लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २७७

← अध्यायः २७६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २७७
[[लेखकः :|]]
अध्यायः २७८ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽमायां प्रातर्गोपालकन्यका ।
विप्रकन्या युवत्यश्च प्रजगुर्मंगलानि वै ।। १ ।।
सुवासिन्यस्तथा वृद्धा बालिका मंगलात्मकम् ।
योगपत्रागमं श्रुत्वा प्रजगुर्मंगलानि वै ।। २ ।।
कुंकुमवापिकाक्षेत्रे बृहस्पतेः शुभागमात् ।।
हरेर्मंगलमाश्रुत्य जगुर्गीतीर्गृहे गृहे ।।३ ।।
ब्रह्मप्रियाः समस्ताश्च तथैव सर्वकन्यकाः ।
कृष्णप्रिया जगुर्गीतीः कान्तस्य मंगलावहा ।। ४ ।।
गोप्यः सर्वा मिलित्वा चाऽऽययुः श्रीकंभरागृहम् ।
साध्व्यश्च ब्रह्मचारिण्यो गायन्त्यो मंगलानि वै ।। ५ ।।
क्षत्रपत्न्यो वैश्यनार्यः पाटलाश्चान्यसेविकाः ।
महोत्साहभरा गीतीर्गायन्त्यश्चाययुर्गृहम् ।। ६ ।।
देव्यो नित्यनिवासिन्योऽक्षरक्षेत्रं समुत्सुकाः ।
श्रुत्वा हरेर्लग्नवार्तां गायन्त्यश्चाययुर्गृहम् ।। ७ ।।
कामरूपधराः सख्यश्चतुःखनिसमुद्भवाः ।
कामवल्ल्यश्च गायन्त्यस्त्वाययुः कृष्णमन्दिरम् ।। ८ ।।
अश्वपट्टसरस्तीर्थनिवासिन्यश्च मातृकाः ।
सुराण्यश्च गुरुं लग्नं श्रुत्वा ज्ञात्वा सुमंगलम् ।। ९ ।।
गायन्त्यो दिव्यवेषांश्च कृष्णमन्दिरमाययुः ।
आर्ष्यः सर्वाः पूजनीया राजपत्न्यश्च कन्यकाः ।। 2.277.१०।।
कुंकुमवापिकानार्यो गायन्त्यस्तत्र चाययुः ।
सर्ववर्णयुवत्यश्च सर्वा नार्यः समाययुः ।
सतीं श्रीं कंभरालक्ष्मीं कृतस्नानार्हणां च ताः ।। ११ ।।
प्रणम्य कानके सौधे निषद्य मंगलानि वै ।
बालकृष्णस्य कृष्णस्य कीर्तिमयानि सञ्जगुः ।। १२।।
कृतस्नानार्हणं मात्रा कृतमंगलचन्द्रकम् ।
कुंकुमाऽक्षतयुग्भालं कृतशृंगारमच्युतम् ।। १३।।
भ्रातृपत्न्या कृतवेषं परमेशं प्रियं प्रभुम् ।
गायन्त्यो योषितः सर्वा वर्धयामासुरुत्सुकाः ।। १४।।
चक्रुस्ताश्चन्द्रकं भाले साऽक्षतं पुष्पवर्धनम् ।
प्रगीय गीतिकाश्चापि प्रदर्श्याऽऽनन्दमान्तरम् ।। १५।।
आशीर्दत्वा गुरुं बृहस्पतिं नत्वा कृताह्निकम् ।
पीत्वा मात्राऽर्पितं दुग्धं सशर्करं सकेसरम् ।। १६।।
गृहीत्वा ताम्बूलमिष्टं शुभमुक्त्वा ययुर्गृहम् ।
गृहे गृहेऽत्र सौराष्ट्रे कृष्णोत्सवस्य वार्तिका ।।१७।।
वृहस्पतेर्नारदस्याऽऽगमश्चाऽप्रसरद् द्रुतम् ।
सर्वाः प्रजास्तु तच्छ्रुत्वा प्रापुर्हर्षं महोत्सवम् ।। १८।।
