूत्वा वैकुण्ठवासिनी जाता, स्वस्यां युगे युगे भगवदवताराणां प्राकट्यार्थं भगवत्प्रतिज्ञा चेति । ६९३
३०३. धर्मदेवस्य भाव्यंगनया मूर्त्याऽधिकमासैकादश्याम् अष्टोत्तरशतमानसोपचारैर्नारायणपूजने व्रते च कृते सति दक्षगृहे जन्म धर्मेण विवाहस्ततो हिमालये नरनारायण- हरि-कृष्णाख्यचतुःपुत्रप्राप्तिरिति । ६९६
३०४. राधिकाया मूर्त्यन्तरसावित्र्या समाधौ जीवेश्वर-ब्रह्मसृष्टिविलोकाने वेधसोंऽकेस्वस्थितिं दृष्ट्वा पत्नीरूपेण वेदप्राप्तीच्छया चिन्तने दुन्दुभिश्रवणेऽधिकमासद्वादशीव्रतेन वैराजपुत्र्या तया ब्रह्मा पतिः प्राप्त इति । ७००
३०५. ब्रह्मपुत्रीणां चतुःसनकादिकाद्यर्थमुत्पादितानां जयाललितापारवतीप्रभाभिधानानां पुरुषोत्तममासत्रयोदशीव्रतेन श्रीपुरुषोत्तमधाम्नि श्रीकृष्णनारायणस्वामिनो मुक्तिपत्नीत्वप्राप्त्यादि । सनकाद्यानां विरागवृत्तिः । ७०३
३०६. वैकुण्ठे दुन्दुभिश्रवणेन कल्पद्रुमपुत्र्याः श्रियाः, दिव्यविभूतेः पुत्र्याः माणिक्यायाः, दिव्यक्षिरोदधिपुत्र्या लक्ष्म्याश्चाधिकमासस्य चतुर्दश्याव्रतेनाऽक्षरधाम्नि परब्रह्मश्रीकृष्णनारायणपुरुषोत्तमस्वामिनः पत्नीत्वप्राप्तिः, वैकुण्ठे तु छायात्मकद्वितीयरूपैरस्तित्वादि । ७०६
३०७. सत्यलोके दुन्दुभिश्रवणेन धर्मभक्त्योर्मानसीपुत्र्योः प्रेयसीश्रेयस्योः पितृसेवा, अधिकमासमध्यमायास्थिते व्रतेनाऽक्षरधाम्नि श्रीपुरुषोत्तमप्राप्तिर्भुक्तिमुक्तिनामभ्यां प्रख्यातिरिति च । ७०९
३०८. प्राक्सृष्टौ सार्वभौमेन सहस्राक्षभूपेन सहस्रयज्ञेषु कृतेषु ततोऽधिकमासद्वितीयपक्षप्रतिपद्व्रतदानादिना वैराजपदं प्राप्तमिति । ७१२
३०९. प्राक्सृष्टौ सर्वहुतनृपेण गोऋतम्भराराज्ञ्या अधि- मासस्यद्वितीयपक्षद्वितीयाव्रतेन नगरसमभवनपूज-
नादिभिः पारमेष्ठ्यपदे च वेधसोऽवतारो गायत्र्यवतारश्च प्राप्त इति । ७१५
३१०. पूर्वकल्पीयब्रह्मसवितृनामनृपतेः भूरिशृंगाख्यपत्नीसहितस्य अधिमासद्वितीयपक्षतृतीयाव्रतेन दीपादिदानेन च सूर्यत्वसंज्ञात्वप्राप्तिरिति । ७१८
३११. समित्पीयूषनृपतेः स्वसप्तविंशतिपत्नीनां दुन्दुभिश्रवणोत्तरम् अधिकमासस्य द्वितीयपक्षचतुर्थीव्रतेन दिवि चन्द्रराजत्वं नक्षत्रराजत्वप्राप्तिः, दास्या अभिजित्त्वप्राप्तिरिति च । ७२१
३१२. द्वितीयपक्षेऽधिमासे पञ्चमीव्रतेन पूर्वसृष्टौ शिवभक्तयोः राध्यासाराज्ञीवसुदानभूपयोः शिवप्रदत्तवैष्णवत्वोत्तरं वैराजादप्यूर्ध्वम् हिरण्यकोशाधिपतित्वरूपमहाकौबेरपदप्राप्तिरिति । ७२४
३१३. मरुदेशीयदेवयवगिरिक्षितविप्रयोस्तत्पत्न्योः देव-जुष्टाऽऽर्द्रद्युत्योश्च देवद्रव्यचौर्येण सर्वस्वनाशोत्तरम्
अधिकमासषष्ठीव्रतेन महेन्द्रजयन्तमाहेन्द्राणीजयन्तीपदादिप्राप्तिः । ७२७
३१४. सृष्ट्यारंभे दक्षादीनां सन्ध्याया ब्रह्मणश्च कामेन पराभवे विकृतिभावे धर्मदेववचनैः सन्ध्यायाः श्वपचपुत्रीत्वं, तस्या भिक्षामिषेण वसिष्ठादिसप्तर्षिभि- र्ग्रहणम, कामधेनुमुखे निक्षिप्य मूत्रद्वारेण निष्कासनम्, सन्ध्यायाश्चन्द्रभागानदीतीरे तपः, अधि- कमाससप्तमीव्रतेन गौर्युक्तरीत्या पुरुषोत्तप्रावि- र्भावः, कामदेवस्य यौवने क्रमादुत्पत्तिरिति नियमनम् , प्रातः सायं सन्ध्याद्वयभवनम् मेधा-
तिथिकृतयज्ञकुण्डे प्रवेशनं कायाशोधनं दिव्या- ऽरुणायाः स्वरूपेण कन्याया ब्रह्मधामगमनम्, वह्निकुण्डोत्पन्नाया अरुन्धत्याख्यायास्तस्या वसिष्ठेन विवाहः स्वर्गश्च । ७३०
३१५. मलमासस्याऽधिदैवे पुरुषोत्तमे जाते गोलोके कृतमहोत्सवरासेश्रीकृष्णमुकुटमणिकल्गिचन्द्रिकयोः मुकुटाद् वियोगे तयोर्भुवि आनर्तदेशे गोलोककणि- कात्मके निम्बदेवमिष्टादेवीरूपेणाऽवतरणम्, तयोर्गृहे श्रीकृष्णस्य गोपालकृष्णरूपेणाऽवतरणम्, प्रेममणिगृहे रुक्मिणीलक्ष्म्याः कम्भरारूपेणाऽवत- रणम्, कंभरालक्ष्मीगोपालकृष्णयोर्विवाहोत्तरम् अधिमासदुन्दुभिश्रवणेनाऽष्टमीव्रतकरणेन श्रीपुरु- षोत्तमस्य तयोर्गृहेऽवतरणं, तस्य संहिताया अध्यात्मदेवत्वम् । ७३४
३१६. साकेतनगर्याः शतमखनृपस्य द्युवर्णाराज्ञ्याश्च बद्रिकाश्रमयात्रायां नरनारायणदर्शनोत्तरम् अधिकमासस्य द्वितीयपक्षनवमीव्रतेन साकेतन- गर्यां श्रीरामादित्यनरादित्यनामानौ पुरुषोत्तमाव- तारौ पुत्रौ बभूवतुः । ७३८
३१७ राधिकापुत्र्या विकुण्ठाया अधिकमासद्वितीयपक्ष- दशमीव्रतेन पुरुषोत्तमकृपया षड्लक्ष्मीरूपाणि चत्वारि च वैकुण्ठरूपाणि तदधिदेवतात्मका- नीति । ७४१
३१८. सतीरुद्रपुत्र्या योगिन्या वश्या अधिमासद्वितीय- पक्षैकादशीव्रतेन स्वेष्टाऽक्षरधामयोग्यब्राह्मीतनु- लब्धौरूपान्तरैर्दशप्रचेतःपलीत्वं वृक्षकन्यात्व च । ७४४
३१९. वैराजपुत्र्या जोष्ट्र्या अनशनादिद्वादशपुत्रीणां सेवया अधिकमासद्वितीयपक्षद्वादशीव्रतेन च पुरुषोत्तमप्राप्तिस्त्रेधारूपधारणं च । ७४७
३२०. गोलोके श्रीपुत्र्याः सुदुघायाः श्रीकृष्णाज्ञया इन्द्र- वृद्ध्यर्थं प्रवृत्ताया रसामृतात्मकत्वम्, याज्ञिक- मेधाविविप्रस्य गृहेऽयोनिजायास्तस्या जन्म, पित्रोर्मरणम् ,दुर्वासस आगमनम्, पुरुषोत्तममास- व्रतोपदेशः, शंकरोपरि तपः, पञ्चकृत्वः पतिप्रार्थ- नम्, सत्यलोके पञ्चेन्द्रपतिप्राप्तिः, अधिकमास- द्वितीयपक्षत्रयोदशीव्रतेन पुरुषोत्तमदर्शनम्, भुवि पञ्चपतिमती याज्ञसेनी भूत्वा मोक्षं यास्यसीति पुरुषोत्तमवरदानम् । ७९०
३२१. अरण्ये दृढधन्वा शुकोक्तश्लोकं श्रुत्वा तदर्थं वाल्मिकं पृष्ट्वा स्वीयं प्राग्भवीयं सुदेवद्विजत्वं पुत्रवत्त्वं च, पुत्रे मृते पुरुषोत्तममासव्रतपुण्य- दानेन पुत्रजीवितत्वं, स पुत्रः शुकः श्लोकवक्ता, स द्विजोऽत्र त्वं धृढधन्वा अधिकमासपूजाविधिज्ञो जातः । अधिकमासे दीपदानेन मणिग्रीवशूद्रस्य जन्मान्तरे चित्रबाहुनृपतित्वं, राज्यप्रप्तिश्चागस्त्येन कथिता । ततोऽधिकमासद्वितीयपक्षीयचतुर्दशी- व्रतकरणेन दृढधन्वा सकुटुम्बो मोक्षमवाप । ७५४
३२२. अक्षरधामनि सर्वसृष्टीशकृतः पुरुषोत्तमव्रतो- द्यापनविधिः, नियमपूर्तौ दानानि, दीपदानफलं, कदर्यमुक्तिः, वानरमोक्षणम्, पतिव्रताधर्माः, पत्नीव्रतधर्माः, कांस्यसम्पुटात्मकब्रह्माण्डदानम्, दुन्दुभिपूजनं, श्रवणादिफलं च । ७२८
३२३. श्रीपुरुषोत्तममासमाहात्म्ये धर्मदेवस्य तत्पत्नीनां तत्पुत्राणां निर्देशस्ततो ब्रह्मादिकृतमासान्तव्रतेन प्रसन्नश्रीहरिणा सकुटुम्बेन ब्रह्मादिभ्यो दर्शनं वरदानं च दत्तमिति । ७६२
३२४. जालंधरवृन्दाख्याने गोलोके कृष्णपत्न्या वृन्दायाः राधाकृष्णरत्यसहाया गोलोकादवतरणं कालनेमिपुत्रीत्वं च, वृहस्पतिमहेन्द्रौ शंकरदर्श- नार्थमागतौ, रूपान्तरस्थं शंकरं 'क्वाऽस्ति शंकर' इति प्रश्नोत्तरम् अलब्ध्वा उद्यतवज्रहस्तकेन्द्रस्तं- भनोत्तरं शंकरललाटनेत्रोत्थक्रोधानलसजल- पिण्डस्य समुद्रे क्षेपाज्जालंधरोत्पत्तिः, तेन सह वृन्दाया विवाहश्च । ७६५
३२५. आषाढपूर्णिमायां शुक्राचार्यपूजकाऽसुरसंघेषु राहुं विशिरसं दृष्ट्वा तत्कारणं समुद्रमथनेऽमृतपाने पक्षपातादि विज्ञाय सुरविष्णुप्रभृतिनाशार्थं युद्धे सुरपराजये वैकुण्ठविष्णुस्तवनादि । ७६८
३२६. युद्धे मृतानामुज्जीवनं, जलंधरविष्ण्वोर्युद्धं, प्रसन्नेन विष्णुना जलंधरगृहेवासात्मकवरदानम्, देवानां दुःखम्, शंकराय निवेदनम्, नारदस्य जलंधरगृहे गमनम्, सुरूपभार्यायाः पार्वत्या आननाय जलंधरस्य मोहनम् । ७७०
३२७. जलंधरेण राहुर्दूतः शंकरं प्रति प्रेषितः, कीर्तिमुखगणेन स विद्रावितः, जलंधरसैन्येन कैलासे घोरयुद्धम्, कृत्यया योनौ शुक्राचार्यो निक्षिप्तः । ७७४
३२८. द्वन्द्वयुद्धं जलंधरवीरभद्रयुद्धं, जलंधरशंकरयुद्धं, गान्धर्वी मायामुत्पाद्य जलंधरो रुद्ररूपेण पार्वतीं छलयितुं जगाम । ७७७
३२९. वृन्दाया विष्णुप्रदर्शिताऽशुभस्वप्नम्, सूर्योदयादावपशकुनानि, विष्णुना जालंधररूपेण वृन्दायां रतिकरणम्, वृन्दायाः चिताप्रवेशः, वृन्दात्मकतुलसीभवनम् । विष्णोः दुःखित्वशापः । ७७९
