लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०१६

← अध्यायः ०१५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६
[[लेखकः :|]]
अध्यायः ०१७ →

श्रीकृष्ण उवाच-
राधिके न त्वया पूर्वं श्रुतं दिव्यकथानकम् ।
कथयामि चमत्कारं सावधाना निबोध मे ।। १ ।।
आषाढे कन्यकाः सर्वाश्चातुर्मास्यव्रतानि वै ।
चक्रुर्लोमशदिष्टानि बालकृष्णस्य तुष्टये ।। २ ।।
आषाढशुक्लपक्षस्यैकादश्यां प्रातरेव ताः ।
स्नात्वा ध्यात्वा कृपानाथं नत्वा समर्च्य लोमशम् ।। ३ ।।
चन्दनाऽक्षतपुष्पाणि कुंकुमाऽम्बरमालिकाः ।
गोक्षीरं शर्करैलाकेसराढ्यं क्वाथितं तथा ।। ४ ।।
नीत्वा भूषाम्बरहारशृंगारशोभिताः प्रभुम् ।
अनादिश्रीकृष्णनारायणं द्रष्टुमुपागताः ।। ५ ।।
गायन्ति गीतिका मिष्टस्वरैः श्रीस्वामिमानसाः ।
मौक्तिकनद्धहिन्धानीधृतकलशमस्तकाः ।। ६ ।।
हस्तधृतफलपूजापात्रा नेत्राग्रमाधवाः ।
हृदयेषु धृतकृष्णाः कृतकौतुकमंगलाः ।। ७ ।।
स्मरन्ति श्रीपतिं चाहमहमिकया त्वग्रगाः ।
चमत्कारस्तदा प्रातर्बालकृष्णेन दर्शितः ।। ८ ।।
मम पूजाकृते कोटिकन्याश्चायान्ति मे गृहम् ।
सम्मर्दोऽत्र महान् भावी मया गम्यं सरस्तटे ।। ९ ।।
ग्राह्या पूजा च युगपत् सम्मर्दो न यथा भवेत् ।
इति निर्णीय भगवान् कोटिरूपाणि तत्क्षणम् ।। 2.16.१ ०।।
धृत्वा हसन् किशोरात्मा तासामभिययौ पथि ।
एकया दृश्यते त्वेको नान्यया दृश्यतेऽपरः ।। ११ ।।
एका जानाति मामेव हसन्नायाति मां प्रति ।
नान्याः प्रति ययौ नाथो मम प्रेम्णाऽतिरेकिणा ।। १२ ।।
अन्या जानाति मामेवाभियाति नेतराः प्रति ।
परा पश्यति चायान्तं स्वां प्रत्येव कृपाकरम् ।। १३ ।।
एवं सर्वा हि प्रत्येकं कान्तं पश्यन्ति वै निजम् ।
मत्वा सौभाग्यमतुलं द्रुतं मिलन्ति वक्षसि ।। १४।।
लोमशं श्रीहरिर्नेमे लोमशोऽपि हरिं मुदा ।
अथ तत्कोटियुगलैर्भूतलं द्यौरिवाऽभवत् ।। १५।।
कृष्णो वार्तां कुशलाढ्यां पृच्छन् प्रयाति चाग्रतः ।
पार्श्वे पार्श्वे मनाक् पृष्ठे वामे प्रयाति कन्यका ।। १६।।
अश्वपट्टसरस्तीरे विशाले बहुयोजने ।
मेघच्छत्रसमच्छाये पुष्पितद्रुमवल्लिके ।। १७।।
शुभकोमलसस्याऽऽसे शीतगन्ध्यनिलाऽन्विते ।
पूजापात्राणि सन्न्यस्य कान्तं कृत्वाऽऽसने पुरः ।। १८।।
सर्वाः सम्पूजयामासुर्भावभृद्द्रव्यवस्तुभिः ।
ललाटे पत्रिकाश्चक्रुश्चन्दनेन सुगन्धिना ।। १९ ।।
नेत्रयोः कज्जलं ददुस्तिलकं च ललाटके।
