लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १११

← अध्यायः ११० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १११
[[लेखकः :|]]
अध्यायः ११२ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! दिव्यकिशोरं दर्शनं परम् ।
परधामगतं रूपं दर्शयामास माधवः ।। १ ।।
रूपानुरूपावयवं कोटिकामाश्रयं शुभम् ।
सर्वतेजोमयं सर्वानन्दशान्तिदयाभृतम् ।। २।।
अपारकरुणायुक्तं तथा वात्सल्यशेवधिम् ।
अनन्तानन्त सौहार्दस्नेहप्रेमप्रपूरितम् ।। ३ ।।
सर्वगन्धरसाद्युक्तं सर्वपुष्टिबलान्वितम् ।
सर्वाभृतप्रसवं च सर्वस्पर्शसुखप्रदम् ।। ४ ।।
मुकुटादिविभूषाभिः शोभितं च मनोहरम् ।
दिव्याम्बरसुशोभं च सर्वचिह्नविराजितम् ।। ५ ।।
राधालक्ष्मीयुतं पार्श्वे प्रभापारवतीयुतम् ।
माणिकीसहितं दिव्यं ब्रह्मप्रियाभिवन्दितम् ।। ६ ।।
असंख्यमुक्तधामादिप्रस्तुतं चावतारकैः ।
पार्षदैरीश्वरैः सर्वैरीश्वरीभिर्नतं तथा ।। ७ ।।
सगुणैर्निर्गुणैस्तत्त्वैः सृष्टिपालैः प्रवन्दितम् ।
ऋषिभिः पितृभिर्देवैर्मानवैर्जडचेतनैः ।। ८ ।।
पातालवासिभिश्चापि शक्तिभिश्च स्तुतं प्रभुम् ।
सर्वं यत्र ममौ सूक्ष्मं यस्माच्च निर्ययाविदम् ।। ९ ।।
सर्वात्मकं ततः सूक्ष्मं चमत्कारप्रपूरितम् ।
सर्वाश्चर्याश्रितं बालकृष्णं श्रीकम्भरासुतम् ।। 2.111.१० ।।
कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ।
दिव्याक्षरं परं क्षेत्रं दर्शयामास वै प्रभुः ।। ११ ।।
पितृकन्या विंशतिश्च दशसाहस्रसेविकाः ।
सर्वास्ताः पितृपुत्र्यो वै मुमुहुः श्रीहरौ तदा ।। १ २।।
वव्रिरे कान्तमात्मानं सर्वात्मवल्लभं प्रभुम् ।
प्रजाकन्याः कोटिसंख्या वव्रिरे कान्तमेव तम् ।। १ ३।।
अर्यम्णा च प्रजाभिश्च बालकृष्णाय चार्पिताः ।
अनादिश्रीकृष्णनारायणेन स्वीकृताश्च ताः ।। १४।।
कृतकृत्या अभवँश्च प्राप्तव्यः प्राप्त एव यत् ।
भगवान् स्वविमानेषु ताभ्यो वासं तदा ददौ ।। १५।।
अथाऽर्यमाण भगवानाह कारुकपर्वते ।
सिन्धुमूले सदा मूत्या स्थेयं त्वयाऽत्र भूतये ।। १६।।
त्रीतराज्ये चारुणानां रक्षार्थं पश्चिमे स्थले ।
अर्यमँस्तव राज्यं तद् भविष्यति सुखावहम् ।। १७।।
इत्येवं भगवान् कृष्णनारायणस्तु भास्वते ।
अर्यम्णे प्रददौ कुरुकराद्रिं सिन्धुपार्श्वगम् ।। १८।।
आरुणा दिव्यवसना दिव्यरूपाश्च तत्स्त्रियः ।
प्राप्य तत् सुन्दरं स्थानं मुमुदुर्देवता इव ।। १९।।
कं सुखं तत्प्रदा या अश्मनाम् इरा क्षितिः शुभा ।
कश्मेरा पर्वतभूमिः कारुपर्वतशोभना ।।2.111.२०।।
तत्राऽर्यमा स्वयं वासं चक्रे श्रीसहितः सदा ।