३३०. जालंधरेण मायया कपटगौरीनाशदर्शनम्, मायया युद्धं, शंकरचक्रद्वारा जालंधरनाशः, वृन्दाया वरणयाञ्चा केदारनाथपुत्रीत्वं च, विष्णुना तुलसीविवाहः, वृन्दावने गौरीलक्ष्मीरमांशा धात्रीमालतीवृन्दावृक्षाः,लक्ष्म्या वर्बरीत्वमपि च । ७८१
३३१. ध्रुवपौत्रकेदारपुत्र्या वृन्दाया वृन्दावने तपश्चर्या, धर्मकृतपरीक्षा, धर्मेण धर्षिता, म्रियस्वेति शशाप, धर्मोज्जीवनम्, वृन्दायास्तुलसीरूपेण स्थितिः । वृन्दारूपेण वैकुण्ठगतिश्च । ७८४
३३२. गोलोके श्रीकृष्णपत्नीनां रतिनिमित्तपरस्परशापेन द्वेधा भूत्वा गंगासरस्वतीलक्ष्मीनां सरिद्रूपता, लक्ष्म्यास्तुलसीरूपता । ७८७
३३३. लक्ष्मीरूपपद्मावतीनद्या यौवनवेगेन युवतीरूप- धराया गणेशं प्रति यानं, पत्यर्थमभ्यर्थनम्, गणेशकृतो 'वृक्षरूपिणी भव दैत्यपत्नी भवे'तिशापः, तुलसीमाहात्म्यम् । ७८९
३३४. मनुवंशीयवृषध्वजस्य सूर्यशापः, वैकुण्ठे प्रार्थनया तद्वंशे कुशध्वजपुत्री सीताख्या लक्ष्मीरभवत्, धर्मध्वजपुत्री तुलस्याख्या लक्ष्मीरभवत् । बदर्यां तुलस्यास्तपस्तत्सिद्धिश्च ।
३३५. तुलस्याः स्वप्ने शंखचूडात्मकस्य सुदाम्नो दर्श- नम्, शंखचूडस्य बदर्यां गमनम्, तुलसीशंख- चूडयोः संवादो गान्धर्वविवाहश्च, शंखचूडपीडितदेवा वैकुण्ठं जग्मुः, नारायणेन विरजासुदामराधानां परस्परं शापकथनम्, सुदामा शंखचूडो जातः, शंखचूडनाशार्थं हराय त्रिशूलप्रदानम् । ७९४
३३६. त्रिशूलयुक्तः शंकरः पुष्पवन्तं दूतं शंखचूडं प्रति प्रेषयामास, शंखचूडतुलस्योर्ज्ञानं, शंखचूडस्य प्रातर्युद्धार्थं शंकरं प्रति यानम्, कश्यपस्य त्रयोदशपत्नीनां वंशे त्वं दानवः शंखचूड इति सुदामानं स्मारितम् । उपदेशः । ७९८
३३७. शंकरं प्रति दानववचनम्, स्कन्दराहुतत्सैन्ययोर्युद्धम्, महाकाल्या अस्त्रादिकृतयुद्धं, विप्ररूपविष्णुकृतदानवकवचभिक्षा, शंखचूडरूपविष्णुकृतं तुलस्यां वीर्याधानं शंभुद्वारा शंखचूडमरणं, तुलस्याः शालग्रामो भव विष्णोश्च गण्डकी तुलसीवृक्षिका च भवेति शापौ, युद्धे मृतानामुज्जीवनम्, वृन्दावनाऽऽगमनं च । ८०१
३३८. तुलसीशालग्रामस्वरूपमाहात्म्यपूजास्तोत्रादि । ८०४
३३९. वृन्दावने यमुनातटे द्वादश्यां विश्राममण्डपादिकरणं, खाण्डववने विष्णुपितृशिबिरं, तुलसीवने तुलसीपितृशिबिरं, कुण्डमण्डपादिविधानं, महीमानाऽऽगमः, वरवाहपक्षाणां जनवाहवाहिन्यागमः, कार्तिकपूर्णिमायां तुलसीकन्यादानं, विवाहः, तुलसीविवाहकरणश्रवणादिफलम् । ८०७
३४०. गण्डकीशालग्रामनामार्थबोधकप्राग्वृत्तान्तः, सालंकायनर्षिकृततपः, तत्पुत्ररूपविष्णुः, तस्य तत्रैव शिलारूपेण स्थितिः, रेवानद्यां लिंगरूपेण शंभोः स्थितिः, शालवृक्षे तपस्यतो विष्णोर्गण्डस्थलात् प्रवाहस्य गण्डकीसंज्ञा, सा तुलसी नदीरूपा, गजेन्द्रमोक्षार्थं क्षिप्तचक्रस्य घट्टनेन पाषाणकीटकृतेन च चक्रचिह्नानि । ८११
३४१. शालग्रामक्षेत्रस्थानि सालंकायनसोमेश्वरगण्डकीबाणगंगात्रिवेणीदेविकाब्रह्मपुत्रीगजग्राहतीर्थजलेश्वरधारिकतीर्थहंसतीर्थशालतीर्थचक्रस्वामितीर्थ-
विष्णुपदशंखप्रभगदाकुण्डाऽग्निप्रभसर्वायुधदेवप्रभविद्याधरैकधारदेवह्रदत्रिशूलगंगाहरिहरक्षेत्रादितीर्थानि । ८१३
३४२ रुरुक्षेत्रऋषीकेशगोनिष्क्रमणपञ्चपदब्रह्मपदकोटिवट- विष्णुसरःस्तुतस्वामिवराहक्षेत्रपञ्चारुमभृगुकुण्डम-
णिकुण्डलोहार्गलपञ्चसरोनारदवशिष्ठसप्तर्षिशरभंगाग्निबृहस्पतिवैश्वानरकार्तिकेयोमामहेश्वरब्रह्मकुण्डादितीर्थानि । ८१६
३४३. मथुराक्षेत्रमाहात्म्ये भगवदवताराणामानन्त्यं, प्रथमद्वापरे कृष्णावतारः, विश्रान्तितीर्थप्रयागकनखलतिन्दुकसूर्यध्रुवतीर्थराजर्षिमोक्ष कोटिवायुप्रावतारतीर्थादिमहिमा । ८१९
३४४. शिवकुण्डतीर्थं,संयमनतीर्थे मृतस्य निषादस्य सौराष्ट्रराज्यप्राप्तिः, काशीराजपुत्र्या विवाहः, तयोर्जातिस्मरयोर्मथुरायां मरणम्, यमुनेश्वरमाहात्म्यम् । ८२१
३४५. नागतीर्थघण्टाभरणकब्रह्मसोमसरस्वतीदशाश्वमेध-
तीर्थराजविघ्नराजकोटिशिवक्षेत्रसुधनतीर्थानां सुधन- वणिक्प्रदत्तेन मन्दिरे नृत्यांशस्य फलेन च ब्रह्मराक्षसस्य मुक्तिरित्यादि । ८२३
३४६. वत्सक्रीडनकभाण्डीरकवृन्दावनहरिविश्रामसूर्य-
तीर्थमलयार्जुनबहुलभाण्डह्रदार्ककुण्डविमलकूपवीर- स्थलकुशस्थलगोपीश्वरसप्तसामुद्रवसुफाल्गुनकवृष- भांजनकतालवनसपीठकविमलोदककुण्डानां निर्देशः, मथुराप्रदक्षिणे विधिः, तत्रत्यतीर्थानां क्रमः, विश्रान्तिघट्टारम्भणसमाप्त्यादिः वनानि च । ८२६
३४७. चक्रतीर्थे कलापग्रामवास्तव्यविप्रस्य ब्रह्महत्यापा- तकनाशाख्यानं मुक्तिश्च, वैकुण्ठतीर्थे मिथिलाया विप्रस्य ब्रह्महत्यापातकनाशाख्यानं, कपिलभग- वता मनसोत्पादितवाराहस्य परम्परया मथुरायां प्रतिष्ठानम् । ८२९
३४८. गोवर्धनाऽन्नकूटतदन्यतीर्थप्रदक्षिणम्, प्रेतभूतस्य सुशीलवैश्यस्योद्धरणम्।वाराहभगवता विमतेर्नृपस्य नारोऽसिकुण्डं वाराहक्षेत्रं च । ८३२ ३४९. उज्जयिनीपुरीवासिभ्रष्टाचारविप्रस्य राक्षसत्वमुप- गतस्य विश्रान्तिस्नानैकफलदानान्मुक्तिः, शंभुकृत- क्षेत्रसंरक्षणम्, गरुडस्य माथुररूपकृष्णाऽपरिचये स्तवनेन दिव्यदर्शनं, पन्नीव्रतविप्रात्मककृष्ण- नारायणकृतः विश्रान्तिजलप्रोक्षणेन डाकिनी- शाकिनीशतोत्तरमोक्षः । ८३४
३५०. सौराष्ट्रदेशीयसुभद्रनामकविप्रस्य मथुरायां- गोकर्णेश्वरदर्शनादिना पुत्रप्राप्तिः, तन्नाम गोकर्ण इति तेन शत्रुंजितानदीतटे गोकर्णेश्वरः स्थापितः, गोकर्णस्य धनार्थं वामनस्थलीं पुरीं गतस्य रैवताद्रौ शुकप्राप्तिः, पुनर्गृहमागत्य धनार्थं कच्छं गतस्य नारायणसरसि वनदेवतानां दर्शनम्, गौर्जरराज्ञा भग्नस्योद्यानस्य कुंकुमवाप्यां नवीकर- णम्, तीर्थस्था वृक्षवल्लिका धाम्नां पार्षदाः पार्षदाण्यश्चैवेति महिमा । ८३७
३५१. शुकोक्त्या गोकर्णस्य मथुरायात्रा, शुकमोक्षः, शुकेश्वरस्थापना, मार्गे परावृत्तस्य गोकर्णस्य पञ्चप्रेतसमागमः, पुष्करे प्रेतत्वाऽप्रेतत्वकारण- विवेचनम्, भाद्रशुक्लद्वादश्यां वामनपूजा, स्नानपुण्यदानेन प्रेतानां मोक्षश्च । ८४०
३५२ सौराष्ट्रीयस्य वरपत्तनवासिनः पांचालविप्रस्य तिलोत्तमाख्यभगिन्या सह मथुरायाम् अजानतोर्जातस्य व्यवायभावस्य व्योमवाण्या सुमन्त्वर्षिणा च निष्पापता, पञ्चतीर्थकृष्णगंगातीर्थप्रभावेण दर्शिता । - ८४३
३५३. द्वारिकायां साम्बरूपदर्शनेन कृष्णपत्नीनां मनःक्षोभात् कृष्णदत्तशापेन जातकुष्ठसाम्बस्य मथुरायाम् आदित्योपासनया कुष्ठनिवृत्तिः, षडादित्यस्थापनम्, कायिकवाचिकमानसिकाऽऽपराधास्तन्निवारणं च । ८४५
३५४. ध्रुवतीर्थे समागतकोटिपितृतृप्त्युत्तरं त्रिकालज्ञाऽभिधर्षिणा क्षुधिते एकस्मिन् पितरि दृष्टे तद्वंशे चन्द्रसेननृपतिदासीरूपां पुत्रीं विज्ञाय तद्द्वारा श्राद्धं कारयित्वा पितृमुक्तिदानं श्राद्धविधिर्महिमा च । ८४८
३५५. निमिनृपतिना श्रीमान्नाम्नो मृतपुत्रस्याऽर्थे श्राद्धं कृतम्, पश्चात् कल्पितकर्माऽप्रतिष्ठितमिति ज्ञात्वा शोकं कुर्वते निमये नारदेन श्राद्धं पुरातनो धर्म इत्युपदिष्टम्, श्राद्धक्रियाक्रमश्चोक्तः । ८५१
३५६ श्राद्धभोक्तुः प्रायश्चित्तेन शुद्धिः, अवन्त्या मेधातिथिराज्ञः कुपात्रविप्रभोजने पितॄणां पातित्यं, सुपात्रे श्राद्धदाने पुनः स्वर्गित्वम्, पितुः पितामहस्य प्रपितामहस्य ब्रह्मविष्णुमहेशगात्रोत्पन्नता, सोमपितृहुताशनाः साधौ विप्रे च सहभोजिनः । नीलवृषदानम्, मधुपर्कदानम्, शान्तिपाठश्चेत्यादिः । ८५५
३५७. यमुनाप्रतापेन यमपुरीरिक्तता, पुनः कर्मिभिः सा प्रपूरिता, नाचिकेतसः स्वपितुः शापेन यमसदन- गमनं, यमाशीर्वादात्मदर्शनयमपुरावलोकनोत्तरं स्वदेहे पुनरागमनं, तत्र किं किं दृष्टमिति ऋषिप्रश्नाः । ८५९
