लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २६७

← अध्यायः २६६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २६७
[[लेखकः :|]]
अध्यायः २६८ →

श्रीकृष्ण उवाच-
अथ राधे ततस्तीर्थं नारीणां धर्मवर्धनम् ।
गत्वाऽश्वपाटलो राजा पप्रच्छ लोमशं मुनिम् ।। १ ।।
अश्वपाटल उवाच-
किमिदं शोभनं तीर्थं गुरो स्त्रीजातिमोक्षदम् ।
धर्मदं बहुसामर्थ्यप्रदं वद कदाऽभवत् ।। २ ।।
श्रीलोमश उवाच-
शृणु राजन् सतीतीर्थं पावनं परमाद्भुतम् ।
सुराष्ट्रनृपतेः पत्नी वस्त्रापथनिवासिनी ।। ३ ।।
पातिव्रत्यपरा चासीद् राणिकाख्या महासती ।
रक्षांगारकनामानं नृपं त्वीश्वरसन्निभम् ।। ४ ।।
सेवते स्म सती कान्तं सर्वसेवाभिरुत्सुका ।
स्वर्णपत्तननाम्न्येव नगरे नगरोत्तमे ।। ५ ।।
कृतस्मराद्रिनिकटे स्वर्णलेखानदीतटे ।
राजधान्यां सदुर्गायां सौवर्णं राजमन्दिरे ।। ६ ।।
असूर्यम्पश्या प्रमदा सतीधर्मसमन्विता ।
भजते स्म हरिं नित्यं दामोदरं हि वामनम् ।। ७ ।।
राज्यमाता राणिका सा साध्वीव्रतं करोति वै ।
अन्यो नरो न स्प्रष्टव्यः क्वापि स्वपतिमन्तरा ।। ८ ।।
अन्यपुरुषवस्त्रं न स्प्रष्टव्यं नूतनं विना ।
अन्यनरमुखं नैव द्रष्टव्यं स्वपतिं विना ।। ९ ।।
गृहाद् बहिर्न गन्तव्यं क्वापि स्वपतिमन्तरा ।
पत्युः सेवां सदा त्वेवं करोति स्वकरेण ह ।। 2.267.१० ।।
भोजनं जलपानं च ताम्बूलं देहमर्दनम् ।
सर्वं स्वमेव रणिका सम्पादयत्यतन्द्रिता ।। ११ ।।
नित्यं दामोदरं कृष्णं पूजयत्यपि वामनम् ।
पत्रं पुष्पं फलं तोयं चान्नं निवेद्य विष्णवे ।। १ २।।
दत्वाऽतिथये महते साधवे धेनवे तथा ।
पतये भृत्यवर्गाय ततश्चाश्नाति सा सती ।। १३ ।।
एवं धर्मपरा साऽऽस्ते शीलव्रतपरायणा ।
यस्या गृहे सदाऽऽयाति श्रीदेवी या भवेश्वरी ।। १४।।
महालक्ष्मीः सखीरूपा पूजा गृह्णाति तत्कृताम् ।
एवं वै वर्तमानायाः कोमलाङ्ग्या निशान्तके ।। १५।।
निद्रायां स्वप्नसृष्टौ वै म्लेच्छानां दर्शनं ह्यभूत् ।
सैन्यं राज्यं ग्रहीतुं वै समायातं समन्ततः ।। १६ ।।
राजा रक्षांगारकोऽपि युद्धार्थं निर्ददौ ततः ।
मृतो युद्धे पतिश्चैव त्वनिष्टं दर्शनं ह्यभूत् ।। १७।।
तूर्णमुत्थाय शयनात् सती पतिं जगाद ह ।
अद्य स्वप्नं मया नाथाऽनिष्टं दुष्टं विनाशकृत् ।। १८ ।।
ततोऽहं श्रीमहालक्ष्मीं पूजयामि भवेश्वरीम् ।
व्याघ्रेश्वरीं पूजयामि विघ्नराजं नमामि च ।। १ ९।।
