लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २०४

← अध्यायः २०३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २०४
[[लेखकः :|]]
अध्यायः २०५ →

श्रीकृष्ण उवाच-
आययू राधिके मुक्ताः परमाक्षरधामिनः ।
मुक्तान्यश्चाययुस्तत्र दिव्यविमानसंस्थिताः ।। १ ।।
कृतं श्रीहरिणा तेषां स्वागतं बहुशोभनम् ।
धामेश्वरा अवताराश्चाययुः शक्तिशोभिताः ।। २ ।।
अहं राधे त्वया साकं गोपगोपीगणान्वितः ।
अगमं दिव्यपत्नीभिः साकं विमानमाश्रितः ।। ३ ।।
वैकुण्ठाच्छ्रीपतिर्नारायणोऽपि तत्र चाययौ ।
सर्वपार्षदयुक्तश्च रमाभिः सहितस्तदा ।। ४ ।।
वासुदेवादयो व्यूहाश्चाययुस्तत्र चाध्वरे ।
अवतारास्तथा सर्वेऽप्यायुः शक्तिसेविताः ।। ५ ।।
सन्मानं स्वागतं श्रीमद्बालकृष्णः स्वयं व्यधात् ।
महाविष्णुस्तथा भूमा विराडपि हिरण्मयः ।। ६ ।।
अष्टावरणसंस्थाश्चेश्वरा मायागता अपि ।
शिवलोकगताश्चापि तत्राययुस्तदंशकाः ।। ७ ।।
श्रीहरिः स्वयमेवैषां स्वागतं मानमाचरत् ।
ईशसृष्टिसमस्तानां ब्रह्मसृष्टिनिवासिनाम् ।। ८ ।।
चिदानन्दाम्बरे क्लृप्ते नगरे च निवासनम् ।
प्रददौ श्रीबालकृष्णोऽवतारी पुरुषोत्तमः ।। ९ ।।
ब्रह्मणः सत्यलोकस्थास्तथान्यलोकवासिनः ।
ऋषयः पितरः सिद्धाश्चाययुस्तत्र वै मखे ।। 2.204.१० ।।
देवा देवेश्वराश्चाशापाला लोकप्रपालिनः ।
आययुश्च विमानैरध्वरे भुवर्निवासिनः ।। ११ ।।
मेरोः समाययुश्चाप्यन्तरीक्षाद् ग्रहतारकाः ।
नक्षत्राणि सुराद्याश्च वसवो रुद्रकोटयः ।। १२।।
आदित्या अश्विनौ धर्मराजस्तथाऽपरे सुराः ।
आययुश्चाध्वरे नैजकुटुम्बपरिशोभितः ।। १३ ।।
कैलासस्य गणा गण्यो योगिन्यश्चण्डिकास्तथा ।
भैरवा भूतदेहाश्च शांकरास्ते समाययुः ।। १४।।
एतेभ्यो देवकोटिभ्यो योग्याऽऽवासान् ददौ हरिः ।
सुस्वागतं सुसम्मानं चक्रुर्ब्रह्माऽजविष्णवः ।। १५।।
लोमशाद्याः ऋषयश्च चक्रुः सम्माननं बहु ।
वालखिल्यमहर्षीणां मुनीनां चोर्ध्वरेतसाम् ।। १६।।
साध्वीनां च सतां सांख्ययोगिनीनां सुमाननम् ।
लक्ष्म्याद्याश्चक्रुरत्यर्थं निवासान् प्रददुः सुखान् ।। १७।।
सूतमागधबन्द्याद्या विद्याध्राः किन्नरादयः ।
किम्पुंसश्चापि गन्धर्वाश्चारणा भाटजातयः ।। १८।।
आययुः कथकाश्चापि रञ्जका मल्लयोधिनः ।
रूपकाश्चाययुश्चापि नरा नृत्यकरास्तथा ।। १ ९।'।
सर्ववर्णाः सर्वदेशनिवासास्तत्र चाययुः ।
सौराष्ट्रीया मानवाश्च दक्षिणापथवर्तिनः ।।2.204.२ ०।।
