लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २४४

← अध्यायः २४३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २४४
[[लेखकः :|]]
अध्यायः २४५ →



श्रीकृष्ण उवाच-
शृणु त्वं राधिके चाश्वसरस्येव ततः परम् ।
मार्गकृष्णस्य चाष्टम्यां यज्ञारंभो बभूव ह ।। १ ।।
नृपोऽश्वपाटलाख्यो वै वैष्णवस्त्वर्बुदाचलात् ।
आययौ मखकार्यार्थे लोमशं प्रति सानुगः ।। २ ।।
गजाः शतं गृहे यस्याऽरण्यं क्षेत्राणि भूरिशः ।
राज्यं विशालं यस्यास्ते चार्बुदीयप्रदेशजम् ।। ३ ।।
सहस्रमानवैर्युक्तः सहस्रगोवृषैस्तथा ।
बहुसामग्रिकाभिश्चाययौ सह मखार्थकः ।। ४ ।।
अश्वपट्टसरस्तीरे त्वैशाने पावने शुभे ।
भागे सैन्यशिबिराणि चक्रे पालाशके वने ।। ५ ।।
आहूय लोमशं चापि कृत्वा च दर्शनं हरेः ।
महर्षींश्च समाहूय क्रतुं श्रेष्ठं चकार सः ।। ६ ।।
राधिके सोमयज्ञं तं पञ्चाहं प्रचकार सः ।
सोमलताः समाहृत्य सजीवाः कुण्डिकासु ताः ।। ७ ।।
वर्धिताः पायिताश्चापि राज्ञा त्वश्वसरस्तटे ।
अहीनाख्यः सोमयज्ञः पञ्चाहोऽनुष्ठितस्तटे ।। ८ ।।
मण्डपे सुविशाले संकारितः कुण्डसत्तमः ।
राजा सपत्नीक एव वृत्त्वा सोमप्रवाककम् ।। ९ ।।
सोमप्रवाकं विप्रं सम्प्रेषयामास ऋत्विजाम् ।
वरणार्थं स विप्रोऽपि गत्वाऽऽनयत्तु भूसुरान् ।। 2.244.१ ०।।
राजा दत्वा मधुपर्कं वरणं प्रचकार ह ।
अध्वर्युं च प्रतिप्रस्थातारं नेष्टारमित्यपि ।। ११ ।।
उन्नेतारं ततश्चापि ब्रह्माणं च समावृणोत् ।
ब्राह्मणाच्छंसिनं चाग्नीध्रं पोतारं समावृणोत् ।। १ २।।
होतारं च तथा मैत्रावरुणं च समावृणोत् ।
अच्छावाकं ग्रावस्तुतं चोद्गातारं समावृणोत् ।। १ ३।।
प्रस्तोतारं प्रतिहर्तारं सुब्रह्मण्यमावृणोत् ।
सदस्यानृत्विजश्चापि राजा तत्र समावृणोत् ।। १४।।
देवताः समुपस्थायाऽरण्योश्चारोप्य चाऽनलम् ।
सोमक्रतुस्थलीं गत्वा मथित्वा चारणी ततः ।। १८६।।
समुत्पन्नं गार्हपत्याऽऽयतनेऽनलमेव तम् ।
प्रातिष्ठिपत् ततोऽध्वर्युः प्रणीयाऽऽहवनीयकम् ।। १६।।
चतुर्विंशतिहोमाँश्च हुत्वा विसृज्य चाऽनलम् ।
प्रणीय गार्हपत्याच्च पुनर्होमाँश्च सप्त च ।। १७।।
कृत्वाऽग्निं तं समुत्सृज्य दीक्षणीयेष्टिमाचरत् ।
एकादशकपालं च पुरोडाशं व्यधापयत् ।। १८।।
अग्नये विष्णवे चापि होमं ददौ ततः परम् ।
प्राचीनवंशशालां च निर्माय यजमानकः ।। १९।।
उत्तरे च बहिर्देशे कारयित्वा तु मुण्डनम् ।
तीर्थे स्नात्वाऽध्वर्युणा च दत्ते दुकूलके शुभे ।। 2.244.२० ।।
पर्यदधत् तथा राज्ञी नखनिकृन्तनादिकम् ।
