लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१८

← अध्यायः २१७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २१८
[[लेखकः :|]]
अध्यायः २१९ →

श्रीकृष्ण उवाच-
राधिके प्रतिपत्प्रातश्चाश्वीनकृष्णपक्षके ।
पेयिस्थायाः सन्निधौ वै महोद्याने हि कोटिशः ।। १ ।।
नृपः सैन्येन कृष्णस्य स्वागतं स्वं व्यधारयत् ।
विमानं बालकृष्णस्य दिव्यसूर्यनिभप्रभम् ।। २ ।।
जना दृष्ट्वा जयशब्दान् चक्रुर्हर्षसमन्विताः ।
राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।। ३ ।।
पेयिस्थाया नगर्या उद्याने ध्वजादिशोभिते ।
विमानं चाऽवर्धयँश्च प्रजा अक्षतचन्दनैः ।। ४ ।।
पुष्पाञ्जलिभिश्चात्यर्थं गीतिभिः स्वागतं व्यधुः ।
अनादिश्रीकृष्णनारायणो विमानतो बहिः ।। ५ ।।
आययौ च तदा सूर्याननं विलोक्य मानवाः ।
क्षणं तेजोधर्षिताश्चाऽभवैंस्ततः कृपानिधिः ।। ६ ।।
चन्द्राननोऽभवच्छीघ्रं शान्तसुधाप्रवर्षणः ।
ददृशुश्च जनाः सर्वे तदा श्रीकृष्णवल्लभम् ।। ७ ।।
कोटीश्वरो नृपः कृष्णकण्ठे हारं ददौ शुभम् ।
पपौ पादामृतं चापि ततोऽन्येऽपूजयन् प्रभुम् ।। ८ । ।
गजे निषाद्य सर्वेशं पेयिस्थायां महापथे ।
महासैन्येन राजा सोऽभ्रामयन्मानपूर्वकम् ।। ९ । ।
प्रधानैश्च तथाऽमात्यैः श्रेष्ठिभिश्च प्रजाजनैः ।
धनाम्बरैर्हीरकैश्च मौक्तिकै रत्नहारकैः ।। 2.218.१० ।।
फलैः पुष्पैर्दलैर्मिष्टैः सुवर्णाद्यैश्च पूजितः ।
नीराजितो वन्दितश्च योषिद्भिः सन्निरीक्षितः ।। ११ ।।
मनोहरस्वरूपः श्रीकाम्भरेयो नरायणः ।
दत्वैवं दर्शनं चायान्नृपावासं मनोहरम् ।। १२ ।।
राजा स्वमन्दिरे दिव्ये सिंहासने जनार्दनम् ।
निषाद्य चरणौ नत्वा पुरः स्वर्णायुतं न्यधात्। ।। १३ ।।
राज्ञी पुपूज भक्त्याढ्या चन्दनाक्षतपुष्पकैः ।
कन्ये द्वे च तदा कृष्णकण्ठे मात्राज्ञया शुभे ।। १ ४।।
वरमाले न्यधातां ते जाते पूर्णमनोरथे ।
परेश्वरं पतिं प्राप्यानन्दमग्ने बभूवतुः ।। १ ५।।
राजा भाग्यं निजं मेने सर्वश्रेष्ठं नृपांगना ।
नीराजनं चकाराऽथ हरिश्चोपादिदेश ह ।। १ ६।।
क्रोधो लोभो रसास्वादो मानः स्तैन्यं च पैशुनम् ।
एते प्रमत्ताः सततं तुदन्ति पुरुषं स्त्रियम् ।। १ ७।।
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते ।
लोभात् क्रोधः प्रभवति मानाच्च जायते भृशम् ।। १८ ।।
परदोषैस्तथा क्रोधो भवेदिच्छाविघातकः ।
अवमानाद् भवेत् क्रोधो वाक्काठिन्यश्रवात्तथा ।। १ ९।।
