लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १७७

← अध्यायः १७६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १७७
[[लेखकः :|]]
अध्यायः १७८ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चोच्चग्रहादिकं यथा हरिः ।
क्रथकायाऽऽह तद्वच्मि तथाऽन्यदौपयोगिकम् ।। १ ।।
मेषस्याऽर्को वृषस्येन्दुर्नक्रस्य मंगलस्तथा ।
कन्यायाश्च बुधः कर्कराशेर्गुरुस्तथा खलु ।। २ ।।
मीनस्य शक्रस्तुलायाः शनिश्चोच्चस्थिता हि ते ।
तुलायाश्च रविर्वृश्चिकस्य चन्द्रस्तथा खलु ।। ३ ।।
कर्कस्य मंगलो मीनस्य च बुधस्तथा खलु ।
मकरस्य गुरुः कन्यायाः शुक्रो मेषगो शनिः ।। ४ ।।
नीचस्थानगता एते बोध्या नैव सुखप्रदाः ।
राहोर्गृहं तु कन्याऽस्ति मिथुनं चोच्चकालयम् ।। ५ ।।
धनुर्नीचं स्थानमेव बोध्यं तथा फलं ह्यपि ।
द्विः स्वभावे स्थिरे लग्ने त्यक्त्वाऽष्टमं च द्वादशम् ।। ६ ।।
स्थानमन्येषु स्थानेषु भवन्ति चेत्। शुभग्रहाः ।
एकादशे च षष्ठे तु पापग्रहा भवन्ति चेत् ।। ७ ।।
गृहसौधमन्दिराणामारम्भस्तत्र शोभनः ।
लग्ने गुरौ रवौ षष्ठे सप्तमे च बुधो यदि ।। ८ ।।
चतुर्थे शुक्रकः शनिस्तृतीये चेत् तदा यदि ।
गृहाद्यारंभणं कुर्यात् शतवर्षायुरेव तत्। ।। ९ ।।
लग्ने शुक्रे तृतीयेऽर्के षष्ठे भौमे गुरुस्त्वपि ।
पञ्चमे चेत् गृहं कुर्यात् शतद्वयायुरेव तत् ।। 2.177.१ ०।।
सूर्ये चैकादशे लग्ने शुक्रे दशमगे बुधे ।
तत्र कुर्याद् गृहाद्यं चेत् शतवर्षायुरेव तत् ।। १ १।।
गुरौ तुर्ये शनौ भौमे चैकादशेऽथ चन्द्रके ।
दशमे चेद् गृहं कुर्यादशीत्यायुर्भवेद्धि तत् ।। १२।।।
शुक्रे उच्चे च वा लग्ने गुरौ लग्ने वा तुर्यके ।
उच्चे चैकादशे वा च शनौ सम्पत्प्रदं गृहम् ।। १ ३।।।
लग्ने स्याच्चेत् कर्कचन्द्रो गुरुः स्यात् केन्द्रके यदि ।
अन्यग्रहा उच्चराशौ मित्रराशौ च वा यदि ।। १४।।
तद्योगे मन्दिरं जातं लक्ष्मीदं शाश्वतं भवेत् ।
मीनराशेर्लग्नके च शुक्रश्च वर्तते यदि ।। १५।।
कर्कगुरुश्चतुर्थे च भवने वर्तते यदि ।
तुलाशनिश्च वैकादशके भवनके भवेत् ।। १६।।
प्रारब्धं तु गृहं लक्ष्मीप्रदं चिरायुरेव तत् ।
सर्वे ग्रहा द्वादशे चाष्टमे स्थाने न शोभनाः ।। १७।।
केन्द्रत्रिकोणधनुर्गाः पापग्रहा न शोभनाः ।
लग्नचन्द्रो बुधयुक्तश्चापि नैव स शोभनः ।। १८।।
अष्टमस्थः चन्द्रमाः स शोभनो नैव नैव च ।
सर्वे ग्रहा भवेयुश्च नीचांशे तत्र निर्मितम् ।।१ ९।।
गृहं वै निर्धनं स्याच्च तत्र कार्यं न सर्वथा ।
कोऽप्येकश्च ग्रहः शत्रग्रहस्य नवमांशके ।।2.177.२०।।
स्थितोऽपि दशमे वा सप्तमे स्याच्चेत् तथा पुनः ।
लग्नेशो यदि वै निर्बलो भवेत् तत्र मन्दिरम् ।।२ १ ।।
कृतं वर्षान्तरे स्यात् तत्परहस्तगतं ध्रुवम् ।
लग्नस्वामी जन्मस्वामी राशिस्वामी च यो ग्रहः ।।२२।।
