लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०११

← अध्यायः ०१० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ११
[[लेखकः :|]]
अध्यायः ०१२ →

श्रीकृष्ण उवाच-
शृणु वै राधिकेऽनादिकृष्णनारायणो हरिः ।
मात्रादिपोषितो नित्यं वर्धते बालचन्द्रवत् ।। १ ।।
नित्यं ताभिश्च कन्याभिः सेव्यते पुरुषोत्तमः ।
निर्मलः स्वच्छहृदयः परमात्मा निराश्रयः ।। २ ।।
मात्रानन्दकरः पितृप्रतिबिम्बाम्बकोज्ज्वलः ।
तं वीक्ष्य बालकं कृष्णं सर्वरूपानुरूपिणम् ।। ३ ।।
प्रजा दर्शनकारिण्यो निजपुण्यं हि मेनिरे।
एनं च योगिनो दृष्ट्वा परमेशं हि मेनिरे ।। ४ ।।
लोमशं त्वेकदाऽऽहूय पिता गोपालकृष्णकः ।
मासे षष्ठे कर्णवेधं रौप्यसूच्याऽप्यकारयत् ।। ५ ।।
द्विगुणेन तु सूत्रेण पुष्ट्यायुः श्रीविवृद्धये ।
अस्मिन् दिने प्रगे स्नात्वा पिता गोपालकृष्णकः ।। ६ ।।
लोमशस्य तु हस्तेनाऽश्विनीकुमारपूजनम् ।
कारयामास तन्मूर्तिं कारयित्वा तु राजतीम् ।। ७ ।।
तत्राऽऽवाह्य तदा देववैद्यं पिता यदार्चयत् ।
तावत्र साक्षात् समायातः सूर्यतुल्यः सकुण्डलः ।। ८ ।।
गृहीत्वा स कृतां पूजां पस्पर्श पाणिना हरेः ।
कर्णौ सुकोमलो रम्यौ शष्कुलीचक्रशोभनौ ।। ९ ।।
सर्वश्रवणसिद्ध्यादिकृतशाश्वतिकाऽऽश्रयौ ।
नैरुग्ण्येन रसेनाऽदौ प्रलिप्तौ च श्रवावुभौ ।। 2.11.१ ०।।
ततश्च पूजिता सूची सूक्ष्मा नवा च कानकी ।
दृढया च तया कर्णो विद्धौ यथास्थलं तदा ।। ११ ।।
देववैद्येन तु शनैर्लाघवेन सुखेन च ।
सूचीस्पर्शोऽति बालेन न ज्ञातो रसवैभवात् ।। १ २।।
अथ विद्धौ यथापेक्षं कर्णौ सूची तदाऽभवत् ।
कन्या मूर्तिमती देवी दिव्याम्बरविभूषणा ।। १३।।
सर्वावयवशोभाढ्या चन्द्रोज्ज्वला च कोमला ।
उवाच सा तदा देवी मातरं पितरं मुदा ।। १४।।
यस्या नारायणस्पर्शस्तस्या मायाक्षयो ध्रुवम् ।
मम माया विनष्टाऽद्य रक्ष मां कृष्णसन्निधौ ।। १५।।
माता श्रुत्वा च तामाह कस्य त्वं विद्यसे सुता ।
वदाऽत्र कानकि! देवि! तवेष्टं- संभविष्यति ।। १६ ।।
सूची श्रुत्वाऽऽह च नैजं वृत्तान्तं वै यथोद्भवम् ।
अहं वै मानसी कन्या ब्रह्मणोऽस्मि समुद्भवा ।। १७।।
मम कार्यं पारगत्वं छिद्रीकरणमित्यपि ।
एकलायास्तथा कण्टकादिदैत्यविनाशनम् ।। १८।।
तुन्नवायः श्वशुरो मे विश्वकर्मसुतश्च सः ।
तुन्नवायस्य पुत्राय दोरकाय समर्पिता ।। १९।।
सकान्ताया मम कार्यं सन्धानं वै वियुक्तयोः ।
जडाऽहं धातुरूपाऽस्मि चेतनाऽस्मि च देवता ।।2.11.२०।।
कुटुम्बं मे तथा द्वेधा कार्यं च कारणं सदा ।.