क्षमया क्रोधनं साधौ द्रागेव विनिवर्तते ।
क्रोधमूलं क्वचित् कामो भवत्येव वियोजितः ।। 2.218.२० ।।
काममूलं तु संकल्पो हेतुवृद्धौ विवर्धते ।
सेव्यमानस्तु सुतरां त्यज्यमानस्तु नश्यति ।। २१ ।।
असूया जायते मानाद् यशःखण्डनतस्तथा ।
दारिद्र्यात् स्वापकर्षाच्चाऽवनतेर्निम्नसंस्थितेः ।। २२।।
अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते ।
ज्ञानमार्गेण विहतो मोहो मूलान्निवर्तते ।। २३ ।।
विधित्सा कर्मफलिका मय्यर्पणान्न बन्धदा ।
प्रीत्या शोकः प्रभवति चेष्टावियोजनात्तथा ।। २४।।
यदा नैरर्थ्यमानं स्याच्छोकः सर्वो निवर्तते ।
पारवश्यं तृष्णया वा लोभात् कामात् सुखेहया ।। २५।।
जायते तत्तु वैराग्यान्निवर्तते समूलकम् ।
असत्याश्रयिणो नित्यं मात्सर्यं प्रविवर्धते ।। २६ ।।
साधूनां सेवनात् सत्योद्बोधात्तत्तु निवर्तते ।
अवस्थागुणसम्पत्तिकुलख्यातिकलादिभिः ।। २७।।
ऐश्वर्याद् विद्यया चापि जायते तु मदोद्भवः ।
तेषामंशं सुखदं च प्राप्याऽन्यांऽशं विवर्जयेत् ।। २८।।
एवं वै वर्तमानस्य मददुःख न जायते ।
ईर्ष्या परोन्नतिश्रैष्ठ्याऽसहिष्णुना वितन्यते ।।२९।।
उपेक्षया नाशयेद् वै संहर्षाद् वा विचारतः ।
कुत्सा सञ्जायते श्रैष्ठ्यगर्वेणाऽन्यत्र वस्तुनि ।।2.218.३ ०।।
अवस्थाभेदसाम्यज्ञः कुत्सां जयति नान्यथा ।
इति कर्तुं न शक्ता ये बलस्थाय महात्मने ।।३ १।।
असूया जायते तेषां भाग्यतुष्ट्या निवर्तते ।
कृपा संजायते लोके ह्युपकारविवेकतः ।।३२।।
कृपणेषु तथाऽन्येषु दौर्गुण्येन निवर्तते ।
अज्ञानप्रभवो लोभो यत्र यत्र प्रजायते ।। ३३ ।।
तत्र तत्र भावयेच्चाऽस्थिरत्वं दुःखदायिताम् ।
अनपेक्षस्वभावेन लोभोऽप्यत्र निवर्तते ।। ३४ ।।
नृशंसं वर्जयेन्नित्यं विज्ञाय च यथातथम् ।
सस्पृहो गर्वितश्चाप्याक्रोष्टा च वञ्चकस्तथा ।। ३५।।
शठः क्षुद्रो नैकृतिको विषमश्च विकत्थनः ।
संगी मान्यसंविभागी सर्वशंकी च निर्दयः ।। ३६ ।।
कृपणो द्वेषवान् हिंसाविहारो बह्वलीककः ।
लुब्धः पाषण्डवान् निन्दाकर्ता त्वेते नृशंसकाः ।। ३७।।
धर्मशीलं गुणोपेतं पापमित्यवगच्छति ।
श्रेष्ठान् पूज्यान् सतः साध्वीः स्वार्थार्थमुपहन्ति यः ।।३८।।
स्वपैशुन्यप्रमाणेन न विश्वसिति कस्यचित् ।
गुणिनां स्वल्पदोषं वा बहुत्वेन च वक्ति यः ।। ३९।।
यश्चोपकारिणं मित्रं मन्यते वञ्चकं परम् ।
हितकृतेऽपि च मुहुस्तपत्येव निरर्थकम् ।।2.218.४०।।
भोजनं साधु नीत्वैव भुंक्ते प्रेक्षकपंक्तिषु ।
