लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०४८

← अध्यायः ०४७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ४८
[[लेखकः :|]]
अध्यायः ०४९ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके रम्यां चमत्कारमयीं कथाम् ।
चैत्रे श्रीबालकृष्णस्य पूजात्मिकां वदामि ते ।। १ ।।
पितामहसुता नित्ययौवना व्रतसंस्थिताः ।
ब्रह्मचर्यपरा नित्यॆ सामवेदस्य पाठिकाः ।। २।।
सूर्यवद्रूपसम्पन्नाः सुषुम्णेडा च पिङ्गला ।
तिस्रः कन्याः कुमार्यश्चाऽनुज्ञया वेधसो भुवि ।। ३ ।।
मानस्यस्ता मनोवेगाश्चाययुस्तीर्थवाञ्च्छया ।
श्रुतं ताभिः पुरा सत्ये नारदस्य मुखान्ननु ।। ४ ।।
पृथ्व्यां नारायणः कृष्णो राजते कमलापतिः ।
अनादिश्रीकृष्णनारायणः श्रीपार्वतीपतिः ।। ५ ।।
ततो जिज्ञासयामासुः पप्रच्छुर्नारदं तु ताः ।
कीदृग्गुणः स भगवान् यत्प्रशंसापरो भवान् ।। ६ ।।
नारदो हि तदा प्राह भगिन्यो! भगवान् हि सः ।
अस्मत्पितुः पिता यश्च वैराजस्तस्य यः पिता ।। ७ ।।
महाविष्णुस्तस्य पिता प्रधानपुरुषस्तु यः ।
तस्य पिता प्रकृतीशस्तत्पिता श्रीहरिः स्वयम् ।। ८ ।।
अनादिश्रीकृष्णनारायणः सोऽस्ति कुमारकः ।
पृथ्व्यां श्रीकम्भरापुत्रः श्रीमद्गोपालनन्दनः ।। ९ ।।
अस्मल्लोकः सप्यलोकस्तत्परो धरणिस्तरः ।
तस्मात्परं जलस्यास्त्यावरणं च ततः परम् ।। 2.48.१ ०।।
वैकुण्ठं राजते तस्मात्परं तेजःकटं मतम् ।
वैराजा नाम लोकाश्च यत्र वैराजनामकः ।। १ १।।
ईश्वरो राजते तस्माद् यन्महावैष्णवं पदम् ।
महाविष्णुस्तत्र चास्ते चाथ प्रधानधाम वै ।। १ २।।
तत्राऽव्याकृतसंज्ञं च यत्र भूमा विराजते ।
तद्वै वैकुण्ठमपरं लक्ष्मीनारायणाश्रितम् ।। १ ३।।
ततः प्रकृतिसात्लोके धामगोलोकमुत्तमम् ।
श्रीकृष्णोऽत्र, वासुदेवोऽव्याकृते, राजते प्रभुः ।। १४।।
तत्परं त्वक्षरं धाम यत्र ब्रह्म विराजते ।
अनन्तमुक्तसहितं दिव्यैश्वर्यविराजितम् ।। १५।।
तस्मात्परं बृहत्प्रोक्तं परं धाम हरेः शुभम् ।
शाश्वतं सर्वशोभाढ्यं सर्वधामपरं महत् ।। १६।।
परधामस्थितोऽनादिश्रीकृष्णश्रीनरायणः ।
अनादिश्रीकृष्णनारायणो यो भगवान् स्वयम् ।। १७।।
यस्माद् भवन्ति वै व्यूहा वासुदेवादयस्तथा ।
अवतारा ईश्वराश्च देवा ऋषिवरास्तथा ।। १८।।
अनन्ताः शक्तयो यस्य राधारमाप्रभाश्रियः ।
लक्ष्मीपारवतीहंसाकृष्णावृन्दाजयादिकाः ।। १९।।
शतं च द्वादश चैव श्रेष्ठास्तत्रापि पार्श्वगाः ।
प्रभापारवतीराधालक्ष्म्यश्चतस्र एव ताः ।।2.48.२०।।
