लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २७२

← अध्यायः २७१ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २७२
[[लेखकः :|]]
अध्यायः २७३ →

श्रीकृष्ण उवाच-
शृणु राधे ततो राजा नरनारायणाह्वयम् ।
तीर्थं गत्वा लोमशं च पप्रच्छ मुनिसत्तमम् ।। १ ।।
अश्वपाटल उवाच-
कथं कस्मादिदं तीर्थं नरनारायणाह्वयम् ।
को विधिः किंफलं चात्र वद मे लोमश प्रभो ।। २ ।।
श्रीलोमश उवाच-
शृणु राजन् प्रवक्ष्यामि तीर्थं तीर्थोत्तमोत्तमम् ।
अत्र गोपालकृष्णौ वै गोस्वामी च पिता हरेः ।। ३ ।।
प्रथमं खलु पुत्रार्थं तपश्चचार दारुणम् ।
यश्च देवो नरनारायणश्चास्ते हिमाचले ।। ४ ।।
तपस्विनां धर्मपोष्टा ब्रह्मचर्यपरायणः ।
तापसानां परं श्रेष्ठं ध्यात्वा तपश्चचार ह ।। ५ ।।
प्रथमं त्यक्तवानन्नं ततः कन्दपरोऽभवत् ।
पत्राहारस्ततश्चापि शुष्कपर्णाशनस्ततः ।। ६ ।।
जलाहारस्ततो वाय्वाहारस्ततो व्यजायत ।
जजाप श्रीनरनारायणं वै हृदये सदा ।। ७ ।।
एवं वर्षशतान्तेऽत्र नरो नारायणस्तथा ।
कृष्णो हरिश्च चत्वारो भगवन्तः समाययुः ।। ८ ।।
प्रत्यक्षं ते समागत्योचुस्तं गोपालकृष्णकम् ।
महाविष्णो कथं तपश्चरसि वै नरायण ।। ९ ।।
वासुदेव जगद्धाता किं ते तपसि कारणम् ।
प्रसन्नाः स्मो वयं नारायणाश्चत्वार एव ह ।। 2.272.१ ०।।
यथेष्टं ब्रूहि दद्मोऽत्र वरदानं यथेप्सितम् ।
श्रुत्वा गोपालकृष्णश्च प्राह कल्याणहेतवे ।। १ १।।
लोकानां च सुराणां च पितॄणां योषितां तथा ।
पक्षिणां च पशूनां च वल्लीनां शाखिनां तथा ।। १२।।
स्तम्बानां च तृणानां च भवन्तु पुत्रका मम ।
तथा चास्त्विति जगदुर्विविशुस्तत्तनौ तदा ।। १३।।
चत्वारस्ते परमेशा नारायणो नरस्तथा ।
कृष्णो हरिश्च ते पुत्रा बभूवुस्तस्य मानसाः ।। १४।।
कंभराबालकाश्चांऽशा लोककल्याणहेतवे ।
नारायणोऽभवज्ज्येष्ठो नाम्ना श्रीभगवानिति ।। १५।।
नरस्ततोऽभवन्नाम्ना शुकदेवो द्वितीयकः ।
कृष्णोऽनादिकृष्णनारायणः श्रीकृष्णवल्लभः ।। १६।।
अक्षराधिपतिः सोऽयमवतारी तृतीयकः ।
हरिश्चतुर्थो नाम्ना श्रीवल्लभश्चाऽभवत्तदा ।। १७।।
समानाश्च समैश्वर्याः समदेहप्रभायुताः ।
परमेशाश्चात्र ते वै ह्यभवन् बालका नृप ।। १८।।
यत्र गोपालकृष्णेन तपस्तप्तं सुदारुणम् ।
भूमिरियं पावनी सा मन्दिरं चेदमेव यत् ।। १९।।
