लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १३९

← अध्यायः १३८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १३९
[[लेखकः :|]]
अध्यायः १४० →

श्रीकृष्ण उवाच-
श्रूयतां च त्वया राधे! हरिणा दैवताय तु ।
कथितं शिखराद्यं तत् कथयामि समासतः ।। १ ।।
अथ प्रासादशिखरां सभेदं चित्रबन्धनम् ।
कथयामि समासेन बहुजातीयकं शुभम् ।। २ ।।
बहुशृंगं बहुघूम्मटकं बहुप्रफालणम् ।
बहुभद्रगवाक्षं च बहुरूपं हि नैष्ठिकम् ।। ३ ।।
बहुवेदीबहुपीठं बहुवल्लीप्रपत्रकम् ।
बहुरेखं बहुचित्रं बह्वगं गृहधर्मि तत् ।। ४ ।।
साप्तभौमं शतभौमं शिखरं बहुपुत्रलम् ।
चन्द्रशालान्तकं बहुकलशं वानप्रस्थकम् ।। ५ ।।
एकशृंगं तु सन्न्यस्तमशृंगं साधुजातिकम् ।
लम्बगोलं तथा गोलं अंगं यथेष्टकं भवेत् ।। ६ ।।
आयतत्वे चतुर्भागं दैर्घ्ये तु पञ्चभागकम् ।
ऊर्ध्वे त्रिकलशं सिंहयुक्तं तु लम्बगोलकम् ।। ७ ।।
लम्बगोले दक्षवामभागौ सार्धैकविस्तरौ ।
फालनानिर्गमश्चाष्टभद्रकं लम्बगोलकम् ।। ८ [।
एकाण्डं गोलशिखरं कर्णे श्रेण्यण्डकानि च ।
चतुर्भागं समारभ्य द्वादशोत्तरकं शतम् ।। ९ ।।
तलानां दर्शनं कृत्वा भवन्ति शिखराणि वै ।
एकस्यापि तलस्योर्ध्वे बहूनि शिखराणि हि ।। 2.139.१० ।।
छाद्यस्योर्ध्वे प्रहारः स्याच्छृङ्गे शृंगं तदुत्तरम् ।
एकद्वित्रिशिखराणि रेखयैव भवन्ति वै ।। ११ ।।
गर्भान्तरे शृंगभित्तिरेखा नैव तु शस्यते ।
विपुला विस्तृता बाह्ये सर्वसौख्यप्रदा तु सा ।। १ २।।
शृंगरेखोर्ध्वता रेखाऽऽयततापेक्षया किल ।
सपादा सार्धका वा च ग्राह्या न न्यूनिका क्वचित् ।। १ ३।।
शृंगस्कन्धोर्ध्वके घण्टा कर्तव्या फलदा शुभा ।
पहारांशं पुनर्दद्यात् पुनः शृंगाणि तत्र च ।। १४।।
शृंगाऽधो वाद्ययुक्ता वै प्रतिमाः शोभना मताः ।
शृंगपार्श्वे च शृंगोर्ध्वे शृंगिकाः शोभनास्तथा ।। १५।।
उरुशृंगाणि कार्याणि नव वा समरेखया ।
आद्योरुशृंगतलतः परोरुस्कन्धकावधिम् ।। १६ ।।
भागास्त्रयोदश कार्याः सप्तभागाद्यशृंगकम् ।
कृत्वा द्वितीयकमुरुशृंगं प्रमर्दयेत् ततः ।। १७।।
एवं वै नव कार्याणि मृद्यमूलानि चोर्ध्वतः ।
रेखामूले दशभागान् कृत्वोर्ध्वे तु षडंशकः ।। १८।।
स्कन्धो रम्यः प्रकर्तव्यो नाऽधिकांशः सदोषकः ।