दक्षगण्डे रक्तबिन्द्वीं दत्वा चुचुम्बुरुत्सुकाः ।।2.16.२०।।
मस्तके पुष्पमुकुटं मयूरपत्रकल्गिकम् ।
कर्णयोः पुष्पगुच्छौ च शेखरान् विविधान् ददुः ।। ११ ।।
पुष्पहारान् तौलसेयान् कटकान् रशनास्तथा ।
पुष्पप्रच्छदवस्त्राणि धारयामासुरीश्वरम् ।।२२।।
अलक्तकुंकुमं तस्य पादयोः करयोर्ददुः ।
सकिंकिणीनुपूरौ च पादप्रकोष्ठयोर्ददुः ।।।२३।।
पीताम्बराणि क्षौमाणि कौशेयकानि ता ददुः ।
मुरलीं चाप्यंकुराणि कर्णयोर्गुच्छकौ ददुः ।।।२४।।
पद्मपत्रं करे दक्षे सुगन्धिप्रोक्षणं ददुः ।
शीतं मिष्टं जलं भोज्यं फलं रसान् पयो ददुः ।।२५।।
एलालवंगबीजानि मुखशुद्धिं दलं ददुः ।
एवं सम्पूज्य तं कृष्णनारायणं पुनः पुनः ।। २६ ।।
आरार्त्रिकं कम्बुजलं वस्त्रमार्जनमादधुः ।
नमः स्तुतिं दण्डवच्च प्रदक्षिणं च दक्षिणाम् ।।२७।।
आत्मनां चार्पणं पुष्पाञ्जलिं क्षमाऽर्थनं व्यधुः ।
पादयोः क्षालनजलं पपुर्न्यधुश्च मस्तके ।।२८।।
वक्षःसु कृष्णचरणौ निधायाऽऽनन्दमागताः ।
प्रसन्नाः प्रार्थयामासुर्व्रतानि निजनाथतः ।।२९।।
काचिच्चतुर्षु मासेषु ययाचे फलभोजनम् ।
काचित्कन्दाऽदनं काचित्पत्रादनं पयोऽदनम् ।।2.16.३ ०।।
काचिदेकान्नभक्ष्यं च काचिन्मुन्यन्नभक्षणम् ।
काचिद्यवादनं काचिद्गोधूमादनमात्रकम् ।।३ १ ।।
काचित् तण्डुलकवलान् काचिद्रसविवर्जितम् ।
काचिदक्षारभोज्यं च काचिन्मिष्टविवर्जितम् ।।३२।।
काचित् तिक्तविहीनं च काचित् कटुविवर्जितम् ।
काचिदनग्निपक्वं च काचिच्छुष्कं तु भर्जितम् ।।३३ ।।
काचिन्निरन्नमेवाऽपि काचिच्छाकविवर्जितम् ।
काचित्तु द्विदलावर्ज्यं काचिदनारनालकम् ।।३४।।
काचित्तक्रविहीनं च काचिद्दुग्धविवर्जितम् ।
काचिदधृतभोज्यं च काचिदतैलमित्यपि ।।३५।।
अन्या नक्तं चैकभुक्तं काचित्कालचतुर्थकम् ।
षट्कालादनमित्यन्या सप्ताहादनमित्यपि ।।३६ ।।
पक्षादनं तथा मासादनं चान्द्रायणादिकम् ।
कृच्छ्रं बहुविधं चापि एकद्वित्रिदिनादिजम् ।।३७।।
एवं व्रतानि जगृहुः कृष्णप्रसन्नतेच्छया ।
श्रुत्वा श्रीलोमशः प्राह शृणुत कन्यका! हितम् ।।३८।।
येन कृष्णः प्रसन्नः स्यात् तद्व्रतं चोत्तमोत्तमम् ।
व्रतेन तपसा वाप्याराधनेन यमादिभिः ।।३ ९।।
तोषणीयः कृष्णनारायणः साधनकोटिभिः ।
अव्रतेऽपि प्रसन्नः स्यादव्रतं व्रतमेव तत् ।।2.16.४०।
व्रते नास्ति प्रसन्नश्चेद् व्रतं चाऽव्रतमेव तत् ।