स्नानं कृत्वा पर्यदधद् वस्त्रे दुकूलके शुभे ।। २१ ।।
ततो जायापती चान्नं बुभुजाते हि मण्डपे ।
नवनीतेन वै तत्र स्वाङ्गानि चानुलिम्पतः ।।२२।।
अञ्जाते चाञ्जनेनाप्यक्षिणी नैजे ततः परम् ।
अध्वर्युश्चानले तत्र हुत्वा दीक्षाहुतीश्च षट् ।।।२३।।
प्रददौ यजमानाय ततः कृष्णाजिनद्वयम् ।
यजमानः परिगृह्याऽऽहवनीयसमीपगः ।।२४।।
तदास्तीर्योपविश्यापि बद्ध्वा कट्यां च मेखलाम् ।
मृगशृंगं तथोदुम्बरद्रुदण्डं दधार च ।।२५।।
पत्नी तथेषिकाजालं मुञ्जयोक्त्रं दधार च ।
यजमानो मुष्टिबन्धं चकाराऽध्वर्युराह च ।।२६।।
दीक्षितो यजमानोऽयं दीक्षिता ब्राह्मणा इमे ।
वाङ्यतो यजमानश्चाऽऽनक्षत्रोदयमेव ह ।।२७।।
अवर्तताऽध्वर्युणा चार्पितं पयोऽपिबत्ततः ।
पत्न्यपिबद् वाग्विसर्गं चक्रतुर्दम्पती ततः ।। २८।।
दधि धानानुदुम्बरफलसक्तँश्च वोदनम् ।
भोजनं दम्पती तत्र यथेष्टं सम्प्रचक्रतुः ।। २९।।
याचका विप्रदेवाश्च यज्ञद्रव्योपलब्धये ।
याचनार्थं गताश्चाऽथ दम्पती जागृतो निशि ।। 2.244.३० ।।
व्रतं ररक्षतुश्चापि नानृतं संवदेदिति ।
नाश्नीयान्मांसमद्यादि नोपेयाच्च स्त्रियं तथा ।। ३१ ।।
न खट्वादौ शयीतापि कृष्णाजिनादि धारयेत् ।
अष्टम्यां सोमयागस्य कृत्यं राजा तथा व्यधात् ।। ३ २।।
ततो रात्रौ सभायां च लोमशस्तूपदेशनाम् ।
ददौ त्वात्मप्रलाभार्थां ज्ञानविज्ञानसंभृताम् ।।३ ३ ।।
अध्वराः सर्वदा कार्या धनिकैः सुखहेतवे ।
आत्ममोक्षकरा यज्ञाः कर्तव्या देहिभिः सदा ।। ३४।।
मोक्षयज्ञकरा लोकाः पुण्यहारा जितेन्द्रियाः ।
प्राप्नुवन्ति हरेः स्थानं यत्परं प्रकृतेर्ध्रुवम् ।। ३५।।
न प्रीयन्ते वन्द्यमाना न कुप्यन्त्यपि निन्दिताः ।
एतां प्रज्ञां तमाप्तास्ते प्राप्नुवन्ति हरेः पदम् ।। ३६ ।।
पक्वविद्या जितदोषा नापराध्यन्ति ये जनाः ।
अनीर्षवो न हिंसन्ति तप्यन्ते न परर्द्धिभिः ।। ३७।।
निन्दाशंसे न कुर्वन्ति विक्रियन्ते न तत्र च ।
प्रशान्ताः सर्वभूतानां रता भवन्ति ये हिते ।। ३८।।
न क्रुद्ध्यन्ति न हृष्यन्ति नापरान् वञ्चयन्त्यपि ।
विमुच्य हृदयग्रन्थिं ते प्रयान्ति हरेः पदम् ।। ३ ९।।
न येषां बान्धवाः केचिद् ये चान्येषां न बान्धवाः ।
अमित्राः सन्ति येषां न ये चाऽमित्रा भवन्ति न ।। 2.244.४०।।
ये धर्मं चानुरुद्ध्यन्ति सुख जीवन्त्यरोषिणः ।
अमृतस्येव तृप्येरन्नवमानस्य योगिनः ।। ४१ ।।
विषस्येवोद्विजेयुश्च सम्मानस्य विचक्षणाः ।
अवज्ञाताः सुखं चापि शेरते त्वकुतोभयाः ।।।४२।।
