लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०६१

← अध्यायः ०६० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ६१
[[लेखकः :|]]
अध्यायः ०६२ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! नौश्च कृz'गनारायणान्विता ।
शतद्वयमनुष्याऽधिवासिता च महीजले ।। १ ।।
पूरवेगेन वहति भगवाँस्तां प्ररक्षति ।
शनैः शनैर्महानद्यां मिलितानि जलानि च ।। २ ।।
संगमे तु महानद्या भ्रमरेषु तु नौस्तदा ।
मज्जनप्रवणा जलोपरि कृष्णेन रक्षिता ।। ३ ।।
गुर्जरे सा नदी दीर्घा ह्यगाधा च भयंकरी ।
पूरवेगेन च याता शतक्रोशं गता तदा ।। ४ ।।
लूनापटाख्यनगरं नातिदूरे हि चागतम् ।
ददृशुर्नौगताः सर्वे महाश्चर्यपरास्तदा ।। ।९ ।।
वनं चाग्रे तु ददृशुस्ततो नौः पूरवेगतः ।
पञ्चाशत् क्रोशदूरं च उह्यमाना गता यदा ।। ६ ।।
देवीकोटमहत्तीर्थं ददृशुर्नौगता जनाः ।
भद्रायनं च पञ्चाशत्क्रोशदूरे ततः परम् ।। ७ ।।
समायातं ततश्चाऽग्रे कठिनं पत्तनं तथा ।
स्तम्भपुरं महातीर्थं काव्यतीर्थं च सन्निधौ ।। ८ ।।
मध्ये समुद्रसदृशी राजते सुनदी मही ।
तत्र नौः सा जनैर्युक्ता जले याता त्वखातके ।। ९ ।।
श्रीहरिणा रक्ष्यमाणा साभ्रमतीमहीजले ।
मिश्रितेऽखातवार्धौ सा समुद्रं प्रति याति च ।। 2.61.१० ।।
अखाते चाग्रगा नौका दर्दुरिकाऽब्धिसंगमम् ।
उल्लंघ्य परमं द्वीपं प्राप्ता तदा तु साऽभवत् ।। ११ ।।
विशाला श्रीप्रभोः शक्त्या सहस्रमानवाश्रया ।
नर्मदाऽखातमुल्लंघ्य सौराष्ट्रतटमागता ।। १२।।
शत्रुजितानदीसंगे समुद्रे सा स्थिरीकृता ।
तत्र भोज्यान्नपानानि चक्रुः सर्वे सुखेन वै ।। १ ३।।
अथाग्रे गोपनाथं च ययौ नौः कृप्णवाहिता ।
ततश्चाग्रे माधुकं च ययौ जाफलितं ततः ।। १४।।
ततो दिवं शुभं कृत्वा कृष्णावतीं पुरीं ययौ ।
ततो ययौ सोमनाथं मकरालयमप्यतः ।। १५।।
भद्राब्धिसंगमं दृष्ट्वा स्वर्णवतीं पुरीं ययौ ।
कच्छाऽखातं प्रविश्याऽथ चमत्कारपुरान्तिकम् ।। १६।।
ययौ ततस्तु सा नौका विमानरूपतां गता ।
आकाशे श्रीकृष्णनारायणेच्छया समौड्डयत् ।। १७।।
व्योम्ना शीघ्रं समायाता चाश्वपट्टसरोवरम् ।
दिव्यं चन्द्रसमं यानं सूर्यप्रभासुभासुरम् ।। १८।।
सुवर्णजडितं देवैः पूजितं कृष्णरक्षितम् ।
शतद्वयजनैर्युक्तं चाऽवातरत् सरोऽन्तिकम् ।। १ ९।।
जयशब्दाः स्वस्तिशब्दास्तनाऽभवन् मुहुर्मुहुः ।
कुंकुमवापिकाक्षेत्रं सोत्साहं समदृश्यत ।।2.61.२०।।
