लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १७३

← अध्यायः १७२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १७३
[[लेखकः :|]]
अध्यायः १७४ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्र यवक्रीताय चर्षये ।
भगवान् प्रददौ ज्ञानं गांगेयाय महात्मने ।। १ ।।
राज्ञे राजकुटुम्बाय प्रजाभ्यश्चापि शोभनम् ।
पारम्पर्यप्ररक्षार्थं शिष्यत्वावेदकं निजम् ।। २ ।।
यवक्रीतोरलकेतोः राज्ञ्यस्तथा प्रजास्त्विमाः ।
शृण्वन्तु मम वाक्यानि कृष्णमूलपराणि वै ।। ३ ।।
अहं श्रीभगवानस्मि परब्रह्म परात्परः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।। ४ ।।
अक्षरात्तु परे धाम्नि दिव्ये विराजमानकः ।
दिव्यमूर्तिर्निवसामि दिव्यमुक्तप्रसेवितः ।। ५ ।।
अहं मम स्वरूपस्य ज्ञानं ददामि वै मुहुः ।
भक्तेभ्यो मुक्तसंज्ञेभ्यो मुक्तानीभ्यस्तथा क्वचित् ।। ६ ।।
क्वचिद् ब्रह्मप्रियाभ्यश्च राधायै च श्रियै क्वचित् ।
क्वचिल्लक्ष्म्यै रमायै च माणिक्यायै क्वचित्तथा ।। ७ ।।
रमायै च जयायै च ललितायै तथा क्वचित् ।
पद्मावत्यै महालक्ष्म्यै पार्षदेभ्यस्तथा क्वचित् ।। ८ ।।
आयुधेभ्यो विभूषाभ्यो गुणेभ्यश्च तथा क्वचित् ।
ऐश्वर्येभ्यश्च शक्तिभ्यः क्वचिद्भक्तेभ्य इत्यपि ।। ९ ।।
ज्ञानं सम्यक् स्वरूपस्य प्रददामि तु सेविने ।
सम्प्रदायः स वै प्रोक्तो ज्ञानात्मकः प्रमुक्तिदः ।। 2.173.१० ।।
ज्ञानं चाहं परब्रह्मास्मीति जानन्तु सर्वथा ।
दीयतेऽद्य मया त्वत्र भवद्भ्यः सर्वथोत्तमम् ।। ११ ।।
मया साक्षात्तु तद् दत्तं ग्राह्यं धार्यं सदा हृदि ।
मत्तोऽवतारा जायन्ते कृष्णाद्याः कोटिशः सदा ।। १२।।
चतुर्विशत्यवतारास्तथाऽन्येऽपि सहस्रशः ।
मत्तः सर्वे प्रजायन्ते मदैश्वर्यान्वितास्तु ते ।। १३।।
नारायणास्तथा सर्वे जायन्ते मत्स्वरूपतः ।
वासुदेवादयो व्यूहा जायन्ते मम मूर्तितः ।। १४।।
भूमादयस्त्वीश्वराश्च ममांशाः सर्व एव ते ।
ब्रह्मविष्णुमहेशाद्या ममांशाऽशा भवन्ति ते ।। १५।।
राधारमादिकाः सर्वा मम सन्ति प्रशक्तयः ।
गोलोकं चापि वैकुण्ठं चामृतं च किलासनम् ।
ममाक्षरप्रदेशास्ते प्रान्तधामानि सन्ति मे ।। १६ ।।
अक्षरं धाम सर्वेशं सर्वेभ्यो मानवर्जितम् ।
अन्यधामानि सर्वाणि मानवन्ति भवन्ति मे ।। १७।।
महन्नगरमभितो यथा शाखापुराणि हि ।
बृहद्धामाभितस्तद्वच्छाखाधामानि तानि वै ।। १८।।
सम्राडस्म्यवताराणां सर्वे ममांशयोगिनः ।
एवं वै वर्तमानस्य नियामकस्य मे परम् ।। १ ९।।