३५८. याम्यचक्रे मार्गे दृष्टाः पापिनः, यमराजस्य पुरं, भवनं, प्राकारः, गोपुराणि, कृतान्तकालमृत्युकृत्याकिंकरादीनां रूपाद्याकृतयः । ८६२
३५९. नाचिकेतसा कृता यमराजस्तुतिः, विविधनिरयाऽवलोकनाय यमराजाऽऽज्ञा, दुःखदनिरययातनाऽवलोकनम्, यातनावर्णनम्, नाचिकेतसा सह दूतानां चित्रगुप्तं प्रत्यागमनमित्यादि । ८६५
३६०. पापिनां दण्डदानाय चित्रगुप्ताज्ञया मन्देहादिराक्षसकृतपीडनादि । ८६८
३६१. चित्रगुप्ताज्ञया पापिनामानयनाय दूतानां प्रवृत्तिः, दत्तदानानां फलोदयाः, नारदाय धर्मराजोक्ताः फलोदयाश्चेत्यादिः । ८७१
३६२. याम्यचक्रे पतिव्रतामाहात्म्ये मिथिनामजनक- पत्न्याः रूपवत्याः पातिव्रत्यप्रभावेण वनेऽपि सूर्यद्वारा फलान्नजलस्वर्णादिसर्वस्मृद्धिप्राप्तिः, पतिव्रताधर्मकथनं चेत्यादिः । ८७४
३६३. यमराजोक्तं शुभाऽशुभप्रवृत्तिकारणं, पापमोचनोपायः, धेनुसेवैकादश्यादिव्रतसाधुचरणामृतपानसेवनादिभिः परमं श्रेयः, श्रुत्वा नाचिकेता विरराम, ऋषयो बद्रिकाश्रमं जग्मुः । ८७६
३६४. पतिव्रतामाहात्म्ये सावित्र्यां नारदस्य त्रिवेदात्मकत्रिदेवदर्शनं, वेधसः सावित्रीपातिव्रत्यबलेन मुहुः शरीरवत्त्वमिति । ८८०
३६५. विद्युदादिराक्षसैर्देवराज्ये हृते देवकृते यज्ञे मेरौ गोरक्षार्थं नियुक्तया सरमया देवशून्या पातिव्रत्यधर्मेण दैत्याः प्रज्वालिता गावश्च रक्षिताः, देवराज्यं च देवैर्लब्धमिति । ८८१
३६६. मद्रदेशाधिपतिनाऽश्वपतिना सावित्र्याराधनेन सावित्री सुता लब्धा, सा च सत्यवान्नाम्ने दत्ता, सत्यवतो मरणे सावित्री पातिव्रत्यबलेन प्रेतमनुययौ, यमराजस्य संवादः कथनं चेत्यादि । ८८३
३६७. सावित्रीकृतशुभाऽशुभकर्मादिप्रश्रानां यमराजकृतोत्तराणि,भगवद्भक्तिप्रकारतन्माहात्म्यादि च । ८८६
३६८. कर्मानुरूपशुभाऽशुभस्थानगतिः, स्वस्याः पुत्रशतं, श्वशुरस्य चक्षुषी, स्वस्या भ्रातृशतकं, सत्यवतो लक्षाब्दायुरितिवरप्राप्तिः । ८८८
३६९. सावित्रीकृतशुभाऽशुभविशेषबहुविधकर्मविपाकप्रश्नोत्तराणि । ८९०
३७०. सावित्रीकृतयमाष्टकस्तोत्रं, षडशीतिनिरयकुण्डानि, यथाकर्म तत्पातः, ब्रह्महत्यागोहत्याप्रख्यपापानि, भक्तानां यमैः पराभवो नेति । ८९२
३७१. षडशीतिनरककुण्डपरिमाणानि, सावित्र्यै यमराजप्रोक्तं ज्ञानभक्त्यादिकं, सत्यवतो जीवनम्, पुत्रादिकं च, पतिधर्मश्रैष्ठ्यं चेत्यादि । ८९८
३७२. अनरण्यपुत्र्याः पतिव्रतायाः पद्मायाः पिप्पलादेन सह लग्नम्, धर्मकृतपरीक्षायां धर्मस्य शापः, चतुष्पादानां कालक्रमेण ह्रासश्चेत्यादिप्रतापनिर्देशः । ९०१
३७३. वैकुण्ठस्थमहालक्ष्म्या गर्वनाशार्थं गोपुरे रुद्धायास्तस्याः पातिव्रत्यप्रतापेन नारायणस्य गोपुरं प्रत्याकर्षणादि । ९०५
३७४. बृहस्पत्यवमानेन भ्रष्टेन्द्रस्य पुष्करनालवासे नहुषेणेन्द्रप्रतिनिधिनाऽर्थितायां शच्यां सप्तिर्षियानमारुह्य गच्छता सर्परूपता प्राप्तेत्यादिपातिव्रत्यबलकथनम् । ९०९
३७५ अहल्यायाः पातिव्रत्यप्रतापेनाऽतिवृष्टौ काशीसम्प्लवे गंगाहिमाद्रिमेघेन्द्ररुद्रसंकर्षणयमनारायणाद्यागमोऽतिवृष्टिशमनं, मृतानां जीवनम्,
इन्द्रस्याऽहल्यास्पर्शमात्रे भगांगता, अहल्याया उपलात्वं मोक्षणं चेत्यादि । ९१३
३७६. शतमखद्युवर्णापुत्रवध्वाः सीतायाः रामादित्येन सह वनवासकष्टादिकमपि पत्यर्थमेवेति पातिव्रत्यसंवादो रावणादिनाशश्चेति । ९१७
३७७ गोलोके राधिकया स्वपुत्रीभ्यः कथितपतिव्रताऽऽचारधर्मपालनमाहात्म्यादि । ९२० ३७८. रुक्मांगदराज्ञे गृहगोधया स्वभर्तृवशीकारः कथितः, भालुकमाटुलीपिंगलीवृत्तान्तः, सुमन्तुसुताकौण्डिन्यपत्नीकाष्ठीलावृत्तान्त, काशी-
राजपुत्रीवृत्तान्तश्च, भर्तृसेवैकदिनजपुण्यदानेन तासां मुक्तिः, पतिव्रतानां पतिं प्रति विशेषता चेति । ९२३
३७९. पार्वतीं प्रति मेनोक्तानां, नारदं प्रति च पञ्चचूडोक्तानां स्त्रीस्वभावानां पातिव्रत्यधर्मे समावेश इति कथनम् । ९२७
३८० ब्रह्मणः पुत्र्या हरिण्या वेदसूरिणा सह विवाहः, मृगीमृगदेहे पातिव्रत्यपत्नीव्रततापालनम्, वृष्टिं विनाऽपि वनस्य हरितीकरणम्, दावानलप्रशमनम्, हिंस्रपशुनाशाय शिवस्य शरभरूपेणाऽऽगमनम्, पर्शुरामदर्शनम्, पुष्करे प्राग्वृत्तान्तकथनम्, हरिणयोर्मुक्तिश्चेति । ९२९
३८१. पतिव्रताया रेणुकाया कामधेन्वाश्च प्रभावेण परशुरामकृतक्षत्रियनाशो मृतजमदग्निसंजीवनम्, रेणुकाजमदग्न्योश्च स्वर्गनिवास इत्यादिः । ९३२
३८२ भृगोः पुत्र्या लक्ष्म्या कृततपसा तुष्टः श्रीकृष्णनारायणस्वामी भृगुकच्छनिकटे शुक्लतीर्थे वैकुण्ठं रचयित्वा विवाहार्थं समागतस्तद्वाहिनीवर्णनं भृगुमहीमानानां वर्णनं च । ९३६
३८३. शुक्लतीर्थाद् भृगुपत्तनं प्रति वरस्य वरातिकाजनैः सह यात्रा, मंगलादिसत्कारः, भृगोर्हर्षवाक्यानि, वरस्य मण्डपागमश्चेति । ९४१
३८४. भार्गव्या मण्डपानयनं, कन्यादानविधिः, विवाहोत्तरं महीमानानां वरस्य च यात्रा, कृत्रिमवैकुण्ठादिविलयः, जामातुर्भृगुगृहे द्वितीयरूपेण वासश्चेत्यादि । ९४५
३८५. भार्गव्याः शृंगारः, श्रीकृष्णनारायणस्वामिनः सेवनम्, पातिव्रत्यपरायणताप्रदर्शनं च । ९४७
३८६. शैब्यायाः पत्युः देवपित्राद्यनर्पितभोजनेन पापान्तरैश्च श्वशृगालवृकगृध्रकाकजन्मानि पञ्चाहेषु समाप्य क्रतुध्वजाख्यराजपुत्रत्वं वैकुण्ठे मोक्षणं च पातिव्रत्यप्रतापेनेति । ९५०
३८७. वेदश्रवसः पत्न्याः पतिव्रतायाः सुश्रुतेश्चमत्काराः, कल्माषपादात्मकराक्षसस्य कामासक्तयोर्वेदश्रवःसुश्रुतयोराश्रमं प्रत्यागमनं, वेदश्रवसो राक्षसकृतभक्षणम्, सुश्रुतिप्रदत्तशापः, आकाशवाण्या सौदासस्य राक्षसत्वे कारणाख्यानकथनं, वशिष्ठसन्निधौ सुश्रतिवेदश्रवसोः सतीबलेन स्वर्गगमनं चेत्यादि । ९५२
३८८. नन्दसावर्णिनृपतेः भक्त्या वाराहेण धरणिर्भार्या कुमारिका रूपान्तरेण तस्मै दत्ता, धरण्याः पातिव्रत्येन वरदानरूपं दन्तास्थि धरण्या प्राप्तं, नन्देन तद्द्वारा समुद्रे धनकोशः कृतः, धरणिनिधनोत्तरं नारदेनाऽऽगत्य सपत्न्या अस्थिपूजनं राजा करोतीति उपलायै कथयित्वा भस्मायितं, तदाघातेन राजा नन्दो ममारेति । ९५६
३८९. नाभेर्मरुदेवीकृतया पातिव्रत्यधर्मेण महापूजया भगवदवतारः ऋषभः पुत्रो बभूव, तस्य योगेश्वरादयः पुत्राः, उपदेशः, वनचर्या, चिरन्तनपरमहंसरीतिप्रदर्शनादिश्च । ९५९
३९०. वैकुण्ठे श्रीकृष्णनारायणस्वामिनः ऊर्जाऽधवलाऽ- ष्टम्यां जयन्त्युत्सवे नर्तने सात्त्वतपुत्र्याः सुक- न्यायाः सलिलद्युनामकपार्षदगन्धर्वेण चंचलदृष्ट्या दर्शने कृते परस्परशापेन भूतले जातायाः शर्याति- पुत्र्याः सुकन्यायाः जातच्यवनर्षिणा विवाहः, वने च्यवननेत्रयोः कण्टकाग्रेण स्फोटने सैन्यमूल- मूत्रादिनिरोधोत्तरं कन्याप्राप्तौ गार्हस्थ्यं, अश्विनी- कुमारद्वारा नवयौवनम्, पातिव्रत्यपरीक्षणम्, वैद्ययोः सोमयागे सोमभागग्राहित्वम्, शर्याति-पुत्र आनर्तस्तस्य ककुद्मी तस्य रेवत्या बलदेवेन विवाहश्चेति । ९६२
३९१. कुष्ठिनः कौशिकविप्रस्य गणिकातृष्णस्य गणिकायोजनं तत्पतिव्रतया सुशीलया कारितम्, माण्डव्यस्य शूलप्रोतस्य पदघट्टनया कौशिकस्य रव्युदयपूर्वनिधनमितिशापे सुशीलया सूर्यस्याऽनुदयनं कृतम्, ततो देवकृतप्रार्थनया सुशीलया शापादिनिवृत्तिः कृता, धर्मस्य प्रतिदण्डरूपं युगेषु तत्तद्युगधर्मविद्धत्वमिति च । ९६६
३९२. शत्रुजित्पुत्रस्य कृतध्वजस्य अश्वतरनागपुत्राभ्यां सख्यं, दैविवाजिप्राप्तिः, गालवाश्रमे विघ्नकर्तारं दैत्यं हन्तुं पाताले प्रवेशः, तत्र नगरे मदालसाऽवलोकनम्, स वाराहरूपधारकं पातालकेतुं दैत्यं जघान, मदालसामुद्वहत, तुम्बुरुं कुण्डलां चापृच्छ्य स्वगृहागमनम्, यमुनातटे तालकेतुं दैत्यभ्रातरं कपटिनं जघान, मदालसामरणम्, कुमारतपश्चर्या, मदालसाया अश्वतरगृहेऽवतरणम्,ऋतध्वजमाहूय पुनर्मदालसादानमित्यादि । ९६७
३९३. पाताले ऋतध्वजस्य मदालसालग्नितस्य पितृराज्यं प्रत्यागमनम्, विक्रमाख्यपुत्रजन्म, तस्य मदालसाकृतविवेकोपदेश इति च । ९७१