पञ्चभागान्न वा न्यूनः सुदृश्यो यो न जायते ।। १ ९।।
मूलस्कन्धे ध्वजदण्डश्चाविशेत् स्वामिनाशकृत् ।
प्रतिगजं चांगुलेन ध्वजदण्डासनं बहिः ।। 2.139.२०।।
आद्यशृंगे गवाक्षं च द्वितीये माढमेव च।
तृतीयमस्तकं यावत् सिंहस्थानं मतं शुभम् ।।२१ ।।
चतुर्थमस्तकं यावत् शुकसिंहः समुच्यते ।
यद्वा वै नवपर्यन्तं तथाऽन्यादिव्यमूर्तयः ।। २२।।
गवाक्षेषु देवताश्च ह्यग्रे शुको हरिस्त्रये ।
भद्रे स्थाप्यस्तेन सर्वं सौख्यं स्यात् शिखरोद्भवम् ।।२३।।
छाद्याद्वै स्कन्धपर्यन्तं भागा वै चैकविंशितः ।
नवत्रयोदशमध्ये सिंहा वै शुकनासकाः ।।२४।।
पञ्चधा तत्र कर्तव्याः शुकनासा शुभा मताः ।
कोल्यामेकान्नव यावत् सिंहा दैर्घ्यस्य सूत्रतः ।।२५।।
मण्डपे स्तम्भकान् कुर्यान्मध्यगर्भानुसारतः ।
शुकनाससमा घण्टा कर्तव्या निम्निकाऽथवा ।। २६।।
शृंगोरुशृंगप्रत्यंगैरण्डान् दद्याद्धि तावतः ।
कर्णेषु नवकोणेषु तिलकं सौधभूषणम् ।।।२७।।
अंगानां संख्यया वार्यन्तराः कार्याः शुभावहाः ।
यद्वा मूलशिलाऽऽरम्भात् कलशान्तं समुच्छ्रये ।।।२८।।।
भागास्तु विंशतिः कार्या अष्टभागे हि चोत्तमम् ।
मण्डोवरं द्विसार्धाऽष्टे मध्यं नवे कनिष्ठकम् ।।२९।।
मण्डोवरादुपर्येव शिखरोदय उच्यते ।
प्रासादे दशभागेषु द्वित्रचतुर्थके तथा ।।2.139.३० ।।
पादे चार्धे त्रिभागे वा शृंगोदयो मतः सदा ।
दशांशान् शिखरे मूले कृत्वा दशाशकाँस्ततः ।।३ १ ।।
द्वौ द्वौ भागौ द्विकर्णौ च सार्धौ सार्धौ पढारकौ ।
त्रिभागं भद्रकं कार्यं बन्धनामस्तके त्वपि ।।३ २।।
नवांशाश्च प्रकर्तव्या द्वौ द्वौ भागौ द्विकर्णकौ ।
सार्धौ सार्धौ तु पढरौ द्विभागं भद्रकं ततः ।।३३।।
कर्णात् सपादं शिखरं सार्धैकं शिखरं च वा ।
सपादकर्णयोर्मध्ये रेखाः स्युः पञ्चविंशतिः ।।३४।।
उदये कर्णयोर्मध्ये रेखाश्च पञ्चविंशतिः ।
अष्टादितोऽष्टषष्ट्यन्तं रेखा भवन्ति षोडश ।।३५।।
ऊर्ध्वे पञ्चाऽऽयतत्वे च पञ्चेति पञ्चविंशतिः ।
अंशवृद्धिः कला कार्या तेन भेदास्तथाविधाः ।।३६।।
अष्टादितोऽष्टषष्ठ्यन्तं चतुर्वृद्ध्या तु षोडश ।
अष्टद्वादशषोडशविंशा ऊर्ध्वे तथाऽऽयते ।। ३७।।
यद्वाऽष्टादश चोर्ध्वे चायते षोडश एव च ।
एवं रेखाः षट्पञ्चाशद् द्वे शते च भवन्ति वै ।।३८।।