श्रीभूमिः पावनी सा चाऽभवच्छ्रीनगरी सदा ।।२१ ।।
एवं सर्वं व्यवस्थाप्य हरिस्तीर्थविधित्सया ।
विधापयितुं तीर्थानि नदीर्नदान् सरांसि च ।।२२।।
प्रजाः स्वस्वप्रदेशाँश्च गन्तुमाज्ञाप्य वै ततः ।
विमानैर्निर्ययौ कृष्णो यातुमादिश्य वै नृपान् ।।२३।।
ब्रह्मप्रियाकुमारीभिर्देवपित्रर्षिभिः सह ।
सस्नौ स ब्रह्मपुत्र्यां वै लाशहाख्यसरोजले ।।२४।।
ततः सस्नौ सिन्धुमूले ततश्च तेरिमाजले ।
आमूराया जले सस्नौ होमांगाया जले ततः ।।२५।।
महत्याश्च जले अंगशिक्षांगाया जले ततः ।
शिक्षांगाया जले सस्नौ मनिकङ्ग्वा जले ततः ।।२६।।
पन्नाम्न्याश्च जले चापि शालावत्या जलेऽपि च ।
इरावत्या जले स्नात्वा सुन्दरारण्यमाययौ ।।२७।।।
पितृकन्या हरिः प्राह भवत्योऽत्र मम प्रियाः ।
द्विरूपिण्यो भवन्त्वेव मूलच्छायात्मिकाः शुभाः ।।२८।।
मूलात्मिका मम क्षेत्रे वसन्तु तु मया सह ।
छायात्मिका नदीरूपा वसन्तु तीर्थभूमिगाः ।।२९।।
ब्रह्मपुत्री लवहीता चन्द्रावती इरावती ।
शालावती मीनकङ्गू लाटिशा कानिशा तथा ।।2.111.३ ०।।
मापींगा चापि सीक्यांगा अंगस्वांगा हरांगिका ।
मौक्तिका तारिमा चापि पन्नामा त्वांगहा तथा ।।३ १ ।।
मन्नाम्नी मणिवर्णा च रंगवर्णा च सुन्दरी ।
एताः सर्वाः स्वनाम्नैव ख्यातिं यास्यथ मे प्रियाः ।। ३२।।
भवतिभ्यो मया दत्तं सामर्थ्यं पापनाशकम् ।
मोक्षदं पुण्यदं स्मृद्धिप्रदं पुत्रादिसम्प्रदम् ।। ३ ३।।
भवतीनां महिमानं कथयामि मम प्रियाः! ।
यासां साक्षाद्धरेर्योगो दिव्यतापादकः शुभः ।। ३४।।
मुक्ततादायको योगो यासां नारायणेन वै ।
तासां वै दिव्यता नित्यमुक्तता कमलासमा ।।३५।।
राधिकया समा लक्ष्म्या समाः श्रिया समास्तथा ।
यूयं प्रभासमा दिव्या यूयं पारवतीसमाः ।।३६।।
यूयं वै माणिकीतुल्या मम प्राणसमाः प्रियाः ।
युष्मत्संसर्गमाप्तानां मम धाम्नि निवासनम् ।।३७।।
भवतीनां जले स्नाता ये पक्षिपशवो जनाः ।
कीटाः पतंगजन्त्वाद्यास्ते यास्यन्ति परं पदम् ।।३८।।
यथा गंगा च यमुना यथा सरस्वती सती ।
तथा यूयं सर्वमोक्षप्रदा दिव्याः स्थ तारिकाः ।।३९।।
यथा च गण्डकी श्रेष्ठा गोमती स्वर्णलेखिका ।
तथा यूयं सदा मे वै निवासार्हाः स्थ योषितः ।।2.111.४०।।
मम मूर्तेर्जलं यद्वत् तत्तथैव च वो जलम् ।
ब्रह्मकमण्डलुवारिसदृशं वो जलं शुभम् ।।४१।।
विराजाया यथा वारि ब्रह्मह्रदजलं यथा ।
पावनं वो जलं यद्वदामूल वार्धिसंगमात् ।।४२।।
महापापातिपापानां घातहत्यादिभाविनाम् ।
अकृत्यजायमानानां क्षालनं वो जले सदा ।।४३।।
पीतं स्पृष्टं तथा दृष्टं घ्रातं चाचमनीकृतम् ।