३९४ द्वितीयतृतीयचतुर्थेभ्यः क्रमात्सुबाह्वरिमर्दनाऽलर्केभ्यः पुत्रेभ्यो मदालसाकृतोपदेशादिः । ९७५
३९५. अलर्काय मदालसा प्रवृत्तिधर्मानुपादिदेश, सपतिका सा मोक्षमवाप, अलर्कस्याऽऽत्मज्ञानार्थं सुबाहोः प्रयास इत्यादिः । ९७८
३९६. अलर्कराज्ञो दत्तात्रेयप्रदत्तज्ञानयोगवत्तया मुक्ततावर्तनमित्यादि । ९८१
३९७. अलर्कस्य दत्तात्रेयोपदेशे मुक्तचर्या, मृत्युचिह्नानि, वनवासः, असंगिता चेत्यादि । ९८४
३९८. मेरौ भूनारदाभ्यां वाराहहरिर्दृष्टः, लक्ष्मीछायायाः जन्मस्थलं नारायणपुरं गरुडेनाऽऽगत्य दृष्टम्, पृथिवीगर्भात् पद्मिन्या उत्पत्तिः, सा वियद्राज्ञा वर्धिता, वसुदानः पुत्रो जज्ञे, नारदेन चिन्हैर्लक्ष्मी- समाऽसीत्युक्तम्, उद्यानेऽश्वारूढो नारायणस्तत्रागत्य परिचयं दत्वा वेंकटाद्रिं ययौ चेति । ९८७
३९९. श्रीनिवासभगवता बकुलमालिका पद्मिनीं प्रति प्रेषिता, सीतायाश्छाया वेदवती पद्मिनी जाता, धरणिगृहे बकुलमालिका याता, श्रीकृष्णस्वामिपत्नीत्वं पद्मिन्याश्चिह्नैरुक्तम्, नारायणाय दातव्येति निर्णयः, लग्नपत्रिकाप्रेषणम्, विवाहो-
पकरणाद्यारंभश्चेति । ९९२
४००. श्रीनिवासभगवत्कृतः पद्मिन्या सह विवाहः, विधिः, यौतकम्, पातिव्रत्यं चेत्यादि । ९९६
४०१. तोण्डमाननृपकृतं श्रीवाराहभूमिकायां सप्राकारपत्तनम्, मृताया ब्राह्मण्याः सजीवनता, भीमकुलालकृतमृत्तिकापुष्पस्वीकारस्ततो भार्यायुक्तकुलालस्य मोक्षश्चेति । ९९९
४०२. वेंकटाद्रौ तोण्डमाननृपस्य, ऋक्षविश्वासघातिनो धर्मगुप्तस्य, सुमतिनामकविप्रस्य, रामकृष्णर्षेः, हेमांगदस्य च, पापनाशेन मुक्तिरित्यादिः । १००३
४०३. भगवत्पातिव्रत्यपालकानां सुमतिभद्रमतिरामानुजानां तीर्थोत्तमेषु मोक्षणम् । १००६
४०४. दानपात्रं, चक्रतीर्थे जाबालितीर्थे तुम्बुरुतीर्थे च पतिव्रतामाहात्म्यं तीर्थबलं च । १००९
४०५. वेंकटाद्रौ षट्तीर्थानि, लक्ष्मीनारायणसंहिताकथाकर्तृश्वेताख्यव्यासरूपपूजनम्, केशवाख्यविप्रस्य ब्रह्महत्यामोक्षणम्, गंगाख्यसुवर्णमुखर्या आनयनम्, अन्यतीर्थानि च । १०१२
४०६. वेंकटाद्रावगस्त्यशंखद्वारा वराहप्रादुर्भावः, तत्र तपसाऽञ्जन्या हनुमत्पुत्रप्राप्तिः, वेंकटाद्रेः पक्षयोर्जडीकरणम्, स्वर्णरेखानारायणहदयोः रेवताचले आगमनं च । १०१५
४०७. भृगोः पतिव्रतापत्नीख्यातिकृतमहेन्द्रादिजडीभावः, विष्णुकृतख्यातिनाशः, भृगुणा ख्यातिरुज्जीविता, शुक्रस्य तपश्चर्या, इन्द्रेण पुत्री जयन्ती तपोविघ्नार्थं शुक्राय दत्ता, तस्याः पुत्री देवयानी जाता, तपोनिरोधः, असुराणां पराजयः, पातिव्रत्यमहिमा चेति । १०१८
४०८. ब्रह्मशापान्नारदस्य मृत्युः, उपबर्हणाख्यगन्धर्वजन्मनि पुनर्मृत्युः, तदा तत्पत्न्या मालावत्या पातिव्रत्यबलेन सविष्णुदेवानाहूय कालादीनाहूय च स्वपतिर्जीवित इत्यादिः । १०२१
४०९. अवीक्षिन्नृपस्य पत्न्या वीराया मरुत्तस्य पत्न्याः प्रभावत्याश्च पातिव्रत्यचमत्कारे राक्षसनाशः, रुद्रनाशसजीवनते चेति । १०२६
४१०. वशिष्ठस्य पुत्रशक्त्यादीनां राक्षसद्वारा नाशे शक्तिपत्न्या अदृश्यन्त्या शप्ताः कालरुद्रयमविश्वामित्रराक्षसाः शिलारूपाः शैला जाताः, ततः शक्त्यादयो ब्रह्माद्यैः कालादयस्त्वदृशन्त्या सूक्ष्मरूपेण सजीवीकृताः, शक्तिपुत्रः पराशरो जातः । १०२९
४११. त्रिशंकोः पद्मावतीराज्ञ्यामम्बरीषोत्पत्तिः, तस्य श्रीमतीनामदुहितुर्विवाहे नारदपर्वतयोः वानरमुखतात्मकपराभवः, विष्णोः पत्नीरूपायाः श्रीमत्या वैकुण्ठप्राप्तिः, पद्मावत्याः श्रीमत्याश्च पातिव्रत्यादिबलमिति । १०३०
४१२. अधर्मपुत्रदुःसहस्य दरिद्रताबुभुक्षाकलहामलिनताख्यानां पतिव्रतापत्नीनां सपतिकनिवासस्थानादिः । १०३३
४१३. दासीकिंकरीपण्यस्त्रीपतिशून्यानां दानधर्मभगवत्पातिव्रत्यादिः । १०३६
४१४. शंकरादिपरम्परोपदिष्टं दिव्यपातिव्रत्यम् परमात्मनि श्रीकृष्णस्वामिनिबोध्यम् । १०३९
४१५. पतिव्रतायाः पत्यात्मकहर्याराधनविज्ञानम् । १०४३
४१६. नागलक्ष्म्याः ज्योतिष्मत्यास्तपसा पातिव्रत्यपरायणाया देवव्रातैः प्रलोभिताया अपि रेवतीरूपाया बलदेवेनैव विवाहिताया वृत्तान्ते शापप्रतापादिकथनम्। १०४४
४१७. श्रीकृष्णनारायणात् लक्ष्मीप्रभृतिनैकसतीनां प्राविर्भावादिः । १०४७
४१८. श्रीकृष्णनारायणस्याऽसंख्यपतिव्रतापत्नीनां निर्देशादिः । १०५०
४१९. श्रीकम्भरालक्ष्मीगोपालकृष्णयोस्तपश्चर्यार्थप्रयाणे कम्भरायाः पातिव्रत्यबलेन सहयानं तपसि भगवद्दर्शनं युगेयुगे पुत्ररूपो भविष्यामीति वरदानादि चेति । १०५२
४२०. चतुर्युगधर्माणां निरूपणम् । १०५५
४२१. पातिव्रत्येन प्रयागे भरद्वाजपत्न्या त्रिवेण्या भरतार्थं नवीनस्वर्गरचना कृता । १०६०
४२२. गोलोकाद् ब्रह्मप्रियापम्पासख्योः राधिकारोषाद् भुव्यवतरणं, रामचन्द्रयोगेन शबरीपम्पयोः पुनर्गोलोकप्राप्तिः, पातिव्रत्यं चेति । १०६३
४२३. गोलोकाद् ऋषभदेववंशे चित्रलेखादास्याः प्राविर्भावः, तत्र बर्करूपसमुद्रमोहः, बर्करीमुखता, महीसागरसंगमे तीर्थे चमत्काराः, कुमारिकाखण्डादिप्रसिद्धिः, तस्या मञ्जुलारूपायाः श्रीकृष्णनारायणप्राप्तिश्च, हरिपातिव्रत्यपरायणता चेति । १०६६
४२४. सौराष्ट्रे भिक्षुपत्न्याः कलहाया अपातिव्रत्यपापेन वल्गुलीगर्दभीसूकरीबिडालीप्रेताराक्षसीत्वं धर्मदत्तविप्रद्वारा नामजपतुलसीदलादिना च
पापनाशे तस्या मोक्षश्चेत्यादिः । १०६८
४२५. हरौ पातिव्रत्येन चोलराजविष्णुदासयोः सुशील-पुण्यशीलनामकविष्णुपार्षदभवनम्, सौराष्ट्रीयकलहायाः कैकेयीरूपता, धर्मदत्तस्य दशरथजन्मादि च । १०७१
४२६. गोकुलकन्यकानां श्रीकृष्णनारायणपातिव्रत्यपराणां श्रीकृष्णनारायणपतिप्राप्तिरित्यादिः । १०७४
४२७. गोकुलीयगोपीनां द्वारिकाऽऽगमनोत्तरं रैवताद्रौ श्रीकृष्णाय द्वादशोत्तरशतविधभोजनभोगदानं, सौराष्ट्रादौ सर्वत्रप्राकट्यवचनं श्रीकृष्णनारायणस्य पातिव्रत्येन पुनः प्राप्तिश्चेति । १०७७
४२८. वीरबाहोः कान्तिमत्याश्च दम्पत्योः पातिव्रत्ये विप्रशूद्रनृपजन्मत्रयोत्तरं भारद्वाजेन मुक्तिरभिहितेति । १०८०
४२९. कालिन्द्या उद्धवस्य च पातिव्रत्येनाऽन्यासां कृष्णपत्नीनामात्मपातिव्रत्यदार्ढ्यप्राप्तिरिति । १०८२
४३० सौराष्ट्रे पञ्चालदेशीय(दादक)दानकनृपतेस्तलश्यामयात्रायां सिहरूपर्षिधाते जातब्रह्महत्यायाः त्रीतमुनिसेवया नाशोत्तरमागतयमदूतानां भगवत्पार्षदद्वारा निवारणं, ततो भजनेन नारकिणां मोक्षणं, दादकस्य ( दानकस्य) राधालक्ष्मीनारायणाशीर्वादः, तद्दुर्गे जीवन्तीलावण्यवत्त्योरंशतया राधालक्ष्म्योर्निवासो हरेरपि दुर्गक्षेत्रे निवासस्तीर्थरूपकारिता चेत्यादि । १०८४
४३१. दुर्वाससः शिष्यस्य कृष्णपातिव्रत्यकथापरायणस्य सत्यव्रतनामकस्यैकदिवसीयसंहिताकथापुण्यदानेन तपोव्रतस्य पिशाचत्वमोक्षणं धामाऽभिगमनं च, सत्यव्रतस्य कथाकालेऽनुपस्थितौ भगवान् सत्यव्रतरूपधृक् कथामवाचयदिति । १०८८
४३२. सौराष्ट्रे पञ्चालदेशीयहेमन्तनृपतेः प्राक्कृतकर्मभिः राज्यादिनाशः, गुरूपदिष्टश्रीकृष्णनारायणपातिव्रत्यदास्यधर्मेण पुना राज्यप्राप्तिः, श्रीहरिदर्शनमुक्त्यादिः । १०९१
४३३. पतिद्वेष्ट्र्याः काश्मीरीयद्राह्मण्याः शतजन्मशुनीत्वं ततः श्रीकृष्णनारायणपातिव्रत्यपरेण सौवीरदेशीयविप्रेण शुन्याः प्रमोक्षणं देवीत्वं च,
ततो नरनारायणस्योरोरुर्वशीत्वमिति । १०९५
४३४. विधूमवसोरलम्बुषाऽप्सरसश्च ब्रह्मणो वचनात् पृथिव्यां सहस्रानीकनामनृपत्वं, राज्ञीमृगावतीत्वं च, जमदग्नेः शिष्यता, कृष्णकान्तपातिव्रत्येन पुनः स्वर्गब्रह्मलोकप्राप्तिश्चेति । १०९८
४३५ गालवर्षिकन्यायाः कृतावलेहनेन सुदर्शनविद्याधरस्य मानुषजन्मोत्तरं वेतालत्वं काशीराजद्वारा गालवकन्यायाः कृष्णपातिव्रत्यबलेन
मोक्षणं चेत्यादि। । ११०१