तस्मात् पुत्र्यो! हरिर्येन तुष्येत् प्रष्टव्यमेव तत् ।।४१ ।
ज्ञात्वा तोषप्रदं चातुर्मास्ये कुरुत तद्व्रतम् ।
इत्युक्ताः सुकुमार्यस्ता हरिं कृष्णनरायणम् ।।।४२।।
पप्रच्छुः सुखमासीना येन तुष्यसि तद् वद् ।
श्रुत्वा हसन् हरिः प्राह भक्त्या तुष्यामि नान्यथा ।।४३।
न व्रतैर्नैव दानैश्च न यमैर्नियमैस्तथा ।
न यज्ञैर्दक्षिणाभिश्च न देहक्षपणैस्तथा ।।४४।।
न विचारैर्न च धनैर्न सौकुमार्यभावनैः ।
किन्तु प्रेम्णा प्रसन्नः स्यां निर्व्याजेनाऽनिवर्तिना ।।४५।।।
प्रेमवतं मदर्थं च कार्यं युष्माभिरेव यत् ।
प्रेम्णा पूज्यो वन्दनीयः प्रेम्णा स्मर्तव्य एव च ।।४६ ।।
प्रेम्णा दास्यं प्रकर्तव्यं कैंकर्यलक्षणं मयि ।
स्नाने ध्याने भोजनादौ देहकार्येऽपि सर्वथा ।।४७।।
अहं कृष्णः प्रयोक्तव्यस्तद्व्रतं मोक्षदं भवेत् ।
अबलानां बलं चाहं बालानां बलभागहम् ।।४८।।
कन्यानां कं सुखं कुर्वे नारायणोऽस्मि मोक्षदः ।
चातुर्मास्ये मदर्थं वै प्रदक्षिणं नमस्क्रिया ।।४९।।
मम मालाजपो ध्यानं मम नाम्नां सुकीर्तनम् ।
मम गाथा मम कथा मदर्थं जीवनं प्रियाः ।।2.16.५०।।
सर्वं कृष्णार्पणं तद्वै व्रतं श्रेष्ठं मया कृतम् ।
भवतीनां कृते दिव्यं साक्षान्मद्योगसंभृतम् ।।५१ ।।
नैतत्तुल्यं व्रतं त्वन्यत्तेन मोक्षसुखं भवेत् ।
व्रतेर्यः खलु चाप्तव्यः सोऽहं प्राप्तोऽस्मि सर्वथा ।।५२।।
तद्व्रतं किं व्रतं चान्यत् तिष्ठतैवं व्रते मयि ।
इत्युक्त्वा भगवाँस्तासां जग्राहार्चनवस्तुकम् ।।५३।।
दर्शस्पर्शसुखं ताभ्यो ददौ कोटिस्वरूपभाक् ।
ताः सर्वाश्च हरिं नत्वा तदोचुः परमेश्वरम् ।।५४।।
नाथ नित्यं तव पूजां करिष्यामोऽत्र संगताः ।
एवमेव सुखं देहि पूजाग्रहणानुग्रहात् ।।५५।।
तथाऽस्त्विति हरिः प्राह तावदाश्चर्यमत्र यत् ।
जातं तद् राधिके तेऽत्र कथयामि शृणु प्रिये ।।५६।।
शत्रूञ्जयाख्यशैलो वै वर्तते त्वग्निदिग्भवः ।
सौराष्ट्रे तत्र दैत्या वै समासन् कंकतालकाः ।।५७।।
सहस्रशः कंकताला मद्यमांसपरायणाः ।
अद्रिशृंगसमाकारा हलवद्दन्तमूर्धजाः ।। ५८।।
तप्ततालोच्छ्रया मेघमार्गमस्तकसंस्पृशाः ।।
सामुद्रमत्स्यभक्षाश्च नरमांसादनास्तथा ।।५९।।
पनारण्यपशुभक्षाः पक्षिप्राणिप्रभक्षिणः ।
आययुस्ते तदा ज्ञात्वा कृष्णपूजनकोत्सवम् ।।। 2.16.६०।।
व्रतघ्नास्तेऽसुराः सर्वे खलाः शस्त्रास्त्रधारिणः ।
निपेत्तुर्व्योममार्गात्ते हंतुं बालनरायणम् ।।६१ ।।