कारणं देवतारूपं कार्यं भौतिकमित्यपि ।।२१।।
इत्येवं कथितं तेऽत्र दोरकस्य प्रियाऽस्म्यहम् ।
मातश्चाऽहं तव पुत्रभक्ता जाताऽस्मि चाद्यतः ।।२२।।
दिव्या दिव्यस्वरूपा च कृत्वा विशेषतोऽत्र वै ।
सेवायां तव पुत्रस्य रक्ष नारायणस्य माम् ।। २३।।
श्रुत्वैवं कम्भरालक्ष्मीस्तामुवाच तदा पुनः ।
स्वामिना सह देवेशि! वसाऽस्मिंल्लोमशाश्रमे ।। २४।।
स्वामिकुटुम्बसहिता चाश्वपट्टसरस्तटे ।
वसाऽत्र निर्भरा कृष्णं सेवितुं हृष्टमानसा ।। २५।।
इत्युक्ता सा प्रजहर्ष नत्वाऽश्विनीकुमारकम् ।
मातरं श्रीहरिं तूर्णं श्वशुरस्य गृहं गता । । २६।।
वा? सम्मन्त्र्य च शीघ्रं सकुटुम्बा समाययौ ।
अश्वपट्टसरसश्च तीरे पूर्वस्थले तु सा ।। २७।।
वर्तते सकुटुम्बा वै कृष्णभक्तिपरायणा ।
कन्यकाः कृष्णमादाय विहर्तुं यान्ति तत्स्थलम् ।। २८ ।।
तुन्नवायाश्रमं तीर्थं पूर्वतीरे ततोऽभवत्। ।
अथैकदा तु सा कृष्णं कट्यां निधाय मोदते ।। २९।।
विचारयति नाथो मे भगवाँस्तु कदा भवेत्। ।
ज्ञात्वा मनोगतं तस्याः कृष्णः प्राह हसँश्च ताम् ।। 2.11.३० ।।
वितरामि च ते सिद्धिं बहुरूपधरात्मिकाम् ।
भव कन्यास्वरूपा च वस वै लोमशाश्रमम् ।। ३१ ।।
मम प्राप्तिर्यथाकाले भविष्यति तवाऽनघे ।
इत्युक्तमात्रे सा देवी दिव्यरूपा हि कन्यका ।। ३ २।।
चारुचम्पकवर्णाभा द्वितीयरूपधारिणी ।
बभूव श्रीबालकृष्णसन्निधौ सरसस्तटे ।। ३३ ।।
सा ययौ कृष्णकान्तेन सह वै लोमशाश्रमम् ।
दोरकस्य गृहिण्याख्या दोरकस्य गृहे स्थिता ।। ३४।।
सा च कृषणार्पितसिद्ध्या कोटिरूपधराऽभवत् ।
जगत्सु सूचिकारूपा समव्याप्नोत् प्रसन्धिनी । । २२।।
एवं साऽनुग्रहलाभात् कृष्णकान्तं सदाऽलभत् ।
अश्विनीपुत्रकौ वैद्यौ वरदानाय सूचितौ ।। ३६ ।।
तावप्याराधनार्थं च ययाचाते निवासनम् ।
तथाऽस्त्विति च तौ प्राह कृष्णः प्रसन्नमानसः । । ३७।।
तत्तीर्थं चाश्विनीपुत्रारामनाम बभूव ह ।
अश्वपट्टसरसस्तु पूर्वे तीरे द्रुमेषु च ।। ३८।।
एवं कृष्णप्रभुर्वासं ताभ्यां तस्यै च वै ददौ ।
स्वयं कन्याधृतश्चायात् स्वसौधं पारमेश्वरम् ।। ३ ९।।
लोमशोऽपि मुनिस्तत्र कर्णवेधाख्यसद्वृषे ।
पूजनं दक्षिणां लेभे गोपालकृष्णतो बहु ।।2.11.४०। ।
ययौ निजाश्रमं दिव्यो लोमशो मुनिराट् ततः ।
चैत्रशुक्लस्य पूर्णायां तिथौ मासे तु षष्ठके ।।४१ ।।
समागतायां तत्रैव समाहूय च लोमशम् ।
कारयामास विधिना पिताऽन्नप्राशनं शुभम् ।।४२।।
