लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०५४

← अध्यायः ०५३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ५४
[[लेखकः :|]]
अध्यायः ०५५ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्राऽवसरे दैत्ययोषितः ।
लक्षशो युद्धवेत्त्र्यश्च व्योममार्गानुमार्गगाः ।। १ ।।
उड्डीयोड्डीय वै क्रूराः सशस्त्राश्च समन्ततः ।
सप्तम्यां भूमिकायां ता विविशुर्यत्र कन्यकाः ।। २ ।।
द्वासप्ततिसहस्राणि वर्तन्ते कृष्णमानसाः ।
चुक्रुशुः कन्यका वीक्ष्य राक्षसीश्चांजनोज्ज्वलाः ।। ३ ।।
सखड्गाः साऽसयः काश्चित् कराग्रकृतछूरिकाः ।
सशूलाः सकृपाणाश्च सतोमराः समुद्गराः ।। ४ ।।
ससीताः सोपलाश्चान्याः समुसलाः शिलान्विताः ।
स्फारनेत्रा रक्तजिह्वा दृश्यदंष्ट्रा भयप्रदाः ।। ५ ।।
छिन्धि भिन्धीति वादिन्यः खादचर्वयशब्दिताः ।
दाहय ज्वालय सर्वाः प्रमारय प्रचूर्णय ।। ६ ।।
प्रमर्दय जहाहीति वदन्त्यो युद्धदुर्मदाः ।
कीर्णकेशा हेतियुक्ता दुद्रुवुः परितस्तु ताः ।। ७ ।।
यावद्विमानमारुह्य मारयितुं प्रयान्ति ताः ।
तावत्तत्र सुषुम्णाद्याः स्पृष्ट्वा कल्पलताद्रुमान् ।। ८ ।।
कृत्यासैन्यानि दैत्यानां योषितां नाशहेतवे ।
समुद्भवन्तु परितश्चेत्यसंकल्पयन्मुहुः ।। ९ ।।
कृत्यास्तत्र लताभ्यश्च सहस्रायुतसंख्यकाः ।
समुद्भूता महारौद्र्यः कालानलसमाक्षिकाः ।। 2.54.१ ०।।
व्योमानुगाः सूक्ष्महृस्वाः स्थूलाः शैलनिभा अपि ।
एकैकां परिसंमृग्य केशाकेशि च हेतुभिः ।। ११ ।।
दण्डादण्डि च विविधं युद्धं तासामभूत्तदा ।
कृत्याभिदैत्यनारीः संगृह्यगृह्य प्रमर्दिताः ।। १२।।
भग्नाश्च चूर्णिताश्चापि भेदिता नाशिता अपि ।
मूत्रिताश्चानने तासां हृदयेषु विदारिताः ।। १ ३।।
स्तनेषु भेदितास्ताश्च मर्मस्वप्यर्दिताः शरैः ।
कर्चरिता भस्मिता वह्निज्वालाभिश्च मारिताः ।। १४।।
दशलक्षाणि नारीणां कृत्याभिर्नाशितानि हि ।
सस्मरुः कन्यकाः कृष्णनारायणं प्रभुं प्रियम् ।। १५।।
सद्यः समाजगामाऽसौ गरुडस्थो महाप्रभुः ।
साक्षाद् बभूव तासां वै युद्धारंभे समागतः ।। १६ ।।
विमाने तिष्ठते नाथो हृदयेषु च तिष्ठति ।
युद्धारंभे स्थितोऽदृश्यो विलोकयति सङ्गरम् ।। १७।।
प्रत्यक्षं त्वागतं नाथं दृष्ट्वा कन्याः सुसंभ्रमाः ।
पुपूजुश्चनिपेतुश्चाऽश्लिक्षन् प्रेमभरोत्सुकाः ।। १८।।