अत्र गोपालकृष्णः स नारायणं नरं तथा ।
कृष्णं हरिं प्रतिमाख्यान् प्रातिष्ठिपद्धि मन्दिरे ।।2.272.२० ।।
तदिदं सर्वमूर्धन्यं तीर्थं तीर्थोर्ध्वधाम यत् ।
विश्रान्तिं चात्र संगृह्य ध्याने गृह्ण चतुष्प्रभून् ।।२१।।
स्मरणाद् दर्शनादत्र स्नानात्पानात् प्रपूजनात् ।
दानात् प्रसेवनाच्चापि मुक्तिरेव फलं महत् ।। २२।।
नैतत्तुल्यं मखानां वा व्रतानां फलमस्ति वै ।
नैतत्तुल्यं दक्षिणानां दीक्षानां फलमस्ति च ।।२३।।
अत्राऽऽसीद् भूतलं राजन् विशालं ब्रह्मसंज्ञितम् ।
यदिदं दृश्यते त्वद्य अश्वपट्टसरोवरम् ।।२४।।
अश्वपाटल उवाच-
कदा मुनेऽत्र संजातं भूतले वै सरोवरम् ।
सर्वतीर्थमयं रम्यं सर्वनारायणाश्रयम् ।।२५।।
श्रीलोमश उवाच-
अहमासं पुरा धाम्नि वैकुण्ठे तत्र चैकदा ।
आश्रौषं चाक्षरेशो योऽनादिकृष्णनरायणः ।।२६।।
चतुर्मुखाऽजब्रह्माण्डे गोपालकृष्णमन्दिरे ।
मानवो भवितुं याति लोककल्याणहेतवे ।।२७।।
तदा नारायणाः सर्वे मुक्ताः सर्वे तथेश्वराः ।
ऋषयः पितरश्चापि पृथ्व्यामत्र समाययुः ।।२८।।
देव्यश्चेश्वरपत्न्यश्च मुक्तान्यो गोपिकास्तथा ।
नारायण्यो ब्रह्मपुत्र्योऽप्सरसः सुरयोषितः ।।२९।।
ब्रह्मसरसः सर्वाश्च ब्रह्मप्रिया हरिप्रियाः ।
वैष्णव्यः शक्तयश्चापि सर्वास्तत्र समाययुः ।।2.272.३ ०।।
स्वागतार्थं च पूजार्थं सहवासार्थमित्यपि ।
सेवनार्थं तथा ते ताः पुपूजुः परमेश्वरम् ।।३ १ ।।
ते च ताश्च तदा प्रतीक्षन्ते प्राकट्यमेव च ।
तदा चाह सर्वमेनं व्यलोकयं समुत्सवम् ।।३२।।
अक्षरे तु परे धाम्नि ज्ञातं माणिक्यया तदा ।
पतिर्मे भगवान् सर्वेश्वरेश्वरेश्वरेश्वरः ।।३३।।
अनादिश्रीकृष्णनारायणः प्रयाति भूतले ।
सा पूर्वं धामतः पृथ्व्यां व्याघ्रारण्ये समागता ।।३४।।
ब्रह्मचर्यव्रतस्याऽस्य वाहनं भवितुं सती ।
समैच्छदश्विनीरूपं कन्यारूपं समैच्छिकम् ।।३५।।
अश्वीभूत्वा पराऽज्ञाता भूभागेऽपर्यटत् सती ।
अत्राऽक्षरे शुभे तीर्थे कृष्णनारायणार्थिनी ।। ३६।।
ईश्वराद्यैर्लोकिता सा दिव्यरूपा प्रिया हरेः ।
यत्र यत्राऽभवत् सा च सा भूमिश्चाश्वपट्टिका ।।३७।।
तीर्थरूपाऽभवच्चापि निर्णयोऽप्यभवच्च नः ।
अनादिश्रीकृष्णनारायणश्चात्र निवत्स्यति ।।३८।।
तावत्तत्र समायातो ब्रह्मह्रदोऽक्षरात्पदात् ।
जलरूपो दिव्यधामा चाश्वपट्टसरोमयः ।।३९।।