कणमात्रजलं वोऽस्तु पावकं मम योगतः ।।४४।।
आसुरा राक्षसा दैत्या म्लेच्छाः पापाश्च दानवाः ।
शुद्धिमेष्यन्ति सलिलाद्भवतीनां युगे युगे ।।४५।।
प्रेता भूता राक्षसाद्या असद्गतिगतास्तथा ।
यदाकदाचित् स्नानेन मुक्तिमेष्यन्ति वै क्षणात् ।।४६।।
शालावत्या चांगशिक्षाया मध्ये तु मया क्रतुः ।
मेनकांगातटे यत्र प्रथमस्तु कृतः शुभः ।।४७।।
तथात्र लाशहानाम्नस्तडागस्य समीपतः ।
द्वितीयोऽयं महायज्ञः कृतो वै वैष्णवः शुभः ।।४८।।
आद्या वैकुण्ठसदृशी गोलोकेन समा परा ।
भूमिर्दिव्या भवतीनां योगाच्च मोक्षसदृशी ।।४९।।
तत्रत्याश्च प्रजाः सर्वा मम पार्षदरूपिणी ।
मम ब्रह्मप्रियातुल्याः सत्यः साध्व्यः स्त्रियोऽपि च ।।2.111.५०।।
बाला मद्बालतुल्याश्च वृद्धा मे वृद्धसदृशाः ।
समाना मे समभावाः पावना मम योगतः ।।५ १ ।।
भवतीनां तटे वासं कुर्वाणा देहिनः खलु ।
जराऽण्डस्वेदभेदोत्थाश्चत्वारोऽपि प्रजीविनः ।।५२।।
पावना मे भक्तियुक्ता विष्णुतुल्या मता मम ।
भवतीनां जले वासं कुर्वाणा जन्तवस्तु ये ।।५३।।
सदा वैकुण्ठवासास्ते भविष्यन्ति न संशयः ।
भवतीनां कणव्याप्ताः पवना यान्ति यद्दिशम् ।।५४।।
ते देशाः पावना विष्णुलोकतुल्या हि देहिनाम् ।
भवतीनां जले येषामस्थिखण्डः पतेदपि ।।५ ५ ।।
यद्वा भस्म शवस्यापि पतेत्स्वल्पं यदा तदा ।
ते जीवाः पावना भूत्वा यास्यन्ति मम धाम वै ।।५६।।
भवतीनां स्मरणेन प्रातर्नाम्ना तु याः प्रजाः ।
यत्र क्वापि करिष्यन्ति स्नानं वापीजलादिषु ।।५७।।
गृहे वा पर्वतेऽरण्ये समुद्रे यानवाहने ।
ब्रह्मपुत्र्यादिनाम्नेव ते प्राप्स्यन्ति क्रतोः फलम् ।।५८।।
अथ गंगा चाजनाभे अब्रिक्ते च नरायणी ।
इरावती ब्रह्मदेशे त्रिवित्ते ब्रह्मपुत्रिका ।।५९।।
श्यामदेशे मेनकांगा प्राचीनेंऽगशिवांगिका ।
सर्वास्ता गोमतीतुल्या गोलोकाऽऽवासदायिकाः ।।2.111.६ ०।।
सर्वतीर्थफलं यायात् स्नात्वा स्मृत्वाऽपि मानवः ।
भवतीनां तटे कश्चिद् दास्यत्यपि च ढब्बुकम् ।।६ १ ।।
कोटिमुद्राप्रदानस्य फलमाप्स्यति मानवः ।
रूप्यकं वा स्वर्णमुद्रां रत्नं च हीरकं च वा ।।६२।।
मौक्तिकं चापि माणिक्यं मणिं ताम्रं वराटिकाम् ।
दाने दास्यन्ति ये तीरे तेषां कोटिगुणं फलम् ।।६३ ।।
वस्त्रं भूषाः कज्जलादि शृंगारं चन्दनादिकम् ।
पादुके वाहनं वापि तथोपकरणादिकम् ।।६४।।
गृहं गृहस्य सामग्रीश्चान्नं रसं च भोजनम् ।
यो वा दास्यति भावेन तस्य पुण्यमनन्तकम् ।।६५ ।।
गजं चाश्वमजां धेनुं दोग्ध्रीं कन्यां च वाटिकाम् ।
दाने दास्यति तीरे वस्तस्य पुण्यमनन्तकम् ।।६ ६ ।।
विद्यां विद्यार्थिनां चापि साहाय्यं पाठशालिकाम् ।