इत्याशां संगृहीत्वैव तूर्णं स्नात्वा पुपूज ताः ।
देवताश्च नमस्कृत्य प्रार्थयद् रक्षणं प्रति ।। 2.267.२० ।।
अमंगलविनाशार्थं विघ्नराजात्पुनः पुनः ।
प्रार्थयद् राणिकादेवी ददौ दानानि वै तथा ।। २१ ।।
कारयामास च ततो ग्रहशान्तिं द्विजादिभिः ।
अथ प्रसन्ना प्रत्यक्षा महालक्ष्मीर्भवेश्वरी ।। २२।।
जगादैनां राज्यविघ्नं भविता म्लेच्छजातिभिः ।
युद्धं चापि भवेदत्र सैन्ययोश्च द्वयोरपि ।। २३ ।।
राजा रक्षांगारकश्च मा सम्प्रयातु योधने ।
दुर्गाद् बहिर्न वै यातु तदा ते विजयोऽस्ति वै ।।२४।।
शत्रवश्च विनक्ष्यन्ति दुर्गाद् बहिः समन्ततः ।
दुर्गमध्ये विजयस्ते दुर्गाद्बहिः पराजयः ।। २५ ।।
इत्युक्ता सा सती राज्ञेऽकथयत् सर्वमेव तत् ।
राजाऽपि सावधानश्च वर्ततेस्म निजालये ।। २६।।
तावन्म्लेच्छाः पश्चभागात् सैन्ययुक्ताः समाययुः ।
अयुताऽयुतसंख्याकाः सशस्त्रा गजवाहनाः ।।।२७।।
अश्ववाहा रथस्थाश्च दुर्गद्वाराणि चाभितः ।
निरुद्ध्य द्वारबन्धं च रचयित्वाऽभवन् स्थिराः ।।२८।।
दृप्ता वै राजपुरुषाः सैन्यैश्च नगरान्तरे ।
द्वाराण्यावृत्त्य च तथा प्रतितस्थुः सशस्त्रकाः ।।२९।।
शत्रवो बहवश्चाभिभागेभ्यो यन्त्रगोलकान् ।
जेतुं च नगरं दुर्गे चिक्षिपुर्बहुनाशकान् ।।2.267.३ ०।।
बहुभिर्दिवसैश्चापि प्रवेष्टुं नैव शेकिरे ।
तदा भेदं समुपायं चक्रुस्ते म्लेच्छपुंगवाः ।। ३१ ।।
धनानि स्वर्णरूप्याणि दत्वा वाण्याऽपि खर्वटान् ।
गुप्तं पुरप्रवेशस्य मार्गं विज्ञाय भेदकात् ।। ३२।।
दुर्गं विभिद्य तद्द्वारे प्रविश्य म्लेच्छजातयः ।
युयुधुश्च प्रजह्रुश्च राजसौधालयं ययुः ।। ३ ३।।
राजसैन्यानि तु तदा युयुधुः प्राणदानतः ।
हता म्त्ठेच्छा हि बहवो हताश्च राजसैनिकाः ।।३४।।
सेनानां पतयश्चापि हता वै शस्त्रघाततः ।
यदा स्वभवनं प्राप्तं सैन्यं म्लेच्छजनाभिधम् ।। ३५ ।।
तदा राजा स्वरक्षार्थं योद्धं ह्यवातरन्मृधे ।
अथ प्रजाऽपि सबला म्लेच्छानमारयद् बहून् ।। ३६ ।।
क्षत्रियाणां महासैन्यं रक्षांगारसमायुतम्
युयुधे तु महाम्लेच्छान् मारयामास जीवतः ।।३७।।
अन्ये प्रदुद्रुवुश्चापि नगरस्यैव मध्यतः ।
दुर्गं त्यक्त्वा दुद्रुवुश्च बहिर्म्लेच्छः समन्ततः ।। ३८।।।
राजा रणप्रमत्तो वै विस्मृत्य स्वसतीवचः ।
दुर्गाद् बहिर्ययौ योद्धुं हन्तुं म्लेच्छान् पलायितान् ।। ३ ९।।
ते परावृत्त्य युयुधुः प्राणदानेन वै तदा ।