अत्र भूमौ जलात्मा सा दिव्यसरोवरोऽभवत् ।
स्मर राजन् ब्रह्मह्रदो यश्च दिव्यसरोवरः ।।2.272.४०।।
स एव सोमयागस्य कर्ता राजाऽश्वपाटलः ।
त्वमेव मानवं रूपं धृत्वा पृथ्व्यां विराजसे ।।४१।।
इत्युक्तः खलु राजाऽसौ राधिके स्वं व्यलोकयत् ।
ब्रह्ममुक्तं ब्रह्मह्रदं सरोजलाऽवतारकम् ।।।४२।।।
आश्चर्यं परमं मेने ज्ञानं क्षणं ह्यभूद्धि तत ।
पुनर्लयं गतं सर्वं प्राकृतं स्वं ह्यमन्यत ।।४३ ।।
ततः श्रीलोमशः प्राह राजँस्तीर्थमिदं परम् ।
पावनीमाणिकीतीर्थं चाश्विनीतीर्थमित्यपि ।।४४।।
ब्रह्मह्रदमहातीर्थं चाश्वपाटलतीर्थकम् ।
मया दृष्टमिदं सर्वं प्रत्यक्षं च ततः परम् ।।४५।।
अहमत्र सदावासं कृतवानाश्रमे शुभे ।
अवतारास्तथा मुक्ता ईश्वरा देवतादिकाः ।।४६।।
सर्वे न्यूषुर्हरेः क्षेत्रेऽक्षराऽश्वपट्टसागरे ।
सर्वा देव्यश्च देवाश्च प्राविर्भावोत्तरं हरेः ।।४७।।
पुपूजुः परया प्रीत्याऽनादिकृष्णनरायणम् ।
राधा लक्ष्मीः पार्वती च पद्मा रमा जया रतिः ।।४८।।
ललिता पद्मिनी रंभा माणिकी श्रीः सरस्वती ।
गंगा दुर्गा च सावित्री संज्ञा यमुना रोहिणी ।।४९।।
मंजुला सद्गुणा हासा हैमी शान्तिः सुपुष्पिका ।
मनुः कस्तूरिका देवी चम्पाऽम्बोजस्वती वृजा ।।2.272.५०।।
सर्वा देव्यो ब्रह्मपत्न्यः कोट्यर्बुदाब्जसंख्यकाः ।
आगत्य न्यूषुश्चात्रैव सरस्येव हरेः पदे ।।।५१।।।
गण्डकी स्वर्णरेखा च नर्मदा तुंगभद्रिका ।
गोदावरी ब्रह्मपुत्रा कावेरी फल्गुरीश्वरी ।।५२।।
कृष्णा शोणा गोमती च सिन्धुश्चोरलिका तथा ।
शोणभद्रश्चेरावती साल्वीना मेनकांगिका ।
मन्नाम्नी चांगशिक्षांगी तथा कांचनगंगिका ।।५३।।
त्र्यंगहा चामूरका च वीना यानासना तथा ।
ओम्बा च त्रिवली चामू वालगा नीपरा तथा ।
देविका दीन्युबा चापि उत्क्रोशी नाइली तथा।।५४।।
प्रपत्तिका सेविका च नास्तिजरा च कङ्गुकी ।
क्युबगंगा रञ्जिका च विषतूरा च जम्पिका ।।५५।।
श्वेता नारायणी चापि मत्कुंजा यूकनायिका ।
निरशाणा मिश्रजला आमजना परानिका ।
श्वाना च ग्रासकायाना विषतूर्या कलिंगिनी ।।५६।।
मूरास्तथाऽन्या नद्यश्च सर्वास्तत्र सरोवरे ।
आययुस्तीर्थरूपास्ताः सदा वासार्थमेव ह ।।५७।।
मानसं चेन्द्रद्युम्नं च नारायणं च पुष्करम् ।
पम्पा चेन्द्रप्रस्थरूपं सुदर्शनं च रेवतम् ।।५८।।