सर्वैर्विलोकितं क्षेत्रं दृष्टं च कानकालयम् ।
महाभागवतं शृंगं मन्दिरस्योच्छ्रितं शुभम् ।।२१।।
दृष्टा च कम्भरालक्ष्मीर्दृष्टो गोपालकृष्णकः ।
लोमशर्षिस्तथा दृष्टो नगरं च विलोकितम् ।।२२।।
विमानादवतेरुश्च कृष्णनारायणाऽन्विताः ।
उदयाख्यस्तथा चान्ये भक्ता नारीनरात्मकाः ।। २३।।
तावद्विमानं च तिरोऽभवत् कृष्णविनिर्मितम् ।
कृष्णनारायणश्चापि तिरोऽभवत्तु सार्थगः ।।२४।।
आश्चर्यं परमं प्राप्ता दृष्ट्वा चादृश्यरूपताम् ।
यात्राकराश्च ते सर्वे जनान् पृष्ट्वा पुनः पुनः ।। २५।।।
ययुर्देवा यत्र बालकृष्णो विराजते ।
कृत्वा संदर्शनं सर्वे कृष्णेनाऽनेन रक्षिताः ।। २६।।
स्मृत्वैवं हर्षनिभृताः प्रेमाऽश्रूणि ह्यवासृजन् ।
बालकृष्णो ददौ तेभ्यो निवासार्हं महालयम् ।। २७।।
सर्वोपस्करसंयुक्तं दासदासीविराजितम् ।
सर्वे तीर्थानि विधिवच्चक्रुश्चाऽश्वसरोऽभितः ।।२८।।
ततो मिष्टान्नपानानि ददौ श्रीभगवान् स्वयम् ।
भक्ष्यभोज्यानि लेह्यानि चोष्याणि च रसाँस्तथा ।। २९।।
मुखवासादिचूर्णानि उपमृद्यानि यानि च ।
दापयामास भगवान् कृपया भक्तवत्सलः ।। 2.61.३ ०।।
ररक्ष भगवान् सर्वान् चातुर्मास्यान्तमेव च ।
लोमशोऽपि ददौ तेभ्यो मन्त्रं स्रजश्च तौलसीः ।। ३ १।।
प्राप्य ते वैष्णवं दिव्यं तेजः श्रीपतिसन्निधौ ।
दिव्या दिव्यगुणोपेता बभूवुः कृष्णवीक्षिताः ।। ३२।।
ज्ञात्वा प्रत्यक्षमेवैनं बालकृष्णं महाप्रभुम् ।
परब्रह्म सुखावासं भेजुस्तं परमेश्वरम् ।।३३।।
लोमशस्तान् प्रत्यहं चोपादिदेश मुक्तये ।
प्राह शृण्वन्तु रुचिरं श्रेयःसाधनमुत्तमम् ।। ३४।।
सर्वं यस्यास्ति शरीरं सर्वेषु वर्तते च यः ।
तस्य स्तोत्रेण संसाराद् रक्षा भवति शाश्वती ।।३५।।
तमेनं कथयाम्यद्य स्तवं कृष्णपरायणम् ।
'बालकृष्णोऽस्तु मे प्राच्यां चक्रहेतिः परेश्वरः ।।३६।।
गदाधरो बालकृष्णो दक्षिणे मेऽस्तु सर्वदा ।
पश्चिमे शार्ङ्गधृक कृष्णनारायणोऽस्तु मे सदा ।। ३७।।
उत्तरे खड्गधृक् कृष्णनारायणोऽस्तु मे सदा ।
कोणेष्वस्तु हृषीकेशो मध्ये मध्ये जनार्दनः ।।३८।।
पृथ्व्यां वराहरूपोऽस्तु व्योम्नि नरहरिः प्रभुः ।
क्षुरधाराऽतितीक्ष्णं च सुदर्शनं समन्ततः ।।३९।।
प्रेतभूतान् प्रहन्त्वेव राक्षसाँश्च निशाचरान् ।
गदा सहस्रधारोर्ध्वं हन्तु वृकान् पिशाचकान् ।।2.61.४०।।
शार्ङ्गं धनुर्हरेस्तिर्यक्कुष्माण्डादीन् प्रहन्तु च ।