सदा स्वमूर्त्यभिन्नास्ता राधा हृदन्तरे स्थिता ।
लक्ष्मीः रेखास्वरूपेण वक्षस्युपरि संस्थिता ।।२१ ।।
प्रभा कृष्णानने तेजःपरिधिरूपिणी स्थिता ।
पारवती पद्मचिह्नात्मिका वामेऽस्य सक्थिनि ।।२२।।
वर्तन्ते एवमन्याश्च शरीरावयवात्मिकाः ।
कोट्यर्बुदाश्च यास्त्वन्यास्तास्तु रोमसु सर्वशः ।।२३।।
तन्मूर्तौ संस्थिता देव्यो मुग्धा भजन्ति तं पतिम् ।
सर्वलावण्यसौन्दर्याऽऽनन्दसौभाग्यशेवधिम् ।।२४।।
भजन्ते ब्रह्मवासिन्यः कोट्यर्बुदकुमारिकाः ।
नालमेध्यश्चतुर्दशसहस्राणि भजन्ति तम् ।। २५।।
दीपावल्यः कोटिशश्च षष्टिस्तत्कन्यकास्तथा ।
तलाजा दैत्यकन्या च गोकन्याश्चार्चयन्ति तम् ।।२६।।
आर्जन्त्याद्याः शतसंख्या भजन्ते तं परेश्वरम् ।
कन्या क्रोधनिकानाम्नी भजते तं नरायणम् ।। २७।।
कन्दराः कन्यकाश्चापि भजन्ते कोटिसंख्यकाः ।
ब्रह्मपुत्री तथा सूची वनदेवश्च लक्षकम् ।।२८।।
राक्षसीकन्यका लक्षसंख्या भजन्ति तं पतिम् ।
कंकतालीयजातीयाः पंचषाश्चायुतं तथा ।।२९।।
ब्रह्मसरसोऽप्सरसः कन्यका देवकोटिकाः ।
अर्यम्णः कन्यकाश्चापि कुबेरकन्यकास्तथा ।।2.48.३ ०।।
इन्द्रकन्या यमकन्या वायुकन्याः सहस्रशः ।
ऋतुकन्या विश्वकर्मकन्याश्च द्रुमकन्यकाः ।।३ १।।
दैत्यदानवकन्याश्च पञ्चसाहस्रसंख्यकाः ।
भजन्ते श्रीकृष्णनारायणं तं परमेश्वरम् ।।३२।।
वसन्तस्य तथा पत्न्यो भजन्ते तं च षोडश ।
पञ्चशतं सालमालकन्यकाश्च भजन्ति तम् ।।३३।।
नागकन्यायुतं शावदीनकन्यासहस्रकम् ।
ऐन्द्रजालिकरौद्र्यश्च कन्याः सहस्रसंख्यकाः ।।३४।।
षष्टिकन्याः किशोर्यश्च विद्यात्मिकाश्चतुर्दश ।
वह्नेः पुत्र्यः श्रवणानां पुत्र्यः संवत्सराऽऽत्मजाः ।।३५।।
वार्क्षीकन्याश्च खनिजास्तं भजन्ति परेश्वरम् ।
द्वेसहस्रे कन्यकाश्च लक्ष्मणस्य भजन्ति तम् ।।३६।।
योगीशं चाऽसंख्यरूपं किशोरं शाश्वतं प्रभुम् ।
तस्य योगेन मुक्तिश्चाऽऽनन्दवार्धिसमर्जनम् ।।३७।।
सर्वदा वर्तते यस्मात्तं भजन्ति मुमुक्षवः ।
अहं तद्दर्शनं कर्तुं नित्यं प्रातः प्रयामि च ।।३८।।
तस्य गुणान् प्रगायामि गायत्येनं सरस्वती ।
इत्युक्ता नारदेनैताः स्वसारस्तिस्र एव तु ।।३९।।
तद्गतमानसाः सत्याद् विमानेन समाययुः ।
मन्दाकिन्या पन्थानं त्वनुसृत्य हिमालयम् ।।2.48.४०।।
अवतेरुः श्रीबदरीपतिं दृष्ट्वा प्रपूज्य च ।
कुरुक्षेत्रं पुष्करं चार्बुदं सरस्वतीं तथा ।।४१।।
दृष्ट्वा चतुष्टिलाद्रिं च अश्वपट्टसरोवरम् ।
आययुस्ता विमानेन कृष्णदर्शनलालसाः ।।४२।।
आकाशमार्गाद् भामिन्यो ददृशुरुज्ज्वलां क्षितिम् ।
