लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ००६

← अध्यायः ००५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ६
[[लेखकः :|]]
अध्यायः ००७ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणस्य वै ।
प्राप्ते त्वेकादशे चाह्नि लोमशाद्या महर्षयः ।। १ ।।
शीलव्रताः साधवश्च ब्रह्मविद्यापरा जनाः ।
पित्राऽऽहूता आययुस्ते कृष्णनारायणगृहम् ।। २ ।।
नामकरणसंस्कारं चक्रुस्ते तु विधानतः ।
आद्यं ग्रहार्चनं चक्रुर्देवतापूजनादिकम् ।। ३ ।।
गाणेशार्चनमीशादिपूजनं चक्रुरादरात् ।
मातृकापूजनं चार्षं पूजनं चक्रुरीश्वराः ।। ४ ।।
ऊर्जाऽष्टम्यां कृष्णपक्षे मिथुने चन्द्रके स्थितौ ।
जन्माऽस्य तेन नामाऽस्य कृष्णनारायणेति हि ।। ५ ।।
यस्य नाऽऽदिर्नचैवाऽन्तोऽनादिनारायणस्ततः ।
अवतारपतिः सोऽयमवतारी निगद्यते ।। ६ ।।
सर्वदुःखहरश्चाऽयं हरिरित्यभिधीयते ।
दुःखानां कर्षणात् कृष्णो नरस्थत्वान्नरायणः ।। ५ ।।
नारस्थोऽस्ति यतश्चाऽयं नारायणोऽपि गद्यते ।
अक्षराधिपतिश्चाऽयमक्षरातीत उच्यते ।। ८ ।।
पुरुषेषूत्तमश्चायं पुरुषोत्तम उच्यते ।
पुंसामुत्तम एवाऽयं पुमुत्तमः सदोच्यते ।। ९ ।।
बृहत्वाद् व्यापकत्वाच्च परत्वात् सर्वतस्तथा ।
परब्रह्मेत्यभिधानं कृष्णवल्लभते यतः ।। 2.6.१ ०।।
श्रिया जुष्टः सदा तस्माच्छ्रीकृष्णवल्लभः स्वयम् ।
ईश्वराणामीश्वरोऽस्ति परमेश्वर उच्यते ।। १ १।।
मायानामीश्वरश्चायं धवो माधव उच्यते ।
सर्वात्मनामतं स्वामी स्वामिनारायणो यतः ।। १२।।
घनश्यामस्तथा छत्रशाल्याचार्योऽस्ति सर्वदा ।
जयारमाललितामाणिक्यालक्ष्मीपतिः प्रभुः ।
प्रभापारवतीमंजूहंसासगुणिकापतिः ।। १३ ।।
द्वादशोत्तरशतसुराज्ञीनां परमेशिता ।
अन्यासां कोट्यर्बुदानां पतिश्चायं भविष्यति ।। १४।।
अस्य हस्ते धनुर्मत्स्यो ध्वजः स्वस्तिर्विराजते ।
वज्रं शरस्त्रिशूलं च पादयोः शिखरादिकम् ।। १५।।
षोडशानां च चिह्नानां रेखाः सन्ति शुभाः स्फुटाः ।
ललाटे कानकी रेखा तिलकस्य विराजते ।। १६।।
नेत्रकोणेषु च रक्ता रेखाः सन्ति विमोहिकाः ।
आकर्णान्ते तथा नेत्रे चन्द्रकोट्याननोज्ज्वलः ।। १७।।
ओष्ठौ स्वभावतो रक्तौ कण्ठे तिलश्च वर्तते ।
वक्षसि चास्य रोम्णां च दक्षावर्तोऽपि वर्तते ।। १८।।
कानकी च शुभा लक्ष्मीरेखा मणिप्रलेखिका ।