यक्षान् दैत्यान् जृम्भकाँश्च खगान् क्रूरान् विनायकान् ।।४१ ।।
शंखो विष्णोर्निनादेन हन्तु दुष्टाँश्च पन्नगान् ।
सिंहान् व्याघ्रान् शरभाँश्च दन्दशूकान् पशूँस्तथा ।।४२।।
विष्णोः पद्मं मम शत्रून् सौम्यान् दधातु गन्धतः ।
चित्तवृत्तिहरान् स्मृत्याहरान् बलौजसां हरान् ।।४३।।
सम्पद्भोगहराँश्चापि शुभलक्षणहारकान् ।
स्त्रीपुत्रधनसदनहरान् प्रशामयत्वपि ।।४४।।
हरेः संकीर्तनाच्चाऽस्तु स्वास्थ्यमैन्द्रियकं मम ।
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं देहस्वास्थ्यं सुखावहम् ।।४५।।
पृष्ठे चाग्रे पार्श्वयोश्च कोणेष्वस्तु हरिर्मम ।
शिखायां मे नखेष्वेषः चर्मस्वस्तु हरिर्मम' ।।४६।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इत्येवं राधिके! रक्षास्तोत्रं श्रीलोमशो मुनिः ।।४७।।
ददौ सर्वेभ्य एवादौ ततः प्राह निदर्शनम् ।
वटासीनपुरे राजा क्रूरसिंहोऽभवत्पुरा ।।४८।।
देवद्विजसतीद्रोग्धा पिशुनः क्षत्रियाधमः ।
परपीडाकरः क्षुद्रो नैसर्गेण च निर्दयः ।।४९।।
धर्मदानविहीनश्च सतां सेवाविवर्जितः ।
आयुःक्षये स वै जज्ञे वने घोरनिशाचरः ।।।2.61.५०।।
यो यो मिलति चारण्ये पशुः पक्षी च मानवः ।
भक्षणीयो मारणीय इति क्रौर्यं करोति सः ।।५१।।
यं यं पश्यति पश्वादिं तं तमादाय स द्रुतम् ।
खादत्येव दयाहीनो बाहुगोचरमागतम् ।।५२।।
एवं याते दीर्घकाले वार्धक्यं समभूत्ततः ।
अटमानस्य दुष्टस्य नर्मदायास्तटे क्वचित् ।।५३।।
तस्य दृष्ट्यां तापसो वै ऋषिर्योगपरायणः ।
नाम्ना जितश्रवा विप्रश्चाऽऽगतः संजितेन्द्रियः ।।५४।।
दृष्ट्वा तं खादितुं तूर्णं दुद्राव राक्षसेश्वरः ।
उक्तां रक्षां द्विजस्तूर्णं समुवाच पुनः पुनः ।।५५।।
श्रुत्वा स्तब्धोऽभवत्तूर्णं जडीभूतो हि राक्षसः ।
नाऽग्रे यातुं चाऽपसर्तुं शशाक स्तोत्रधर्षितः ।।५६।।
निर्धूतवेगः सहसा तस्थौ तत्रैव राक्षसः ।
यावद् द्विजस्य जपतो दिनान्तः समपद्यत ।।५७।।
ततो जप्यावसाने च तं ददर्श निशाचरम् ।
दीनं हतबलोत्साहं कान्दिशिकं हतौजसम् ।।५८।।
कृपापूर्णो द्विजो दैत्यं समाश्वास्य पुनः पुनः ।
पप्रच्छ कारणं रक्षोभावे चागमने तथा ।।५९।।
राक्षसः पूर्ववृत्तान्तं रक्षोभवनमित्यपि ।
भक्षणार्थं चागमश्चेत्येवं सर्वमुवाच ह ।।2.61.६० ।।
प्रसीदेत्यब्रवीद् विप्रं निर्विण्णः सुखवर्जितः ।
बहुपापानि कृतवान् हतवाँश्च बहून् सतः ।।६ १ ।।