हरिः सिंहासने चास्ते कन्यकामण्डलान्तरे ।
तथा श्रीशंकरादीनां मण्डलेष्वपि भासते ।। १९।।
शंकराद्यैर्गणाद्यैश्च ऋषिभिः पूजितः प्रभुः ।
निषसादाऽऽसने रम्ये श्रेष्ठे योग्ये प्रभासुरे ।।2.54.२०।।
नारदः कथयामास वृत्तान्तं युद्धजं तथा ।
राज्ञः परिचयं चापि ददौ मानुषलीलया ।।२१ ।।
राजा रुरोद बहुधा प्रार्थयच्च क्षमां तदा ।
तथा तत्सैन्यपा ये च दूरं गताः सहाऽभवन् ।।२२।
अभयं प्रददौ तेभ्यः कृष्णनारायणो हरिः ।
राजाद्याः ददृशुः श्रीमत्कृष्णनारायणोदरे ।।२३ ।।
भुवनार्णवपातालान् स्थितान् स्थावरजङ्गमान् ।
आदित्यवसुरुद्राँश्च विश्वेदेवगणाँस्तथा ।।२४।।
यक्षान् किंपुरुषाँश्चापि गन्धर्वाऽप्सरसां गणान् ।
मुनीन्मनुजसाध्याँश्च पशुकीटपिपीलिकाः ।।।५।।
सरीसृपान् वृक्षगुल्मफलमूलौषधानि च ।
जलस्थाँश्च स्थलस्थाँश्चाऽनिमेषान् निमिषानपि ।।२६।।
अव्यक्ताँश्चैव व्यक्तांश्च द्विपदोऽथ चतुष्पदः ।
दैतेयान् दानवांश्चैव राक्षसानुरगाँस्तथा ।।२७।।
ब्रह्माण्डाऽऽवरणाँश्चापीश्वरांश्च परमेश्वरान्।
मुक्तान् मुक्तनिवासाँश्च लक्ष्म्यादिकाश्च पत्निकाः ।।२८।।
पार्षदान् श्रीहरेश्चापि त्वन्यरूपाणि वै हरेः ।
राजा देशं निजं राज्यं स्वं विमानं च योधनम् ।।२९।।
सर्वं ददर्श च तदा भक्तिनम्रो बभूव ह ।
उवाचापि निजान् भावान् स्मृत्वा कर्माणि तानि च ।।2.54.३०।।
अहो नारायणः साक्षात्परमात्मा परात्परः ।
तद्भक्ताश्च मया नैव ज्ञाताः संसारलोभिना ।।३ १।।
सदाऽकरवं पापानि महापापानि यानि च ।
तेषां यत्र भवेन्नाशस्तत्रापि कृत्रवानघम् ।।३२।।।
वज्रीलेपेन पापेन कथं कदा विमोचनम् ।
नैव स्यादिति देवेज्य! पापादुद्धर माधव! ।।३३।।
दैत्यानां तु स्वभावोऽयं सम्पद्योषित्प्रलुब्धता ।
मद्यमांसाशनं चापि तस्मादुद्धर माधव ।।३४।।
कोटिपुण्यार्जितेनाऽत्र मानुषेण तु वर्ष्मणा ।
लभ्यते मुक्तिरेवाऽत्र यत्प्रपत्तिप्रतापतः ।।३५।।
तत्प्रपत्तिर्मया लब्धा युद्धादेशेन माधव ।
पापं च कृतवान् युद्धं फलं पुण्यस्य मेऽभवत् ।।३६।।
यदुद्धारकृतां योगो भगवतां च दर्शनम् ।
अद्य मां मम देशेषु युद्धे प्रहतदेहिनाम् ।।३७।।
उद्धारं प्रकरोत्वेव विहृत्य भगवान् स्वयम् ।
उद्धारं च भवत्सेवां वृणे नान्यद् वृणोम्यहम् ।।३८।।
इत्युक्त्वा विररामाऽसौ जुमासेम्लानरेश्वरः ।