दध्याज्यमधुमिश्रं च बालकृष्णस्य वै प्रभोः ।
मंगलस्नानमेवादौ संकृत्वा मातृकार्चनम् ।।४३।।
प्रतिष्ठाप्य शुचिं वह्निं चरुहोमं चकार सः ।
ब्रह्मादिपूजनं चक्रे सदन्नान्यप्यभोजयत् ।।४४।।
ब्राह्मणेभ्यस्तथा सद्भ्यो दीनान्धेभ्यश्च वै तथा ।
सतीभ्यः कन्यकाभ्यश्च कुमारेभ्योऽप्यदाद् धनम् ।।४५।।
गोभ्यो मृगेभ्यो ग्रासाँश्च कीटकादिभ्यश्च पिष्टकम् ।
जलौकः कूर्ममत्स्येभ्यश्चापि कणान् ददौ तदा ।।४६।।
काकपारावतादिभ्यः कणान् ददौ तदा पिता ।
वृक्षवल्लीतृणादिभ्यो जलानि प्रददौ तदा ।।४७।।
पितृभ्यश्च सुरेभ्यश्च मानुषेभ्यो ददौ तदा ।
यथेष्टानि च भोज्यानि तथोपकरणान्यपि ।।४८।।
कुमारिकाभ्यः सर्वाभ्यो द्रव्यभूषाम्बराणि च ।
देहयोग्यानि शृङ्गारवस्तूनि साधनानि च ।।४९।।
भोजनासनयानानि पत्त्राणावरणानि च ।
विद्यासाधनग्रन्थांश्च भक्तिसाधनकानि च ।।।2.11.५० ।।
ददौ पिता तु दिव्यानि भोग्यानि विविधानि च ।
अथौषधयो भूमिस्थाः सस्यरूपाः कणप्रदाः ।।५ १ ।।
हव्यदाः फलदा कन्दमूलदा गोधूमादिदाः ।
रसदा मधुरा गुन्द्रसारदाः शर्कराप्रदाः ।।५ २ ।।
पत्रदाः पुष्पदा भक्ष्यभोज्यलेह्यकचोष्यदाः ।
रोगहन्त्र्यः पुष्टिकर्त्र्या वृक्षगुल्मलतादिकाः ।। ५३ ।।
स्वस्वजन्याऽऽस्वाद्यवस्तून्यादाय कन्यकात्मिकाः ।
स्थालेषु सन्निधायैव नवान्नादीनि सर्वशः ।।५४।।
सवादित्रकीर्तनानि कुर्वन्त्यश्च विभूषिताः ।
वह्निवर्णोज्ज्वलाः कृष्णं भोजयितुं समागताः ।।५५।।
कुंकुमवापिकोद्याने पश्चिमे योजनायते ।
स्थालानि रक्षयित्वैव सस्मरुः श्रीपतिं प्रभुम् ।।१६ ।।
कल्पोद्याने चागतास्ता ज्ञात्वा कृष्णनरायणः ।
लक्षरूपधरो भूत्वा प्रत्येकांऽकगतोऽभवत् ।।१७।।
प्रत्येकया सुवर्णस्याऽऽसने संस्थाप्य वल्लभः ।
भोजितः पूजितो मोदितो मुहुश्चुम्बितः प्रभुः ।।५८।।
भगवानपि कैशोररूपाणि प्राप्य वै ततः ।
भोजनानि सुमृष्टानि चखाद स्नेहतस्तदा ।।५९।।
सर्वाभ्यः स्वप्रसादश्च प्रदत्तः स्थालपूरितः ।
यद्यद् भुंक्ते च तत्सर्वं श्रीहरेर्योगतस्तदा ।।2.11.६०।।
लक्ष्म्या संवर्धितं न्यूनं न किञ्चिदपि दृश्यते ।
ताः सर्वाः करकमलैर्भोजयन्ति पतिं प्रभुम् ।।६ १।।
भगवाँश्च पुनर्भुंक्ते तासां भावानुबन्धनः ।
वारंवारं भोजितः पायितः प्रपूजितस्तथा ।।६२।।
तासां च पूरयामास संकल्पान् दिव्यरूपधृक् ।
अन्नप्राशनके चाद्यदिनेऽन्नानि चखाद यत् ।।६३।।