अक्षराच्च बृहतोऽपि धामाऽस्ति परमोत्तमम् ।
मन्मूर्तेरभितश्चस्ते मम धाम परोत्तमम् ।।2.173.२०।।
तस्माच्च परधामाद्वै तेजो यन्निर्गतं पुरः ।
तदक्षरं बृहद्धाम भण्यते सर्वबुद्धिषु ।। २ १।।
तस्माद् बोध्यं मम धाम त्वक्षराद् परमं बृहत् ।
अक्षरं तु ब्रहत्प्रोक्तं धामान्यन्यानि सीम्नि च ।।२२।।
अक्षरस्यैव तिष्ठन्ति ततश्चेश्वरकोटयः ।
ततोऽष्टावरणान्येव मलिनानि भवन्ति हि ।।२३।।
ततो ब्रह्माण्डलोकाश्चोड्डयन्ति त्वणुवत् सदा ।
सर्वेष्वहं सदा चान्तर्यामितया वसामि च ।। २४।।
अत्र योऽस्मि स तत्राऽस्मि बालकृष्णः परः प्रभुः ।
अत्र मे योगमापन्नास्ते सर्वे परधामगाः ।।२५।।
अहं सदैकरूपोऽस्मि सर्वैश्वर्यादिसंभृतः ।
जनास्तु भिन्ननेत्रा मां स्वीयदृष्ट्या स्ववत् सदा ।।२६।।
पश्यन्ति देववद् देवाः पश्यन्ति मर्त्यवन्नराः ।
पश्यन्ति सिद्धवत् सिद्धाः ऋषयः ऋषिवत्तथा ।।२७।।
पितरः पितृवच्चापीश्वरा ईश्वरवत्तथा ।
अवताराः स्ववच्चापि मुक्ता मुक्तसमं तथा ।। २८।।
ब्रह्मा तु ब्रह्मवच्चापि मायिका मायिकं यथा ।
महामुक्ताः स्ववच्चापि मां पश्यन्ति सदा स्ववत् ।।२९।।
अनन्ताऽपाररूपोऽहं चाऽप्रमेयोऽस्मि सर्वथा ।
स्वरूपेण स्वभावेन गुणैर्भावैश्च सर्वदा ।।2.173.३ ०।।
नान्तोऽस्ति मम दिव्यानां स्वरूपाणां कुतस्तु मे ।
विभूतीनां न मे त्वन्तः कुतो मे मानता तदा ।।३ १ ।।
अहमानन्दवानस्मि तेन जीवन्ति जीविनः ।
यत्रानन्दश्च तत्राऽहं विदित्वैवं च मां भजेत् ।।३२।।
नरो वा यदि वा नारी ततो मोक्षमवाप्नुयात् ।
मोक्षिकेयं हि नगरी मया त्वागत्य सत्कृता ।। ३३ ।।
मम ज्ञानेन लोकानां वसतां मोक्षदा न्वियम् ।
शरीरेणेन्द्रियैर्भावैरन्तःकरणकैश्च माम् ।। ३४।।
प्रभजन्ति जना ये मामान्तरस्थं तरन्ति ते ।
सर्वदा कर्मकाण्डे वै दैहिके मानसेऽथवा ।।३५।।
ऐन्द्रियकेऽपि मद्भानं तदेव मोक्षदं मतम् ।
निर्गुणं मत्कृते सर्वं दिव्यं वैषयिकं च वा ।। ३६।।
इत्येवं च जडं चापि चेतनं वर्ष्म मे मतम् ।
तत्राऽहं सर्वदा चास्मि विशिष्टोऽहं भवामि च ।।३७।।
चुल्लिकायां तथा काष्ठे वह्नौ भ्राष्ट्रे कपालके ।
पिष्टे च रोटके चाहं कर्त्र्या भोक्तरि चाप्यहम् ।।३८।।
जाठरे चोदरे सर्वविकृतौ च बलेऽपि च ।
धातुष्वहं च गर्भादौ बालेऽहं यौवनेऽप्यहम् ।।३९।।
वार्धके च शवे भूतीभावे चाहं वसामि हि ।
पुनः खाद्ये खादके च बीजे वृक्षे कुठारके ।।2.173.४०।।
छेदने छेत्तरि द्वैधीभावे समित्सु चाप्यहम् ।
एवं सर्वत्र निधने पुष्टौ च जननेऽस्म्यहम् ।।४१ ।।