आनन्दमग्ना अभवन् दर्शनार्थं समागमन् ।
मांगलिकानि तूर्याणि त्ववाद्यन्त च मन्दिरे ।।१९।
सुरवाद्यानि सर्वाणि राजवाद्यानि यानि च ।
गृहवाद्यानि यावन्ति देशवाद्यानि यानि च ।।2.277.२०।।
करवाद्यानि च श्वासवाद्यानि पावनानि च ।
दण्डवाद्यानि सर्वाणि विद्युद्वाद्यानि यानि च ।।२१।।
अंगवाद्यानि च संगप्रवाद्यानि च यानि च-।
प्रभिन्नदेशवाद्यानि त्ववाद्यन्त समन्ततः ।।।२२।।
मिष्टा वै शंखिकानादा जलयन्त्रस्वनास्तथा ।
तारस्वना अजायन्त वंशीस्वना गृहे गृहे ।। २३ ।।
गायकाश्चापि गायन्ति नृत्यन्ति चाप्सरःसमाः ।
नार्यस्तदा बालकृष्णोत्सवं श्रुत्वाऽतिहर्षिताः ।।२४।।
संनृत्यन्ति मयूराश्च कूजन्ति कोकिलास्तथा ।
शकुनानि प्रगायन्ति शुका मेनाश्च सारसाः ।।२५।।
पद्योतन्ते ग्रहाश्चापि तेजस्विनश्च वह्नयः ।
साधवः स्नेहतेजोभिर्व्याप्तास्तत्कीर्तनं जगुः ।।२६।।
भट्टभूसुरविद्याध्रा विद्वांसो वेदवेदिनः ।।
सामगीतीस्तदाऽगायन् चारणाः कवितां जगुः ।। २७।।
अन्ये जय जय त्वं श्रीकृष्णेत्यूचुः प्रभुं प्रति ।
एवं वै राधिके हर्षवाचोऽभवन् जने जने ।। २८।।
श्रुत्वाऽन्ये बालकृष्णस्योत्सवपत्रं समागतम् ।
गुरुं च नारदं श्रुत्वा दर्शनार्थमुपाययुः ।।२९।।
आशीर्वादान् वदन्तश्च चिरजीवेतिवादिनः ।
अपि भेका भेकसमा गालयन्त्रमनादयन् ।।2.277.३ ०।।
ओष्ठयन्त्रं तम्मरिकासमाश्चाऽऽवादयँस्तदा ।
करतालं वादयन्तो जयवादान् व्यधुश्च ते ।।३ १ ।।
किं बहुना राधिकेऽत्र कथितेन तवाऽग्रतः ।
धर्मसंस्थापनार्थाय गृहधर्मं ग्रहीष्यति ।। ३२।।
विशिष्टं यत्परं तत्त्वं विशिष्टं सर्वदाऽस्ति तत् ।
आवेदयितुं लोकेभ्यो गृहधर्मं चरिष्यति ।।३ ३।।
इत्येवं संविचिन्त्यैव लग्नपत्रकृतोत्सवम् ।
प्रकाशं कर्तुमिच्छन्तो मुदा रासोत्सवं व्यधुः ।।३४।।
नरो नारी नरो नारी नरो नारी भ्रमात्मकाः ।
भ्रमन्तोऽपि च गायन्तो बालकृष्णगुणान् जगुः ।।३५ ।।
दृष्ट्वा कुंकुमवाप्यां तद् दिव्यदृष्ट्या पुरादिषु ।
सौराष्ट्रे सार्वभौमे च गुरुर्विस्मयमावहत् ।।३६ ।।
अहो भागवती भक्तिर्भूरिस्नेहमयी भुवि ।
महःपत्रप्रसंगेन मया दृष्टा जनेष्विह ।।३७।।
ईदृशा भक्तिमन्तोऽत्र लोके मुक्ता न संशयः ।
येषां हृत्सु हरेर्भावो दिव्यातिदिव्यकोऽस्ति यत् ।।३८।।
अहो नारायणी धन्या लक्ष्मीः सा शिवकन्यका ।
या वै प्राप्स्यति धामेशं ख्यातं कान्तं हि शाश्वतम् ।।३९।।
राधातोऽपि परं चास्याः सोपानं ज्ञायते मया ।