सनत्कुमारो भगवानुपादिदेश तं ततः ।।३ ९।।
शारीरं मानसं वापि दुष्कृतं दुर्विचिन्तितम् ।
तथा ते दानवो भावो व्यपयातु नराधिप ।।2.54.४० ।।
सुस्थिरा तव सद्भक्तिः परमेशेऽस्तु नित्यदा ।
मूक्तोऽसि दैत्यभावात्त्वं भज कृष्णनरायणम् ।।४१ ।।
शृणु राजान् ध्रुवं साध्यं नाऽध्रुवं तु कदाचन ।
चलाः श्रियः सदा बोध्यास्ताभिः साध्यं तु शाश्वतम् ।।४२।।
पुरा प्रसन्नो भगवान् लक्ष्म्या रूपचतुष्टयम् ।
धर्तुं दिदेश तां साऽपि चतूरूपा बभूव ह ।।४३।।
श्वेताम्बरधरा चैका श्वेतस्रगनुलेपना ।
श्वेतगजसमारूढा सत्त्वाढ्या श्वेतविग्रहा ।।४४।।
रक्ताम्बरधरा चान्या रक्तस्रगनुलेपना ।
रक्तवाजिसमारूढा रक्तांगी राजसी हि सा ।।४५।।
पीताम्बरा पीतवर्णा पीतस्रगनुलेपना ।
सौवर्णस्यन्दनारूढा तामसं गुणमाश्रिता ।।४६ ।।
नीलाम्बरा नीलमाल्या नीलगन्धाऽलिसप्रभा ।
नीलवृषसमारूढा मिश्रा सा त्रिगुणात्मिका ।।४७।।
श्वेता चन्द्रं वेधस च सात्त्विकान् प्रत्यभिस्थिता ।
रक्ता चेन्द्रं च राजानं मनून् नृपानुपस्थिता ।।४८।।
पीता प्रजापतीन् याता वैश्यवर्णान् सुधार्मिकान् ।
नीला तु दानवान् दैत्यान् शूद्राँश्च राक्षसादिकान् ।।४९ ।।
विप्राद्याः श्वेतवर्णां तु सरस्वतीं च जगृहुः ।
यज्ञं मन्त्रान् पूजनादि दैवकार्यं शुभप्रदम् ।।2.54.५ ०।।
क्षत्रिया राजसीं रक्तां जयश्रियं सुभेजिरे ।
वैश्या वृत्तिस्वरूपां तामङ्गीचक्रुः समन्तत ।।५ १ ।।
शूद्रा नीलां दास्यरूपां सेवादेवीं प्रजगृहुः ।
एवं विभक्ता सा लक्ष्मीर्यावद्भाग्यं हि वर्तते ।।५२।।
एतासां तु स्वरूपाणि भवन्ति निधयोऽव्ययाः ।
वेदाः कथानकाद्याश्च संहिताः शास्त्रसत्क्रियाः ।। ५३ ।।
चतुःषष्टिकलाः श्वेता महापद्मो निधिः स्थितः ।
रत्नानि स्वर्णरजते गजाश्वरथभूषणम् ।।५४।।
शस्त्राऽस्त्रादिकवस्तूनि रक्ता पद्मो निधिः स्मृतः ।
गोमहिष्यः खरोष्ट्राश्च सुवर्णाम्बरभूमयः ।।५५ ।।
ओषध्यः पशवः पीता महानीलो निधिः स्मृतः ।
सर्वासामपि जातीनां सेवा नित्या प्रतिष्ठिता ।।५ ६ ।।
सुखदुःखातिसंव्याप्ता नीला शंखो निधिः स्मृतः ।
एताभिः स्वीकृता ये ये मानवाद्या निजाश्रिताः ।।५७।।
तेषां भवन्ति रूपाणि बोधार्थं संब्रवीमि ते ।
सत्त्वलक्ष्मीयुताः सौम्याः सत्यशौचादिपालकाः ।।५८।।
सुरूपा धर्मकर्तारो दर्शनाह्लाददायकाः ।