बह्वीर्नारीः प्रसह्यैव भुक्तवान् विधवा अपि ।
अनागसां च सत्त्वानां प्रक्षयं कृतवान् बहुम् ।।६२।।
मद्यमांसानि बहुधा भुक्तवानपि सर्वदा ।
तस्मात् पापादहं मोक्षमिच्छामि त्वत्प्रसादतः ।।६३ ।।
तत्पापप्रशमायाऽलं कुरु मे धर्मसाधनम् ।
पापस्याऽस्य क्षयकरं मोक्षदं कुरु सत्वरम् ।।६४।।
निशाटस्य वचः श्रुत्वा जितश्रवा उवाच तम् ।
मम रक्षा कृता चाऽत्र मया तेऽपि पवित्रता ।।६५।।
मुमुक्षुता कृता रक्षो याहि कुंकुमवापिकाम् ।
सौराष्ट्रे श्रीकृष्णनारायणस्याऽश्वसरोवरे ।।६६।।
स्नात्वा श्रीलोमशं गत्वा प्रार्थनां कुरु सर्वथा ।
उद्धारं ते लोमशो वा विप्रश्चान्यः करिष्यति ।।६७।।
एवमुक्त्वा ययौ विप्रो राक्षसो व्योममार्गतः ।
आगतः कुंकुमवापीक्षेत्रे चाम्रवणेऽवसत् ।।६८।।
कथं मोक्षो भवेन्मेऽत्र चिन्तया दीनमानसः ।
न चखाद स सत्त्वानि क्षुधासंबाधितोऽपि सन् ।।६९।।
दशमे दशमे काले जन्तुमेकमभक्षयत् ।
व्याघ्रारण्ये ह्यटित्वा च पुनश्चाम्रवणेऽगमत् ।।2.61.७०।।
स कदाचिन्महावृष्टौ वनेऽटन् क्षुधितोऽभवत् ।
ददर्श फललाभार्थमागतं ब्रह्मचारिणम् ।।७१ ।।
ब्रह्मप्रकाशनामानं धर्षयामास राक्षसः ।
ब्रह्मचारी तदा त्वेनं राक्षसं प्राह सामतः ।।७२।।
वद किं कारणं त्वत्र धर्षणे मे वनेचर! ।
राक्षसः प्राह भोज्यं मे काले भवति चाऽष्टमे ।।७३।।
स त्वं प्राप्तः क्षुधितस्य निष्टुरस्याऽत्र मे वने ।
ब्रह्मचारी तु तं प्राह शृणु मे वचनं शुभम् ।।७४।।
फलानि गुरवे दातुं गच्छाम्यहं निशाचर! ।
तद्दत्वाचागमिष्यामि भक्ष्यश्चेदस्मि ते न्वहम् ।।७५।।
स त्वं मुहूर्तमात्रं मामत्रैवाऽनुप्रपालय ।
निवेद्य गुरवे यावदिहाऽऽगच्छामि भक्षय ।।७६।।
निशाचरस्तदा प्राह याहि किन्तु हितं शृणु ।
गुरवे वद मे मोक्षो यथा स्यात् तत् करोतु चेत्। ।।७७।।
त्वां न वै भक्षयिष्येऽहं यदर्थोऽहं समागतः ।
गुरोर्यन्न विरुद्धं स्यान्न च धर्मोपरोधकम् ।।७८।।
यन्न व्रतहरं तेऽपि तथा मन्मोक्षणं कुरु ।
मया निसर्गतो ब्रह्मन् जातिदोषाद्विशेषतः ।।७९।।
विषयाढ्येन चित्तेन पापकर्म सदाऽर्जितम् ।
आबाल्यान्मम धर्मे तु मन आसीन्न वै मनाक् ।।2.61.८० ।।
अधार्मिकानि कर्माणि कृतान्येव विशेषतः ।
नर्मदायास्तटे प्राप्तविप्रेण प्रेषितोऽत्र वै ।।८ १।।
पापक्षालनकामार्थं समागतोऽस्मि भावतः ।
तत्र त्वं मिलितो मेऽत्र पापान्मोक्षय मेऽनघ ।।८२।।
इत्युक्तो ब्राह्मणः प्राह गुरोर्योगादहं तव ।