यस्याः पतिः परश्चास्ते सोर्ध्वसोपानगा यतः ।।2.277.४०।।
कन्याऽपि कृष्णपत्नी चेज् जगन्माता प्रगद्यते।
वृद्धापि कुब्जिका लोके कृष्णयोगा प्रशस्यते ।।४१ ।।
वृन्दा तुलसी दैत्यस्य जलंधरस्य वै तथा ।
शंखचूडस्य पत्न्यौ ते विष्णुयोगे रमानिभे ।।०२।।।
पूजनीये जगद्वन्द्ये मोक्षदेऽभवतां सदा ।
अहो कृष्णस्य माहात्म्यं ब्रह्मप्रिया असंख्यकाः ।।४३।।
वर्तन्तेऽस्यास्तु वै लक्ष्म्या गौरवं नैव यान्ति ताः ।
लक्ष्म्यर्थं लिख्यते लग्नपत्रं यन्नाऽन्यसदृशम् ।।४४।।
लक्ष्म्यर्थं गम्यते येन नान्यसमो बृहस्पतिः ।
लक्ष्म्यर्थं गीयते त्वद्य यशोऽपि नान्यसदृशम् ।।४५।।
लक्ष्म्यर्थं हर्षजननं नान्यतुल्यमिदं पुरा ।
लक्ष्म्यर्थं बालकृष्णस्य हृदयं नान्यसदृशम् ।।४६।।
लक्ष्म्यर्थं लौकिकी वाणी दिव्या चाद्य विभाव्यते ।
लक्ष्म्यर्थं लोकचाञ्चल्यं कल्याणकृद् विलोक्यते ।।४७।।
अहो लोकस्य लोकत्वं लक्ष्मीकृष्णावलोकनात् ।
याथार्थ्यं भजते त्वद्य दिव्यालोकात्मकं हि यत् ।।४८।।
अहो मे भाग्यमूर्ध्वं वै तत्स्थानं सार्थकं मम ।
गुरुश्चोर्ध्वः सदा जातो लक्ष्मीपत्रप्रप्रेषणात् ।।४९।।
इत्याश्चर्यमयो विप्रो देवानां स बृहस्पतिः ।
राधिके वीक्ष्य सर्वं तद् बालकृष्णाश्रितोऽधिकः ।।2.277.५०।।
महाभागवतो भक्तश्चात्मनिवेदितां ययौ ।
स्वरूपं हरये समार्पयत् सर्वस्वदानतः ।।५१ ।।
अथ गन्तुमना बृहस्पतिर्गोपालकृष्णकम् ।
प्राहाऽद्य काशिकां यातुं समिच्छामि निवेदय ।।५२।।
अमायां तत्र शिवराट् मत्प्रतीक्षां करोति हि ।
तथास्त्विति च गोपालः प्राह चान्यद् बृहस्पतिम् ।। ५३ ।।
याहि शीघ्रं गुरो! काशीं शिवेश्वरं निवेदय ।
भवद्वाञ्च्छा प्रपूर्णाऽस्तु पालयामि वचस्तव ।।५४।।
लग्नपत्रं प्रपूज्य स्वीकृतवानस्मि भावतः ।
भवद्विधानां देवानां निश्चितं तत्सुखावहम् ।।५५।।
विपरीतं वैपरीत्ये परिणमेत कष्टदम् ।
कन्या योग्या कुमारोऽपि योग्योऽस्तीति तथास्त्विति ।
मौखिकीं स्वीकृतिं प्रोक्त्वा प्रतिपत्रं ददौ तदा ।।५६ ।।
श्रीराधिकोवाच-
कीदृशं योगपत्रं तत् कीदृशं प्रतिपत्रकम् ।
तदहं श्रोतुमिच्छामि चावेदनं तदुत्तरम् ।।५७।।
श्रीकृष्ण उवाच--
शृणु राधे कथयामि तूभये पत्रिके शुभे ।
यथार्थे लिखिते गांभीर्यादिसद्गुणमण्डिते ।।५८।।
स्वस्तिश्रीश्वरपूजनीयरजसि ब्रह्माऽक्षरक्षेत्रके।
श्रीमत्कुंकुमवापिकाऽभिधवरे यो राजते श्रीपतिः ।
यद्गेहे परमेश्वरो विलसति श्रीबालकृष्णो हरिः।