शस्त्राघातैश्च रक्षांगारकं जघ्नुः समन्ततः ।।2.267.४०।।
राजा ममार भूमौ च प्राणान् निपतितो जहौ ।
राणिका निजसौधे वै देवपूजां करोति च ।।४१ ।।
रक्षार्थं निजकान्तस्य तावद् ददर्श पादयोः ।
चिह्ने रक्ते चाक्षते च यथारेखे ह्युभे भुवि ।।४२ ।।
पृथ्व्यां कुंकुमपादौ स्वौ दृष्ट्वा सती भयं गता ।
हा नाथेति समुच्चार्य सतीसत्यं व्यलोकयत् ।।४३ ।।
सती सत्यारूढभावा व्यजायत क्षणान्तरे ।
दिव्यदृष्ट्या स्वकान्तस्य दृष्ट्वा सूक्ष्मां तनुं तदा ।।४४।।
समागतां गृहे नैजे तां गृहीत्वा द्रुतं बिलात्। ।
विनिर्गत्य स्वभवनात् पराजयप्रधर्षिता ।।४५।।
पुंवेषेण सती साध्वी ह्यपासरद्धि तत्स्थलात् ।
बहिर्गत्वा महोष्ट्रं च प्राप्य भाग्यवशाद्धि सा ।।४६।।
गुप्तां द्रुमसृतिं गत्वा निर्ययौ भयभूमितः ।
राज्यं त्यक्त्वा दुःखभोक्त्री ययावश्वसरः प्रति ।।४७।।
दिनैकेनैव सम्प्राप्ता सरसश्चोत्तरे तटे ।
सरस्तीरे चावरुह्य सस्नौ रुरोद चान्तरे ।। ४८ ।।
जलाञ्जलिं ददौ तत्र कान्ताय सहगाय च ।
सूक्ष्मरूपाय च ततः कृष्णनारायणं प्रभुम् ।।४९।।
स्मृत्वा नत्वा चार्थयित्वा तस्थौ तटे स्थिराशया ।
अनादिश्रीकृष्णनारायणस्य सन्निधाविह ।।2.267.५० ।।
देहानलं समुत्पाद्य प्रयाम्येव दिवं शुभम् ।
एवं निश्चित्य वै सायं शीलव्रतपरायणा । ।५ १ ।।
सतीं सत्यं प्रतुष्टाव तदा कृष्णनरायणम् ।
'सत्याः सत्यं नित्यसत्यं नारायणं नमाम्यहम् ।।५२ ।।
ओं नमो ब्रह्मसवित्रे सत्यानाथाय ते नमः ।
पातिव्रत्यस्वरूपाय पञ्चाग्नये च ते नमः ।।५३ ।।
त्रेताऽग्नये बीजस्वरूपाय च ते नमः ।
गर्भरूपाय बाल्याय युवरूपाय ते नमः ।।५४।।
कान्तायै चापि कान्ताय सवंशाय च ते नमः ।
युगलाय स्थविराय त्र्यात्मकाय च ते नमः ।।।५५।।
नमो भगवते कृष्ण भगवत्यै च ते नमः ।
शीलरूपाय धर्माय धर्मलाभाय च ते नमः ।।५६।।
नमश्चितास्वरूपाय पतिरूपाय ते नमः ।
नमः पान्थस्य सार्थायाऽतिवाहिकायै ते नमः ।।५७ ।।
नमः सूर्याय मेघाय विद्युते शशिने नमः ।
नमो दिवास्वरूपाय निशारूपाय ते नमः ।। ५८।।
अयनद्वयरूपाय नमो युगप्रवर्तिने ।
नमो दिवाय सत्याय नमो वैकुण्ठवासिने ।।५९ ।।
सतीनां पतये कृष्ण सतीलोकेशिने नमः ।
नमो गोलोककान्ताय नमोऽक्षरनिवासिने ।। 2.267.६० ।।
नमो मुक्तप्रपूज्याय सतां च पतये नमः ।
मुक्तेश्वरेशाय ब्रह्मप्रियेश ते नमः ।।६ १ ।।
नमो माणिक्यमुक्तानां रमायाः पतये नमः ।
पद्मावतीसतीलक्ष्मीराधाश्रीपतये नमः ।। ६२ ।।