शिवसरस्तथा चित्कृत्सरः कौलरकं सरः ।
शिवशीलं मीनकंगुसरः साभरकं सरः ।।५९।।
बालकृष्णसरश्चापि द्विकलं च सरोवरम् ।
सटालफं सरश्चापि विषतूरसरोवरम् ।।2.272.६०।।
उरलं च सरश्चापि त्रिगुणोरसकं तथा ।
फेरुमण्डं लूरासरो मशकाख्यं सरस्तथा ।।६१।।
रुक्मं त्रिनासिकं चापि एबालं च सरस्तथा ।
सटाल्पकं चाल्परूक्षम् आर्द्रवार्तं सरस्तथा ।।६२।।
किमु त्र्यंगानकं चापि मयोरसं सरस्तथा ।
बन्गपालं न्यूनजामी शिरावासं सरस्तथा ।।६३।।
ऐतसं चौनियागारं लेन्दुगं पायुगं तथा ।
योनिगम् औरसं तूरोनसं गौरं सरस्तथा ।।६४।।
गोग्रासं बालरीशं च उबरासं सरस्तथा ।
जयशानं ग्रातवारं ग्रातस्लावं सरस्तथा ।।६५।।
क्रीतस्लावं चेष्टवासं पीलिपार्श्वं सरस्तथा ।
सुपारयारं कालीयम् ईतरीशं सरस्तथा ।।६६।।
एतान्यपि सरांस्यत्र तस्थुस्तत्रागतानि वै ।
वृन्दावनं महाकालवनं तपोवनं तथा ।।६७।।
इन्द्रप्रस्थवनं धर्मारण्यं पौष्करकं वनम् ।
सिंहारण्यं बदर्यारण्यकं सुन्दरकं वनम् ।।६८।।
प्राग्ज्योतिषारण्यकं च काशमारण्यमित्यपि ।
इरारण्यं तथा शिक्षारण्यं राशवनं तथा ।।६९।।
उरलारण्यकं चापि खासीनारण्यकं तथा ।
बालायनमहारण्यं सहारारण्यमित्यपि ।।2.272.७०।।
वालजीवारण्यकं च शादयानवनं तथा ।
अमरीवनमेवापि चाब्रिक्तारण्यकं तथा ।।७१ ।।
सिंहारण्यं तथा दैववनानि चात्र चाययुः ।
स्वागतं पूजनं कृत्वा हरेश्चात्र निवासनम् ।।७२।।
प्रचक्रुः सर्वदा चाश्वपट्टसरसि तानि वै ।
एवं राजन् परं तीर्थं चाश्वपट्टसरस्त्विदम् ।।७३।।
तीर्थानां पावनं चापि शुभं ब्रह्मह्रदात्मकम् ।
पृथिव्यां स्वर्गलोके च तथाऽन्यत्रापि यानि तु ।।७४।।
सन्ति तीर्थानि तान्यत्र विरजादीनि सन्ति च ।
समुद्रा दिव्यजलिनो वसन्त्यत्र जलेऽनिशम् ।।७५।।
यत्राऽनादिकृष्णनारायणः श्रीकृष्णवल्लभः ।
तत्र सर्वेऽवताराश्च मुक्ता धामानि यान्यपि ।।७६।।
ईश्वरा ईश्वराण्यश्च देवा देव्यो वसन्ति च ।
ऐश्वर्याणि समग्राणि सिद्धयः प्रवसन्ति च ।।७७।।
अनादिश्रीकृष्णनारायणतीर्थं परं हि तत् ।
अत्राऽऽवासं समालेभे भगवान् पुरुषोत्तमः ।।७८।।
तदा तेन समं मूर्तौ सर्वास्तस्य प्रियाः शुभाः ।
अनादिश्रीकृष्णनारायणस्य वामभागगाः ।।७९।।
पट्टांगना आययुश्च शतं च पञ्चविंशतिः ।
ताश्च सरोवरे रम्ये पश्चिमे सेतुभाजिते ।।2.272.८ ०।।