वियुक्ताः सर्वदोषेभ्यो ये ते यान्त्यक्षरं पदम् ।
एतद्व्रतानि चासाद्य प्रैधन्ते साधवः सुखम् ।। ८३ । ।
सर्वान् क्रतून् समासाद्य कृत्वा मनोऽतिनिर्मलम् ।
प्राप्नुवन्ति हरेर्धाम यत्परं प्रकृतेर्ध्रुवम् ।। ८४।।
नैषां देवा न गन्धर्वा नर्षयः पितरोऽपि वा ।
पदं चान्ववरोहन्ति प्राप्तानां परमं पदम् ।। ४५ ।।
येषां नैवाऽस्त्यहंकारो गुणचारित्रकृत् तथा ।
अभिन्नवाग्धृदयाश्च पूज्यन्तऽत्र परत्र च ।।४६ ।।
अध्यात्मविधितत्त्वज्ञाः क्षान्ताः शक्ता जितेन्द्रियाः ।
ऋजवः सत्यवाचश्च पूज्यन्तेऽत्र परत्र च ।।४७ ।।
तेजसा यशसा बुद्ध्या ज्ञानेन विनयेन च ।
जन्मना तपसा युक्ताः पूज्यन्तेऽत्र परत्र च ।।४८।।
सुशीलाः सुखसंवेशाः स्वादरागताः ।
सुवाक्याश्चाऽप्यनीर्ष्याश्च पूज्यन्तेऽत्र परत्र च ।।४९।।
कल्याणं कुर्वतेऽन्येषां पापं यत्र न विद्यते ।
न प्रीयन्ते परकष्टैः पूज्यन्तेऽत्र परत्र च ।।2.244.५०।।
तितिक्षवः समवृत्ताः प्रियाऽप्रियसहास्तथा ।
हितार्थवादिनः शान्ताः पूज्यन्तेऽत्र परत्र च ।।५१ ।।
अदीनाः क्रोधहीनाश्चाऽलुब्धाः परोपकारिणः ।
धने कामेऽप्यकलहाः पूज्यन्तेऽत्र परत्र च ।।५२।।
दोषा येषां समुच्छिन्ना दृढभक्ता हरेस्तु ये ।
वीतसम्मोहमानाश्च पूज्यन्तेऽत्र परत्र च ।।५३।।
असक्ताः सर्वसंगेषु विनष्टसंशयाश्च ये ।
नात्मस्तुतिपरा लोकाः पूज्यन्तेऽत्र परत्र च ।।।५४।।
नाऽसूयन्ति जनं कंचिन्न्यायमार्गे वहन्ति च ।
अवन्ध्यकाला मृदवः पूज्यन्तेऽत्र परत्र च ।।५५।।
कृतश्रमाः कृतप्रज्ञा न तृप्ता हरिकीर्तने ।
नित्ययुक्ताश्चाऽप्रमत्ताः पूज्यन्तेऽत्र परत्र च ।।५६।।
नाऽपत्रपाः परश्रेयोविधातारश्च दानिनः ।
परगुह्याऽप्रभेत्तारः पूज्यन्तेऽत्र परत्र च ।।५७।।
एवं सर्वगुणोपेतान् दक्षानात्महितार्थिनः ।
कालज्ञाँश्च प्रियज्ञाँश्च पूजयन्ति सुरा अपि ।।।५८।।
अनाद्यन्तमजं दिव्यं परब्रह्म सनातनम् ।
ते जना आप्नुवन्त्येव तदर्थास्तत्समर्पणाः ।।।५९।।
तपो निःश्रेयसं तस्य मूलं शमो दमस्तथा ।
तेन सर्वमवाप्नोति यद्यदिष्टतमं भवेत् ।।2.244.६०।।
तपसा जायते देही भूतानां धारणे प्रभुः ।
ईश्वरास्तपसा जाता महर्षयोऽपि तेन च ।।६ १ ।।
शब्दब्रह्मपराश्चापि लभन्ते ब्रह्म चोर्ध्वगम् ।
रक्षाध्वराश्च वै क्षत्त्रा हविर्यज्ञा विशो मताः ।।।६२।।
परिचर्यामखाः शूद्रास्तपोयज्ञाश्च भूसुराः ।
त्रेतायां संहता यज्ञा ब्रह्मप्राप्तिप्रदाः शुभाः ।।६३।।
तपसा विद्यया चापीज्यया दानेन वा जनाः ।
यशस्त्वखण्डितं प्राप्य संस्थाप्य भुवि तद्यशः ।।६४।।