सर्वशाय परेशाय नमः श्रीपरमात्मने ।
लक्ष्मीशाय नमः श्रीपुरुषोत्तमाय ते नमः ।। ६३ ।।
अनादिश्रीकृष्णनारायणाय स्वामिने नमः ।
अन्तर्यामिस्वरूपाय सयुजे ते नमोनमः ।।६४।।
गोपालनन्दनायेश कंभराजाय ते नमः ।
अश्वपट्टस्य चन्द्राय मायासूर्याय ते नमः ।।६५।।
स्मृद्धिदाय विरागाय सर्वहर्त्रे च ते नमः ।
एषाऽहंगृहसंज्ञाऽस्मि गृहं सत्यं भवान्मम ।।६६।।
रक्षांगारकनामा त्वं त्वत्परा गीश्च यावती ।
त्वां सहायं परं प्राप्य जुहोम्येनां गृहाण माम् ।।६७।।
विदित्वा चाऽविदित्वाऽपि सर्वं जुह्वति चान्ततः ।
उभयेन विधानाऽत्र होमो भवामि वै त्वयि ।।६८।।
त्वं यज्ञस्त्वं यज्ञकुण्डे चाहवनीयरूपवान् ।
गार्हपत्यस्वरूपस्त्वं चावसथ्यस्वरूपवान् ।।६९।।।
यज्ञकुण्डाग्निरेवाऽसि सर्वकुण्डाग्निरेव च ।
नय मां सत्यधर्मेण सतीलोके कृपां कुरु ।।2.267.७०।।
सतीधर्मो हि नारीणां जगदुद्धारकारकः ।
सती दाक्षी पुरा जाता वह्निना त्वदहद् वपुः ।।७ १।।
रेणुका च सती जाता शबरी चापि वै पुरा ।
कृतधर्माश्रिता नार्यः सतीत्वमुपयान्ति च ।।७२।।
तथाऽहं श्रीहरे कृष्ण सतीत्वमुपयामि च ।
इत्येवं भूपते सा तु कोमलांगी हि राणिका ।।७३ ।।
चितामारुह्य यावच्चेन्धितुं वह्निं समिच्छति ।
तावच्छ्रीलोमशो देवश्चेशानश्च सुरादयः ।।७४।।
अनादिश्रीकृष्णनारायणो लक्ष्मीश्च गोचराः ।
अभवन् सन्निधौ तत्र सती नेमे समन्ततः ।।७५।।
सती त्वं जयमाप्नुहि सतीलोकं प्रगच्छसि ।
पत्या समं सुखं भुङ्क्ष्व यावत् स्वर्गं प्रविद्यते ।।७६।।
इत्युक्त्वा प्रददुराशीर्वादान् पुष्णाणि चन्दनम् ।
सन्ती विष्णुं नमस्कृत्वा सस्मार च पुनः पतिम् ।।७७।।
स्थूलदेहात्मकं तावत् शंकरस्य गणस्तदा ।
नन्दी गत्वाऽऽनयच्छ्रीघ्रं रक्षांगारशवं च खे ।।७८।।
ददौ चितायां सत्यै तत् सापि हृष्टाऽमिलत्तनुम् ।
आश्लिष्यत् विधिना प्रेतं पश्यतां द्युसदां तथा ।।७९।।
मनुष्याणां पश्यतां साऽनलमौत्पादयत् पदात् ।
कृष्णकृष्णेति कृष्णेति राधाकृष्णेति सा जगौ ।।2.267.८ ०।।
गोपीनाथ सतीकान्त रमानाथ विलोकय ।
इत्युक्त्वा च चितायां साऽस्वपत् शवेन लम्बिका ।।८ १।।
तावद् वह्निर्नाऽस्पृशत्तां पादे एव प्रकाशते ।
तावत्तत्र हरिः कृष्णो राधाकृष्णो बभूव ह ।।।८२।।
मुरल्या सहितश्चास्ते दर्शनं प्रददन् प्रभुः ।
स्वहस्तेन जलं सर्पिः पुष्पाणि च तिलानि च ।।८३ ।।
चन्दनं प्रददौ तत्र चितायां भगवान् स्वयम् ।