मारयैनं घातयैनं बालकृष्णं विरोधिनम् ।
असुराणां महाशत्रुं लक्षाणां घातकं परम् ।।६२।।
तत्पत्नीनां हारकं च मारयत द्रुतं प्रभुम् ।
लोमशं नाशयत क्षिप्रं बध्वा रज्ज्वा गले पुनः ।।।६३।।
विप्राणं त्वत्र कुरुत ध्वंसध्वं च तदा श्रयान् ।
इत्युक्त्वा त्वम्बराद् यावन्निपेतुर्हननाशयाः ।।६४।।
लोमशः स्तम्भयामासाऽऽकाशे तान् वै तथाविधान् ।
अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।।६५।।
नैजानि सर्वरूपाणि संगृह्य क्षणमात्रतः ।
वैराजरूपमास्थाय बभौ गिरिवरोपमः ।।६६।।
सस्मार गरुडं दिव्यं समाययौ क्षणाद्धि सः ।
पक्षाभ्यां विवृताभ्यां च कन्यकाश्चाश्रमं तथा ।।६७।।
अश्वपट्टसरश्चापि स ररक्ष वितानवत् ।
दशयोजनविस्तारं क्षेत्रं संरक्ष्य पक्षिराट् ।।६८।।
व्यात्तपक्षश्च तस्थौ स निर्भयश्चाच्युताज्ञया ।
भगवान् द्राक् तस्य पृष्ठं समारुरोह हेतिमान् ।।६९।।
सुदर्शनं तथा चक्रं मुमोच लीलया वदन् ।
शत्रूञ्जयाः कंकतालाः कथं तिष्ठथ निष्क्रियाः ।।2.16.७०।।
प्रयत्यन्तां प्राणग्लहैर्भवद्भिर्नष्टभालकैः ।
एष चास्ते लोमशोऽत्र जडभावं विकर्षति ।।७ १ ।।
एवमुक्ते जडभावे संहृते तेऽसुरास्तदा ।
श्रीकृष्णमायया दग्धा हतभाग्या पुनर्बलम् ।।७२।।
चक्रुः कृष्णविनाशार्थं दुद्रुवुर्वेगतो ह्यभि ।
श्रीकृष्णे गरुडे यावत् शस्त्राणि प्रथमं तु ते ।।७३।।
योजयन्ति प्रहारार्थं तावच्चक्रं सुदर्शनम् ।
प्रलयाग्निसमाकारं भ्रमत्तीक्ष्णारदुःसहम् ।।७४।।
कंकतालासुराणां तु मस्तकान्यभ्यकर्तयत् ।
निपेतुश्चार्धभिन्नास्तद्देहा व्योम्नः समन्ततः ।।७५।।
शिरांसि चापि गलतश्छिन्नान्यपि तदाऽपतन् ।
हस्तौ पादौ कटिभागा न्यपतन् भूतलेऽभितः ।।७६ ।।
हस्तशस्त्रा अपि चक्रकर्तिता निर्बला यथा ।
हन्तुं कृष्णं गरुडं वा लोमशं नाऽशकंस्तदा ।। ७७।।
सहस्रं तु तदा तेषां शस्त्रच्छिन्नं लयं गतम् ।
शेषा विदुद्रुवुस्ताँश्च गदा कौमोदकी स्वयम् ।।७८।।
मूर्तिमती चाद्रितुल्या बहुशस्त्रकरान्विता ।
मार्गमारुद्ध्य परितो धावमाना ह्युपस्थिता ।।७९।।
यत्र यत्र दिशि दैत्या दुद्रुवुस्तत्र तद्दिशि ।
गदा नैकस्वरूपा सा भयंकरी महासती ।।2.16.८०।।
समुत्प्लुत्य पुरस्तस्थौ ममाराऽति तु ताँस्तदा ।
गदया ते हताश्चान्ये पञ्चषश्चावशेषिताः ।।८ १ ।।
कन्यारूपाणि धृत्वैव गरुडस्याश्रयं गताः ।
कन्यकासु प्रविश्यैव रक्षणं चक्रुरीश्वरात् ।।८२।।