न्यूषुस्तीर्थस्वरूपिण्यः शततीर्थं तदुच्यते ।
अनादिश्रीकृष्णनारायणप्राकट्यके दिने ।।८ १ ।।
गोपगोपांगनायुक्तः श्रीकृष्णस्तत्र चाययौ ।
गोपीतीर्थं गोपतीर्थं गोलोकतीर्थमित्यपि ।।८२।।
कृष्णतीर्थं च तज्जातं परं गोलोकमुक्तिदम् ।
श्रीकृष्णो राधिकां प्राह यदाऽत्र स समाययौ ।।८३ ।।
राधिके त्वं निबोधाऽत्रेत्युवाच राधिकां प्रियाम् ।
वैराजेन कृतान्येव ब्रह्माण्डानि सहस्रशः ।।८४।।
तत्र तत्र प्रवेष्टुं च व्यवस्थापयितुं हरिम् ।
अनादिश्रीकृष्णनारायणं प्रार्थयति स्म सः ।।८५।।
हरेकृष्ण हरेकृष्ण नारायणेश्वरेश्वर ।
सर्वेषु मन्निर्मितेषु ब्रह्माण्डेषु भवान् प्रभुः ।।।८६।।
यावन्नायास्यति तावद् व्यवस्थां धर्मकर्मिणाम् ।
जीवानां व्यवहाराणां कः करिष्यति माधव ।।८७।।
दैत्यानां तामसानां च कः शिक्षां प्रकरिष्यति ।
पापिनां पापनाशानि त्वां विना कः करिष्यति ।।८८।।
वेददीक्षाविधानादि त्वां विना कः करिष्यति ।
यज्ञयागादिकं दैवं पैत्र्यं पुण्यप्रदं विधिम् ।।८९।।
मर्यादां देहिनां चापि त्वां विना कः करिष्यति ।
आत्मज्ञानप्रदानं च साधूनां धर्मरक्षणम् ।।2.272.९०।।
सतीनां सुविधानं च वैवाह्यं कः करिष्यति ।
रागद्वेषनिमग्नानां देहिनां भ्रमवर्तिनाम् ।।९ १।।
विना त्वां त्वत्प्रसंगं च को वा मुक्तिं करिष्यति ।
पूजाधर्मं तथा रक्षाधर्मं चोत्पन्नधर्मकम् ।।९२।।
सेवाधर्मं विना त्वां को मानवेभ्योऽभिधास्यति ।
शीलधर्मं गृहिधर्मं वन्यधर्मं यतिक्रियाम् ।। ९३ ।।
त्यागधर्मं चात्मनिवेदनं नीतिं पुरातनीम् ।
पद्धतिं वार्णिकीं चापि त्वां विना कः करिष्यति ।।९४।।
विनाऽपि तव प्राकट्यं ब्रह्माण्डानि च तानि तु ।
श्मशानभूमयः सर्वा जन्ममरणसूतिकाः ।।९५।।
त्वां विना साधवो मुक्ता न यास्यन्त्यक्षरात्पदात् ।
पार्षदाश्च तथा लक्ष्म्यो न यास्यन्त्यण्डकोटिषु ।।९६ ।।
त्वां विना मंगलं नैव भविष्यति सुरादिषु ।
त्वां विना रक्षणं नैव भविष्यति यथातथम् ।। ९७।।
विना त्वां भगवन् सर्वं गृहं शून्यं भविष्यति ।
योगिनामपि वासाश्च भविष्यन्ति न सर्वथा ।।।९८।।
अवतारास्तथा तेऽपि गमिष्यन्ति न तेषु च ।
विना सर्वसृष्टिसार्वभौमं कः प्रथमं व्रजेत् ।।९९।।
मोक्षमार्गादिविज्ञानं तथोपास्त्यादिकं प्रभो ।
सात्त्विका अपि देवाद्या ज्ञास्यन्त्येव न सर्वथा ।। 2.272.१० ०।।