ये प्रयान्ति परं स्वर्गं सुखाऽऽनन्त्यँ प्रभुञ्जते ।
यज्ञे दातार एवात्र स्थापयन्ति यशोभुवम् ।।६५।।
यावद्यशोभूर्विद्येत तावत् स्वर्गमखण्डितम् ।
देवर्षिपितृगुर्वर्थे वृद्धातुरातिथिकृते ।।६६।।
अनाथदीननार्यर्थे सतीसाध्वीसतां कृते ।
नाऽदेयं विद्यते किंचिद्येषां ते दिवमागताः ।।६७।।
गौतमोऽवग्रहे विप्रान् संसेव्याऽन्नादिभिः सदा ।
प्राप्य दिव्यं दिवं पश्चान्नारायणपदं गतः ।।६८ ।।
रन्तिदेवो वशिष्ठाय दत्वा वारि सुखप्रदम् ।
आशीर्वादेन वै स्वर्गं भुक्त्वा प्राप हरेः पदम् ।।६९।।।
इन्द्रद्युम्नो मखे द्रव्यमनन्तं सम्प्रदाय च ।
ययौ दिव्य दिवं भक्त्या नारायणपदं गतः ।।2.244.७० ।।
शिबिः पुत्रं ब्राह्मणार्थे दत्वा स्वर्गं परं ययौ ।
प्रतर्दनः काशिकेशो दत्वा नेत्रे द्विजातये ।। ७१ ।।
भक्त्या स्वर्गं प्रभुक्त्वैव नारायणपदं ययौ ।
धर्मांगदशिरो दत्वा स्वर्णांगदोऽक्षरं ययौ ।।७२।।।
देवावृधो नृपश्छत्रं सौवर्णं भूसुराय तु ।
दत्वा सराष्ट्रः प्रययौ पारमेशं परं पदम् ।।७३ ।।
सांकृतिकश्च शिष्येभ्यश्चोपादिश्यान्तरस्थितम् ।
परब्रह्म ययौ दिव्यं परं पदं हरेः किल ।।७४।।
अम्बरीषश्च विप्रेभ्यो दत्वा गोव्रजमित्यपि ।
अर्बुदार्बुदमेवाऽपि स्वर्गं भुक्त्वाऽक्षरं गतः ।।७५।।
वृषादर्भिः सर्वरत्नं विप्रायाऽऽर्प्याऽक्षरं गतः ।
युवनाश्वः प्रियानारीः रम्याण्यावसथानि च ।।७६।।
विप्रेभ्यो दानमादत्त्वा स्वर्गं ततोऽक्षरं गतः ।
निमिः राष्ट्रं प्रदत्वैव वैदेहो जनकोऽभवत् ।।७७ ।।
जामदग्न्योऽपि पृथिवीं दत्वा नारायणोऽभवत् ।
गयो द्विजातये दत्वा स्वर्गं चेशपदं ययौ ।।७८ ।।
मरुत्तो नाम राजर्षिः समर्प्याङ्गिरसे सुताम् ।
दिव्यं जगाम दिव्यं स ततोऽक्षरपदं ययौ ।।७०१ ।।
व्रह्मदत्तोऽपि पाञ्चाल्यो निधिं शंखं द्विजातये ।
दत्वा स्वर्गं चिरं भुक्त्वा पारमेशपदं ययौ ।।2.244.८ ० ।।
मित्रसहश्च राजर्षिर्वसिष्ठाय निजां प्रियाम् ।
मदयन्तीं प्रदत्वैव पत्न्या सहाऽक्षरं ययौ ।।८ १ ।।
सहस्रजित् तथा राजा प्रियान् प्राणान् ददौ शुचिः ।
ब्राह्मणार्थे ययौ स्वर्गं भुक्त्वा मोक्षपदं ययौ ।।८२।।
शतद्युम्नो नृपो दत्वा सोपस्करालयं निजम् ।
हिरण्मयं मुद्गलाय स्वर्गं भुक्त्वाऽक्षरं ययौ ।।८३ ।।
द्युतिमान्नृपतिः राज्यमृचीकाय प्रदाय च ।
भुक्त्वा स्वर्गं चिरं भक्त्याऽक्षरं धाम ययौ ततः ।।८४।।
लोमपाद सुतां शान्ताम् ऋष्यशृंगाय योगिने ।
दत्वा दिव्यं दिवं भुक्त्वाऽक्षरं धाम ततो ययौ ।।।८५।।