कोट्यब्जेश्वरवन्दितो विजयते गोपालकृष्णः प्रभुः ।। ५९।।
यो वैराजपिता भवन्ननु महाविष्णुः स्वयं राजते।
यः सृष्टौ प्रथमॆ मनुष्यचरितश्चास्ते हरेराज्ञया ।
सृष्टित्र्यर्थितयद्यशाः शुभगुणाऽऽवासस्त्विह ख्यायते।
तस्मै वै भवते नमामि सततं श्रीकंभरास्वामिने ।। 2.277.६० ।।
येषां पुण्यसुपुञ्जशेवधिरिह प्राकट्यमापद्यते।
येषां साधुजनाशिषोऽतिबहुलाः काले फलन्त्यायतौ ।
येषां यज्ञतपःफलं ह्युदयते वृद्धोपसेवाफलं,
तेषां त्वादृशविष्णुना सह भवेत्। सम्बन्धिता दुर्लभा ।।६ १ ।।
यत्पुत्रस्य पदेऽर्पयन्ति कृतिनः पुण्यानि शंदान्यपि,
धामेशाश्च समर्पयन्ति मुकुटान् मूर्धस्थितान् पूजने ।
ईशा दिव्यसमृद्धिमुत्तममणीन् रत्नादिकं देवता,
भूपा राज्यमनुत्तमं क्षितिधराः स्वर्णादिकं श्रेष्ठिनः ।।६ २ ।।
तस्मै चाक्षरवासिने भगवते सर्वेश्वरेशाय वै,
योग्यायाऽतिगुणालयाय हरये श्रीबालकृष्णाय ह ।
काशीस्थस्तु शिवेश्वरो हि सुरराट् कैलासवासीश्वरः,
कन्यां मे प्रददामि दानमनघां श्रीपार्वतीशो न्वहम् ।।६ ३ ।।
या लक्ष्मीर्हरिधामतस्त्विह पुरा नारायणेच्छावशा,
तद्भक्तस्य हरस्य मे शुभगृहे प्राकट्यमासादिता ।
सेयं साम्प्रतमस्ति योग्यवरणा दानप्रदानोचिता,
तस्या दानविधिश्चतुर्थदिवसे मार्गस्य शुक्ले दले । । ६ ४।।
पुण्यात्पुण्यतमे मुहूर्तकवरे तद्दानकार्योत्सवे,
यावच्छ्रैष्ठ्यविशेषित शुभतमे चाऽस्माभिरानिश्चिते ।
सत्सम्बन्धिसुहृत्प्रसन्नहृदयैरागत्य मन्मन्दिरं
श्रीमद्भिः स्वसुतेन हस्तधरणाद्यात्मा विनिर्वर्त्यताम् ।।६ ५ ।।
भक्तोऽहं भुवि सात्त्वतोऽत्र च हरः श्रीबालकृष्णस्य वै,
यावच्छक्ति सुसेवनं विधियुतं वः संविधास्येऽन्वहम् ।
निर्विघ्नं गणनायकस्य कृपया सम्पारमाप्त मखं,
दृष्ट्वेष्यामि सुतोषणं तत इमा गृह्णन्तु मत्प्रार्थनाम् ।। ६५ ।।
या वै मे मतबोधिका हि लिखिता पत्री मया शोभना,
श्रीमत्कुंकुमबिन्दुमंगलपदाऽऽसिक्ता प्रदानार्थिका ।
द्व्यर्षेः साक्षियुता बृहस्पतिकरे दत्वा मया प्रेषिता,
सा वो हस्तगता करोतु च सुते वो मत्सुता मंगलम् ।।६७।।
शीघ्रं देवगुरुं कृतादरममुं सम्प्रेषयित्वा च माम्,
आश्वासे हि समर्प्य चोर्ध्वकरणे निबन्धनं सोत्सवम् ।
कर्तुं योग्यतमान् हि नो विदधतु श्रीकाशिकावासिनो,
भक्तान्ब्रह्मपरान्हरिश्रुतधरान् नः सात्त्वतान् सेवकान् ।।४८।।।
यद्वाऽन्यत् कुशलादिशोभि च दिनं यच्छ्रीमतां शोभनं,
तद्वा सद्गुरुणा समं द्रुततरं दानार्हमावेद्यताम् ।