दीर्घनेत्रा दीर्घभुजा हास्यतृप्त्यादिशालिनः ।।५ ९ ।।
अविखण्डितदेहाश्च अविखण्डकुटुम्बिनः ।
अविखण्डान्नपानाद्या अविखण्डयशोऽमलाः ।।2.54.६ ० ।।
सत्यशोचाभिसंयुक्ता बलदानोत्सवे रताः ।
आस्तिक्यदाननैर्मल्यपरोपकृतिशालिनः ।।६ १ ।।
भवन्ति राजन् सुभगा महापद्माश्रिता जनाः ।
यज्विनः सुभगा दृप्ता मालिनो बहुदक्षिणाः ।।६२।।
बहुभोगा बहुरूपा बहुराजसवर्तिनः ।
सर्वोपस्करतेजोभिः प्रभासिनोऽतिकीर्तयः ।।६३।।
यावद्वस्तुभिः सुखिनो राज्यक्षेत्रादिभोगिनः ।
मान्या मानप्रदा हृष्टाः पुष्टा दीर्घशरीरिणः ।।६४।।
मदनेत्रा गर्वभालाः श्मश्रुला वर्ष्मकेशिनः ।
रक्तनखा रक्तवर्णा जनाः पद्माश्रिताः स्थिताः ।।६५।।
सत्याऽनृतसमायुक्ता दानाऽशरणयज्विनः ।
न्यायाऽन्यायव्योपेताः सर्वसन्तोषकारकाः ।।६६।।
दानधर्मा नातिरूपा नातिवस्त्रा नशोभनाः ।
रूक्षदेहा मध्यपुष्टा महानीलाश्रिता जनाः ।।६७।।
नास्तिकाः शौचरहिताः कृपणा भोगवर्जिताः ।
स्तेयाऽनृतकथावादाः परदुःखकराः शठाः ।।६८।।
स्वार्थमात्रपराः कृष्णाः कद्रूपा भाविहीनकाः ।
अगन्धाः कुस्वभावाश्च मक्षिकाकृतमित्रताः ।।६९।।
मालिन्यवाससहना जनाः शंखाश्रिता नृप! ।
तस्यां वै वर्तमानायां नरे नार्यां नपुंसके ।।2.54.७०।।
समाश्रयन्ति तं चान्या ह्रिः कीर्तिर्द्युतिरित्यपि ।
प्रभा गतिः क्षमा भूतिर्विद्या नीतिर्दया मतिः ।।७ १।।
श्रुतिः स्मृतिर्बलं कीर्तिर्धृतिः शान्तिः क्रिया कृतिः ।
पुष्टिस्तुष्टिस्तथा चान्या मुख्यश्रियाऽनुजीविताः ।। ७२।।।
सा श्रीर्लेखावशा राजन् यावद् रेखा हि वर्तते ।
रेखाया विगमे श्रीश्च सर्वश्रीभिर्निवर्तते ।।७३ ।।
श्रियः सर्वाः समायान्ति पूर्वकर्मविधानतः ।
सुखदुःखानि दैत्येन्द्र सहनीयानि तानि वै ।।७४।।
पुत्रमित्रकलत्रार्थे राज्यभोगधनाय च ।
आगमे निर्गमे प्राज्ञे विषादो नाविशेत् क्वचित् ।।७५ ।।
आपदामागमं दृष्ट्वा न विषण्णो भवेद् वशी ।
सम्पदं च सुविस्तीर्णां प्राप्य नो फुलितो भवेत् ।।७६।।
धनक्षये न मुह्यन्ति न दुष्यन्ति धनागमे ।
धीरा त एव तु प्रोक्ता ज्ञानिनः पुरुषोत्तमाः ।।७७।।
तथाऽन्यच्च महाबाहो हितं शृणु महार्थकम् ।
शरण्यं शरणं याहि तमेनं पुरुषोत्तमम् ।।७८।।
ये श्रयन्ति हरिं कृष्णं नारायणं पुमुत्तमम् ।
ते तरन्ति भवाब्धेर्वै शतैककुलवन्दिताः ।।७९।।