आत्मानौ द्वौ सतीकान्तौ दिव्यरूपौ बभूवतुः ।।८४।।
निर्ययतुः शवदेशात् तस्थतुश्चाम्बरे क्षणम् ।
विमानं चागतं स्वर्गाद् दिव्यं सूर्यनिभं तदा ।।८५।।
निषेदतुश्च तौ तत्राऽपश्यतां शवदाहनम् ।
अग्निर्ददाह देहौद्वौ नत्वा तौ परमेश्वरान् ।।८६।।
सतीलोकं ययतुश्च तत्र कल्पायुषौ च तौ ।
स्थित्वा यास्यत एवाऽस्याऽक्षरं धाम परात्मनाः ।।८७।।
देवाश्चात्र सतीतीर्थं कृत्वा नारायणगृहम् ।
गत्वा सम्पूज्य च श्रीमदनादि श्रीनरायणम् ।।८८।।
ययुर्निजं दिव्यलोकं कृष्णश्चान्तरधीयत ।
शंभोर्गणाश्चिताभस्म जले चिक्षिपुरेव तु ।।८९।।
राणिकातीर्थमेवाऽपि रक्षांगारकतीर्थकम् ।
समभूत् तत्परं ख्यातं स्त्रीणां सतीत्वबोधकम् ।।2.267.९०।।
सतीधर्माऽवनकर्तृ पापतापप्रणाशकम् ।
अत्र राजन् स्नानदानाज्जलपानाद्विशेषतः ।। ९१ ।।
सतीपूजाकरणाच्च सतीलोकफलं व्रजेत् ।
या नारी विधवा चात्र पतिं स्मृत्वाऽऽप्लविष्यते ।।९२।।
सा तत्पुण्येन कान्तं वै सतीलोके हि नेष्यति ।
या कन्या जलपानं च स्नानं वात्र करिष्यति ।।९३।।
सतीत्वं वै समासाद्य पतिं लब्ध्वा सुखप्रदम् ।
पूर्णायुष्यं प्रभुक्त्वाऽत्र सतीलोकान् गमिष्यति ।। ९४।।
सौभाग्ययुक्ता प्रमदा स्नानदानादिना त्विह ।
पातिव्रत्यफलं लब्ध्वा सतीलोकान् गमिष्यति ।।९५।।
वृद्धापि स्नानमात्रेण शतैककुलमुक्तिदा ।
नरोऽपि स्नानमात्रेण सत्यधर्मपरायणः ।।९६ ।।
गतां मृतां प्रियां प्राप्य स्वर्गलोकं प्रयास्यति ।
एतादृशं सतीतीर्थं नारीणां पावनं त्विदम् ।। ९७।।
राज्ञ्याद्याश्चात्र कुर्वन्तु स्नानं दानं जलाञ्जलिम् ।
यथा च देवगंगायां सतीतीर्थं महत्तमम् ।।९८।।
यथा रेवापगायां च रेणुकातीर्थमित्यपि ।
तथाऽत्र राणिकातीर्थं त्रैलोक्यां पावनोत्तमम् ।।९९।।
कृते युगे समारब्धे जातं पुरातनं नृप ।
इप्युक्तोऽश्वपाटलश्च तत्स्त्रियो दासिका अपि ।। 2.267.१० ०।।
राधिके सरसो वारौ सस्नुः सतीस्थले जले ।
ते तर्पणं प्रचक्रुश्च दत्वा दानानि वै ततः ।। १० १।।
राजाद्याः प्रययुश्चाग्रे तीर्थं परं हि पावनम् ।
लोमशेन च सहितास्तीर्थमाहात्म्यवेदिनः ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सौराष्ट्रे स्वर्णपत्तने म्लेच्छैः रक्षांगारकनृपे हते तत्पत्नीराणिकासत्याः कुंकुमवाप्यामागत्याऽश्वपट्टसरस्तटे
सतीभवनं सतीतीर्थं चेत्यादिनिरूपणनामा सप्तषष्ट्यधिकद्विशततमोऽध्यायः ।।२६७ ।।