४३६. महालक्ष्म्या अनेकाऽवतारेषु जरत्कार्वीपतिव्रतायाः स्वपतिजरत्कारोस्तपसे प्रस्थाने कैलासे वास आस्तीकाख्यपुत्रप्राप्तिश्चेति । ११०४
४३७ मनोजवनृपतेर्नास्तिकत्वेन गोलभद्वारा राज्यादिनाशः, पराशरोक्तमन्त्रहवनादिभक्त्या तत्स्त्रीसुमित्रायाः पातिव्रत्येन हवनाद्युत्थितदिव्यसैन्यद्वारा पुनः राज्यप्राप्तिर्मोक्षश्चेति । ११०७
४३८. पुण्यनिधिनृपतेः सेतुबन्धरामेश्वरे यज्ञकरणेन पुत्रीरूपेण लक्ष्मीप्राप्तिः, लक्ष्मीकृतपरीक्षणे परमभागवतसभार्यकनृपतेर्नारायणानुग्रहो ब्राह्मणरूपेणाऽऽगमनं दिव्यदर्शनं, वैकुण्ठप्राप्तिश्चेत्यादि । १११०
४३९. धर्मारण्ये धर्मस्य तपस्याभंगार्थम् आगताया इन्द्रप्रेषितवर्धिन्या अप्सरसः धर्मकृतपातिव्रत्यबोधेन श्रीकृष्णनारायणस्वामिपातिव्रत्येन मुक्तिरित्यादि । १११३
४४०. धर्मारण्ये श्रीकृष्णदासीनां पतिव्रतानां गान्धर्वीभूतानां कुलदेवीमण्डलत्वम्, तथा विप्रादीनां गोत्रप्रवरादिः, देवीकृतो लोलजिह्वराक्षसनाशः, योगिनीनां स्थापना, धर्मदेवकृतयज्ञश्चेति । १११६
४४१. गालवप्रदर्शितानां स्त्रीमोक्षप्रदसरलोपायानां मध्ये तुलस्यादिविविधवृक्षाणां देवताद्यवतारत्वं तत्पूजनादिना मोक्षश्चेति । १११९
४४२. सुयज्ञनृपतेः राजसूयाऽन्ते असत्कृतसुतपोविप्रकृतशापः, पुनस्तत्कृतकृष्णपतिव्रतोपदेशेऽतिथि महिमा, षोडशविधकृतघ्नता, ऋषिकृतो-
पदेशश्चेत्यादिः । ११२३
४४३. सुयज्ञस्य नृपतेः सुतपःऋषिकृतपत्नीव्रतधर्मोपदेशादिः । ११२६
४४४. पत्नीव्रतपालकं सुयज्ञं नृपं रासेश्वरीं पतिव्रतां पत्नीं च विमाने नीत्वा राधा गोलोकं ययौ, पत्नीव्रतमाहात्म्यं चेति । ११२९
४४५ चन्द्रकृतबृहस्पतिपत्नीपतिव्रताताराऽपहरणं, भयाच्चन्द्रस्य शुक्राचार्यशरणगमनम्, शुद्धता द्वयोर्दर्शिता, बृहस्पतेरुतथ्याख्याऽनुजस्त्रीहरणस्य फलमिदम्, ताराप्राप्त्यर्थं ब्रह्मविष्णुमहेशेन्द्रबृहस्पतीनां मन्त्रणा चेति । १३०१
४४६. देवैः शुक्रं गत्वा ताराया बृहस्पतयेऽर्पणम्, बुधजन्म, आपत्समाः स्त्रीधर्माः शुद्धिश्च, पातिव्रत्येऽदूषणानां प्रदर्शनं चेति । ११३९
४४७. दाशार्हराज्ञः पाप्यवस्थायां कृष्णपातिव्रत्यपरायणपत्न्याः स्पर्शेऽपि वह्निदाहः, ततः कृष्णमन्त्रग्रहणे पापदाहे शुद्ध्युत्तरं स्पर्शयोग्यतेति । ११३७
४४८. चन्द्रांगदराज्ञः कृष्णपतिव्रतया सीमन्तिनीनाम्न्या पतिव्रतया पातिव्रत्यबलचमत्कारैः यमुनामग्नः पतिः पाताले नागकन्याभिर्नीतोऽपि पुनः प्राप्त इत्यादि । ११४०
४४९. सारस्वतविप्रस्य सोमवान्नामकसुतस्य विवाहव्ययार्थं विदर्भराजतो धनेच्छया गतस्य कन्यावेषेणभिक्षुकस्यसोमवतः पतिव्रतयासीमन्तिन्या कन्यां मत्वा पूजितस्य सोमवतीकन्यारूपता, तत्पितुः सारस्वतस्य पुत्रान्तरप्राप्तिश्चेत्यादिः । ११४३
४५०. पार्वत्याः पुण्यकव्रते शंभुदक्षिणानिमित्तकपातिव्रत्यबलं संवादो गणेशपुत्रप्राप्तिश्चेत्यादिः । ११४५
४५१. शबरदम्पतीकृतशिवपूजार्थं पतिव्रताशबरीचिताभस्मार्पणे शबर्याः पुनर्जीवनमित्यादि । ११४८
४५२. आनर्तदेशे चमत्कारपुरीयशारदाया वैधव्ये साधोराशीर्वादेन पुनः कृष्णात्मकविप्ररूपपतितः सौभाग्यं पुत्रलाभो जनानां विश्वासार्थविप्ररूपकृष्णदर्शनं गोलोकप्राप्तिश्चेति पातिव्रत्यचमत्काराः । ११५१
४५३. वारवनितायाः सर्वस्वार्पणभक्त्या शिवाऽच्युतौ भृत्यवणिजौ भूत्वा पातिव्रत्याऽनलपरीक्षां चक्रतुः, मोक्षं प्रददतुश्चेति । ११५४
४५४. पातिव्रत्यपराया बन्दुलाया विदुराख्यविप्रस्य स्वस्वामिनः आज्ञापालने व्यवायस्याऽदोषत्वे भगवत्कथाप्राप्तिलाभेन भगवद्धामप्राप्तिरिति । ११५७
४५५. विन्ध्याद्रिणा वर्धमानेन सूर्यमार्गाऽवरोधे देवानामगस्तिमुनिं प्रतिगमनं लोपामुद्रायाः पातिव्रत्यधर्मवर्णनं चेति । ११५९
४९६. विन्ध्याचलस्याऽगस्त्येन कृतनिम्ननिरोधः, अगस्त्यस्य महालक्ष्मीदर्शनं, स्तोत्रम्, तीर्थविवेचनविविधता, तीर्थप्रशंसा, सतीनामप्सरसां लोकाः, अप्सरोभावप्राप्तिकारणानि, काशीस्थदेवीभिर्लोपामुद्राऽगस्त्ययोः काशीं प्रत्यानयनम् । ११६२
४५७. कामधेनुहरणमिषेण जमदग्निनाशः, रेणुकायाः सतीत्वं, पर्शुरामस्य शंकरात् श्रीकृष्णमन्त्रकवचस्तोत्रप्राप्तिः, स्वप्ने जागरणे पर्शुरामस्य शकुनानि, सहस्राऽर्जुनस्याऽपशकुनानि, पतिव्रताया मनोरमायाः पातिव्रत्येन योगरीत्या सतीत्वं, रणाऽऽगमश्चेति । ११६५
४५८. पर्शुरामेण सह युद्धे मनोरमया दिव्यया पतिव्रतया सहस्राऽर्जुनो रक्षितः, लक्ष्मीकवचवियोगे मनोरमावियोगस्तोऽर्जुनस्य मरणं, गणेशस्यैकदन्तत्वं चेति । ११६९
४५९. विश्वानरविप्रस्य पुत्रस्य गृहपत्याख्यस्य तपसा चिरजीवित्वं, मातुः पातिव्रत्यबलेन इन्द्रकृतवज्रद्वारकमृत्युर्विघ्नविनाशश्चेत्यादिः । ११७३
४६०. आनन्दवनक्षेत्रे ज्ञानोदमहिमनि सुशीलायाः साध्वीव्रतस्थायाः गान्धर्वविवाहोत्तरं दम्पत्योर्जन्मान्तरे राज्यप्राप्तिः पातिव्रत्यप्रभावेण मोक्षणं चेत्यादि । ११७६
४६१. स्त्रीपावित्र्य-स्त्रीतनुस्थशुभाऽशुभसूचकरेखाचिह्नाऽऽवर्त्ताऽङ्गप्रत्यङ्गादिफलानि । ११७८
४६२. द्रौपद्याः सतीत्वेन पातिव्रत्यबलेन च वनेऽभोजनकालाऽऽगतसशिष्यदुर्वाससो द्रौपदीरक्षणं तान्दूलपत्रादनं कृष्णकृतमित्यादि । ११८२
४६३. कश्यपात् कद्रूप्रजाः सर्पाः, विनतायामुलुकस्याऽरुणस्य गरुडस्योत्पत्तिः, गरुडेन भक्षिताः सविप्रशबरा उद्वमिताः, विष्णुभुजपललं भक्षितम्, विष्णोर्वाहनं वरदानं चेत्यादि । ११८५
४६४. कद्रूविनतयोः सूर्याश्वस्य कर्बुरत्वं श्वैत्यं वेति तत्राऽसत्यपक्षस्यदासीत्वमितिपणे अश्वे सर्पवल्गनकृतकद्रूशाठ्येन विनताया दासीत्वस्य गरुडेन प्रमार्जनं कृतमित्यादि । ११८७
४६५. काशीनृपतेर्दिवोदासस्य पत्न्या लीलावत्याः दिव्यपातिव्रत्यचमत्कारेण श्रीकृष्णनारायणस्वामिचरणदास्यप्राप्त्यादिकम् । ११९०
४६६. वेदशिरसः ऋषेः शुचिनाम्न्यप्सरसि जाताया धूतपापाख्यकन्यायाः धर्मदेवपतिप्राप्त्या मूर्तिदेवीत्वं, पञ्चनदे संहिताकथाप्रसंगे पातिव्रत्यबलेन पञ्चाशत्क्रोशेषु नगररचना, देवादिभूपादिमानवादीनामागमः, यज्ञोऽवभृथं च, नूत्ननगरस्मृद्धितिरोभावचमत्काराश्चेति । ११९२
४६७. राधिकामातुः कलावत्या वृषभानोः पत्न्याः प्राग्भवे सुचन्द्रपत्न्याः कलावत्यास्तस्याः पातिव्रत्येन पत्युस्तपसा च दम्पत्योर्वृषभानुकला-
वतीरूपेण यमुनातटे जन्म, तयोः पुत्री राधिका कृष्णजन्मोत्सवे गोदुग्धैः कृष्णं स्नपयामासेत्यादि । ११९५
४६८. कलावतीनर्तक्याः शंकरद्वारा कृष्णपतिव्रता- धर्मेण तिसृभिः सखीभिः सह जन्मान्तरे गान्ध- र्वीत्वं, कृष्णेन विवाह्य च गोलोकप्राप्तिरिति । ११९७
४६९. सप्तर्षिपत्नीनां वह्निना भोगेन शापाद् विप्रपत्नीत्वे श्रीकृष्णनारायणपातिव्रत्येन यज्ञे यमीतटे श्रीकृष्णादिबालकानां वत्सचाराणां भोजनदानेन मोक्षणमित्यादि । १२००
४७०. यमुनाह्रदस्थकालीयसर्पस्य पतिव्रतायाः सुरसानागिन्या भगवत्प्राप्तिः, पतिसौभाग्यसातत्यं, नागभक्षकगरुडस्य सौभरिशापात् यमुनाह्रदे सर्पस्य निर्भयता, पश्चाद्रमणके वास इत्यादि । १२०३
४७१. मण्डूक्याः शिवप्रसादाऽदने मरणोत्तरं गान्धर्वीत्वं शिवपातिव्रत्येन शिवालये गायन्त्यास्तस्या माधव्या मोक्ष इत्यादिः । १२०५
४७२. पारावतदम्पत्यौ शिवमन्दिराश्रयेण विद्याधरजन्म ललभतुः, परिमलालयविद्याधरस्य रत्नावलीप्रभावतीकलावतीपत्नीत्रयम्, कार्तिककृष्णा-
ष्टमीव्रतेन कृष्णपातिव्रत्येन चत्वारोऽपि ते मुक्तिं जग्मुरिति । १२०६
४७३. सूर्यपुत्रस्य तपसा धर्मराजत्वं, कीरबालानां सार्वज्ञ्यं, पौलाम्या इन्द्रपत्नीत्वं, तेषां च वैष्णवत्वं, ततो मुक्तिः, मनोरथव्रतादि चेति । १२०९
४७४. अमित्रजिन्नृपतेर्नारदस्य कृपया पतिव्रतास्त्रीप्राप्तिः, तया मलयगन्धिन्या भार्यया काश्यामभीष्टतृतीयाव्रतेन वीरवीरो महावैष्णवः सुतः प्राप्तः, पतिव्रतया सहितस्य राज्ञो गोलोके मुक्तिरिति । १२१२