मद्विना नाऽप्यणुस्त्वस्ति मया सर्वं त्वधिष्ठितम् ।
एवं ज्ञात्वा सर्वविधां मम मूर्तिं भजेत् सदा ।।४२।।
तदा नैर्गुण्यमासाद्य मम भावाय कल्पते ।
एतज्ज्ञानं मया धाम्नि परे पुरा तु सर्जने ।।४३ ।।
माणिक्यायै मम देव्यै वाहायै चार्पितं ध्रुवम् ।
तया तु दुःखहालक्ष्म्यै दत्तं तया तु शंभवे ।।४४।।
शिवराजस्वरूपाय शिवेन निजयोषिते ।
सत्यै दत्तं तया पुत्रगणेशाय पुराऽर्पितम् ।।४५।।
तेन बुद्धयै तथा सिद्ध्यै ताभ्यां तज्ज्ञानमुत्तमम् ।
पद्मावत्यै रमायै च ताभ्यां हिरण्यगर्भिणे ।।४६ ।।
तेन चानेकशिष्येभ्यो बहुशाखागतं ततः ।
बहुधा वर्धितं सम्प्रदायशाखासु वर्तते ।।४७।।
विघ्ना वै सम्प्रदायस्य नाशकास्तु भवन्त्यपि ।
तैर्ज्ञानं न पराभाव्यं यद्यहं संस्मृतोऽन्तरे ।।४८।।
सम्प्रदायो रक्षणीयः शिष्यैः प्रशिष्यकैस्ततः ।
तन्वा च मनसा बुद्ध्या धनैर्ज्ञानैः सुमन्दिरैः ।।४९।।
ज्ञानाऽवनार्थमेवात्र शास्त्रं त्वपेक्ष्यते सदा ।
वेदाश्च संहिता चापि सर्ववेदार्थबोधिनी ।।2.173.५० ।।।
लक्ष्मीनारायणसंहितेयं रक्ष्या सदा हृदि ।
तद्व्याख्याता गुरुर्धार्यः पूजार्थं मम रूपवान् ।।५ १ ।।
गुरुर्वै दीक्षितः संहिताज्ञो मदात्मको हि सः ।
संहितार्थं ज्ञापयेत् स कथा द्वारा सदा जनान् ।।५२।।
मम पूजाप्रकारादि प्रकुर्यात् लिखितं यथा ।
पूजार्थं मम मूर्तिश्च स्थिरा स्थाप्या सुमन्दिरे ।।५३।।
राधया रमया लक्ष्म्या श्रिया माणिक्यया सह ।
पद्मावत्या रमया गंगया विरजया सह ।।५४।।
सरस्वत्या दुर्गया भ्वा ब्रह्मप्रियादिभिः सह ।
जयया पद्मया वृन्दया तुलस्या च हंसया ।।५५।।
मंजुलया सद्गुणया स्थाप्या ललितया सह ।
देव्या च मुक्तया हैम्या शान्त्या वा चम्पया सह ।।५६ ।।
तत्पूजायाः प्रवाहर्थं भूग्रामादिसमर्पणम् ।
कर्तव्यं विधिना राज्ञा धनाढ्यैस्तु धनार्पणम् ।।५७।।
विद्यायास्तु पराया मे दानार्थं पाठशालिकाः ।
विद्यालया विशालाश्च कारणीया हि बोधदाः ।
शिक्षका योजनीयाश्च पूजका मन्दिरेऽपि मे ।।५८।।
पुस्तकानां प्रचारश्च कर्तव्यो मानवेष्वपि ।
देवेषु चान्यलोकेषु पातालेष्वपि सर्वथा ।।५९।।
तत्र तत्रत्यसंहिताभागप्रसारमाचरेत् ।
एवं षडंगरूपेण सम्प्रदायः प्रवर्तते ।।2.173.६ ०।।
विद्या शास्त्रं गुरुर्मूर्तिर्मन्दिरं शिष्यवर्गकः ।
विद्या प्रोक्ता परा मन्त्रो नाम चाराधनादिकाः ।।६ १ ।।
अपरा बहुधा ज्ञानं व्यवहारेण मिश्रितम् ।
शास्त्रं वेदाः संहिताश्च गुरोर्वाणी हरेर्वचः ।। ६२।।
गुरुस्तु वैष्णवो ज्ञानमन्त्रशास्त्रादियोजकः ।