असूत्रहारः सौवर्णो वर्तते हृदयेऽस्य च ।। १९।।
नखाश्चन्द्रसमाः सन्ति करपादतलानि तु ।
पद्मगर्भनिभान्येव चतुश्चक्राणि सन्ति च ।।2.6.२०।।
शंखचिह्नं स्वकं चास्य वर्तते शोभनं हरेः ।
सक्थिमूले क्षतचिहं वर्तते वामसंज्ञिते ।।२ १।।
वामजान्वोपरि सक्थ्नि पाण्डुरश्चन्द्रमा अपि ।
वर्तते कोटिपत्नीनां स्वामित्वबोधको हि सः ।।२२।।
जघने नाभ्यधोभागे स्त्रीचिह्नं चास्य वर्तते ।
अर्धनारीश्वरश्चायं पतिपत्नीस्वरूपवान् ।।२३।।
आजानुलम्बभूजौ च वर्ततेऽस्य प्रभोस्तथा ।
घूटिकात्रयमस्तस्य प्रत्येके चरणेऽस्ति वै ।। २४।।
दक्षिणे सक्थिनि मध्ये रथचिह्नं हि वर्तते ।
गरुडस्तिष्ठति तत्र रेखयाऽतो नरायणः ।।२५।।
सहस्रभुजवान्नाऽयं भवत्येव परेश्वरः ।
लिंगे चास्योपरि चास्ते तिलः कृष्णो हि पार्श्वके ।।२६।।
वामे सक्थिमूलके च ततोऽसौ वीर्यवान् बहु ।
चत्वारश्चास्य वृषणा द्वौ पार्श्वे द्वावधःस्थितौ ।।२७।।
ततोऽसौ कोटिनारीणां तृप्तिदोऽस्खलितो बली ।
अस्योदरे तु नाभेर्वै ह्युपरि कुंभलेखिका ।।२८।।
विद्यते कुंभवद् रेखा प्राणायामनिरोधिका ।
ततोऽसौ योगिराट् नैकरूपधारी भवेदपि ।।२९।।
नेत्रेऽस्य चान्धकारेऽपि सूर्यवत्तु प्रकाशते ।
ततोऽसौ दिव्यदर्शी च वर्तते परमेश्वरः ।।2.6.३०।।
जिह्वाग्रं रक्तमस्याऽस्ति लिंगाग्रं रक्तमित्यपि ।
अंगुल्यग्राणि रक्तानि विद्यन्तेऽस्य स्वभावतः ।।३ १ ।।
ततश्चायं भवेद् राजाधिराजः परमेश्वरः ।
रोमाग्राणि स्वर्णवर्णसमानानि लघूनि च ।।३२।।
प्रकाशन्ते चान्धकारे विद्युल्लता यथा स्थिताः ।
ततोऽसौ परधामस्थो भगवान् पुरुषोत्तमः ।।३३।।
दन्तेष्वस्य च धावल्यं चमत्कृतिकरं तथा ।
कान्तिप्रदं च हास्यादौ दृश्यतेऽतो नरायणः ।।३४।।
पश्य गोपालकृष्णऽस्य बाह्वोर्मूले करावुभौ ।
स्वर्णरेखामयौ दिव्यौ राजेतेऽतो नरायणः ।।३५।।
उज्ज्वला त्रिवली चास्य मध्यनाभौ प्रवर्तते ।
ललाटं चोन्नतं नेत्रे दीर्घे नासाग्रवक्रता ।। ३६ ।।
विद्यते दन्तकलिकाः समानाः पूर्णसंख्यया ।
सुगन्धश्चास्य च पारिजातकुसुमवत् सदा ।।३७।।
मूर्तौ संवर्तते श्वासे कैसरो वास इत्यपि ।
स्वेदे शैत्यं च धावल्यं नैर्मल्यं च सुगन्धिता ।।३८।।
मेहनादावपि चास्य दौर्गन्ध्यं न मनागपि ।
औज्ज्वल्यं चान्तरे भागे कुक्षौ कुक्षौ च रक्तता ।।३९।।
श्यामता रोममध्येषु कृष्णता मूलकेषु च ।