त्रिखण्डेभ्यः खण्डवृद्धिर्यावदष्टादशैव तु ।
एकैकस्य कला अष्टौ समार्चास्तेन षोडश ।।३९।।
चतुर्विंशतिः प्रथमा द्वितीया सप्तविंशतिः ।
त्रिंशद्भागा तृतीया च तत्र तत्रापि षोडश ।।2.139.४०।।
सूत्रं चतुर्गुणं धृत्वा रेखातः पद्मकोशवत् ।
शिखराऽऽयतता गोला कार्योच्छ्रयः सपादकः ।।४१ ।।
पञ्च भागाश्च षट् सप्ताष्टौ द्वादशाऽथ षोडश ।
अथ ध्वजपुरुषं वै कथयामि तु राधिके! ।।४२।।
शृंगरेखा समारभ्य यावद्बन्धनिकोच्छ्रये ।
षड्भागान् संविधायैव षष्ठे भागचतुष्टयम् ।।४३।।
ऊर्ध्वभागं विहायैव शेषभागत्रयांशकः ।
ध्वजाधारः प्रकर्तव्यः प्रतिरथे तु दक्षिणे ।।४४।।
यद्वा रेखां समारभ्य शृंगस्कन्धान्तकेंऽशकौ ।
द्वौ कृत्वोर्ध्वेंऽशके भागत्रयं कृत्वा तदर्धकः ।।४५।।
वंशाधारः प्रकर्तव्यस्तद्वामे तु करे ध्वजः ।
प्रदातव्यो ध्वजस्तंभः प्रदातव्यस्तु दक्षिणे ।।४६ ।।
प्रासादपृष्ठदेशे तु दक्षिणे वै पढारके ।
ध्वजाधारः प्रकर्तव्यः पूर्वाननस्य नैर्ऋते ।।४७।।
ईशानै पश्चिममुखप्रासादस्य ध्वजाधरः ।
प्रासादस्य स्कन्धदेशे मध्ये पढरयोर्द्वयोः ।।४८।।
पढरावत् प्रकार्यो वर्तुलश्चामलसारकः ।
उत्सेधो विस्तराऽर्धेन कर्तव्यस्तस्य शोभनः ।।४९।।
तदुच्छ्रयस्य वै भागाश्चत्वारस्तत्र चोपरि ।
ग्रीवा पादोनिका तस्याऽमलसारः सपादकः ।।2.139.५०।।
एकभागा चन्द्रिका च झांझरी चैकभागिका ।
कलशस्य ततो मानं कथयामि समासतः ।।५१ ।।
पद्मकोशे सप्तभागाः ग्रीवास्तस्यैकभागिका ।
सार्धैकोच्छ्रायवान् आमलसारः संप्रकीर्तितः ।।५२।।
पादोनं पञ्चपत्रं च पादोना झांझरी ततः ।
त्रिभागोच्छ्रयकलशो द्विभागायतवान् शुभः ।।५३।।
प्रासादकर्णाऽऽयत्यायाः कलशश्चाऽष्टमांशकः ।
षोडशांऽशो वर्धितः स श्रेष्ठो व्यासे घटो मतः ।।५४।।
द्वात्रिंशद्भागतो वर्धितः स वै मध्यमो मतः ।
यद्वा मूलस्य रेखाया व्यासस्य पञ्चमांशिका ।।५५।।
आयतता कलशस्य कर्तव्या शोभना मता ।
यद्वा चाऽमलसारस्याऽऽयततायाश्चतुर्थके ।।५६ ।।
अंशे चायतता या सा कलशस्य प्रकीर्तिता ।
चतुर्थांशो वर्धनीयः सार्धश्चोच्छ्रयवाँस्ततः ।।५७।।
उच्छ्रयो नवभागश्च स्थौल्ये षडंशकस्तथा ।
प्रमाणसूत्रमानेन कलशः सर्वकामदः ।।५८।।