४७५. दुर्वाससः और्वकन्यया कदल्या सह शतगालीसहनपूर्वकप्रतिज्ञया विवाहस्ततः पातिव्रत्यात्मकतद्धर्मनिरूपणं, विंशतिपुत्रपुत्रीमत्त्वम्, क्रोधेनाऽतिक्रामन्त्याः कदल्याः ऋषिशापेन भस्मता, कदल्याः स्तुतिः, जनार्दनागमश्चेति । १२१४
४७६. दुर्वाससः बटुविप्रात्मकनारायणदर्शनम्, कदल्याः कदलीवृक्षत्वं, दुर्वाससः कर्दमात्मकदुर्वासत्वं, और्वस्य शापेनाऽम्बरीषाऽपराधजन्यमहद्भयाऽऽगमः, पातिव्रत्यदार्ढ्यं, वसुदेवसुतया एकानंशया दुर्वाससो विवाहश्चेति । १२१७
४७७. त्वष्टुः पुत्रस्य गुरुभक्त्या शंभुवरेण कलाकौशल्यं श्रीकृष्णनारायणभक्त्या चतुष्षष्टिकलात्मकपत्नीलाभः, तासां पातिव्रत्यं चेति । १२२०
४७८. व्यासस्य काश्यां भिक्षाया अलाभे शापस्ततः पार्वतीकृताऽतिथिसत्कारः, शंभुना व्यासस्य बहिर्वासकरणम् , व्यासेन सरस्वत्याद्याहृतम्, काशीप्रजाया मूकता, शंभुर्गत्वा व्यासादीन् आनिनाय, मूकतानिवृत्तिः, पूर्णिमायां व्यासतीर्थं
कर्तव्यमिति च । १२२२
४७९. अग्निशर्मणः पातिव्रत्यतपसा वाल्मीकित्वं, सर्वज्ञत्वं, मुक्तिश्च, सप्तर्षियोगाद् ऋषित्वम्, गोपालधेनुरूपेण कृष्णदर्शनं चेत्यादि । १२२३
४८०. अवन्तीयात्रायां लक्ष्मणस्य मनःपरिवर्तनोत्तरं भुवि तत्र घोरखनकराक्षसवासेन गोपालकृष्णकृत्तन्नाशेन च शापितभूमितया लक्ष्मणमानसदुष्टता, सीतायाः पातिव्रत्यं चेत्यादि । १२२५
४८१. सप्तर्षिपत्नीनां कार्तिकेयप्रसंगेनाऽनलस्पर्शदोषजन्यपापशान्त्यर्थम् ऋषिपञ्चमीव्रतप्रदर्शनम् पातिव्रत्यमहिमा चेति । १२२७
४८२. पराशराद् व्यासस्य जन्म, मत्स्यगन्धाया जन्मवृत्तान्तः, व्यासस्य तीर्थभ्रमणं, नर्मदातीरे वासः, नर्मदायाः पातिव्रत्यं चेत्यादि । १२२९
४८३. अत्रेः पत्न्या अनसूयया तपसा ब्रह्मविष्णुमहेशाः सोमदत्तदुर्वाससः पुत्रा लब्धाः, पातिव्रत्यबलं चेत्यादि । १२३१
४८४. रोहिण्याः कुमुदायास्तपः, पुरुहुताया जाबालिपत्न्या नर्मदास्नानेन मोक्षणं, पर्वणि ऋतुदानाऽदानं धर्म इत्यादिः । १२३४
४८५. ऋष्यशृंगस्य मृगरूपस्य काशीराजचित्रसेनशरेण मृत्यूत्तरं तत्पितृदीर्घतपःप्रभृतीनां नर्मदाजलेऽस्थिनिक्षेपामुक्तिरिति । १२३६
४८६. मेनकां प्रति विश्वकर्मपृष्टपातिव्रत्यप्रश्नेऽप्सरसामन्यधर्मपरत्वे परस्परशापेन जरा, नागमतीनद्यां स्नानेन शापनिवारणं चेत्यादि । तथा इन्द्रस्य गर्वनाशार्थं प्रकृतेः शापः, गुरोः शापः गौतमशापश्च, गुरोरपमानाच्छापेन सम्पन्नाशः, वृत्रनाशः, ब्रह्महत्या, गुरोः कृपया ब्रह्महत्यानाशः, नवीनप्रासादनिर्माणं, विश्वकर्मनिरोधः, नारायणस्य विप्रबटुरूपेणाऽऽगमनं, पिपीलिकासमूहदर्शनं, लोमशस्याऽऽगमनं,
तदायुर्लोमक्षरणे निश्चित्य इन्द्रस्य वैराग्यं, विश्वकर्मणो निर्बन्धनता, इन्द्रस्य गर्वनाशश्चेति । १२३७
४८७. नागेषु धन्वन्तरेर्मन्त्रप्रयोगाः, मनसादेव्या मन्त्रप्रयोगैर्धन्वन्तरेर्गर्वो नाशितश्चेति । १२४२
४८८ रासमण्डले गोपीभिः सह कामभावेन कृष्णस्य चरित्रम्, देवलस्य रंभायाः शापेनाऽष्टावक्रत्वम्, तस्य मोक्षणं चेत्यादि । १२४३
४८९. चमत्कारपुरीयकलशाख्यनृपस्य दुर्वाससः शापाद् व्याघ्रत्वं, नन्दिनीधेनुयोगाच्छिवदर्शनान्मुक्तिः, सत्यव्रतस्य प्रभावश्चेति । १२७५
४९०. सौराष्ट्रीयवृकराज्ञः शर्मवत्याः विषकन्यायाः पितृराज्यनाशोत्तरं तपः, पूर्वजन्मादिस्मृतिः, गौरीशंभ्वोराराधना, परीक्षा, वरदानं, शिवा-शिवदर्शनं, कैलासगमनं, ततो नारायणभक्त्या वैकुण्ठे मोक्षणं चेति । १२४७
४९१. सौराष्ट्रीयस्य विटंकपुरस्य कुष्ठिशराख्यविप्रस्य देवद्रव्यचौरस्य चमत्कारपुरे नागमतीनद्यां सूर्यग्रहतीर्थकरणात् सूर्यस्य नारायणस्य च दर्शनात् पतिव्रतासुधाम्नीपत्न्या सह मोक्ष इत्यादिः । १२५०
४९२. चमत्कारपुरीयविप्रकन्याया माधव्याः भगवतो भार्यात्वं, लक्ष्म्या अवताररूपायास्तस्याः शाण्डिलीत्वं, नारीणां ब्रह्मचर्यव्रते शंकितस्य गरुडस्य पक्षयोः पतनं, शाण्डिल्याः प्रसादेन सपक्षत्वं, लक्ष्म्या अवतरणार्थं भगवत्कृताऽवमाननं चेत्यादि। १२५२
४९३. अश्वमुख्या माधव्याः गजमुख्यालक्ष्म्याश्च, तपोभिः कालान्तरे सुभद्रात्वं महालक्ष्मीत्वं चेत्यादि । १२५५
४९४. चमत्कारनृपतेः अम्बावृद्धाकन्ययोः तपोभिरम्बावृद्धापादुकापूजनकुमारिकावंशकृतमेवेति । १२५६
४९५. ज्येष्ठभ्रातरं विहायाऽनुजस्य राज्याभिषेके पापेन वृष्ट्यभावे विश्वामित्रहुतमांसस्पर्शभयेन दोषभीतस्य लीनस्य वह्नेरन्वेषकाणां देवानां सन्देश-प्रदगजशुकपुष्करमत्स्यकूर्मभेकानां वह्नेः शापाऽनुग्रहावित्यादि । १२५८
४९६. अजापालमहाराजस्य रोगाणामजामण्डलरूपेण निग्रहः, दशरथस्य शनिकृतरोहिणीशकटवेधनिरोधः, रामकृतप्रतिज्ञयावैकुण्ठगमनं चेत्यादि । १२६०
४९७. अष्टषष्टितीर्थानि, तदितराऽऽध्यात्मिकादितीर्था- नामपि प्रदर्शनम् । १२०३ ४९८. चमत्कारनृपतिभार्याया दमयन्त्या कृतरत्नस्वर्णभूषादिदानग्रहणेन व्योममार्गगामिब्राह्मणानां पतनं, विप्रशापेन दमयन्त्याः शिलात्वं, पुनर्मा-
धवीस्पर्शेन राज्ञीत्वं, नगरवासादि चेति । १२६५
४९९. भद्रिकाख्यब्राह्मण्याः शापेन नागमातुः रेवतीत्वं, तक्षकस्य मानुषत्वं, भद्रिकायाः कृष्णधवीस्पर्शेन भक्त्यामुक्तिश्चेति । १२६७
५०० सत्यसन्धनृपतेः कन्यायाः कर्णोत्पलायाः कमलांशायाः पतिमार्गणार्थं ब्रह्मलोकगमनं, ततः पृथिवीमागत्य तपसा कामदेवस्य प्रीत्याख्य-
पत्नीत्वं, द्वितीयरूपेण मोक्षणं चापीत्यादि । १२६८
५०१. शाण्डिल्यशिष्यस्य याज्ञवल्क्यस्य राजगृहे शुष्ककाष्ठेपल्लवीकरणता, विद्याप्रच्छर्दनम्, याज्ञवल्क्यस्य तत्पुत्रस्य कात्यायनस्य चमत्काराः, वास्तुपुरुषार्चनाख्यानादि चेति । १२७१
५०२. हारीतपत्न्यां पूर्णकलायां मोहितस्य कामदेवस्य कुष्ठित्वं, पूर्णकलायाः शिलात्वं, पुनरुद्धारः, दीर्घिकायाः पतिसेवापुण्येन सूर्यस्तम्भनं, पतिसहितायास्तस्या नवयौवनं मोक्षश्चेत्यादिः । १२७४
५०३. जाबालिना रंभाद्वारोत्पादितपुत्र्याः फलवत्याश्चित्रांगदगन्धर्वकृतभोगे पितृशापेन नग्नयोगिनीत्वं, पितुरपि समीपस्थायित्वं, ततस्तपसा मुक्तिः, पितृपुत्र्योः संवादश्चेतिं । शिखरे पद्मशिलायां वासश्चेति । १२७६
५०४. कृष्णद्वैपायनव्यासस्य शुक्यां शुककपिञ्जलौ सुतौ, कपिञ्जलस्य भरद्वाजस्तस्य तैत्तिरः सुतः, बालवयोगिवरदानात् कामरूपदेशे नराणां नारीसमसंख्याकोत्पत्तिरिति । १२७९
५०५. तिलोत्तमानिमित्तेन शंकरस्य पञ्चास्यत्वं, तिलोत्तमायाः पार्वतीशापः, नागमत्यां स्नानेन शापनिवृत्तिः । १२८२
५०६. विश्वामित्रस्योत्पत्तिः, विश्वामित्रवशिष्ठयोः कामधेनु निमित्तकक्लेशः, ऋचीकस्य गाधिसुतया श्यामकर्णाऽश्वविनिमयेन विवाहः, मातृपुत्र्योर्व्यत्यासेन पुत्रार्थचरुप्राशनम्, पौत्रयोर्व्यत्यासगुणाः, गाधेर्विश्वामित्रः, ऋचीकस्य जमदग्निः, विश्वामित्रस्य तपो ब्राह्मण्यं च, विश्वंसहः सुतः, विश्वामित्रप्रेरितशक्तिसहविश्वामित्रस्तंभनमित्यादि । १२८३
५०७. साभ्रमत्या उत्पत्तिः, याज्ञवल्क्यस्य भगिन्यां पिप्पलादोत्पत्तिः पिप्पलादचमत्कारादि शनैश्चरप्रजादि चेति । १२८७
५०८. काशीराजपत्न्या अमया कृतं पञ्चपिण्डिकागौरीव्रतं, तेन पुत्रसौभाग्यप्राप्तिः, लक्ष्मीत्वप्राप्तिश्चेति। १२९०
५०९. ब्रह्मणा यज्ञार्थं हाटकेश्वरक्षेत्रे नागमतीनद्यास्तीरे देवादिद्वारा ससामग्रीमण्डपादिरचनाकारिता, जाल्मरूपेण शंकरागमनम्, गायत्र्या
ब्राह्मणीजातीयतावृत्तान्तः, कपालानाम् अन्नपूर्णादेव्यात्मकत्वम्, शंकरस्य यज्ञे स्थानं चेति । १२९२
५१०. यज्ञे सनातनसुतस्य बटुरूपेण सर्पक्षेपणार्थमागमनम्, ततः श्रीकृष्णनारायणस्वामिनोऽतिथिरूपेण स्वगुर्वादिज्ञानप्रदानार्थम् आगमनम्,
ज्ञाननिरूपणं चेति । १२९५