उष्ट्रालयजनाश्चापि ब्रह्मभूमिजना अपि ।
शिवराज्यस्थिताश्चापि प्राचीनराज्यवासिनः ।।२१ ।।
राशियाननिवासाश्च केतुमालनिवासिनः ।
अब्रिक्तस्थास्तथा लोका आरक्तदेशवासिनः ।।२२।।
आरार्त्रिकगुहावासाश्चामरीदेशवासिनः ।
हारिताश्च तथाऽऽरण्यवासाः पर्वतवासिनः ।।२३।।
जलस्थाश्च स्थलस्थाश्च व्योमस्थाः प्रसमाययुः ।
तेभ्यो ददुर्निवासाँश्चाऽकुर्वन् मानं हरादयः ।।२४।।
वृक्षा वल्ल्यस्तृणस्तम्बाः कन्दमूलादयस्तथा ।
आययुः कणजाताश्चोद्भिज्जा दिव्यशरीरिणः ।। २५।।
पशवः पक्षिणश्चापि हंसगरुडजातिकाः ।
अन्येऽपि जन्तवस्तत्राययुर्दिव्यशरीरिणः ।।२६।।
तेषां निवासान् प्रददुश्चक्रुर्मानं हरादयः ।
काश्यप्यश्च प्रजाः सर्वाः सर्वाऽतलादिवासिनः ।। २७।।
सर्पाश्च नागा नागेन्द्रा वाहनानि समाययुः ।
दैत्याश्च दानवा रौद्रा राक्षसाश्च समाययुः ।।२८।।
तेषां ददुनिवासाँश्च दक्षिणे सरसस्तथा ।
सम्मानं शंकरश्चक्रे यथायोग्यं सती तथा ।।।२९।।।
नरनारायणाद्याश्च शेषनारायणादयः ।
अवतारास्तथा चान्ये तत्राययुर्महाध्वरे ।।2.204.३ ०।।
अनादिश्रीकृष्णनारायणस्तेषां समुत्सुकः ।
सम्मानं स्वागतं चक्रे निवासान् प्रददौ शुभान् ।।३ १।।
नद्यो नदाः समुद्राश्च तत्त्वानि त्वाययुस्तदा ।
तीर्थानि विप्रवर्याश्च दिव्यदेहाः महर्षयः ।।३२।।
मेघा विद्युद्विलसिताश्चाययुस्तत्र चाध्वरे ।
यथायोग्यं स्वागतं च तेषां ब्रह्मा तदाऽकरोत् ।।३३ ।।
कालः क्षणा मुहूर्तानि दिवसाः पक्षवत्सराः ।
युगा मासाश्चाययुश्च स्वागतं शंकरो व्यधात् ।।३४।।
शिल्पिनः कोटिलोकस्थाश्चाययुस्तत्र चाध्वरे ।
विश्वकर्मा सुसम्मानं व्यधाद् वासान् ददौ तदा ।।३५।।
सर्वेषां बहुधामानं वासुदेवो नरायणः ।
यथायोग्यं प्रचक्रे वै सर्वदानादिभिस्तदा ।। ३६।।
राधिके तत्र वासेषु सर्वं सम्पूर्णमस्ति वै ।
प्रदीपाः पानपात्राणि भक्ष्यभोज्यानि यानि च ।।३७।।
मिष्टान्नानि च पेयानि लेह्यानि सन्ति तत्र च ।
चोष्याणि चासनादीनि शय्या योग्याः सुकोमलाः ।।३८।।
दासा दास्यो दुग्धकुण्डा अमृतानां सरिद्वराः ।
उद्यानानां सुदृश्यानि भृत्या दास्यश्च सेवकाः ।।३९।।
कर्मचारा निदेशस्थाः सर्वावासेषु निर्मिताः ।
बालकृष्णेन संकल्पात् कोटिशोऽनन्तसेवकाः ।।2.204.४०।।
दूरश्रवणयन्त्राणि दूरदर्शनकानि च ।
वैहायसानि यानानि सर्वस्पर्शादिसिद्धिकाः ।।४१ ।।
घृतकुल्याः पयःकुल्याः शर्करापर्वतास्तथा ।
तत्राऽऽसन् सर्वतः क्लृता महीमानादितुष्टये ।।४२।।