ग्रीवापीठौ त्वेकभागे त्रिभागे त्वण्डकं तथा ।
कर्णिके चैकैकभागे डोडलश्च त्रिभागकः ।।५९।।
डोडलाग्रं चैकभागं मूलस्थौल्यं द्विभागकम् ।
कर्णिका च त्रिभागाऽथ छज्जी भागचतुष्टयम् ।।2.139.६ ० ।।
ग्रीवा द्विभागिकाऽर्धपीठकं द्विभागकं तथा ।
पूर्णं पीठं चतुर्भागं चाण्डं षड्भागकायतम् ।।६ १ ।।
श्रेष्ठस्तु सर्वश्रेष्ठानां सौवर्णकलशो ध्वजः ।
प्रासादस्याऽमलसारो जीवस्थानं प्रकीर्तितम् ।।६२।।
प्रासादपुरुषस्तत्र देवायतनको मतः ।
स्थापनीयः स पुरुषश्चाध्यात्मा चेतनान्वितः ।।६३।।
प्रासादे चैकहस्ते तु पुरुषोऽर्धांगुलात्मकः ।
पञ्चाशद्गजपर्यन्ते प्रत्येकमर्धं वर्धयेत्। ।।६४।।
तस्य वै शयनं रौप्यं कमलं दक्षिणे करे ।
वामे ध्वजस्त्रिपताको वक्षसि धारितो यथा ।।६५।।
ध्वजापताकाभागस्तु यथा स्कन्धोपरि स्थितः ।
आमलसारके ताम्रं स्वर्णं वा घृतपात्रकम् ।।६६।।
स्थापनीयं तथा स्वर्णप्रासादपुरुषोऽपि च ।
रौप्यपर्यंकशायी च स्थापनीयः शुभो मतः ।।६७।।
पर्यंकस्य चतुष्पादे कुंभाश्चत्वार एव तु ।
सहेमरत्नसंयुक्तास्तन्निधिचिह्नशोभिताः ।।६८।।
शंखः पद्मो महापद्मो मकरश्चेति नामिनः ।
ध्वजदण्डप्रमाणं च कथयामि निशामय ।।६ ९ ।।
प्रासादः कर्णके यावदायतस्तावदेव सः ।
लम्ब एव ध्वजादण्डः कर्तव्यो ज्येष्ठमानतः ।।2.139.७०।।
मध्यो दशांशहीनश्च पञ्चमांशः कनिष्ठकः ।
यद्वा जगतीशिरसो घटोर्ध्वं यावदेव च ।।७१।।
उच्छ्रयस्य त्रयो भागास्तत्रैकदीर्घदण्डकः ।
ज्येष्ठो भवेन्मध्यमस्तु चाष्टांशहीनको मतः ।।७२।।
षष्ठांशहीनकः प्रोक्तः कनिष्ठ एव सर्वथा ।
यद्वा रेखाप्रमाणस्तु कनिष्ठकः स उच्यते ।।७३।।
द्वादशभागवृद्ध्या च मध्यमः स भवेदथ ।
षष्ठांशवृद्धितः श्रेष्ठो भवत्येव स दण्डकः ।।७४।।
प्रासादकोणमर्यादा सप्तहस्तान्तिका मता ।
गर्भमानस्य मर्यादा हस्ताः स्युः पञ्चविंशतिः ।।७५।।
रेखामानस्य मर्यादा पञ्चाशद्धस्तिका मता ।
तत्तन्मर्यादया ध्वजादण्डस्य दैर्घ्यमित्यपि ।।७६।।
प्रासादे चैकहस्ते तु दण्डः पादोकांगुलः ।
पृथुस्ततः प्रतिगजं चार्धांगुलं पृथुं धरेत् ।।७७।।
पञ्चाशद्गजपर्यन्तं मानं स्थौल्ये मतं शुभम् ।
वंशमयश्चांजनो वा माधुकः शैंशपेयकः ।।७८।।
खादिरो वा प्रकर्तव्यो वृत्तः सोपानपंक्तियुक् ।