वक्रता नाडिकाः श्यामा रक्ताः पिशंगिकास्तथा ।। 2.6.४० ।।
मर्माणि धवलान्यस्य रम्यता च मनोहरा ।
स्थलपद्मसमं चास्य सौकुमार्यं प्रविद्यते ।।४१ ।।
वाणी वेदमयी गीतिः स्वरा घोषाश्च शारदाः ।
सर्वज्ञाननिधिश्चायं परमात्मा परेश्वरः ।।४२।।
नामान्यस्य त्वनन्तानि गुणाश्चाऽसंख्यकास्तथा ।
ऐश्वर्याण्यप्यनन्तानि गणनारहितानि वै ।।४३ ।।
अनादिश्रीकृष्णनारायणोऽयं सर्वदा भुवि ।
ख्यातिमाप्स्यति ऋषिभिः संहिताभिश्च सर्वथा ।।४४।।
कथाभिर्बहुभिश्चापि पत्नीनां चार्बुदैस्तथा ।
अवतारैरनेकैश्च कार्यैश्चमत्करैस्तथा ।। ४५।।
एवमुक्त्वा विरराम लोमशो मुनिसत्तमः ।
ऋषयोऽपि तदा चान्ये शुभाशीर्वादमाददुः ।।४६।।
कुमारिका अपि कान्तं सेवयामासुरुत्सुकाः ।
अथ नामानि च पिता श्रावयामास चाऽच्युतम् ।।४७।।
वाद्यानि वादयामासुर्गापयामासुरुत्तमाः ।
गीतिका नर्तयामासुर्नृत्यवेत्र्यः सतालिकाः ।।४८।।
वर्धयामासुराशीर्भिर्देव्यः सर्वभुवां तदा ।
रमयामासुरत्यर्थं कृष्णनाममहोत्सवे ।।४९।।
प्रजा जनाश्च भोज्यानि भोजयामासुरत्यति ।
ददौ दानानि च तदा श्रीमान् गोपालकृष्णकः ।।2.6.५० ।।
पूजयामासुरीशाश्चाऽनादिकृष्णनरायणम् ।
उपायनानि च ददुः स्वर्गधामाऽभिजानि च ।।५१ ।।
एवं नामविधं कृत्वा लोमशाद्या ययुर्गृहान् ।
देवाः सर्वे यथास्थानं ययुः प्रजाजना ययुः ।।५२ ।।
शृण्वत्र राधिके नाममहोत्सवेऽसुरो महान् ।
द्रष्टुं देवं समायातो व्याघ्रारण्यनिवासकृत् ।।५३।।
साणनामाऽसुरो गिरेर्गह्वरे कृतकेतनः ।
यत्र साणो वसत्येव गिरयोऽपि तदा च ते ।।५४।।
साणस्य गिरयश्चैवं ख्यातिमाप्तास्तदाऽभवन् ।
साणोऽयं तु पुरोत्पन्नो हिरण्याण्डस्य मेहतः ।।५५।।
असुरस्य मृतेः काले संकर्षणसमीपतः ।
स च विलोक्य संहारकारणं कर्षणं बलम् ।।५६।।
तुष्टाव भयसम्पन्नः शरणं समियेष च ।
तदा संकर्षणस्तं तु जीवनं दानमाददौ ।।५७।।
साणः पृथ्वीं खण्डभूतां वियुक्तां च विलोक्य वै ।
तत्र वासं तदा कर्तुं चाययौ समरण्यकम् ।।५८।।
अरण्यं चायतं वृक्षान् निबिडान् शतयोजनम् ।
वीक्ष्य तत्र शतक्रोशक्षितौ पर्वतकोच्छ्रयान् ।।।५९।।।
साणश्चकार वसतिं चासुरस्तत्र निर्भयः ।
स च तत्र समायातो नामसंस्कारके दिने ।।2.6.६ ०।।
यत्राऽनादिः प्रभुः कृष्णनारायणो गृहेऽस्ति वै ।
साणो विप्रस्वरूपेण चागत्य प्राप्य भोजनम् ।।६ १।।