मूर्तिश्चाहं स्वयं पत्नीसहितः परमेश्वरः ।।६३।।
मुक्तैर्भक्तैः प्रियाभिश्च सहाऽऽर्यः कृष्णवल्लभः ।
अवताराश्च मे सर्वे व्यूहा मे कार्यकारिणः ।।६४।।
अंशाः कलास्तथाऽऽवेशा विभूतयः स्वरूपिणः ।
पूर्णाश्चोपासका भक्ता नारायणास्तथाऽपरे ।। ६५।।
मन्दिरं शतकलशं सहस्रकलशं तथा ।
सौवर्णं च तथा दिव्यं मणिजं कारयेद् दृढम् ।।६६।।
शिष्यवर्गा भवेयुर्वै मन्त्रग्रहणसेवनैः ।
साधवो गृहवर्गाश्च नरा नार्यो हि सेवकाः ।।६७।।
बाला युवानो वृद्धाश्च सधवा अधवा अपि ।
बालिकाश्च कुमाराश्च विज्ञा विज्ञानवर्जिताः ।।६८। ।
राजा प्रजाः प्रधानाश्च ब्रह्मिष्ठा वीतरागकाः ।
सन्यासाः साधवो योगाभ्यासाश्च यतयस्तथा ।।६९।।
मानवा अपि षण्ढा ये ये केऽपि सम्प्रदायिनः ।
भजेरन् मां सदा भावभराः कपटवर्जिताः ।।2.173.७०।।
तृष्णारागद्वेषमन्युद्रोहेर्ष्यावर्जितास्तथा ।
भजेयुर्मां तदा सम्प्रदायो शाश्वतो भवेत् ।।७१ ।।
निर्दोषैस्त्वाश्रितैः सम्प्रदायः प्रकाशतां व्रजेत् ।
सदोषैस्त्वाश्रितैः सम्प्रदायश्चान्ध्यमुपाव्रजेत् ।।७२।।
यत्र नास्ति गुरुर्बोद्धा नित्यतृप्तो निरीहकः ।
यमैश्च नियमैर्युक्तः सम्प्रदायः स नश्यति ।।७३ ।।
यत्र नास्ति गुरुस्त्यागी वैराग्यवान् जितेन्द्रियः ।
शास्त्रज्ञो धर्मशीलश्च सम्प्रदायः स नश्यति ।।७४।।
यत्र नास्ति गुरुर्ज्ञाता ज्ञानदोऽज्ञाननाशकः ।
सर्वशास्त्रव्यापकश्च सम्प्रदायः स नश्यति।। ७५।।
यत्र गुरुर्द्रव्यहर्ता व्यसनी चानृती तथा ।
स्वार्थमात्रपरस्तृष्णी सम्प्रदायः स नश्यति ।।७६ ।।
यत्र गुरुर्दयाहीनः पारक्यान् मनुते श्रितान् ।
दुःखे प्रक्षिपति शिष्यान् सम्प्रदायः स नश्यति ।।७७।।
यत्र गुरुर्धर्महन्ता नास्तिकः शठधूर्तकः ।
दोषालयश्च विषयी सम्प्रदायः स नश्यति ।।७८।।
यत्र गुरुः सर्वभक्षी तृष्णालोभादिशेवधिः ।
पूर्यते नोदरं यस्य सम्प्रदायः स नश्यति ।।७९।।
रक्षका भक्षका यत्र त्रातारश्च विडम्बकाः ।
विश्वासघातिनः श्रेष्ठाः सम्प्रदायः स नश्यति ।।2.173.८ ० ।।
पाषण्डिचौरहाराणां लुण्टकानां क्रियापराः ।
मूर्धन्या यत्र विद्यन्ते सम्प्रदायः स नश्यति ।।८ १ ।।
सभासदो व्यवहारनिर्णतारश्च योजकाः ।
लुञ्चाखादकिनो यत्र सम्प्रदायः स नश्यति ।।।८२।।
प्रसह्याऽन्याययुक्ताश्च विगन्तारो विरोधिनः ।
क्लेशिनो मानवा यत्र सम्प्रदायः स नश्यति ।।८३।।
गुरुद्रोहिजना यत्र निम्नदोषावलोकिनः ।
भावहीना निन्दकाश्च सम्प्रदायः स नश्यति ।।८४।।
अविवेका अदीर्घदृष्टयः प्रेमविहीनकाः ।