ऐश्वर्यं वीक्ष्य तत्सर्वं मुमुहुस्तत्र केशवे ।
भगवाँश्च जलं पीत्वा बालरूपो बभूव ह ।।६४।।
उद्गारं तृप्तिदं पुनः पुनर्गृह्णाति मोदते ।
अथ ताभिर्हरिस्तत्र वन्दितः सेवनाय च ।।६५।।
यथा सेवां तव कुर्मो नित्यं वयं तथा कुरु ।
त्वमात्मा त्वं परात्मा च त्वं रसस्त्वं बलं च नः ।।६६।।
त्वं फलं त्व दलं पुष्पं त्वं गर्भस्त्वं च मञ्जरी ।
त्वं मूलं मध्यमस्तम्भस्त्वं शाखाऽङ्कुर इत्यपि ।।६७।।
त्वं प्राणस्त्वं जीवनं च खाद्यं त्वं खादकोऽपि च ।
भोक्ता त्वं भोज्यमेवाऽसि चाऽन्तरात्माऽसि नस्तथा ।।६८।।
स्रष्टा पाता रक्षिता पोषयिता लयभूस्तथा ।
त्वमेवाऽसि परब्रह्म स्वामी प्राणप्रियः पतिः ।।६ ९।।
अस्माकमान्तरं हृद्यं गृहाण पुरुषोत्तम ।
सेवायां रक्षय नाथ कुर्मः सेवां यथा तव ।।2.11.७ ०।।
इत्युक्तश्चांऽकगो विष्णुः प्रहस्याऽऽह च देवताः ।
वनदेव्यो भवत्योऽत्र वसन्तु लोमशाश्रमे ।।७ १ ।।
कन्यारूपास्तथा वृक्षवल्लीरूपा अपि ध्रुवम् ।
वल्लीरूपा द्रुमरूपा उद्यानावासमंगलाः ।।७२।।
तिष्ठन्तु फलपुष्पाद्यैः सेवार्थं मम सर्वदा ।
इत्युक्तास्ताः परं प्रेम ज्ञात्वा नारायणस्य वै ।।७३ ।।
गृहीत्वाऽनुग्रहं श्रेष्ठं बभूवुर्द्विस्वरूपिकाः ।
वृक्षवल्लीस्वरूपास्ताः कल्पोद्याने वसन्ति च ।।७४।।
अथ कन्यास्वरूपास्ता यावत् पश्यन्ति केशवम् ।
पुनः पुनश्चांकगं तं तावत् संहृत्य लोमशः ।।७५।।
रूपाणि चैकरूपोऽभूत् श्रीवल्लीकन्यकांऽकगः ।
हसन् सस्मार च मुनिं लोमशं शाश्वतं गुरुम् ।।७६।।
द्रागेव स्मृतमात्रोऽसौ दिव्यदेह उपस्थितः ।
तुष्टाव परमेशं च का त्वाज्ञा वद् मां प्रभो ।।७७।।
हरिस्तस्मै कन्यकास्ता वनदेवीर्ददौ मुदा ।
लोमशस्ता नमस्कृत्याऽऽश्रमं निनाय देवताः ।।७८।।
कृष्णनारायणपरा ब्रह्मरूपास्तु सेविकाः ।
हरिस्ततोऽभवल्लुप्तो ययौ नैजं गृहं तदा ।।७५।।
लोमशेनाऽऽवेदितश्च पिता पुत्रपराक्रमम् ।
ऐश्वर्यं चातुलं सर्वं ज्ञातवान् मुदमाप्तवान् ।।2.11.८ ०।।
अथ वै लोमशं प्राह गोपालकृष्णकस्तदा ।
बालोऽयं विद्यते बालो वस्तुतो बालको न वै ।।८ १ ।।
चमत्कारा भवन्त्यस्य दिव्यपुरुषचेष्टिताः ।
तस्माद् भाव्योऽप्रतर्क्यश्च कश्चित् सर्वेश्वरः प्रभुः ।।८२।।
वृत्तिर्मुख्या क्रिया मुख्या काऽस्य वै संभविष्यति ।
राजा वा देववर्यो वा गुरुर्वा त्यागवानपि ।।८३ ।।
वद् काऽस्य निश्चितैका वृत्तिर्भाव्या शुभाश्रया ।
इत्युक्तो लोमशः प्राह वस्त्रपात्रधनादिकम् ।।८४।।