तन्मना दानवश्रेष्ठ तद्भक्तो भव सर्वशः ।
स एव भवतां श्रेयो विधास्यति नरायणः ।।2.54.८०।।
सर्वकर्माणि तत्रैव शुभान्यप्यशुभानि च ।
रागद्वेषप्रजातानि समर्पयाऽत्र माधवे ।।८ १ ।।
नाऽभुक्तं श्रीयते कर्म कल्पकोटिगमेऽपि हि ।
नारायणेऽर्पितं चेत् तद् भोक्तव्यं न हि शिष्यते ।।८२।।
चौरश्चौर्यादिदोषेण दण्डं याति यथा कृतम् ।
यदि राजा प्रसन्नः स्याद् दण्डं ददाति नैव च ।।८३।।
क्षमते तत्कृतं सर्वं पुनः कर्तुं निषेधति ।
एवं श्रीभगवानत्र पापिनां प्राणधारिणाम् ।।८४।।
कृतपापानि विज्ञाय दण्डं ददाति सर्वथा ।
यदि कृष्णः प्रसन्नः स्याद् दण्डं नैव ददाति हि ।।८५।।
क्षमते तत्कृतं सर्वं पुनः कर्तुं निषेधति ।
प्रसन्नताऽस्य चाप्तव्या साधनैर्विविधैरपि ।।८६।।
प्रत्यक्षे वर्तमाने तु यद् वदेत् तत् समाचरेत् ।
अत्रायं विद्यते श्रीमान् प्रत्यक्षः पुरुषोत्तमः ।।८७।।
एहि तच्छरणं याहि यद्वदेत् तत्समाचर ।
इत्युक्त्वा नृपतिं म्लेच्छं मुनिः सनत्कुमारकः ।।८८।।
अनादिश्रीकृष्णनारायणपादे निनाय तम् ।
राजा प्राह दयासिन्धो समुद्धर यथेष्टकम् ।।८९।।
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
पापिप्रसंगकर्तारं समुद्धर कृपालय ।।2.54.९०।।
विहस्य श्रीहरिः प्राह शुद्धो जातोऽसि सर्वथा ।
साक्षात् सतां प्रसंगेन दैत्यभावेन मोचितः ।।९ १ ।।
यूयं भृत्यास्तथा सेनापतयो नरयोषितः ।
सर्वे मत्साधुयोगेन पावनाः स्थो न संशयः ।।९२।।
तव देशो नगराणि तडागानि तथाऽऽपगाः ।
गिरयो रणभूभागाः पावनाः सत्प्रसंगतः ।।९३।।
इत्युक्त्वा विररामाऽसौ श्रीमत्कृष्णनरायणः ।
नारदश्च हरिं नत्वा धृत्वा कल्पलतां करे ।।९४।।
विमाने सप्तभौमेषु विचचार मुहुर्मुहुः ।
युद्धयोगेन वै यत्र क्वापि कच्चरवत् तथा ।।९५।।
भग्नं त्रुटितमाभग्नं विपरीतं परावृतम् ।
सर्वं संकल्प्य तूर्णं हि यथावत् समकारयत् ।।९६।।
जलेन प्रोक्ष्य च शुद्धिं चकार सर्वभूमिषु ।
समाययौ हरेरग्रे तस्थौ नम्रो मुदा युतः ।।९७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने विमाने सप्तमभूमिकायां दैत्यनारीकृतयुद्धं, कल्पवल्ल्युत्पादितकृत्याभिदैंत्यादीनां नाशः, श्रीकृष्णनारायणदर्शनं, राज्ञः प्रार्थना, उपदेशश्चेत्यादिनिरूपणनामा चतुःपञ्चाशत्तमोऽध्यायः ।। ५४ ।।