तथा चन्द्रो गुरुः शुक्रश्चैतेऽनस्तगता यदि ।
तथा स्वोच्चस्थले स्वक्षेत्रके स्वांशे भवन्ति चेत्। ।।२३।।
तदाऽऽरब्धं गृहं सौख्यश्रीप्रदं जायते सदा ।
अथ प्रतिष्ठासमये सूर्यश्चेल्लग्नकुण्डले ।।।२४।।
त्रिषड्दशैकादशेषूपचयस्थानकेषु चेत्। ।
भवेच्छ्रेष्ठस्तथैव स्याच्चन्द्रोऽप्युक्तस्थलेषु चेत्। ।।२५।।
धनुर्धर्मस्थानयुक्षु भवेच्छ्रेष्ठस्तथाविधः ।
भौमः शनिस्तृतीये चैकादशे षष्ठके शुभाः ।।२६।।
बुधो गुरुर्द्वादशाष्टभिन्नस्थानेषु वै शुभौ ।
एकद्वात्रचतुःपञ्चनवस्थानेषु चेत् कविः ।।२७।।
दशैकादशयोश्चापि वर्तते श्रेष्ठ एव सः ।
पापग्रहाः रविर्भौमः शनिश्च राहुकेतुकौ ।।२८।।
आद्येऽष्टमे पञ्चमे सप्तमे चेत् स्युस्तदा च ते ।
तथा शुभग्रहाः स्युरष्टमे शशी तथाऽऽद्यके ।।२९।।
षष्ठेऽष्टमे भवेत् कुण्डलीग्रहास्त्याज्यका इमे ।
सिंहलग्ने सूर्यदेवप्रतिष्ठा तु शुभा मता ।।2.177.३ ०।।
हरस्य मिथुने कन्यालग्ने विष्णोर्ममापि च ।
कुंभे तु ब्रह्मणश्चरलग्ने क्षुद्रसुरस्य च ।। ३ १।।
योगिनीनां तथा लग्ने चरे वै स्थापनं मतम् ।
लग्ने तु द्विस्वभावे देवीनां सुस्थापनं वरम् ।।३२।।
स्थिरे लग्ने सर्वदेवप्रतिष्ठा चोत्तमा मता ।
प्रतिष्ठाकुण्डले चाद्यभवने मृत्युदः शशी ।।३३।।
द्वितीये तु धनुःस्थाने धान्यवृद्धिप्रदः शशी ।
पराक्रमे तृतीये तु क्लेशदो वै भवेच्छशी ।।३४।।
पञ्चमस्थः शशी गोत्रसन्तानक्षयकारकः ।
शत्रुतो भयदः षष्ठे सप्तमे दुःखदः शशी ।।३५।।
अष्टमे मृत्युदो विघ्नप्रदश्च नवमे शशी ।
दशमे बलदश्चैकादशस्थो धनदः शशी ।। ३६ ।।
द्वादशस्थो व्ययकारी बोध्यश्चन्द्रो हि कुण्डले ।
शुभोऽपि चन्द्रमाः पापग्रहात् चेत् सप्तमे स्थले ।। ३७।।
अशुभः स्यात्तथा पापग्रहयुक्तोऽप्यशुद्धकः ।
तथा पापग्रहमध्येऽशुभः क्षीणोऽप्यशुद्धकः ।।३८।।
नीचगश्च शनुवर्गगश्चाप्यशोभनो भवेत् ।
यदि चन्द्रो गुरुदृष्ट्या युक्तश्चेत् शुभको भवेत् ।।३९।।
स्वकर्कराशिगः स्याद्वा उच्चगो वा शुभो भवेत् ।
शुभग्रहनवांशस्थः स्वाधिमित्रनवांशगः ।।2.177.४०।।
भवेद्वापि तदाऽशुभः शशी स्याच्छुभ एव सः ।
चन्द्राच्चाद्ये चतुर्थे सप्तमे च दशमे स्थले ।।४१ ।।
यदि क्रूरो ग्रहः स्यात् तत्क्रमात् योगास्त्विमेऽशुभाः ।
आपीडा चापि संपीडा भृग्वाद्या वर्तिता तथा ।।४२।।
तत्र कार्ये कृते स्वस्य बन्धोर्नार्याश्च कर्मणः ।
चतुर्ण्णां वै विनाशः स्यात् तत्र कार्यं न चारभेत् ।।४३ ।।
यत्र राशौ भवेच्चन्द्रस्तत्र क्रूरग्रहोऽपि चेत् ।
तदा युतिर्भवेद्दोषस्त्याज्यः शुभे तु कर्मणि ।।४४।।
बुधेन गुरुणा युक्ते चन्द्रे दोषो युतिर्न वै ।
अब्दाऽयनर्तुमासर्क्षपक्षदग्धाहसंभवाः ।।४५।।
अन्धकाणादिलग्नोत्थाः सपापेन्दुनवांऽशजाः ।
दोषा नश्यन्ति गुरुज्ञशुक्रैः केन्द्रत्रिकोणगैः ।।४६ ।।