अथ नारायणश्चक्रं गदा च गरुडस्तथा ।
दैत्यान् हत्वा च नैजं वै सूक्ष्मं रूपं दधुस्ततः ।।८३ ।।
गरुडः श्रीहरिं तत्र समर्च्य परमेश्वरम् ।
वैकुण्ठं प्रययौ शीघ्रं सुदर्शनं करागतम् ।।८४।।
भगवानपि चैकैकः कन्याधैर्यप्रदस्तदा ।
जहास लोमशं प्राह नूत्नाः कन्यास्तु पंचषः ।।८५ ।।
वर्तन्ते कन्यकास्त्वत्र पश्य गुरो! मृतेर्भयात् ।
दैत्याः समभवन् प्राणहेतोः कपटयोषितः ।।८६ ।।
तासां प्राणपरित्राणं कार्यं मया दयालुना ।
इत्युक्तास्ता रुरुदुश्च प्रणेमुश्च ययाचिरे ।।८७।।
रक्षणं पालनं चापि नित्यं दासीपदं तथा ।
कृष्णः प्राह तथाऽस्त्वेतन्नारीरूपं सदा च वः ।।।८८।।
शाश्वतं कन्यकारूपं भवत्वत्र ममाऽऽलये ।
लोमशस्याश्रमे तासां वासं त्वकारयद्धरिः ।।८९ ।।
लोमशश्च ददौ मन्त्रं वैष्णवं गलमालिकाम् ।
तौलसीं तिलकं नाममन्त्रं च दिव्यरूपताम् ।।2.16.९ ०।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
जगृहुर्मन्त्रमव्यग्राः साध्व्यः कन्यास्तु नूतनाः ।।९ १ ।।
वैष्णव्यस्ताश्च सञ्जाता भेजिरे श्रीहरिं ततः ।
प्रार्थयामासुरीशेशं मोक्षार्थं मृतयोधिनाम् ।।९ २।।
दैत्या युद्धे मृता ये ते कृष्णनारायणेच्छया ।
सहस्रशः समायाताः सूक्ष्मदेहा विकल्मषाः ।।९३ ।।
आसुरत्वं विनाश्यैव श्रीकृष्णेन परात्मना ।
दिव्यत्वं तु तदा दत्वा विमानैर्दिव्यपार्षदैः ।।९४।।
वैकुण्ठं प्रापिताः सर्वे शत्रूञ्जयनिवासिनः ।
एवं मुक्तिं प्रपन्नास्ते चैकादश्यां हरिश्रिताः ।। ९५।।
अथ ताः सर्वकन्याश्च नीत्वा श्रीलोमशो मुनिः ।
निजाश्रमं ययौ कृष्णो बालकृष्णो बभूव ह ।।९६ ।।
तत्तीर्थं कंकतालाख्यं चाऽश्वपट्टसरोवरे ।
जातं ख्यातं दक्षपार्श्वे यत्र पूजा हरेः कृता ।।९७।।
बालकृष्णो विधायैवमानन्दं व्रतियोषिताम् ।
तिरोऽभवत् क्षणान्ते वै गृहपर्यंकिकां गतः ।।९८।।
एतच्चरित्रं सुभगं राधिके! देवदेविनः ।
ज्ञात्वा श्रुत्वा पठित्वाऽपि स्मृत्वा मुक्तिं लभेद् ध्रुवम् ।।९९।।
धनवान् पुत्रवान् श्रीमाननन्तस्वर्गवान् भवेत् ।
नारी सौभाग्यकीर्त्याढ्या वंशसन्तानदा भवेत् ।। 2.16.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आषाढशुक्लैकादश्यां बालकृष्णस्य प्रभोः कन्यकाकृतपूजनं बहुरूपधारणं व्रतानि, शत्रूञ्जयपर्वतस्थकंकतालानां दैत्यानां युद्धं मोक्षणं, शेषाणां कन्यारूपधारिणां लोमशाश्रमे वासश्चेत्यादिनिरूपणनामा षोडशोऽध्यायः ।। १६ ।।