एकीपर्वयुतो द्वित्वग्रन्थिसंख्यासमन्वितः ।।७९।।
दण्डदैर्घ्यषडंशेन लम्बा मर्कटी पाटली ।
दैर्घ्याऽर्धांशैश्चायता च स्थूला चाऽऽयत्यत्र्यंशकैः ।।2.139.८० ।।
किंकिणीघण्टिकायुक्ता कांगरीभिः सुशोभिता ।
मर्कट्यायततायाश्च पञ्चांशैः कलशोच्छ्रयः ।।८ १ ।।
मर्कट्यधोऽर्धचन्द्राभः पक्षयोः सगगारकः ।
दण्डोपर्येव कलशः स्थापनीयः कुशाग्रकः ।।८२।।
पताका दण्डवल्लम्बा तदष्टांशैस्तथाऽऽयता ।
त्रिभिर्वा पञ्चकैः पट्टैर्भिन्नरूपैः सुशोभिता ।।८३।।
दक्षस्कन्धे पंढरायां ध्वजदण्डः स्थितो भवेत् ।
प्रासादस्य पृष्ठभागे दक्षे तु पंढरे शुभः ।।८४।।
ध्वजदण्डाधाररूपः कलाबः शोभनो मतः ।
कलाबाऽऽयतता कार्या मित्तिषष्ठांशमानतः ।।८५।।
घण्टोदयसमोच्छ्रायः कलाबो मन्यते शुभः ।
प्रासादस्य पृथुत्वे च यावद्धस्ता भवन्ति च ।।८६।।
तावदङ्गुलमानेन दण्डगर्तविशालता ।
चतुर्मुखे तु प्रासादे ईशान्यां दण्डरोपणम् ।।८७।।
ईशान्यां तु मनाक् पाटलिका दण्डे परक्षयेत् ।
राज्यवृद्धिः स्थानवृद्धिः प्रजासौख्यं ततो भवेत् ।।८८।।
ध्वजहीने महासौधे वासमिच्छन्ति राक्षसाः ।
ध्वजदानेन तुष्यन्ति देवताः पितरस्तथा ।।८९।।
दशाश्वमेधिकं पुण्यं शतैकं तारयेत् कुलम् ।
जीर्णोद्धारे पूर्वसूत्रं प्रासादे न समुत्सृजेत् ।।2.139.९० ।।
पूर्वद्रव्यापेक्षया चोत्तमद्रव्येण वास्तुकम् ।
सुमुहूर्तादिसद्योगे शुभं जीर्णप्रपातनम् ।।९ १ ।।
स्वर्णरूप्यमयहस्तिवृषदन्तैः प्रपातनम् ।
अन्यदेवस्य जीर्णादिर्नान्यदेवगृहेऽर्पयेत् ।।९९२।।
प्रतिष्ठितस्य देवस्य चालनं पुण्यनाशकम् ।
गृहस्थानां न तु सतां यतीनां ब्रह्मचारिणाम् ।।९३।।
प्रतिमोत्थापनं लग्ने चरे लञ्चेन वै मतम् ।
लंचनं च गजाश्वस्य रूप्यकं वाऽथ वज्रकम् ।।९४।।
कपाटाः समसूत्रे च श्रेणीभंगं न कारयेत ।
पाषाणादिथराः सर्वे समसूत्रेण सम्मताः ।।९५।।
प्रतोलिकाः शुभाः कार्याः गोपुराणि महान्ति च ।
कीर्तिस्तंभस्तथा कार्यो वेधयन्त्रादिकं तथा ।।९६।।
इत्येवं राधिके नारायणः प्राह निजाश्रितम् ।
देवायतनभक्तायलक्ष्म्यै प्राह च तत् तथा ।।९७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपे शिखरपद्मकोशकलशध्वजादिविशेषनिरूपणनामा नवत्रिंशाऽधिकशततमोऽध्यायः ।। १३९ ।।