दास्यति वस्तटे तेषां स्वर्गं स्यात् समनन्तकम् ।।६७।।
अहं नारायणः स्वामी जलाद्धस्तचतुष्टये ।
तीरे दानप्रदातारो यास्यन्ति मम धाम ते ।।६८।।
नारीणां चापि बालानामनाथानां च योगिनाम् ।
साध्वीनां च सतां सेवां कर्तव्याऽनन्तपुण्यदा ।।६९।।
अनंगानामधनानामगृहाणामनायुषाम् ।
सेवनं वस्तटे कार्यं तस्य पुण्यमनन्तकम् ।।2.111.७० ।।
माघे पूर्वदले यज्ञः प्रथमः पञ्चमीतिथौ ।
समारब्धो मेनकांगातटे तत्र दिने तु यः ।।७१ ।।
करिष्यति क्रतुं तत्र वैष्णवं रौद्रमेव वा ।
स्वर्गराज्यं ब्रह्मराज्यं प्राप्स्यन्ति मोक्षणं तथा ।।७२।।
एकादश्यां समाप्तिश्च कृता तस्येति तद्दिने ।
भोजनादीनि दास्यन्ति प्राप्स्यन्ति परमां गतिम् ।।७३।।
लक्ष्मीनारायणसंहितायाः पारायणं ततः ।
आरभ्य कारयिष्यन्ति प्राप्स्यन्ति मम धाम ते ।।७४।।
मन्दिरे मम तत्रैवोत्सवं च मम सन्निधौ ।
कारयिष्यन्ति ये भक्तास्तेषां मोक्षस्तु शाश्वतः ।।७५।।
दृढं च मन्दिरं नूनं कारयित्वा तु तत्तटे ।
लक्ष्मीराधाप्रभापारवतीश्रीमाणिकीयुतम् ।।७६ ।।
सप्तमूर्तिस्वरूपं मा स्थापयिष्यन्ति ये जनाः ।
तेभ्यो धाम परं स्थानं दास्यामि मम शोभनम् ।।७७।।
पूजाप्रवाहं वृत्तिं च जीवनं दानभोजनम् ।
दास्यन्ति ये भवतीनां तटे मन्मन्दिरे जनाः ।।७८।।
तेभ्यः स्वर्गाणि रम्याणि धामानि द्युतिमन्ति च ।
दास्याम्यजस्रं दिव्यानि शाश्वतानि न संशयः ।।७९।।
मन्दिरे दीपदानं च भवतीनां जले तथा ।
दीपदानं करिष्यन्ति तेषां चक्षुर्हि शाश्वतम् ।।2.111.८०।।
सर्वं ज्ञानमयं दिव्यं विधास्ये मुक्तिदं शुभम् ।
तुलसीं चम्पकं पद्मं तदुद्यानं फलान्वितम् ।।८ १ ।।
कारयिष्यन्ति ये भक्तास्तान्नयिष्येक्षरालयम् ।
मम वैष्णवभक्तानां पूजां भोजनदक्षिणाम् ।।८२।।
सेवां पादस्य दास्यं वा करिष्यन्ति तु ये जनाः ।
साध्वीनां वा पार्षदानां करिष्यन्ति प्रसेवनम् ।।८३ ।।
अन्नधनाऽम्बरेष्टाद्यैस्तान्नयिष्येऽक्षरं पदम् ।
भवतीनां तटे रम्ये ग्रामे चावसथादिषु ।।८४।।
साधुरूपेण सततं विचरिष्यामि वल्लभः ।
साध्वीरूपेण मे पत्न्यो विचरिष्यन्ति सर्वदा ।।८५।।
तासां पूजाऽन्नदानाद्यैः कार्या स्वश्रेयसे जनैः ।
भवतीनां जले ताश्च स्नास्यन्ति तीर्थहेतवे ।।८६।।
मम भक्तावताराश्च मेऽवतारा युगे युगे ।
स्नास्यन्ति भवतीनां वै सलिलेषु पुनः पुनः ।।८७।।
माघे सरित्सु चैतासु ये तु स्नास्यन्ति देहिनः ।
तेषां पापानि विलयं यास्यन्ति कोटिजन्मनाम् ।। ८८।।
नदीनां संगमादौ च कुंभलग्ने तु ये जनाः ।
स्नास्यन्ति दूरतो गत्वा यास्यन्ति परमं पदम् ।।८९।।