राधिके किं वर्णयेऽहं स्वर्णभूषादिपर्वताः ।
अम्बराणां तथा शैलाः कृताः श्रीपरमात्मना ।। ४२।।
अलक्तानां सुगन्धानां द्रोण्यस्तत्र तदा कृताः ।
सर्वशृंगारवस्तूनां तत्राऽऽसन् पर्वताः पराः ।।४४।।
दीर्घिकाश्च तथाऽऽसँश्च रसानां च सरांसि वै ।
द्रवाणां तु नदाश्चासन् भुक्तये तु मखार्थिनाम् ।।४५।।
यादृश्यश्चाऽक्षरे सन्ति गोलोके च विकुण्ठके ।
कैलासके श्वेतभूमौ तादृश्यः स्मृद्धयोऽभवन् ।।४६।।
विसस्मरुर्महीमानाः सर्वसृष्टिनिवासिनः ।
निजां निजां समृद्धिं चाधिकां प्राप्य हरेर्मखे ।।४७।।
आप्रातश्चैवमेवैवं स्वागतं समभूत् खलु ।
भोजनं सेवनं पानं शय्यादानं निवासनम् ।।४८।।
दासदासीप्रदानं च सर्वं पूर्णमभूत् तदा ।
महीमानाः प्रसन्नाश्च जहुः परिश्रमं तदा ।।४९।।
सुखावासान् परान् प्राप्याऽऽधिक्येन सुखिनोऽभवन् ।
रात्रौ स्थले स्थले तत्र मनोरञ्जनशालिकाः ।।2.204.५०।।
अभवन्नर्तनादीनां कथानां योधिनां तथा ।
रूपप्रदर्शनानां च हास्यानां गीतिकारिणाम् ।।५१।।
आख्यानानां च नाट्यानां रञ्जनान्यभवन्निशि ।
प्रातर्जातं त्वेवमेव सप्तम्याः शोभनं प्रियम् ।।५२।।
राधिके श्रीबालकृष्णः स्नानं चक्रे प्रबोधितः ।
कृतपूजावन्दनश्चाऽऽजुहाव लोमशं मुनिम् ।।५३।।
ऋषिं चाज्ञापयामास कृताभिवन्दनं गुरुम् ।
यज्ञकार्ये समाधेहि सर्वद्रष्टारमुत्तमम् ।।५४।।
लोमशश्चाह कृष्णं तं तव शिष्यं महामुनिम् ।
वेदशास्त्रनिधानं च कर्मकाण्डातिगोचरम् ।। ५५।।
त्रिकालज्ञं च मन्त्रज्ञं समाधिसिद्धिशालिनम् ।
सर्वैश्वर्ययुतं कृष्णांशं परेश्वरयोगिनम् ।। ५६।।
समर्थं नैष्ठिकवर्यं नैकभवनशक्तिकम् ।
स्वयंप्रकाशनामानं सर्वद्रष्टारमुत्तमम् ।।५७।।
विधेहि त्वध्वरे चात्र सर्वत्रगतिशालिनम् ।
शान्तं गुणनिधिं योग्यं द्रष्टारं तं सुयोजय ।।५८।।
विष्णुर्ब्रह्मा हरश्चापि बृहस्पतिः कुमारकः ।
गणेशश्चापि योग्यं तं चान्वमोदन्त वैं तदा ।।५९।।
भारद्वाजो वशिष्ठश्च भृगुर्वैश्वानरस्तथा ।
विश्वेदेवा मरुतश्चाऽप्यन्वमोदन्त तं तथा ।।2.204.६०।।
स्वयंप्रकाशो भगवान् सार्वज्ञ्यस्य महानिधिः ।
गुरोर्वाक्यं हरेर्वाक्यं सर्वद्रष्टृत्वधायकम् ।।६ १।।
स्वीचकार विनीतः संस्ततः श्रीकृष्णवल्लभः ।
कण्ठहारं ददौ तस्मै शिरस्त्राणं तदर्थकम् ।।६२।।।
कञ्चुकं स्वर्णताराढ्यं वस्त्रं कौशेयकं ददौ ।
धौत्रं तथाविधं चापि सर्वद्रष्टृत्वबोधकम् ।।६३ ।।