५११. अतिथिप्रदत्तवरदानम्, पुलस्त्यपुत्रविश्वावसुना होमद्रव्यभक्षणाद् राक्षसो भवेति शापः, ततः पर्वतर्षिपुत्र्या उदुम्बर्या आगमनम्, क्रतौ पूजास्थानं च, ततः अष्टषष्टिमातृकागणाऽऽगमनं चेति । १२९९
५१२. अष्टषष्टिदेवीनां कुलदेवीत्वं यज्ञान्ताऽवभृथस्नानं यक्ष्मरोगागमनं, गायत्रीविरोधात् सावित्रीदत्तशापाः, गायत्रीकृतनिवारणानि, सर्वेषां स्वस्वलोकगमनं चेति । १३०२
५१३. चमत्कारपुरीयराजपुत्रीविप्रपुत्र्योस्तपसा विवाहकाले सिंहव्याघ्ररूपधर्त्रीत्वं, ततो भर्तृयज्ञाश्रमवासः, ततो दुर्वहं तपः, ततो भर्तृयोगेन सह तयोः श्रीकृष्णनारायणप्राप्तिः गोलोकगमनं चेत्यादि । १३०५
५१४. गोलोके राधिकायाः शापात् नागलीलासख्या नागमतीनदीत्वं, यस्यां स्नानेन घूककर्णचाण्डालेन विवाहिताया ब्राह्मणकन्याया ब्राह्मणानां च शुद्धिर्जाता, ततो ब्राह्मणकन्या नागमतीनदी च दिव्यकन्यके भूत्वा श्रीकृष्णनारायणेन सह गोलोकं जग्मतुरित्यादि । १३०८
५१५. मोहिन्यप्सरो ब्रह्माणं वीक्ष्य मोहिता ब्रह्मणा तु न गृहीता, ततस्तं शशाप, ब्रह्मा नागनद्यां शुद्धः, त्यक्तदेहात् षण्ढानामुत्पत्तिः बहुचराहिंगुलाजदीक्षया मोक्षश्चेत्यादिः । १३१०
५१६ शंकरस्य गर्वहरणं, भक्त्युद्रेकता परमभागवतसर्वस्वार्पणधर्मवत्त्वं, सन्यासरूपधारित्वं, भगवत्प्रसादाशित्वं चेत्यादि । १३३३
५१७. अन्धकासुरस्य तत्पत्न्याश्च दुष्टस्वप्नाद्यपशकुनानि, इन्द्रस्य शुभशकुनानि, शंकरेण सहाऽन्धकस्य युद्धं चेत्यादि । १३१६
११८. अन्धकासुरः शंकरेण युद्धे स्वत्रिशूले रोपितो भृंगिरीटिगणः कृतः, वृकस्तत्पुत्रोऽपि शंकरेण सूदित इत्यादिः । १३२०
५१९. इन्द्रद्युम्नराज्ञः पृथिव्यां मार्कण्डेयबकर्षिघूकर्षि-गृध्रर्षिकमठर्षिकृतनवीनकीर्तित्वं, प्रागपराद्धजन्यबकादिजन्मानि, पुण्यकृतचिरजीवित्वादि चेति । १३२२
५२०. मानससरोवरस्थेन कच्छपेन स्वस्य शेषस्य च विष्णोः पार्षदत्वं कथितं, ततः कुंकुमवापिक्षेत्रे लोमशाश्रमेऽश्वपट्टसरोवरे वासः, आयुः, इन्द्रद्युम्नयज्ञाश्चेति । १३२५
५२१. कुंकुमवापीक्षेत्रे इन्द्रद्युम्नाय लोमशोक्तज्ञान-विज्ञानविभूतिसंभृतभगवन्महिमादिः, प्रियव्रतस्य मोक्षश्चेति । १३२७
५२२. नारदस्य श्वेतद्वीपे सावित्र्यां ज्ञानह्रासः, ततः सावित्रीप्रदवेदादिज्ञानं, बदर्यां प्रियव्रताय तत्कथनम्, प्रियव्रतस्य मोक्षः । १३३०
५२३. इन्द्रद्युम्नाय लोमशर्षिसमुपदिष्टब्राह्मीपराविद्यौपनिषदात्मस्मरगानि । १३३३
५२४. भगद्धाम्नि समयपरिचयः, जन्मग्रहणे दिव्यता, नैवेद्येऽभिपूरकता, लोमशस्य प्राग्वृत्तान्तः, मार्कण्डेयादिचिरञ्जीविनां ततः सौराष्ट्रादौ चिरवासश्चेत्यादिः । १३३८
५२५. कपिलेनाऽश्वशिरसे राज्ञे ज्ञानदाने संयमनद्विज-निष्ठुरकव्याधनिदर्शनेन कर्मणा सर्वसमर्पणात्मकेन मोक्षः प्रदर्शितः, कपिलस्य जैगीषव्यस्य चाऽनेकविभूतिरूपत्वं चेत्यादि । १३४०
५२६. काश्मीरनृपस्य वसोः प्राग्जन्म, मृगरूपब्रह्महत्याया भक्तिबलेन निःसृताया धर्मव्याधजन्मता, वसोस्ततो मुक्तिश्चेत्यादि । १३४३
५२७. विशालराज्ञो हरिभजनान्मुक्तिः, रैभ्यस्यापि तत्त्वज्ञानेन भक्त्या च मुक्तिः, गयायां रैभ्यस्य सनत्कुमारदर्शनम् उपदेशादि चेति । १३४६
५२८. आवट्याख्यऋषेः स्वप्नेऽनेकधामदर्शनोत्तरं श्रीकृष्णनारायणस्वामिना सुस्वप्नानां फलान्यभिहितानि, श्रुत्वाऽऽवट्यो मुक्तिं जगामेत्यादि । १३४८
५२९. क्वचित् सूर्यचन्द्रयोरदर्शने शापवर्णनं दुष्टस्वप्नानि, तत्फलतन्निवारणादीनि च । १३५१
५३०. मनुष्याणां कर्तव्यं, व्याधकन्यामिषेण हरेरनैवेद्यभोजिनां व्याधत्वम्, अभक्ष्यवर्णनम्, पापफलात्मककर्मविपाकजन्मादिदर्शनं चेत्यादि । १३५४
५३१. कुंकुमवापिकाक्षेत्रे लोमशाश्रमेऽनादिश्रीकृष्णनारायणस्य जयन्त्यां तिथौ धन्यवादाऽऽशीर्वादप्रदानार्थमागतेन सनत्कुमारेण क्रमशो धन्य-
वादार्हपराकाष्ठाश्रयाऽनादिश्रीकृष्णनारायणस्वामिनः ऋषिव्राताय कथितमाहात्म्यादि । १३५७
५३२. दुर्जयस्य त्रिलोकराज्यं, गौरमुखाश्रमे श्रीकृष्णनारायणाऽर्पितचिन्तामणिना सुस्वागतं, चिन्तामण्यर्थं युद्धम्, दुर्जयादिविनाशः, गौरमुखस्य प्रभासागमनं, मुक्तिश्चेत्यादि । १३५९
५३३. प्रजापालराज्ञो महातपानामकर्षिप्रदत्तशारीर-तत्त्वात्मकवेदान्तपुरुषज्ञानोपासनादिः । १३६३
५३४. सौराष्ट्रे कुंकुमवापीतीर्थक्षेत्रमहिम्नः पार्वतीं प्रति शंकरकृतं वर्णनमिति । १३६६
५३५. कैलासे ध्यानस्थशंकरात् ज्ञात्वा कुंकुमवापीक्षेत्रं जिगमिषुसगणशंकरपार्वतीशक्तिसतीदेवदेवीतीर्थदिव्येश्वरादिसमस्तविभूतिदेहिभिः समागत्योर्जकृष्णाष्टमीजयन्त्यां श्रीकृष्णनारायणस्वाम्यर्चनं कृतमित्यादि । १३६९
५३६. शंकरादीनां रैवततीर्थे (गिरनारपर्वते), सोमनाथतीर्थे च यात्राकरणं, प्रभासनामनिरुक्तिः, अर्कवृक्षात्मकताऽर्कस्य, सोमनाथपूजा, दानादिमहिमा चेत्यादिः । १३७२
५३७. वह्नितीर्थ, समुद्रपावित्र्यं, दधीचप्लक्षकवडवानलसरस्वतीवृत्तान्तः, पञ्चस्रोतोमयी सरस्वती, पिप्पलद्रुमकूष्माण्डतीर्थं, वाडवाग्निः, समुद्रे कंकणदानेनाऽऽभीर्या राज्ञीत्वं, दानादिमहिमा चेत्यादिः । १३७९
५३८. अनेकाऽनेकप्रसिद्धतीर्थानि, ब्रह्मा भिन्नस्थलेषु भिन्नो भिन्नो वर्णितः, वसवोऽष्टौ, सूर्याः, रुद्राः, चतुःषष्टियोगिन्यश्च कथिताः । १३७८
५३९. प्रभासक्षेत्रे तीर्थव्रातवर्णनेऽक्षमालातीर्थं सिद्धलक्ष्मीतीर्थमरुन्धतीपूर्वजन्मवृत्तान्तः, चित्रायाः पूर्वजन्माख्यानं, शीतलायास्तीर्थं, तलस्वामितीर्थाख्यानं, भूतमातृतीर्थाख्यानं, भूतानामुत्पत्यादिनिवासस्थानानि, अब्रिक्तदेशादौ सीदमानानां वासाश्चेति । १३८१
५४०. प्रभासचतुष्टयतीर्थानि, तीर्थव्रातेषु सारस्वततीर्थं, कृतस्मरतीर्थं सरस्वतीतीर्थं, कुतुपसमपादपः, दौहित्रादीनामर्थाः, मार्कण्डतीर्थं, कृष्णकुलविलयतीर्थं, अपशकुनानि, कार्ष्णस्थलीतीर्थं सत्रतीर्थं वृषादर्भिकृतानि गुप्तसुवर्णगर्भोदुम्बराणि, अंगिरसो दानाऽग्रहणम्, अन्यान्यतीर्थान्यपि च । १३८५
५४१. नन्दराज्ञः सारथेः मानससरसि ब्रह्मकमलदर्शने ग्रहणार्थं गतस्य मुक्तिः, नन्दराज्ञो मनसा ग्रहणपापस्य फलं कृष्णवर्णता, नन्दीतीर्थस्नानाच्छुभ्रवर्णता, त्रितविप्रस्य भ्रातृद्वयकृतकूपनिक्षेपस्तत्र जलयज्ञे देवताभिः कृतोद्धारस्तपश्चर्या मुक्तिश्च त्रिततीर्थं चेत्यादि । १३८८
५४२. आरुणेः सन्निधौ सिंहस्य मुक्तिः, व्याधकृता विप्ररक्षा तपश्चर्या च, वैदिकस्य दीर्घबाहोर्विप्राणामवमानात् सिंहो भवेति शापः, तपस्यतो व्याधस्य प्रार्थनयाऽऽरुणेः पादौ प्रक्षालितवती नागमतीनदी, व्याधस्य पावित्र्यं सत्यतपानामऋषित्वं, षटपंचाशद्भोगैः सन्मानितदुर्वाससा कृतज्ञानोपदेशश्चेति । १३९०
५४३. पञ्चदशतिथीनां तत्तद्देवानां च सहेतुकाऽऽदिवृत्तान्तनिरूपणमिति । १३९३ ५४४. न्यंकुमत्यां देविकायां च नद्यां देवराततीर्थाऽष्टोत्तरशतनामसहितसूर्यालयतीर्थानि, च्यवनतीर्थं चेति तत्तदाख्यानसहितानीति । १३९५
५४५. अगस्त्याश्रमस्य आतापीवातापील्वलविनाशस्य वामदेवनृगाश्रमकुबेरतीर्थानां ऋतुध्वजमोक्षस्य देवकुलऋषितोयादितीर्थानां सोपाख्यान-
वर्णनानि । १३९८
५४६. विशालनृपकृतविशालातीर्थभद्राश्वनृपकृतभद्रेशतीर्थाऽगस्त्यकृतोपदेशश्चेत्यादिः । १४००
५४७. भद्राश्वराज्ञेऽगस्त्यप्रदत्ताऽऽत्मज्ञानगुरुमहिमादिः । १४०३
५४८. गुप्तप्रयागतीर्थशृगालेश्वरक्षेत्राऽपरनारायणतीर्थ-त्रिनेत्रतीर्थोन्नतनगरस्थानेश्वरादिनैकतीर्थानि, बालशब्दतात्पर्यार्थश्चेति । १४०६
५४९. उन्नतक्षेत्रे दुर्गादित्यगोष्पदतीर्थवेननृपशुद्धि-मुक्तिनारायणगृहतीर्थजालेश्वरतीर्थनाभागाऽऽपस्तम्बर्षिचरित्रादिवर्णनानि । १४०९
५५०. तुण्डीश्वरकपिलातीर्थाऽगस्त्यनारदचमत्कार-भीमनाथतीर्थभल्लक्षेत्ररैवततीर्थगजनृपमोक्षादीनां सोपाख्यानवर्णनानि । १४१३