निधेहि पुरतश्चाऽस्य यद् गृह्णीयात्तु विद्धि तत् ।
इत्युक्तो वै पिता शीघ्रं वृत्तिं ज्ञातुं पुरोऽस्य च ।।८९।।
वस्त्रं पात्रं चायुधं च धनं ग्रन्थं च लेखिनीम् ।
यष्टिं दर्भं हीरकं च मालिकां कणमुष्टिकाम् ।।८६।।
स्रुवं पूगीफलं तन्तुं फलं शंखं कपर्दिकाम् ।
जलपात्रं दर्पणं च सस्यं कृत्रिमहंसकम् ।।८७।।
दीपं छत्रं च पाषाणं घृतं काष्ठं तथौषधम् ।
पुष्पं लोष्ठं पादुकां च सूचीं कल्गिं न्यधात् पुनः ।।८८।।
द्वात्रिंशत्तानि वस्तूनि विलोक्य भगवानपि ।
द्वात्रिंशद्भुजवान् भूत्वा पस्पर्श युगपत् प्रभुः ।।८९।।
सर्वाण्यपि च वस्तूनि जानात्येव कलानिधिः ।
सर्ववृत्तिमयो योऽस्ति किमवेद्यं परात्मनः ।।2.11.९०।।
किमसाध्यं किमकार्यं किमज्ञातं हरेः खलु ।
आश्चर्यं प्राप च पिता हरिर्जहास वै तदा ।।९ १।।
लोमशः प्राह च कलाश्चतुःषष्टिरनुत्तमाः ।
वर्तन्तेऽत्रैव देवेशे पुराणपुरुषे गुरौ ।।।९२।।
सर्वकर्ता सर्ववृत्तिदाता पोष्टा भविष्यति ।
सर्वकार्यकरश्चायं परमात्माऽस्ति शाश्वतः ।।९३ ।।'
माता जहर्ष संश्रुत्वा दृष्ट्वा सुतस्य वैभवम् ।
पश्यतां यावतां तावत् कृष्णनारायणो हसन् ।।९४।।
पुस्तकं मालिकां द्वाभ्यां कराभ्यां लेखिनीं कुशम् ।
अन्याभ्यां च कराभ्यां तु धृत्वा चतुर्भुजोऽभवत् ।।९५।।
मालां च पुस्तकं धृत्वा द्विभुजश्च ततोऽभवत् ।
अंके कृत्वा पुस्तकं च क्षिप्त्वा कण्ठे च मालिकाम् ।।९६ ।।
कल्गीं चादाय हस्तेन हसन् न्यधात् स्वमस्तके ।
कुसुमं समजिघ्रच्च हरिर्बालस्वरूपवान् ।। ९७।।
शंखचक्रगदापद्मधरोऽदृश्यत वै तदा ।
बाल एव स्वयं तैस्तैर्धृतैर्विशेषतस्तदा ।। ९८।।
ज्ञापयामास पित्राद्यान् तत्तद्विशेषवृत्तिकम् ।
लोमशोऽपि प्रसन्नश्च पूजामादाय सत्कृतिम् ।।९९। ।
ययौ निजाश्रमं नित्यं भजते तं नरायणम् ।
राधिके! तेऽनादिकृष्णचमत्कारो मया मुहुः ।। 2.11.१०० ।।
कथितो भक्तगम्यः स पाठश्रवाच्च मोक्षदः ।
मया दिव्येन ता लीलाः प्रत्यक्षमवलोकिताः ।। १०१ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य प्रभोः कर्णवेधसंस्कारः, सूच्यै चमत्कार- दर्शनम्, अश्विनीकुमारतीर्थम्, अन्नप्राशनसंस्कारः, वनदेवताकारितप्राशनं, वनदेवताभ्यो बहुरूपैश्चमत्कारः कान्तप्राप्तिः, हरे वृत्तिज्ञानार्थं पुरोधृतवस्त्रशस्त्रादिवस्तूनि ग्रहीतुं बहुरूपता दिव्यता चेति निरूपणनामैकादशोऽध्यायः ।। ११ ।।