नारीं प्रतापयेद् यश्च पितरौ तापयेच्च यः ।। ४१ ।।
एते नृशंसा ज्ञातव्यास्तेषां संगं न चाचरेत् ।
सद्भ्यो दत्वा भुंजते ये सुहृद्भिर्बान्धवैः सह ।। ४२।।
प्रेत्य लभन्ते स्वर्गं ते स्वर्गात् स्वर्गं तथोत्तरम् ।
नृशंसान् वर्धयेद् ज्ञात्वाऽऽश्रयेत् साधून् हरिं तथा ।।४३।।
निःस्वेभ्यो देयमेवेति विद्याऽन्नाऽम्बरमुत्तमम् ।
यक्ष्यमाणो दानपात्रं सर्वविद्याधरस्तथा ।। ४४।।
आचार्यपितृकार्यश्च धर्मार्थदत्तजीवनः ।
एते वै साधवः प्रोक्ताः परमेशपरायणाः ।।४५।।
तेषामाश्रयणान्मोक्षो महास्वर्गादिकार्जनम् ।
सर्वैश्वर्यप्रलाभश्चेश्वरभावस्तदाश्रयात् ।।०६।।
मद्रूपः साधवस्ते वै येषु मे सद्गुणाः शुभाः ।
मद्गुणो वै मदंशोऽस्ति नरो नारायणाह्वयः ।।४७।।
त्यक्तव्याँश्च जनान् वच्मि येषां संगो भयावहः ।
लुब्धं क्रूरं धर्महीनं मम भक्तिविवर्जितम् ।।४८।।
निकृतिं च शठं क्षुद्रं पापाचारं विवर्जयेत्। ।
अलसं सर्वशंकं च दीर्घसूत्रं विवर्जयेत् ।।४९।।।
अनृजुं च सदा क्रुष्टं गुरुदारप्रधर्षकम् ।
व्यसनेयं दुरात्मानं पितृहं निरपत्रपम् ।।2.218.५० ।।
सर्वतः पापचक्षुष्कं नास्तिकं निन्दकं खलम् ।
असंयमेन्द्रियं कामासक्तं प्रमत्तमुत्सृजेत्। ।।५१ ।।
असद्वृत्तं च विद्विष्टं समये चाऽनवस्थितम् ।
पिशुनं चाऽकृतप्रज्ञं मत्सरिणं च पापिनम् ।।५२।।
दुःशीलं चाऽकृतात्मानं कितवं च नृशंसकम् ।
मित्राऽपकृतिकं चान्यद्रव्यार्थलालसान्वितम् ।।५३।।
दानद्वेषिणमेवापि चासन्तुष्टं परित्यजेत् ।
अधीरं बलखण्डं चाऽस्थानक्रोधपरायणम् ।।५४।।
अयुक्तं चाऽविवेकं चाऽकस्माद् विरोधिनं त्यजेत् ।
अकल्याणकरं दुष्टं व्यसनाढ्यं विवर्जयेत् ।।५५।।
अपकारपरं मूढं पुण्यप्रध्वंसकारकम् ।
शत्रुर्मित्रमुखो यश्च मित्रद्वेषी सुहृत् त्वपि ।।५६।।
जिह्मप्रेक्षी स्वार्थमात्रमेलनो यशसां क्षयी ।
प्रत्यक्षे शंसको यश्च परोक्षे निन्दको नरः ।।५७।।
स्वार्थे मृदुः कृते स्वार्थे स्तब्धो यस्तान् परित्यजेत् ।
पानपं द्वेषिणं ऋद्धं निर्घृणं परुषं त्यजेत् । ।५८।।
परतापकरं प्राणिवधे रक्तं कृतघ्नकम् ।
अधमं छिद्रपश्यं च दूरतो वर्जयेत् सुधीः । ।५९।।
तेन हानिर्न वै लोके नात्मविक्षेपणं क्वचित् ।
बुद्धिनाशो न चैवापि नाभ्युदयेऽस्य विघ्नता ।।।2.218.६०।।
एवं परीक्ष्य मतिमान् साधून् हितान् समाश्रयेत् ।
कुलीनान् ज्ञानसम्पन्नान् कोविदान् सुबहुश्रुतान् ।।६ १ । ।
गुणोपेतानलुब्धाँश्चाऽजितान् जितश्रमाँस्तथा ।