मदिराश्वश्च राजर्षिः कन्यां दत्वा सुशोभनाम् ।
हिरण्यकरऋषये ययौ स्वर्गं ततोऽक्षरम् ।।८६।।
प्रसेनजिद् गवां लक्षं दत्वा दानं द्विजातये ।
स्वर्गं भुक्त्वा ततो यातोऽक्षराख्यं श्रीहरेः पदम् ।।८७।।
चतुर्दशस्तरावासाः पितरश्च महर्षयः ।
देवा नृपाः प्रजाः कन्या निजा दत्वा तु शार्ङ्गिणे ।।८८।।
पूर्वपूर्वषु कल्पेषु गोलोकं परमं गताः ।
गमिष्यन्ति परं चापि दत्वा हर्यर्थमेव च ।।८९।।
सर्वस्वं वापि किञ्चिच्च भक्त्या यास्यन्ति तत्पदम् ।
दानैस्तपोभिर्भक्त्या च बहवो वै दिवं ययुः ।। 2.244.९० ।।
येषां प्रतिष्ठिता कीर्तिर्ब्रह्मलोके सदाऽस्ति वै ।
पृथ्व्यां कीर्तिस्तथा चास्ते यावत्सूर्यादयः स्थिता ।। ९१ ।।
सद्भ्य आगतविज्ञानाः शिष्टा नारायणार्पिताः ।
हर्यर्थकृतसर्वस्वास्तिष्ठन्ते शाश्वताऽक्षरे ।। ९२ ।।
धृतिमन्तोऽप्रमत्ताश्च दान्ता धर्मविदो जनाः ।
वीतहर्षमदक्रोधा नाऽवसीदन्ति वै कचित् ।। ९२ ।।
दानाध्ययनयज्ञैश्च तपोह्रीदमनार्जवैः ।
वर्धयते निजं तेजः पाप्मा सर्वो विनश्यति ।। ९४।।
धूतपापा भक्तियुक्ताः प्रत्याहारजितेन्द्रियाः ।
कामक्रोधाऽनभिभूताः प्रयान्ति ब्रह्म शाश्वतम् ।। ९५।।
अग्निं विप्रं सतीं सन्तं देवं वृद्धं नमेत् सदा ।
वाचं क्रूरां वर्जयेच्च ब्रह्म सम्पद्यते ततः ।।९६। ।
प्रज्ञानिष्ठश्चात्मनिष्ठः कुर्वन्नपि न लिप्यते ।
संसारवासनादेहां नदीं तर्तुं यतेत च ।। ९७।।
सर्वेन्द्रियजलाऽऽवाहां लोभमोहतटां तथा ।
क्रोधपंकां कालदीर्घां कुटुम्बस्नेहसज्झषाम् ।। ९८।।
सेवाप्लवेन भक्त्या वा नावा सतां सहायतः ।
तरन्ति सात्त्वताः शान्ता धीराः पारगदृष्टयः ।। ९९।।
अभक्ताश्चाप्यविज्ञाश्च नोत्तरन्ति नदीमिमाम् ।
तस्मादुन्मज्जनार्थं वै यतेत दानधर्मवान् ।। 2.244.१०० ।।
यज्ञेन भक्त्या न्यासेन निस्तरेत्तां सदाश्रयः ।
सतां धर्मेण वर्तेत क्रियां सतां समाचरेत् ।। १०१ ।।
धर्मभक्तिविशेषज्ञा नदीं तरन्ति दुस्तराम् ।
साधवः श्रीहरेर्भक्त्या तारयन्त्यबुधान् प्लवाः ।। १० २ ।।
इत्येवं राधिके श्रीमान् लोमशो गुरुरेव तु ।
उपादिश्य विरराम परिहारस्ततोऽभवत् ।। १०३ ।।
भोजनान्यभवँश्चापि यथेष्टतृप्तिदानि वै ।
ततोऽवापुश्च विश्रान्तिं राधिके सर्वशो जनाः ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशीर्षकृष्णाष्टम्याम् अश्वपट्टसरोवरतटेऽश्वपाटलनृपतिः सोमयागमारब्धवान्, प्रथमदिवसीयाऽनुष्ठानम्, लोमशकृतोपदेशश्चेत्यादिनिरूपणनामा चतुश्चत्वा-रिंशदधिकद्विशततमोऽध्यायः ।। २४४ ।।