मया कृपया पितृकन्यास्तीर्थीकृताः सदा ।
मत्प्रिया भवथाऽतो वै मत्तुल्या नाऽत्र संशयः ।। 2.111.९०।।
माघमासे भवतीनां जलेषु स्वर्गवासिनः ।
देवाश्च पितरश्चापि समायास्यन्ति नित्यश ।।९ १ ।।
सर्वतीर्थानि लोकेभ्यश्चागमिष्यन्ति सर्वतः ।
कोटितीर्थात्मकं वारि भवतीनां भविष्यति ।। ९२।।
सत्यं स्वर्गादिकं सर्वं भवतीनां जले तदा ।
भविष्यति न सन्देहो यूयं श्रेष्ठतमास्ततः ।।९३ ।।
तत्तद्देशोद्भवाः सन्तो निवत्स्यन्ति हि वस्तटे ।
भवतीनां सुपावित्र्यं वर्धयिष्यन्ति साधवः ।।९४।।
पुत्रपौत्रकलत्रादिधनधान्याऽम्बरादिकम् ।
भूषाक्षेत्रोद्यानराज्यसम्पत्स्मृद्धिप्रदं तथा ।।९५।।
सर्वेष्टसुखदं स्वर्गमोक्षदं वंशदं शुभम् ।
भवतीनां जले स्नानं कृतं सर्वं विधास्यति ।। ९६ ।।
भवतीनां तटे वासकृतां मोक्षो भविष्यति ।
मुण्डनं कारयिष्यन्ति ये तत्पापानि सर्वथा ।।९७।।
नाशमेष्यन्ति च शुद्धिं यास्यन्ति चात्मनां ततः ।
भवतीनां तटे दीक्षां ग्रहीष्यन्ति नराः स्त्रियः ।। ९८।।
ते मुक्ता मम धामस्थतुल्या देहयुता अपि ।
स्नानं दानं तपो होमं स्वाध्यायं पितृतर्पणम् ।। ९९।।
अनाथपालनं गोपालनं दीनसहायनम् ।
करिष्यन्ति जना येऽत्र तटे ते मोक्षभागिनः ।। 2.111.१ ००।।
कुमारदानकर्तारः कन्यादानविधायिनः ।
ब्रह्मधामगतिं चान्ते यास्यन्ति शाश्वतं पदम् ।। १०१ ।।
भवतीनां जले त्वेकवारं स्नास्यन्ति ये जनाः ।
स्मृत्वा शतकुलान्येव तानि यास्यन्ति मोक्षणम् ।। १ ०२।।
भवतीनां तटे श्राद्धं मृतानां पुण्यसत्क्रियाः ।
देवानां स्थापनं वृक्षे जलपानं तथाऽऽलयम् ।। १०३ ।।
आश्रयं धर्मशालां च साहाय्यं विपदात्मनाम् ।
करिष्यन्ति जना येऽत्र ते प्राप्स्यन्ति परां गतिम् ।। १ ०४।।
भवतीनां मन्दिराणि कारिष्यन्ति ये जनाः ।
कुलदेवीं कूलवासा मानयिष्यन्ति वश्च ये ।। १०५ ।।
पूजयिष्यन्ति विविधैर्नूतनैर्मिष्टभोजनैः ।
जलपुष्पफलार्घ्यैश्च तेषां स्वर्गं हि शाश्वतम् ।। १ ०६।।
अवग्रहाऽतिवृष्ट्यादिपीडा तेषां न वै भवेत् ।
ऋषीणां मम शिष्याणां मन्दिरे प्रतिमार्चनम् ।। १ ०७।।
करिष्यन्ति जनास्तेषां दारिद्र्यं नैव दृश्यते ।
इत्येवं राधिके! ताभ्यो ददावाशीर्वचांसि सः ।। १ ०८। ।
इतिश्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने ब्रह्मपुत्र्यादिभ्यो हरिणा दत्तदिव्यदर्शनम्, दशसहस्राणि विंशतिश्चेति कन्यकाऽर्पणम्, अर्यम्णे कश्मेराप्रदेशराज्य-
दानम्, ब्रह्मपुत्र्यादीनां नदीरूपेणापि भवनम्, तासु हरिकृतस्नानम्, वरदानानि, तीर्थफलानि, दानफलानि चेतिनिरूपणनामैकादशाधिकशततमोऽध्यायः ।। १११ ।।