कुनवांऽशग्रहोद्भूताः षड्वर्गक्षणलग्नजाः ।
शशिन्येकादशे दोषाः सर्वे नश्यन्ति तद्बलात् ।।४७।।
लग्ने वर्गोत्तमे वेन्दौ रवौ चैकादशेऽथवा ।
केन्द्रे कोणे गुरुः स्याच्चेत् दोषा नश्यन्ति तद्बलात् ।।४८।।
त्यक्त्वा वै सप्तमं स्थानं केन्द्रे त्रिकोणके बुधः ।
शतदोषानपि हन्ति तेषु शुक्रः शतद्वयम् ।।४९।।
तेषु गुरुर्लक्षदोषान् हन्ति कार्यं शुभं भवेत् ।
लग्नेशो लग्नके स्याद्वा नवांशे वा भवेद् यदि ।।2.177.५०।।
एकादशे वा केन्द्रे वा सर्वदोषविनाशकृत् ।
लग्नबले चोत्तमे कुयोगा न दोषदाः क्वचित् ।।५१ ।।
शुक्लाद्यदिवसाद् गणयित्वा वै तिथिसंख्यकाम् ।
रवेर्वाराद् वारसंख्यामश्विन्या ऋक्षसंख्यकाम् ।।५२।।
तदंकसंख्याः सम्मिश्र्य भंक्तव्यास्तुर्यसंख्यया ।
एकशेषे स्थिता पृथ्वी गृहारंभे कलिप्रदा ।।५३।।
द्विःशेषे क्षितिरासीना शुभा त्रिःशेषकेऽपि च ।
शून्ये शेषे जाग्रती सा गृहारम्भे त्वनिष्टदा ।।५४।।
एवं विलोक्य सर्वं वै क्रथकाऽत्र सुमन्दिरम् ।
प्रकारय ममार्थं त्वं पूजासेवादिलब्धये ।।५५।।
इत्युक्त्वा विररामेशः परेशः कृष्णवल्लभः ।
क्रथकस्तद् वचो धृत्वा पुपूज परमेश्वरम् ।।५६।।
रोमायनस्तथा चान्ये पुपूजुश्च प्रजाजनाः ।
हरिं च नगरे तत्र भ्रामयामासुरुत्सुकाः ।।५७।।
यानवाहनवाद्याद्यैर्मंगलैः स्वागतादिभिः ।
उपदाभिरनन्ताभिरर्चयामासुरच्युतम् ।।५८।।
हरिः सर्वं ददौ तत्र रोमायनमहात्मने ।
प्रजाभ्यश्च ददौ प्रासादिकं राज्ञे कुटुम्बिने ।।५९।।
नगरीं पावनीं कृत्वा हर्म्याणि श्रेष्ठिनां तथा ।
आगत्य राजसौधं च भोजनं स उपाददे ।।2.177.६ ०।।
सर्वे ते भोजनं चक्रुस्ततो नृपस्य कन्यकाः ।
पञ्च दिव्यात्मवेत्त्र्यश्च हरेस्तु जगृहुः करम् ।।६ १।।
कुमारदानं मध्याह्ने ह्यभूत् ताश्च ततः परम् ।
कुमारेण समं राज्यान्निर्ययुर्हरिणा सह ।।६२।।
विमानेनर्षयः सर्वे लोमशाद्या हरिप्रियाः ।
ब्रह्मप्रियास्तथा सर्वे विदायं प्राप्य निर्ययुः ।।६ ३।।
प्रस्थापिताश्च राज्ञा ते राजमानपुरःसराः ।
कृपास्थलाद्रिनृपतिपृथुना प्रार्थितास्ततः ।।६४।।
पृथुना भूभृता साकं कृपास्थलर्षिणा तथा ।
प्रजाजनैर्युतः कृष्णनारायणो विहायसा ।।६५।।
मार्गेण दिव्ययानेन राजधानीं जरस्थलीम् ।
व्योम्ना विलोकयामासू राधिकेऽरण्यशोभिताम् ।।६६।।
कृतस्वागतशोभाढ्यां पृथापगातटस्थिताम् ।
वीक्ष्य प्रजा विमानं च चक्रुर्जयेतिघोषणाम् ।।६७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उच्चनीचग्रहफलं, प्रतिष्ठाने लग्नकुण्डलीस्थग्रहाणा फलं, चन्द्रफलम्, आपीडादियोगाः, युतिदोषः, लग्नबलं, पृथिवी
सुप्तेत्यादिपरीक्षा, ततो नगरीभ्रामणं पूजनं विदायं, पृथुराजधानीं जरस्थलीमागमनं चेत्यादिनिरूपणनामा सप्तसप्तत्यधिकशततमोऽध्यायः ।। १७७ ।।