मायापटलमासाद्य तदावृत्ता हि देहिनः ।
दिव्यतां स्वां समुत्सृज्य पतिष्यन्ति तमोमये ।। १०१ ।।
तस्मात्त्वं भगवन् सर्वब्रह्माण्डेषु प्रकाशताम् ।
याहि नाथ कृपासिन्धोऽनादिश्रीपुरुषोत्तम ।।१०२।।
इत्येवं प्रार्थितोऽनादिकृष्णनारायणोऽक्षरे ।
परे धाम्नि स्थितः श्रुत्वा दिव्यवाण्या विराजकम् ।। १० ३।।
समुवाच तथाऽस्त्वेवं यामि ब्रह्माण्डकोटिषु ।
इत्यभिधाय भगवान् परधाम्नः परेश्वरः ।। १ ०४।।
समैच्छद् बहुभवितुं सर्वकल्याणहेतवे ।
प्रत्यण्डं प्रतिमूर्तिः स बभूव परमेश्वरः ।। १ ०५।।
अनेकाण्डेषु सर्वत्र गुणैश्वर्यविभूतिभिः ।
पार्षदैर्दिव्यमुक्तैश्च पत्नीभिः शक्तिभिः सह ।। १ ०६।।
भक्तैश्च धर्मभोगैश्चोपासनाभक्तिभिः सह ।
स वै प्रादुर्बभूवाऽसौ राधे कृष्णनरायणः ।। १ ०७।।
यत्र ब्रह्मा स्वयंभूश्च शंकरः सोमनाथकः ।
नरनारायणो विष्णुस्तत्र कृष्णनरायणः ।। १०८।।
नरनारायणखण्डे पश्चिमे तु सुराष्ट्रके ।
भूतले त्वक्षरक्षेत्रे भाविरैवतप्राग्दिशि ।। १० ९।।
कुकुमवापिकातीर्थे चाश्वपट्टसरस्त८ए ।
कुंकुमायां नगर्यां श्रीहरिः प्रादुर्बभूव सः ।। 2.272.११ ०।।
अयमेव परः कृष्णो यस्मात् कृष्णा अनन्तकाः ।
आविर्भवन्ति राधे त्वं निबोधाऽस्य हि गौरवम् ।। ११ १।।
इत्येवं वै स्वयं कृष्णस्तदा श्रीराधिकां प्रियाम् ।
समुवाच मया तत्तु श्रुतं साक्षान्नराधिप ।। १ १२।।
सोऽयं श्रीकम्भरापुत्रः श्रीशो गोपालनन्दनः ।
यजते बालकृष्णोऽसौ कुमारः कृष्णवल्लभः ।। ११ ३।।
सर्वावतारा धामानि मुक्तास्तथेश्वरादयः ।
देवास्तीर्थानि सन्तश्च सत्यश्चात्र वसन्ति वै ।। १ १४।।
मोक्षो मुक्तिर्मूर्तिमन्तौ विराजेतेऽत्र भूतले ।
तस्माद् राजन्नत्र तीर्थे यदल्पं तद्विधेह्यपि ।। १ १५।।
इत्युक्तो लोमशेनैष राजा दीक्षां तु वैष्णवीम् ।
जग्राह विधिना त्यक्त्वा मोहं राज्यं गृहाणि च ।। १ १६।।
साधुर्बभूव राजा स वैष्णवीं प्राप्य दीक्षिकाम् ।
राधिके! चित्प्रकाशेतिनाम्ना ऋषिस्ततोऽभवत् ।। १ १७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नरनायणतीर्थं हरिकृष्णतीर्थं माणिकीतीर्थमश्वपाटलप्राग्वृत्तान्तमश्वपट्टसंज्ञासर्वतीर्थागमः, वैराजस्तुत्या परब्रह्मागमः, अश्वपाटलस्य साधुदीक्षेत्यादिनिरूपणनामा द्वासप्तत्यधिकद्विशततमोऽध्यायः ।। २७२ ।।