५५१. शंकरादीनां द्वारिकाचमत्कारपुराऽर्बुदाचलादिगमनम् । गौतमसौदासोत्तंकवृत्तान्ताः, नागतीर्थमहिमा, वेणुनृपमोक्षः, अर्बुदानयनवृत्तान्त-
श्चेत्यादिः । १४१६
५५२. अगस्त्यस्य दिव्यताचिरजीवित्वादिप्राप्तिः,अर्बुदाचले रुद्रस्य चमत्कारः, सत्येतरयुगीयमानवानां त्रिदेवविषयकपरस्परद्रोहकारिणां संसारप्रवाहसजीवनतेत्यादि । १४१९
५५३. अर्बुदाचले शंकरकृतनारायणस्तुतिः, भद्रकर्णह्रदतीर्थं, केदारकुण्डं, मंकणकतीर्थं, कोटीश्वरतीर्थं, रूपतीर्थम्, अम्बरीषतीर्थम्, ऋषीकेशतीर्थं चेति सोपाख्यानं निरूपितानि । १४२२
५५४. अर्बुदे सिद्धतीर्थशुक्रतीर्थमणिकर्णतीर्थपंगुतीर्थयमतीर्थपुण्ड्रोदतीर्थश्रीमातृविन्ध्याचलीमं-
किपिण्डारकतीर्थरक्तोद्धारतीर्थपार्थातीर्थमुद्गलमांमुञ्चतीर्थादीनामुपाख्यानि । स्वर्गस्य गुणदोषनिरूपणं चेति । १४२५
५५५. अर्बुदे चण्डिकातीर्थजाह्नवीकुण्डाऽचलेश्वरभीम-तीर्थकुलसन्तारणतीर्थपर्शुरामतीर्थब्रह्मपदतीर्थत्रिपु-ष्करसावित्रीकुण्डनिमितीर्थादीनामुपाख्यानानि । १४२८
५५६ नर्मदां द्रष्टुं पार्वत्या आग्रहे तत्र गत्वा शंकरः प्राह-नर्मदाया ब्रह्मलोकादुदयाचलागमः, ततः ऋक्षाद्र्यागमः, ततो भूतलावतारः, ततो वेणु-तीर्थाऽनन्तपुरतीर्थादीतिहासेषु पुरूरवसो नृपस्य रेवावतारेण पित्रुद्धारादिवर्णनम् । १४३०
५५७. ऋक्षपर्वते मनुकृतयज्ञतीर्थं विष्णुब्रह्मकुण्डहंसतीर्थं त्रिसंगमो योगतीर्थम्, आप्सरसतीर्थं, दत्तात्रेयासंगमः, गांजालभेदतीर्थं, वालुकं पूर्णमनोरथतीर्थं, कन्यानर्मदासंगमः, मत्स्यासंगमः, नर्मदापुरं, जामदग्न्यतीर्थं चेत्यादीनि । १४३३
५५८ मत्स्यातापीसंगम कलहंसेश-बृहतीनर्मदासंगम-शिवनेत्रह्रद लक्षमेध सप्तसारस्वतादितीर्थानामितिहासचमत्काराः । १४३६
५५९. शाण्डिल्या कल्पगातीर्थ रन्तिदेवतीर्थ हरिकेशतीर्थाऽम्बरीषतीर्थ बिल्वाम्रकतीर्थ कुब्जातीर्थसालंकायनक्रतुतीर्थानां सचमत्कारेतिहासं निरूपणम् । १४३९
५६०. आरुणिशिष्यसत्यतपसो मोक्षः, मण्डपेश्वरतीर्थं, बादरायणशाकटायनयोः श्वमुखतानिवृत्तिः, नर्मदादन्तिवनिकासंगमः, रासभीनर्मदातीर्थ-वृत्तान्तः, करमर्दातीर्थं चेति सेतिहासानि कथितानि । १४४१
५६१. जालेश्वरतीर्थं, हिरण्यबाहुराज्ञो गर्दभतामुक्तिः, रेवाचरुकसम्भेदतीर्थम्, अमरकण्टकतीर्थम्, यज्ञपर्वतः, सुपर्णकथा, ओंकारतीर्थादीनि च । १४४४
५६२. कपिलारेवासंगमविश्रवातीर्थविष्णुपुरीचक्रतीर्थंदारुवन व्याघ्रेशतीर्थादीनां सेतिहासनिरूपणम् । १४४८
५६३. द्वादशरसादिधेनु कपिलाधेनु-दानादिविधिश्रवणं विनीताश्वेन राज्ञा कृतमिति । १४५०
५६४. कोटितीर्थं सूत्रवेष्टनं सूर्यपिंगललिंगादि, लक्ष्मीनारायणालयः, कावेरीपयोष्णीसोमगंगाचण्डावेगासंगमाः, चन्द्रसेनस्य चण्डालतामुक्तिः,
एरण्डीसंगमः, शल्याविशल्यासंगमः, धुन्धुमारस्य वाराहतामुक्तिः,गालवस्य वाजितामुक्तिरित्यादि। १४५४
५६५. सर्वेषां महाभागवतीक्रियाभिः लक्ष्मीकृतप्रश्नानुसारेण तदुत्तरकर्मनैष्कर्म्यात्मिकाभिः श्रीहरिधामवासादिकथनम् । १४५७
५६६. श्रीलक्ष्मीकृतानां विविधप्रश्नानां भक्तिकृज्जनगतिसमाधानादि । १४५९
५६७. दुःखभावः, सुखभावः, श्रीकृष्णनारायणपूजा, सर्वकर्मसमर्पणतादिफलं, जन्माभावश्चेत्यादयः । १४६३
५६८. विष्णोस्तीर्थरजोमाहात्म्यं, श्वेतद्वीपमुक्ताः, कार्तिक- मार्गशीर्षवैशाखादिद्वादशीषु कृतभगवत्फलं,
सर्वभूतप्राणिमात्रकृतस्तुत्यादिभिर्भगवत्प्राप्तिर्मुक्तिरित्यादिः । १४६५
५६९. कुवलयाश्वमुचुकुन्दविमानवैषम्ये हरिश्चन्द्रशशांकविमानवैषम्ये नर्मदाऽमरकण्टकमहात्म्याधिक्यादिकथनम् । १४६८
५७०. भगवत्कृतमायारचना, सोमशर्मविप्रस्य मायादर्शने निषादीस्त्रीत्वं द्वादशाऽपत्यमातृत्वं, पुनर्जलनिमज्जने विप्रत्वं, मोक्षणं, मायातीर्थमाहात्म्यं चेति । १४७१
५७१. कुब्जाम्रके हरिद्वारे भक्तमाहात्म्ये रैभ्यस्य चमत्कारः, नकुलसर्पिण्योः राजकुले जन्मोत्तरं मिथो वैरेण प्राग्जन्मस्थले गत्वा स्फुटीवचने मुक्तिश्चेति । १४७९
५७२. नार्मदे क्षेत्रेऽशोकवनिकायां मातंगाश्रमः, अंगारेश्वरः, सत्यधर्मस्य यज्ञे नकुलस्य स्वर्णरूपता, वीरणस्य मोक्षश्चेति । १४७८
५७३. सुवर्णद्वीपतीर्थं, विशोकानर्मदासंगमः, अशोकेश्वरे रविश्चन्द्रयज्ञे प्रेतोद्धारः, वागुरेवासंगमः, श्रीकृष्णनारायणतीर्थं चेति । १४८१
५७४. सहस्रयज्ञतीर्थशुक्लतीर्थद्वीपेश्वरतीर्थमेघनादतीर्थ-
दारुवनतीर्थकरंजेश्वरतीर्थजीवनतीर्थविश्वरूपारेवासंगमचंद्रावतीरेवासंगमहरिणेश्वरादिशूलभेदभृगुक्षेत्रादितीर्थानि । १४८४
५७५. कन्यादानं भागवतीदीक्षाविधानं गुद्धाकेशाख्यासुरस्य चक्रेण नाशोत्तरं तद्वसाऽसृक्प्रभृतीनां ताम्रधातुत्वमिति । १४८७
५७६. भगवत्पूजनेऽपराधानां प्रायश्चित्तादिशुद्धिः, शरीरान्तरयोन्यन्तरावाप्तिर्वा दण्डः, शंभोः श्मशानप्रियत्वाख्यानश्मशानवासिता चेत्यादिः । १४९७
५७७. वाराहतीर्थमहिम्ना शृगाल्या गृध्रस्य च मरणोत्तरं राजगृहे जन्म, वृत्तान्तप्रकाशोत्तरं, मस्तकरोगादिकारणकथने मुक्तिश्चेति । १४९३
५७८. गायमानस्य खञ्जरीटस्य मुक्तिः, वादयमानस्य नृत्यतो जाग्रतोगोदातुरन्नदातुर्जलदातुः सम्मार्जयितुर्लेपयितुर्गन्धपुष्पादिदातुर्धूपदीपसुनैवेद्यदातुर्जपयज्ञादिकर्तुश्च फलप्राप्त्यादिवर्णनम् । १४९५
५७९. आदित्येशतीर्थं लीनेश्वरतीर्थं गोपालेश्वरतीर्थं पराशरतीर्थं हनुमदीश्वरतीर्थं चेत्यादीनि सोपाख्यानि वर्णितानि । १४९८
५८०. सोमतीर्थे कण्ठस्य ब्रह्महत्यानाशः जलशायितीर्थे नलमेघदानवनाशः, चतुर्दशसहस्रकन्यानां श्रीकृष्णनारायणपत्नीत्वं, चन्द्रादित्यतीर्थम्, आसमुद्रान्ततीर्थानि, शंकरस्य कैलासगमनम्, अशुद्धनरनारीणां मोक्षोपायकथनमित्यादि । १५००
५८१. श्रीपुरुषोत्तमक्षेत्रे नीलमणिरूपनीलपर्वतकथा, रौहिणकुण्डतटे श्रीपुरुषोत्तममूर्तिः, काकस्य वेधसः पश्यतो मुक्तिः, यमराजस्य तत्राऽऽगमनं, लक्ष्मीकृतं नीलस्थलीयजीवानां यमदूताऽस्पर्शनं चेत्यादि । १५०३
५८२. मार्कण्डेयाय श्रीपुरुषोत्तमक्षेत्रस्य शाश्वतिकताप्रदर्शनम्, तत्क्षेत्रपरीणाहः, शंभोरष्टरूपैः पार्वत्याश्चाऽष्टरूपैः क्षेत्रपालत्वादि, वटस्य दिव्यता, इन्द्रद्युम्नेन भाविमूर्तिप्रतिष्ठापनादि चेति । १५०६
५८३. श्रीजगन्नाथपुर्यां विप्रक्षत्रिययोः भगवत्साक्षात्कारोत्तरं मुक्तिरित्यादि । १५०९ ५८४. इन्द्रद्युम्नस्य साक्षाच्छ्रीपुरुषोत्तमदर्शनम्, पुरोहितभ्रातुर्विद्यापतेः जगन्नाथक्षेत्रे प्रेषणम्, आगत्य यथाविलोकनतद्वर्णनम्, झन्झावातेन वालुकासु नीलमाधवलयश्चेत्यादिः । १५१२
५८५. इन्द्रद्युम्नस्य विद्यापतिवर्णितश्रवणोत्तरं जगन्नाथं प्रति गमने निर्णयः, नारदागमः, प्रस्थानम्, चित्रोत्पलातटे उत्कलेशाभिगमः, एकाम्रकवने कोटिलिंगेशपूजनं चेत्यादि । १५१५
५८६. विल्वेशकपोतेशकथा, राज्ञोऽपशकुनानि, दिव्यनृसिंहादिदर्शनम्, कपोतेशस्थल्यां यज्ञमण्डपादिकरणम्, अवभृथाऽन्ते व्योमवाण्या कथितवटवृक्षस्य वेद्यामाच्छादनमित्यादि । १५१८
५८७. चतुःप्रतिमानां सम्पूर्णता, पूजनं, मूर्त्यर्थं प्रासादनिर्माणम्, इन्द्रद्युम्ननारदयोर्ब्रह्माणं प्रतिगमनम्, प्रतिष्ठार्थं पद्मनिधेरागमनम्, रथानां
निर्माणं पूजा ध्वजादयः, रथे विघ्नानां फलानि, शान्तिकर्मादि चेति । १५२१
५८८. ब्रह्मण आगमनं, जगन्नाथादिप्राणप्रतिष्ठा, स्वमू्र्तौ अवताराणां दर्शनानि, उत्सवाः, रथयात्रा,रथयात्राफलानि, पञ्चतीर्थी,तद्विधिश्चेति । १५२५
५८९. महावेदी( रथनिर्माण महोत्सवः, द्वादशयात्राः, कृतसन्तानोक्तकथासंक्षिप्तपरिचयाः, ग्रन्थवक्तृपूजादिमहिमा चेति । १५२७
५९०. त्रेतासन्तानात्मकद्वितीयखण्डप्रस्तावः, आशीर्वादाः, श्रीहर्यर्पणमित्यादि चेति । १५३५ ।।

 
इति श्रीलक्ष्मीनारायणीयसंहितायाः कृतसन्तानात्मकस्य प्रथमखण्डस्य अध्यायविषयाणामनुक्रमणिका ।।

।। ५५,५२७ श्लोकाः कृतसन्तानस्य सन्ति ।।