आसनं चोत्तमं तत्र मण्डपे तत्कृते महत् ।
न्यधापयत्ततस्तं चाप्रेषयद् यज्ञमण्डपम् ।।६४।।
गुर्वासनं लोमशाय दत्तवान् भगवान् स्वयम् ।
सच्चिदानन्दरूपाय लालायनाय माधवः ।।६५।।
बालकृष्णो ददौ प्रतिनिधित्वं स्वस्य वै तदा ।
यजमानस्तदा राजा रायकिन्नरको मतः ।।६६।।
सतीदेवीमहाराज्ञीयुतो मण्डपमाययौ ।
अवाद्यन्त समस्तानि तूर्याणि मंगलक्षणे ।।६७।।
आययुः सर्वतो यज्ञभूमौ तदधिकारिणः ।
भूदेवाः स्वर्गदेवाश्च सत्यदेवाः समाययुः ।।६८।।
ईशदेवा देवदेवा देवाः सर्वे समाययुः ।
मुक्तास्तथाऽवताराश्चेश्वराः पत्नीसमायुताः ।।६९।।
ऋषयः पितरो देवा मानवाः स्त्रीसमायुताः ।
गुरवः सर्वलोकानां व्यासा व्यासतरास्तथा ।।2.204.७० ।।
वेदाः ऋचश्च सामानि पूज्यात्मानः समाययुः ।
वयोवृद्धा ज्ञानवृद्धाः कर्मठाश्च समाययुः ।।७१ ।।
स्वरवृद्धा भूतिवृद्धा गुणवृद्धाः समाययुः ।
धनवृद्धा धर्मवृद्धा लोकवृद्धाः समाययुः ।।७२।।
योगवृद्धास्तपोवृद्धाः स्थानवृद्धाः समाययुः ।
गीतिवृद्धा वेदवृद्धा वृद्धवृद्धाः समाययुः ।।७३।।
सत्तावृद्धाश्चाययुश्च राजानोऽपि समाययुः ।
जापकाः कर्मचाराश्च होमका दानकास्तथा ।।७४।।
द्वारपा मण्डपरक्षा मुख्या गौणाः समाययुः ।
द्रव्यहारा हव्यहारा समिद्धा्राः समाययुः ।। ७५।।
निशानिर्मितकुण्डाश्च रङ्गवल्लीप्रपूरकाः ।
ध्वजापताकाधर्तारस्तत्र सर्वे समाययुः ।।७६।।
जलादानप्रकर्तारः पात्रसंचयकारिणः ।
वस्तुहाराः फलपुष्पहारास्तत्र समाययुः ।।७७।।
रसहारा गव्यहारा मिष्टहाराः समाययुः ।
वादित्रेष्वतिगर्जत्सु निनादिते दिगम्बरे ।।७८।।
सर्वे मण्डपभूमिं वै द्रष्टुं चाययुरुत्सुकाः ।
व्योम्नि व्योमविहर्तारोऽन्तरीक्षेऽन्तरयोगिनः ।।७९।।
वायुस्तरे भुवर्वासः समागत्य स्थितास्तदा ।
द्युवासाश्च प्रकाशेषु वैमानिका विमानके ।।2.204.८० ।।
आगत्य तु स्थिताः सर्वे मण्डपाभिमुखास्तदा ।
सत्यः साध्व्यश्च गौर्यश्च ब्रह्मप्रियाश्च हारिताः ।।८ १ ।।
अमर्यः कन्यकाश्चापि देव्यः सर्वाः समागताः ।
देवपत्न्यः कृतवेषाश्चित्रशृंगारशोभिताः ।।८२।।
पूर्णानन्दभराः सर्वा यज्ञमण्डपमाययुः ।
ईश्वराण्यश्च मुक्तान्यः सांख्ययोगिन्य इत्यपि ।।८३।।
मानव्यो मातरश्चापि योगिन्यश्च समाययुः ।
यतिन्यश्च ब्रह्मपत्न्यो ब्राह्मण्यश्च समाययुः ।।८४।।
वास्तुदेवाः कुण्डदेवाः शाखादेवाः समाययुः ।
द्वारदेवास्तोरणादिसुरा मण्डपदेवताः ।।८५।।
स्तंभदेवा ध्वजदेवा यूपदेवाः समाययुः ।