दक्षिणां विविधां नीत्वा ययौ साणाद्रिगह्वरम् ।
द्वादशे दिवसे तस्य मतिर्जाताऽतितामसी ।।६२।।
सस्मार पितृवैरं च मारकं बालकं च तम् ।
संकर्षणात्मकं नारायणं निश्चित्य माधवम् ।।६३ ।।
अस्त्रशस्त्राणि नीत्वैव सन्नद्धश्चागतोऽसुरः ।
कृष्णं नाशयितुं राधे वैरिणं बालरूपिणम् ।।६४।।
दिवा विप्रो हि स भूत्वाऽतिथिरूपेण वर्तते ।
मार्गयन् हर्तुमेवैनं छिद्रं दिने न लब्धवान् ।।६५।।
षष्ठीकन्याः कुमार्यस्ताः संभूय कान्तमच्युतम् ।
रामयन्ति रमयन्ति रमन्ते स्माऽविरामतः ।।६६।।
रात्रौ तास्तं विहायैव लोमशस्याऽऽश्रमं ययुः ।
तदा छिद्रं परं प्राप्य व्याघ्ररूपधरोऽसुरः ।।६७।।
रात्र्यर्धे विगते बालं भक्षितुं क्रूररूपवान् ।
क्रूरकर्मा क्रूरनेत्रः क्रूररावोऽभवत्क्षणम् ।।६८।।
सूतिकागृहमागत्य गर्जनां प्रचकार ह ।
चकाराऽन्या गर्जनाश्च वनं कम्पयुतं तदा ।।६९।।
भूः सर्वा कम्पिता लोकास्त्रासं ययुश्च विह्वलाः ।
माता च विह्वला त्रस्ता पिता भीतिं जगाम ह ।।2.6.७०।।
जना व्याघ्रभयात्तत्र निलिल्युश्च गृहेष्वपि ।
हाहाव्याक्रोश एवाऽऽसीत् कृष्णशय्यास्थले तदा ।।७१ ।।
अहो व्याघ्रो वनाद् यातो मृत्युरूपोऽर्भकस्य वै ।
रक्षन्तु देवता देवं देव्यश्चेति जगुर्जनाः ।।७२।।।
अनादिश्रीकृष्णनारायणं रक्षन्तु रक्षकाः ।
इति माताऽवदत्तत्र साक्रोशं वै मुहुर्मुहुः ।।७३ ।।
व्याघ्रस्तावत्समुत्प्लुत्य सूतिकाशयनं ददौ ।
बालं करेण जिघृक्षुर्यावद् यतते श्वापदः ।।७४।।
तावत् कृष्णोऽभवत्तत्र किशोरः ससुदर्शनः ।
माता मूर्छां गता वीक्ष्य मत्वा व्याघ्रहृतं सुतम् ।।७५।।।
सुदर्शनं परं चक्रं कृष्णनारायणेन वै ।
अङ्गुलिमध्यतो मुक्तं वह्निव्याप्तं महोज्ज्वलम् ।।७६ ।।
भ्रमत्सहस्रारयुक्त शतसूर्यातिशायि तत् ।
तदा चोग्रमभूद् व्यग्रं यावद् व्याघ्रं जिघांसति ।।७७।।
तावन्मृत्युभयाद् व्याघ्रः समुत्प्लुत्य गृहाद् बहिः ।
विनिपत्य प्रदुद्रावाऽरण्यं जीवितुमुत्सुकः ।।७८।।
चक्रं पृष्ठे तस्य लग्नं तं ददाह पुनः पुनः ।
क्वचित्क्वचित् पृष्ठदेशं स्पृष्ट्वा चकर्त भागतः ।।७९।।
व्याघ्रो निहन्यमानोऽसौ प्लवते स्माति वेगतः ।
आक्रोशति स्म दीनार्तो वाचा भीभृतया तदा ।।2.6.८०।।
क्रोशमात्रं गतो यावद् दक्षिणां दिशमेव सः ।
सुदर्शनेन निहतः साणः सव्याघ्रदेहभृत् ।।८ १।।
व्याघ्रहणं च तत्तीर्थं सुदर्शनकृतं स्थलम् ।