पूज्यपूजोल्लंघकाश्च सम्प्रदायः स नश्यति ।।८५।।
हत्याकाण्डाभिरुचयो देवान्नद्रव्यभोजकाः ।
गुरोर्मानहनो यत्र सम्प्रदायः स नश्यति ।।८६।।
कुदृष्टयः कुसंकल्पाः कुसंगव्याप्तमानसाः ।
परगृहप्रभंक्तारः सम्प्रदायः स नश्यति ।।८७।।
गुणेषु दोषद्रष्टारः परोत्कर्षाऽसहिष्णवः ।
मानवा यत्र वै याम्याः सम्प्रदायः स नश्यति ।।८८।।
असत्कार्यमसद्वाणी अन्यायश्च पदे पदे ।
महतामवमानं च सम्प्रदायः स नश्यति ।।८९।।
यत्र मे प्रतिमा नास्ति नास्ति मे मन्दिरं च वा ।
नास्ति मे संहिताशास्त्रं सम्प्रदायः स नश्यति ।।2.173.९० ।।
कथा मे सततं नास्ति सन्ति हृन्द्यमलानि न ।
सेवका निर्मला नैव सम्प्रदायः स नश्यति ।।९ १ ।।
गृहस्था गुरवो यत्र त्यागिनः शिष्यकोटयः ।
गुरवः स्त्रीजुषो यत्र सम्प्रदायः स नश्यति ।।९२।।
सर्वभोगविलासाश्च गुरुष्वेव वसन्ति चेत् ।
त्यागांशो यत्र नास्त्येव सम्प्रदायः स नश्यति ।।९३ ।।
गुरोः पृष्ठे महच्छिद्रं हृदये राक्षसी स्थितिः ।
अग्रे तु ग्रहणान्ध्यं च सम्प्रदायः स नश्यति ।।९४।।
नरा नार्यो निःश्वसन्ति यं यान् वै साम्प्रदायिकान् ।
तेषामाधारभूतश्चेत् सम्प्रदायः स नश्यति ।। ९५।।
विद्या विद्यालयो नास्ति चमत्कारो न यत्र च ।
सिद्धा यत्र न सन्त्येव सम्प्रदायः स नश्यति ।।९६।।
उदरंभरिणो यत्र शिष्या धार्म्यशभक्षकाः ।
देवभीतिविहीनाश्च सम्प्रदायः स नश्यति ।।९७।।
वाक्ष्वन्यद् दर्शने चान्यत् हृदयेऽन्यत्तु मानवे ।
तादृशो यत्र कार्याग्न्यः सम्प्रदायः स नश्यति ।।९८।।
ज्ञाने कर्मणि नास्तिक्यं चाऽनृतैश्वर्यदर्शनम् ।
यत्राऽऽदानं वमयित्वा सम्प्रदायः स नश्यति ।।९९।।
विद्या शास्त्रं गुरुर्देवा आलया यत्र सन्ति न ।
सम्प्रदायस्य नाशस्तु द्रुत तत्र प्रजापते ।। 2.173.१० ०।।
तस्मामन्त्रा मया दत्ता दीयन्तां शिष्यवर्गिणे ।
विद्यां शास्त्रं गुरुं देवान् स्थापयन्त्वर्चयन्तु च ।। १०१ ।।
एवमुक्त्वाऽऽशिषो दत्वा विमानं त्वध्यरोहयत् ।
जयनादैर्वाद्यनादैर्यन्त्रनादैश्च हर्षणैः ।। १० २।।
सह व्योम्ना सार्थयुक्तो ययौ क्रथकराष्ट्रकम् ।
रोमायनेनर्षिणा प्रार्थितः क्रथकभूभृता ।। १० ३।।
राधिके तु तदा व्योम्नि यान्तं दृष्ट्वा हरिं प्रजाः ।
आगन्तव्यं रक्षणीया देयं च दर्शनं जगुः ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उरलकेतुराजर्षियवक्रीतमहर्षि-प्रजाभ्यश्च हरिणा स्वस्वरूपज्ञानं सम्प्रदायशाश्वतिकज्ञानं च दत्तमिति निरूपण-
नामा त्रिसप्तत्यधिकशततमोऽध्यायः ।। १७३ ।।