चैत्रस्य पूर्णिमासायं चन्द्रोदयक्षणे हि ताः ।।४३।।
व्योम्ना तत् कुंकुमवापीक्षेत्रं सूर्यमिवाऽपरम् ।
भ्राजमानं व्यपश्यँश्च तिमिरं न मनागपि ।।४४।।
ततस्तास्तर्कयामासुः क्षेत्रं तत्पौरुषोत्तमम् ।
सरोवरं च नगरं विशालं ददृशुश्च ताः ।।४५।।
मध्ये तु कानकं श्रेष्ठं प्रासादं सूर्यवर्चुलम् ।
सूर्यबिम्बमिवाऽऽत्मानं ख्यापयन्तं च ददृशुः ।।४६।।
उद्यानानि विचित्राणि देवपुष्पमयानि च ।
देवगृहाणि रम्याणि ऋष्याश्रमान् सहस्रशः ।।४७।।
दिव्याश्च देवताश्चापि ददृशुर्वनदेवताः ।
अवताराश्रमाँश्चापि तथेश्वरगृहाणि च ।।४८।।
लोमशस्याश्रमं दिव्यं शुभं चन्द्रवदुज्ज्वलम् ।
दिव्यौषधिप्रविततं ददृशुः कन्यकाश्रितम् ।।४९।।
तीर्थसेतुं च परितो ददृशुश्च विहायसा ।
चतुःप्रदक्षिणान्यस्य क्षेत्रस्य संविधाय ताः ।।2.48.५० ।।
प्रतर्क्य सूर्यसदृशं कृष्णनारायणालयम् ।
जयशब्देन सहिताः पुष्पाणां वर्षणं व्यधुः ।।।५१ ।।
जयशब्दस्तु देवीनां व्योम्नोऽव्याप्नोत् समन्ततः ।
श्रुत्वा शब्दान् जयमिश्रान् लोका व्योम्नि व्यलोकयन् ।।५२।।।
चन्द्रवत्कौमुदीव्याप्तं चाकृत्या पद्मसन्निभम् ।
नेत्रानन्दकरं गन्धसुगन्धाढ्यं विमानकम् ।।५३।।
तेजोभूतं विचित्रं च रंगानुरंगशोभितम् ।
अन्तःप्रविश्य च चक्षुर्दृश्यं कन्याश्रितं शुभम् ।।५४।।
समृद्धं दिव्यवस्त्वाढ्यं वस्त्रतोरणवर्धितम् ।
सौवर्णकलशैर्युक्तं त्रिशृंगं त्र्यासनान्वितम् ।।५५।।
ददृशुर्मानवाद्याश्च परमाश्चर्यमागताः ।
विमानं श्रीकृष्णनारायणदेवालयोपरि ।।५६।।
स्थिरं चाभूदम्बरे च तत्र तिस्रस्तु कन्यकाः ।
शुश्रुवुः सर्वतो जातान् नीराजनसमुद्भवान् ।।५७।।
निनदान्नैकसंघोषान् स्तोत्रोत्तमानसंख्यकान् ।
तल्लीनास्तास्तदा जाता आपुः शान्तिं परां तदा ।।५८।।
अथ ज्ञात्वा श्रीकृष्णस्ता भक्ता ब्रह्मसुता रताः ।
स्वयं किशोररूपश्च विमाने प्रादुरास ह ।।५९।।
दिव्यदर्शनजं सौख्यं स्पर्शानन्दं परात्परम् ।
ददौ क्षणं च ताभ्यश्च संश्लेषजं महासुखम् ।।2.48.६०।।
विमानं श्रीहरिस्तत्राऽवतारयत् निजालये ।
अदृश्योऽभूत्तदा याने स्वर्णसौधे गतोऽभवत् ।।६१ ।।
कन्यकास्ता विमानाच्चाऽवतेरुः कृष्णमन्दिरे ।
चन्द्रशालोपरि क्षणं तस्थुर्विमानसन्निधौ ।।६ २।।
उपदास्ता विमानाच्च संगृह्य दिव्यभासुराः ।
चन्द्रशालोपरि न्यधुः प्रतीक्षन्त्योऽभिमार्गदम् ।।६३ ।।
किंकरं किंकरीं चापि जानती चावरोहणम् ।
अन्तःप्रवेशनार्थं च प्रतीहारीप्रतीक्षकाः ।।६४।।