त्रयस्त्रिंशत्प्रदेवाश्च पञ्चायतनदेवताः ।।८६।।
श्रुत्वा वादित्रनिनदान् यज्ञमण्डपमाययुः ।
नृपा दश सयोषाश्च बहुरत्नसमन्विताः ।।८७।।
यजमानस्वरूपास्ते यज्ञमण्डपमाययुः ।
पृथ्व्यादिभूततत्त्वानि शब्दाद्या विषयास्तथा ।।८८।।
वह्नयो मूर्तिमन्तश्च यज्ञमण्डपमाययुः ।
कुण्डा बहुविधाश्चापि वेदिका मुख्यवेदिकाः ।।८९।।
स्थण्डिलाः पालिकाश्चापि मूर्तिमन्तः समाययुः ।
स्रुक्स्रुवाद्यानि पात्राणि पत्राणि कुशदेवताः ।।2.204.९ ० ।।
समिधः कणजातानि हव्यान्यपि समाययुः ।
चरवश्च पवित्राणि मूर्तानि तत्र चाययुः ।। ९१ ।।
शुद्धयश्चापि गव्यानि सप्तमृदः समाययुः ।
आसनान्युपकरणान्यपि मूर्तानि चाययुः ।। ९२।।
अथ ज्योतिःपूरुषश्च मूर्तिमान् दिव्यरूपधृक् ।
पटहेन दिशः सर्वा नादयन् समुपाययौ ।।९३ ।।
स्वर्णयूपपूरुषश्च मूर्तिमाँस्तत्र चाययौ ।
तीर्थानि सर्वरूपाणि मूर्तिमन्ति समाययुः ।। ९४।।
स्वस्तयः श्राद्धपुरुषास्तृप्तयस्तत्र चाययुः ।
अपूर्वाणि समस्तानि परमापूर्वलब्धये ।।९५।।
मध्यापूर्वत्रिकापूर्वायुतानि तत्र चाययुः ।
काण्डिका विधयः सर्वे क्रमास्तत्र समाययुः ।।९६।।
होतव्यानि समस्तानि मूर्तिमन्ति समाययुः ।
प्रजाः प्रजेश्वराश्चाप्याबालवृद्धयुवादिकाः ।। ९७।।
नरा नार्यश्चाययुर्वै वाद्यघोषैः क्रतुस्थलीम् ।
संस्कृतां शोभया युक्तां द्युभासां त्वक्षरीकृताम् ।।९८।।
युगलैश्चायुगलैश्च संभृतां नवजीवनीम् ।
मण्डपै राजितां यज्ञपत्तनैरतिगर्विताम् ।।९९।।
सर्वसृष्ट्याधिवासैश्चाश्रितां श्रेष्टतमां महीम् ।
सार्वभौमीं धामतुल्यां धामिनीं पारमेश्वरीम् ।। 2.204.१० ०।।
राधिके कर्मणां प्रारंभस्योत्तमं मुहूर्तकम् ।
उपस्थितं तदा नादाः शंखानामभवन् शुभाः ।। १० १।।
तूपशब्दा अभवँश्च विद्युद्वंशनिनादकाः ।
सूचकाः कर्मकाण्डस्यारम्भस्यैव तदाऽभवन् ।। १ ०२।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
आययौ मण्डपं शीघ्रं जयनादप्रवर्धितः ।। १०३ ।।
निषसादाऽऽसने दिव्ये मण्डपे कुण्डसन्निधौ ।
नृपाश्चागत्य कुण्डानां न्यषीदन् सन्निधौ तदा ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सर्वेषामागन्तुकानां स्वागतमावासनं चोपकरणसंक्लृप्तिः स्वयंप्रकाशस्य हर्यवतारस्य मखे सर्वद्रष्टृत्वविधानं, मंगलवाद्यघोषाः, सर्वेषां देवीदेवादीनां यज्ञमण्डपागमनं चेत्यादिनिरूपणनामा चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।