सन्मित्राणि कृतज्ञाँश्च सर्वज्ञान् लोभवर्जितान् ।।६२।।
माधुर्यगुणसम्पन्नान् सत्यसन्धान् जितेन्द्रियान् ।
व्यायामशीलान्निर्दोषान् सदाचारान् समाश्रयेत् ।।६३।।
नाऽस्थाने क्रोधिनश्चाप्यकस्मान्नैव विरागिणः ।
विरक्ताँश्चार्थवेतॄँश्च सुहृत्कार्यपरायणान् ।।६४।।
विश्वस्तान् घातहीनाँश्च रक्षकान् धर्मवत्सलान् ।
लोष्टकाञ्चनतुल्यार्थान् सुहृदो दृढबुद्धिकान् ।।६५।।
स्वाम्यर्थं कृतसर्वस्वान् श्रयेद् विचार्य सज्जनान् ।
ईदृशैर्भगवद्भक्तैर्यः सन्धिं कुरुते जनः ।।६६।।
तस्य नित्यं भवेच्छ्रेयः कल्याणं मोक्षणं तथा ।
शास्त्रनित्या जितदोषाः सन्तोषिणो हरिस्थिताः ।।६७।।
शीलशान्तिगुणोपेताः सन्धेयाः पुरुषोत्तमाः ।
नृशंसाश्च तथा दुष्टा ये चोक्ताश्च ततोऽधमाः ।।६८।।
कृतघ्ना मित्रघाताश्च त्यक्तव्या धर्मवर्जिताः ।
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।।६९।।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ।
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।।2.218.७०।।
मित्रध्रुङ् नरकं घोरं दुःखं याति विपत्तिदम् ।
कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह ।।७१ ।।
मित्राच्च लभते सर्वं मित्रात् पूजां प्रपद्यते ।
मित्राद्भोगानवाप्नोति गित्रादापद् विनश्यति ।।७२।।
मित्राणि साधवो लोके जीवानां पापनाशकाः ।
वासनाक्षालकाश्चापि स्वर्गमोक्षप्रदास्तथा ।।७३ ।।
भवमृत्युहरास्ते च शरणागतरक्षकाः ।
सर्वथा दुःखहर्तारो दयालवोऽतिसात्त्विकाः ।।७४।।
नरैश्चाबालवृद्धैश्च नारीभिः शीलशोभनाः ।
सेवनीयाः सदा सन्तः सर्वदोषविवर्जिताः ।।७५।।
दिव्या दिव्यगुणोपेता आश्रितदिव्यताप्रदाः ।
अनादिश्रीकृष्णनारायणस्य मेऽनुसेवकाः ।।७६।।
यत्प्रसादोऽपि दिव्योऽस्ति दर्शनं दिव्यमेव च ।
स्पर्शनं दिव्यमेवाऽपि सेवनं दिव्यमित्यपि ।।७७।।
वन्दनं वर्तनं चाज्ञापालनं चरणामृतम् ।
सर्वं दिव्यं दिब्ययोगात्ते सेव्याः सततं जनैः ।।७८।।
नैतादृशं परं पुण्यं परो धर्मोऽपि नेदृशः ।
पराभक्तिश्च मे साधौ साधवो भवतारकाः ।।७९।।
इत्युपादिश्य भगवान् ददौ मन्त्रान् सुवैष्णवान् ।
भोजनं कारयामास राजा कोटीश्वरो हरिम् ।।2.218.८० ।।
महीमानाँस्तथा सर्वान् ताम्बूलानि ततो ददौ ।
दक्षिणाः स्वर्णमुद्राद्या ददौ चौर्णाम्बराण्यपि ।।८ १।।
मध्याह्नोत्तरवेलायां कुष्ठकर्षिस्तदा हरिम् ।
आर्थयन्निजराष्ट्रं त्वागन्तुं पारूपनामकम् ।।८२।।
श्रीसतीशो नृपः पूर्वं गतोऽभूत् स्वागताय च ।