तस्थुस्ताश्चन्द्रशालायां तावच्छ्रीकम्भरासुता ।
सन्तोषानामिका तूर्णं सख्या सुशीलया सह ।।६५।।
भ्रातुर्भगवतः प्रत्न्याऽमृतया च सहाऽऽययौ ।
चन्द्रशालास्थिता दिव्याः कन्यास्तेजःशरीरिणीः ।।६६।।
नेमुर्विलोक्य च शीघ्रं स्वागतं जगदुः सुखम् ।
आगच्छत महाभागाः कृष्णनारायणं प्रति ।।६७।।
मातरं पितरं चापि सप्तमभ्वां विराजितम् ।
इत्युक्तास्ताः सुषुम्णा च इडा च पिङ्गला तथा ।।६८।।
पुष्पहारान् चन्दनानि कर्पूरं चाऽक्षताँस्तथा ।
कुंकुमं गन्धसाराँश्च कैसराण्युत्तमानि च ।।६९ ।।
रत्नहारान् रत्नभूषा मकुटं कुण्डले तथा ।
दिव्यताम्बूलकं दिव्यफलान्यप्यवलेपनम् ।।2.48.७०।।
दिव्यं च कज्जलं रम्यं तैलं ब्राह्मं समत्तमम् ।
सौगन्धिकवारिसारान् वह्निशुद्धांशुकानि च ।।७१ ।।
सद्रत्नहीरकहारान् पात्राणि कानकानि च ।
आदर्शान् दिव्यदृश्याँश्च दिव्यसम्मर्दचूर्णकान् ।।७२।।
दिव्यनैवेद्ययोग्याँश्च मिष्टभोज्यान्नपाचितान् ।
अमृतान् दुग्धसाराँश्चाऽसंख्यबीजफलानि च ।।७३ ।।
दिव्यपेयाढ्यपात्राणि समादाय तथा पुनः ।
दिव्यशय्यास्तरणानि दिव्यधार्याम्बराणि च ।।७४।।
गृहीत्वा पात्रहस्तास्ताश्चावतेरुः शनैः शनैः ।
भव्यसोपानाऽवरोहमार्गैर्भूम्यन्तरं च ताः ।।७५।।
सन्तोषा कन्यका चाग्रे मध्ये तिस्रोऽजकन्यकाः ।
पृष्ठे चाऽप्यमृता भ्रातृजाया सुशीलिका ततः ।।७६ ।।
एकां भूमिमवतीर्य विशाले भूमिसंस्तरे ।
विविशुः सप्तमभूमौ यत्र कृष्णनरायणः ।।७७।।
तथा श्रीकम्भरालक्ष्मीर्माता विराजते सती ।
मातरं ताः सम्प्रणम्य बालकृष्णं प्रणम्य च ।।७८।।
दिव्यासनेषु दत्तेषु निषेदुस्ता यथोचितम् ।
आभाषिताश्च ता मात्रा मंगलं कुशलं प्रति ।।७९।।
प्रयोजनं तथा तासां जनकं जननीं प्रति ।
ऊचुः परिचयं सर्वं ब्रह्मणस्तु सुता वयम् ।।2.48.८०।।
सुषुम्णा च इडा चापि पिंगला नाम कन्यकाः ।
कुमारिका निजभ्रातुर्नारदस्योपदेशतः ।।८ १ ।।
विज्ञाय श्रीमतीपुत्रं त्वनादिपरमेश्वरम् ।
कृष्णनारायणं चैनं किशोरं कान्तमच्युतम् ।।८२।।।
द्रष्टुं वयं समायाता धन्याः स्मोऽस्याऽद्य दर्शनात् ।
अद्य नः सफलं जन्म कौमार्यं सफलं च नः ।।८३
देवीत्वं सफलं चापि मातस्तेऽपि च दर्शनात् ।
इत्युक्त्वा चाऽमृतां पृष्ट्वा सन्तोषां च सुशीलिकाम् ।।८४।।
पूजां चक्रुः केशवस्य बालकृष्णस्य सम्मताः ।
प्रथमं कृष्णचरणौ पुपूजुर्गांगवारिभिः ।।८९।।
न्यधुर्मुखे च शिरसि श्रीकान्तचरणामृतम् ।
ततश्चन्दनबिन्द्वादि भाले चकुर्हरेस्ततः ।।८६।।
सुगन्धिलेपनं चक्रुर्ददुः सुगन्धवारि च ।