प्रख्यातं कुंकुमवाप्या दक्षिणेऽश्वसरोवरात् ।।८२।।
साणो नष्टो योजनोच्छ्रं शरीरं प्राज्वलत्तदा ।
सुदर्शनाग्निना भस्म जातं पुण्येन तेन वै ।।८३।।
साणात्मा तद्विनिर्गत्य भूत्वा चतुर्भुजस्तदा ।
दिव्यो वै पार्षदो भक्तो धौतात्मा पापवर्जितः ।।८४।।
अनादिश्रीकृष्णनारायणेतिमुखतो वदन् ।
सुदर्शनस्य वशगोऽनादिकृष्णं प्रति द्रुतम् ।।८५।।
व्योम्ना समाजगामाथ प्रभौ विलीनतां गतः ।
अथाऽक्षरस्य मुक्तास्तं नेतुं विमानसंस्थिताः ।।८६।।
आययुः श्रीहरेः क्षेत्रे तदाऽयं कृष्णमूर्तितः ।
विनिर्गत्य ययौ धामाऽक्षरं साणस्तु शाश्वतम् ।।८७।।
सुदर्शनं तदा शान्तं कृष्णाङ्गुलौ लयं गतम् ।
अनादिश्रीकृष्णनारायणोऽपि निद्रितः सुखम् ।।८८।।
अन्ये मात्रादयो योगनिद्रां कृत्वा प्रगे तदा ।
विघ्नशान्तिक्रियां चक्रुर्लोमशाद्या अपीश्वराः ।।८९।।
व्याघ्रासुरो हतश्चेति श्रुत्वा निश्चिक्युरीश्वरम् ।
साधारणा जना बालं देवाश्चक्रुः प्रपूजनम् ।।2.6.९०।।
श्रुत्वा च कन्यकाः सर्वा रुरुदुर्विघ्नमुल्बणम् ।
रक्षणं च बलं श्रुत्वा जहृषुश्चागताः पुरः ।।९१ ।।
दर्शनं च समाचक्रुः कान्तस्याऽतीव भावतः ।
शुभाशिषः प्रददुश्च मेनिरे नवमागतम् ।।९२।।
पिता विघ्नस्य शान्त्यर्थं होमं जपं चकार ह ।
साध्वादींस्तर्पयामास भोज्यान्नपानसद्धनैः ।।९३।।
वस्त्रभूषादिदानानि कन्यकाभ्यो ददौ सती ।
गोभ्यो ददौ च घासानि मिष्टान्नान्यपि भूरिशः ।।९४।।
पिपीलिकादिसूक्ष्मेभ्यः पिष्टकणादिकं ददौ ।
एवं शान्तिं कारयित्वा रमयामास माधवम् ।।९५।।
माता पिता तथा चान्यवर्गः कुमारिकागणः ।
इत्येतत् कथितं राधे बालकृष्णपराक्रमम् ।।९६।।
पठनाच्छ्रवणाच्चापि मोक्षदं स्वर्गदं परम् ।
पुत्रदं धनदं स्मृद्धिप्रदं रोगविनाशकम् ।।९७।।
शोकविघ्नहरं रम्यं रक्षाकरसुखावहम् ।
नारीणां शोकहरणं शुभं सौभाग्यवर्धनम् ।। ९८।।
अवैधव्यकरं कृष्णचरित्रं पावनोत्तमम् ।
श्रोतव्यं सततं चैतदैश्वर्यार्थिभिरादरात् ।।९९।।
षण्मासाभ्यन्तरे श्रोतुरुपतिष्ठन्ति सिद्धयः ।
अणिमाद्या दिव्यगुणा दिव्याः समृद्धयस्तथा ।। 2.6.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने परमेश्वरस्य नामकरणसंस्कारविधिः, साणाऽसुरस्य व्याघ्ररूपधरस्य हरिं हन्तुमिच्छतश्चक्रेण विनाशनं शान्तिकरणं चेत्यादिनिरूपणनामा षष्ठोऽध्यायः ।। ६ ।।