हरिस्तथाऽस्त्विति प्राह सज्जोऽभवद् द्रुतं तदा ।।८३।।
कोटीश्वरो नृपः प्रादाद् यौतकं च धनं बहु ।
विदायं स्वर्णरत्ननादि हरिः प्राप्य निजान्वितः ।।८४।।
आरुरोह विमानं च प्रससार पुरोदिशम् ।
तदा विदायवाद्यानि ह्यवाद्यन्त नृपाज्ञया ।।८५।।
जयशब्दाः प्रजाभिश्च कृताः कृष्णो नतो जनैः ।
वर्धितो भावनाभिश्च ययावम्बरमार्गतः ।।८६।।
पारूपराष्ट्रमायाच्च सञ्चालानगरीं प्रति ।
महोद्याने राजसौधे राजा सैन्यसमन्वितः ।।८७।।
स्वस्थोऽभूत् स्वागतार्थं वै विमानं त्वागतं द्रुतम् ।
सूर्यतुल्यं विलोक्यैव प्रजाः सैन्यानि चाभितः ।।८८।।
जयशब्दान् प्रचक्रुश्च दर्शयामासुरानतिम् ।
ध्वजान् पताकिकाँश्चापि दर्शयामासुरुत्सुकाः ।।८९।।
चन्द्रतुल्या गृहचित्रा वावटिकाश्च वावटान् ।
दर्शयामासुराकाशे यशोश्लोकसमन्वितान् ।। 2.218.९० ।।
राजदर्शितमार्गेण विमानं श्रीहरिस्तदा ।
उद्याने मन्दिराग्रेऽवातारयच्छनकैः स्थले ।। ९१ ।।
प्रजाभिस्तु विमानं तत् पुष्पपत्रादिभिः शुभम् ।
वर्धितं पूजितं चापि नतं प्राञ्जलिभिस्तदा ।।९२।।
श्रीहरिस्त्वाययौ चाग्रे विमाने कृपया द्रुतम् ।
दातुं स्वदर्शनं सर्वलोकेभ्यः परमेश्वरः ।।९३ ।।
सूर्यनिभोऽतितेजस्वी चन्द्रशीतलमानसः ।
पद्माक्षः प्रेमभृन्नेत्रो मन्दहास्याननो हरिः ।।।९४।।
तेजःपरिधिसंव्याप्तविग्रहः कानकीप्रभः ।
कोटिकन्दर्पसौन्दर्यो वात्सल्यवारिधिः प्रभुः ।। ९५।।
जनेभ्यो दर्शनं प्रादाज्जग्राह नमनादिकम् ।
भावनां हृदयैर्दत्तां स्वीचकार हृदा तदा ।।९६।।
अथ राजा पुष्पहारान् स्वर्णहारान् गले ददौ ।
शीतसुगन्धसाराँश्च सिषेच मस्तकादिषु ।। ९७।।
करे ददौ पुष्पगुच्छान् तिलकं कैसरं व्यधात् ।
पादप्रक्षालनं चक्रे प्रसादामृतमापपौ ।। ९८।।
राज्ञी तस्याऽपूजयच्च श्रीपतिं पार्वतीपतिम् ।
आरार्त्रिकं व्यधात् तत्र विमाने बहुवर्तिकम् ।। ९९।।
पूजाश्चक्रुः पूजनं च हारावल्यादिभिस्तदा ।
अथ कृष्णः पपौ वारि शीतलं मधुरं तदा ।। 2.218.१०० ।।
राधिकेऽथ तदा सैन्यं सञ्चालानगरीं प्रति ।
सज्जं ह्यभूत् हरिं भ्रामयितुं राजा समुत्सुकः ।। १० १।।
भगवान् श्रीबालकृष्णो विमानादवरुह्य च ।
शृंगारिते गजे श्वेते स्वर्णासने ह्युपाविशत् ।। १०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पेयिस्थानगर्यां भ्रमणं पूजनं चोपदेशनं भोजनं विदायं ततः सायं पारूपराष्ट्रागमनं पूजनं चेत्यादिनिरूपणनामाऽष्टा-
दशाधिकद्विशततमोऽध्यायः ।। २१८ ।।