गन्धसारान्ददुश्चापि कज्जलं कुंकुमादिकम् ।।८७।।
पुष्पहारान् रत्नहारान् विभाषा मुकुटं तथा ।
कटके कुण्डले चापि ददुश्चान्यविभूतिकम् ।।८८।।
अम्बराणि शयनानि फलान्नपेयकानि च ।
उपदाश्च न्यधुस्तस्य पुरतश्चामरादिकम् ।।८९।।
नैवेद्यानि ददुश्चापि मिष्टपेयानि यानि च ।
ताम्बूलकं ददुश्चापि चक्रुर्नीराजन ततः ।।2.48.९०।।
प्रदक्षिणं प्रचक्रुश्च मालिकां महतीं गले ।
ददुश्चान्तरभावानां ज्ञापयित्रीं तु शाश्वतीम् ।।९ १ ।।
कान्तः कान्ताकृतां पूजां गृहीत्वा पाणिना च ताः ।
पस्पर्श तत्करान् कृष्णो भावज्ञो भावि बोधयन् ।।९२।।
विहसन् लोकयन् तासामाननानि मुहुर्मुहुः ।
ताश्चाति जहृषुः राधे बालकृष्णाप्तिहेतुना ।। ९३।।
अथ ता मातरं तद्वत् सन्तोषां चामृतां तथा ।
अम्लानाः पुष्पमालाश्चार्पयामासुर्गलान्तरे ।।९४।।
नेमुस्ताभ्यो विनम्राश्च भोजिता विश्रमीकृताः ।
पायिताः शायिताश्चापि संवाहिताश्च वर्ष्मसु ।।९५।।
सखीभिः किंकरीभिश्च सेविता निद्रिताश्च ताः ।
प्रातरुत्थाय च स्नात्वा त्वश्वपट्टसरोवरे ।।९६।।
तीर्थविधिं परं कृत्वा गत्वा श्रीलोमशाश्रमम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।९७।।
मन्त्रं मालां तौलसीं च गृहीत्वा वीक्ष्य कोट्यर्बुदम् ।
कन्यकानां मण्डलं च प्रसन्नाः पूज्यभावतः ।।९८।।
नत्वा शीघ्रं पुनः कृष्णकान्तं प्रति समाययुः ।
दर्शनं प्राप्य तृप्तास्ताः कृष्णवश्याः पुनः पुनः ।। ९९।।
अतृप्ता इव पश्यन्ति हृदि कृत्वा पतिं प्रभुम् ।
श्रीकृष्णेन हृदा चांगीकृतास्ताः स्वगृहं प्रति ।। 2.48.१० ०।।
गन्तुं नेच्छां यदा चक्रुस्तदा प्राह नरायणः ।
पुनराज्ञां पितुर्नीत्वा समायाताऽत्र सत्वरम् ।। १०१ ।।
भवतीनां मानसानि पूरयिष्ये न संशयः ।
इत्युक्तास्ता हरेरग्रे समर्प्य सर्ववस्तुकम् ।। १ ०२।।
विमान वस्तुशून्यं च कृत्वा गोपालकृष्णकम् ।
पूजयित्वा ततो नत्वाऽऽगृह्याऽऽज्ञां भोजनोत्तरम् ।। १ ०३।।
प्रसाद्य श्रीहरिं कान्तं नत्वा राधे पुनः पुनः ।
प्रसादजं फलं पुष्पं प्राप्य विमानमास्थिताः ।। १ ०४।।
अश्वपट्टसरो नत्वा नत्वा कुंकुमवापिकाम् ।
कान्तदेवालयं नत्वा व्योम्ना यानेन चाम्बरे ।। १ ०५।।
तिरोऽभवन् क्षणान्मुक्त्वा जयशब्दान् पुनः पुनः ।
पठनाच्छ्रवणादस्य कृष्णसौभाग्यवान् भवेत् ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वेधसस्तिस्रः पुत्र्यः सुषुम्णेडापिंगला विमानेनाऽऽगत्य प्रभुं पतिं मत्वा संपूज्य ययुरित्यादिनिरूपणनामाऽष्टचत्वारिंशोऽध्यायः ।। ४८ ।।