अन्यच्चापि यथाकुल स्वसरणिप्राप्तं मदर्हं च यत्,
तत्सर्वं विनिवेद्यतामिति वदन् शंभुः शमं यामि ओम् ।।६९।।
इत्येवं राधिके दानपत्री शंकरप्रेषिता ।
मयोक्ता तेऽनुरोधाद्वै श्?णूत्तरप्रपत्रिकाम् ।।2.277.७० ।।
श्रीमद्गोपालकृष्णो यां लिलेख प्रति शंकरम् ।
सर्वमंगलमांगल्यां बह्वर्थसंभृतां शृणु ।।७ १ ।।
ओं श्रीकृष्णनिवासभूतसुभगागोलोकभूमौ पुरा,
श्रीकृष्णात् प्रकटीभवन् स्ववनिताऽर्धांगश्च कैलासके ।
स्वीये धाम्नि शिवः सदाशिवभिधः संराजते वैष्णवो,
वैकुण्ठे हरिसन्निधौ सवनितो नृत्यं चकारोत्तमम् ।।७२।।
श्रीलक्ष्म्या विदितो ह्यकालगमनो विघ्नो विलासे हरेः,
शप्तश्चापि मनुष्यभावनियतः पत्न्या युतः संभव ।
श्रुत्वा श्रीहरिरेव भक्तमनुगोऽभूच्छ्रीं विहायाऽपि वै,
सा लक्ष्मीर्हरिलब्धिलोभमनुगा चास्ते भवत्पुत्रिका ।।७३ ।।
एवं वै शिवरूपरूपिण इह श्रीपार्वतीसत्पते-
र्लक्ष्म्याश्चापि करोतु कृष्णभगवान् सन्मगलं सर्वदा ।
त्वत्पुत्रश्च गणाधिपः सवनितो भद्रं क्रियान्मंगलं,
श्रीमत्कुंकुमवापिकानिवसतिर्गोपालकृष्णोऽर्थये ।।७४।।
मद्भाग्यं बहुलीकृतं हि भवता दत्वा सुतां शार्ङ्गिणे,
मत्पुत्राय नरायणाय हरिणे श्रीबालकृष्णाय ह ।
सम्पृक्त्वाऽपि बृहस्पतिं सुरगुरुं सम्पावितं मद्गृहं,
तेनाऽप्यर्पितदानपत्रमिह वै प्रेम्णा मयाऽङ्गीकृतम् ।।७५ ।।
तत्राऽऽदिष्टशुभोत्तमाऽवसरके सम्प्राप्य काशीं पुरीं,
शंभो! दर्शनमुत्तमं हि भवतः प्राप्त्येऽद्य शं शान्तिदम् ।
एवं सर्वविधानवैधमपि सन्निर्वर्त्य तीर्थस्थले ।
दम्पत्योः खलु शाश्वतं विधिकृतं संलोकयिष्ये सुखम् ।।७६।।
यत्तत्राऽहमुमापतेऽम्बरविमानैरागमिष्ये द्रुतम्,
मध्याह्नोत्तरमेव शुक्लगतृतीयायां कुटुम्बाऽब्जयुक् ।
अन्ये ये च नृपाः क्षितौ कृतमखाः श्रीबालकृष्णे रता-
स्तत्साहस्रमपीह वाहिमनुजैः कोट्यर्बुदैः संगतम् ।।७७।।
मुक्ता धामनिवासिनोऽप्यगणिता नारायणा ईश्वराः,
सिद्धा आर्षगणास्तथा च पितरो देवास्तथा मानवाः ।
दिव्या देहयुजोऽपि चेतनगणा भूतानि तीर्थानि वै,
देव्यः सृष्टिपरस्थिता अपि परार्धोर्ध्वाः प्रयास्यन्त्यपि ।।७८।।
कन्याः कोट्य इह स्थिता अपि तथा ब्रह्मप्रिया योषित-
श्चाऽऽयास्यन्ति भवत्सुमन्दिरमनादिब्रह्मयोगोत्सुकाः ।
सर्वज्ञे शिवरूपिणि त्वयि मया किं चान्तरं गूढवद्,
वक्तव्यं कुशले सुयोगिनि हरे वैशालभूमिस्थिते ।।७९।।
इत्येवं समभिप्रणम्य च तथा सम्प्रार्थ्य काशीपतिम्,