प्रज्वाल्य सर्वपापानि करिष्ये मोक्षणं ध्रुवम् ।।८३।।
यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषूणादनु ।
व्रतानि वा सुचीर्णानि मोक्षो भवतु रक्षसः ।।८४।।
यद्यहं पितरं देवं गुरुं च मातरं हरिम् ।
गौरवेणाऽभिवन्दामि मोक्षो भवतु रक्षसः ।।८५।।
यद्यहं मनसा वाचा कर्मणा च गुरुं हरिम् ।
नाऽवमाने योजयामि मोक्षो भवतु रक्षसः ।।८६।।
जप राक्षस देवेशं श्रीकृष्णं पुरुषोत्तमम् ।
हरिकृष्णं हृषीकेशं वासुदेवं जनार्दनम् ।।८७।।
प्रणतोऽस्मि जगन्नाथं स च मोक्षं दधातु मे ।
चराचरगुरुं नाथं कृष्णनारायणं प्रभुम् ।।८८।।
शंखिनं चक्रिणं शार्ङ्गधारिणं ध्वजिनं हरिम् ।
प्रणतोऽस्मि पतिं लक्ष्म्याः स च मोक्षं दधातु मे ।।८९।।
दामोदरं पुण्डरीकनेत्रं च शेषशायिनम् ।
प्रणतोऽस्मि च गोविन्दं स च मोक्षं दधातु मे ।।2.61.९०।।
नारायणं नरं पृथ्वीधरं धामाधिवासिनम् ।
प्रणतोऽस्मि प्रभानाथं स च मोक्षं दधातु मे ।।९१।।
श्रीवत्सवक्षसं श्रीशं श्रीमत्पारवतीपतिम् ।
प्रणतोऽस्मि रमाकान्तं स च मोक्षं दधातु मे ।।९२।।
यतयो यं चिन्तयन्ति राधा रञ्जयति प्रभुम् ।
समस्तालम्बनमूर्तिं तमस्मि शरणं गतः ।।९३।।
परब्रह्माऽसंख्यगोपीपतिं श्रीकम्भरासुतम् ।
सर्वाधारं सर्वगं च तमस्मि शरणं गतः ।।९४।।
परमात्मानमात्मस्थं कर्मक्षालनशक्तिकम् ।
पुनर्भवप्रभेत्तारं तमस्मि शरणं गतः ।।९५।।
ईशान् देवानृषीन् पितॄन् मानवाँश्च सरीसृपान् ।
पादपान् जलजान् स्वेदोद्भवान् सृजति रक्षति ।।९६।।
ब्रह्मरूपधरं जगद्योनिं त्रातारमच्युतम् ।
गोपालकृष्णबालं च तमस्मि शरणं गतः ।।९७।।
यज्ञेश चान्तकं सर्वान्तर्यामिणं परेश्वरम् ।
यस्मान्नान्यत्परं किञ्चित् तमस्मि शरणं गतः ।।९८।।
शुभाऽशुभानि कार्याणि जन्मान्तरकृतानि मे ।
अनादिश्रीकृष्णनारायणस्तानि व्यपोहतु ।।९९।।
यन्निशायां च यत्प्रातर्यन्मध्याह्नाऽपराह्णयोः ।
सन्ध्ययोश्च कृतं पापं तन्मे सर्वं प्रणश्यतु ।। 2.61.१ ००।।
यत् तिष्ठता यद् व्रजता यच्च शय्यागतेन वै ।
कृतं दुःखकरं कर्म कायेन मनसा गिरा ।। १० १।।
अज्ञानतो ज्ञानतो वा मदात् चलितचेतसा ।
तत् क्षिप्रं विलयं यातु बालकृष्णस्य कीर्तनात् ।। १०२।।
परदारपरद्रव्यवाञ्च्छाद्रोहोद्भवं च यत् ।
महात्मनां प्रनिन्दां च कुर्वता परदुःखदाम् ।। १०३।।
कृतं पापं मर्मभेदिवचसा तत् प्रणश्यतु ।
यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने ।। १ ०४।।
यद्वाल्ये यच्च कौमार्ये यत्पापं यौवने मम ।
वयःपरिणतौ यच्च यच्च जन्मान्तरे कृतम् ।। १ ०५।।
तदनादिकृष्णनारायणेतिजपकीर्तनात् ।
प्रयातु विलयं सद्यो मोक्षदस्य प्रभावनात् ।। १ ०६।।
अनादिश्रीकृष्णनारायणाय हरये नमः ।
कम्भराश्रीनन्दनाय बालकृष्णाय ते नमः ।। १ ०७।।
श्रीमद्गोपालकृष्णस्य बालकाय नमो नमः ।
एतद्भद्र मयाऽऽख्यातं तव पातकनाशनम् ।। १०८।।
स्वर्गदं मोक्षदं दिव्यं स्तोत्रं यद्गुरुणोदितम् ।
अनेन बालकृष्णं त्वं समाराधय राक्षस! ।। १ ०९।।
प्रत्यहं त्वं स्तवेनाऽनेनाऽपि स्मृत्वा च लोमशम् ।
गुरुं तथा परब्रह्म श्रीकृष्णपुरुषोत्तमम् ।। 2.61.११ ०।।
स्तुत्वा भक्तिं दृढां कृत्वा ततः पापात् प्रमोक्ष्यसे ।
स्तुतो भक्त्या भक्तवशः सर्वपापहरो हरिः ।। ११ १।।
श्रुत्वैवं राक्षसः प्राह नय मां लोमशाश्रमम् ।
प्रदर्शय गुरुं कृष्णनारायणं प्रमोक्षदम् ।। १ १२।।
इत्युक्तो ब्रह्मचारी तं क्रूरसिंहाय रक्षसे ।
ददौ रक्षाकरं स्तोत्रं तेन पापविवर्जितः ।। ११ ३।।
जातस्ततो ययौ साकं तेनैव ब्रह्मचारिणा ।
ममाश्रमं लोमशाख्यं चात्रागत्य स राक्षसः ।। १ १४।।
पापहीनो ह्यभूत् तूर्णं कृष्णनारायणान्तिकम् ।
गत्वा च दर्शनं लब्ध्वा प्रपीत्वा चरणामृतम् ।। १ १५।।
कृत्वा तीर्थानि सर्वाणि दिव्यदेहो बभूव ह ।
दिव्यं यानं समारुह्य ययावक्षरधाम सः ।। १ १६।।
यूयमार्यायनाद्याश्च जलप्रलयरक्षिताः ।
भजत श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।। १ १७।।
मरणात्तारिता येन संसारात् तारयिष्यति ।
तारकं चाश्रयतास्माच्छ्रीपतिं पुरुषोत्तमम् ।। १ १८।।
इत्युक्त्वा श्रीहरिं स्मृत्वा मौनं तस्थौ हि लोमशः ।
आर्यायनोदयाद्याश्च शान्तिं श्रेष्ठां सुलेभिरे ।। १ १९।।
स्तोत्रपाठश्रवणाद्यैर्भुक्तिः रक्षाऽऽपदां क्षयः ।
मोक्षश्च राधिके शान्तिः सर्वं स्यान्नात्र संशयः ।। 2.61.१२०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जलमग्नान् शतद्वयमानवान् नावि गृहीत्वा प्रभुर्महीनदीद्वारा स्तंभाखातमुल्लंध्य सोमनाथं स्वर्णपुरं चमत्कारपुरादि च प्रदक्षिणीकृत्य नौकात्मकविमानद्वारा कुंकुमवापीक्षेत्रं प्रापयामास, लोमशोपदिष्टरक्षास्तोत्रं, क्रूरसिंहस्य रक्षसो विप्रद्वारा श्रीकृष्णनारायणप्राप्त्या मुक्तिश्चेतिनिरूपणनामैकषष्टितमोऽध्यायः ।। ६१ ।।