पत्रं चेदमथाऽर्पयामि गुरवे सत्कृत्य रत्नाऽयुतैः ।
न्यूनाऽऽधिक्यमथोत्तरं ह्यरुचिरं मिष्टं गरिष्टं कटु,
क्षन्तव्यं मम सर्वथा विलसितं युक्तात्मना शंभुना ।।2.277.८० ।।
इत्येवं राधिके पत्रोत्तरं ददौ हराय च ।
श्रीमद्गोपालकृष्णो वै नारदेनाऽनुमोदितः ।।८ १ ।।
ब्रहस्पतेर्महापूजां चकार रत्नकोटिभिः ।
सद्वस्त्रैश्चन्दनैश्चापि मौक्तिकैर्हारतर्पणैः ।।८२।।।
भोजनैः पानसत्कारै रञ्जयामास सद्गुरुम् ।
विमानं प्रददौ रम्यं संभृतं रत्नभूषणैः ।।८३।।
कल्पलतान्वितं रम्यं समारुरोह सद्गुरुः ।
प्रतिपद्दिवसे प्रातर्ययौ काशीं विहायसा ।।८४।।
ददौ पत्रोत्तरं पत्रं शंभवे मुमुदे हरः ।
वाचयामास मांगल्यपत्रं च मुमुदे पुनः ।।८५ ।।
नमस्कारादिकं चापि विनयं स्नेहमात्मनि ।
श्रीमद्गोपालकृष्णस्य बालकृष्णस्य वै तथा ।।८६ ।।
लोमशस्य तथाऽन्येषां कथयामास सद्गुरुः ।
आगमोऽत्र महान् भावी वाहिन्याः सार्वलौकिकः ।।८७।।
उभयोः ख्यातयोः सतोः प्राधान्येन जगत्त्रयम् ।
आगमिष्यति वै दाने समये गुरुरब्रवीत्। ।।८८।।
शंभुः प्रसन्नहृदयः प्राहू गुरुं यथाबलम् ।
पुण्यपात्रस्यांऽगणे वै भवेत् त्रैलोक्यमागतम् ।।८९।।
यथायोग्यं करिष्यामः सेवां लोकोत्तरां शुभाम् ।
कोटिकोट्यर्बुदाब्जा मे गणा लोके वसन्ति च ।।2.277.९०।।
कोटिकोट्यर्बुदा देव्यः सतीरूपा भवन्ति मे ।
संकर्षणो महाकालो महारुद्रोऽपि रुद्रकः ।।९ १।।
हरोऽहं मम रूपाणि भवन्ति कोटिशोऽपि च ।
मम साक्षात् पिता कृष्णो गोलोको मम सर्वथा ।।९२।।
महामाया मम सृष्टिर्हनूमान् मम वै सुतः ।
गणेशश्चेति कोट्यब्जार्बुदाब्जाः पार्षदा मम ।।९३।।
सर्वं मे शुभकृच्चास्ते भवान् देवगुरुस्तथा ।
किं न्यूनं मे वर्ततेऽद्य सर्वं सम्पन्नमस्ति मे ।।९४।।
इत्युक्त्वा त्वासनस्थं तं बृहस्पतिं प्रपूज्य च ।
शंकरो भोजयामास कारयामास मण्डपम् ।। ९५।।
वादित्राणां निनादाँश्च कारयामास दिग्गतान् ।
दूतान् सम्प्रेषयामासाऽऽमन्त्रणार्थं जगत्त्रये ।। ९६ ।।
कुंकुमपत्रिकायुक्तान् शंकरो लोकशंकरः ।
राधिके त्वभवन् सर्वमंगलानि हरालये ।। ९७ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽमावास्यायां गोपालकृष्णालये त्रैलोक्ययोषितां मंगलगीतयो गृहे गृहे महोत्सवाः, बृहस्पतेः सम्मानं दानपत्रिकावर्णनं तदुत्तरं प्रगृह्य प्रपूजितबृहस्पतेः काशीं प्रत्यागमनं, त्रैलोक्ये शंभुकृताऽऽमन्त्रणं चेत्यादिनिरूपणनामा सप्तसप्तत्यधिकद्विशततमोऽध्यायः ।। २७७ ।।