लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २८७

← अध्यायः २८६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २८७
[[लेखकः :|]]
अध्यायः २८८ →

श्रीकृष्ण उवाच-
राधिके! सुखमापन्नाः सेवाभिर्महीमानकाः ।
अपूर्वसुखभोक्तारोऽभवन् शिवपुरे तदा ।। १ ।।
संकल्पानुसृतं सर्वं यत्र समुपतिष्ठते ।
दिव्ये शिवपुरे तत्र चतुर्थ्यां तु प्रगे जनाः ।। २ ।।
वादित्रैर्मंगलैश्चापि यशःश्रवणगीतिभिः ।
निद्रां जहुर्महीमानाः सस्नुः शुद्धिप्रपूर्वकम् ।। ३ ।।
पुपूजुश्च हरिं चक्रुः स्वाध्यायं च जपादिकम् ।
कन्यकानां गीतयश्चाऽजायन्त तत्र मंगलाः ।। ४ ।।
गृहे गृहेंऽगणे दघ्ना यवांकुरैश्च केसरैः ।
रंगैश्च कुंकुमैश्चापि रंगवल्ल्योऽभवन् कृताः ।। ५ ।।
स्वस्तिकाश्चापि पद्मानि कृतान्यासन् पुरः पुरः ।
तोरणानि धृतान्यासन् बद्धाश्चासन् ध्वजास्तथा ।। ६ !।
वाद्यानां निनदाश्चासन् मण्डपे च गृहे गृहे ।
प्रातश्चोष्णजलाद्यैश्च विधयोऽपि तदाऽभवन् ।। ७ ।।
सर्वेषां तु प्रगे दुग्धपानं मिष्टान्नसंयुतम् ।
शिवस्वामिसकाशाद्वै तदाऽभवद्यथेष्टकम् ।
वृद्धानां पूजनं चापि तदाऽभवद् यथोचितम् ।। ८ ।।
अथ स्नाता शिवपुत्री शृंगारिता विभूषिता ।
सखीभिः पितरं नत्वा नत्वा च मातरं तथा ।। ९ ।।
कोटिचन्द्रानना रम्या सर्वाऽऽभूषणशोभिता ।
कुलदेवप्रपूजार्थं पद्भ्यां सामग्रिकायुता ।। 2.287.१ ०।।
प्रययौ हनुमन्तं च दुर्गा पूजयितुं सती ।
कोटिकन्यायुता चापि सौभाग्यप्रमदान्विता ।। १ १।।
गायिकाभिः समायुक्ता वादित्रनादरञ्जिता ।
स्वर्णकलशमूर्धाभिर्नारीभिर्वेष्टिता सती ।। १२।।
पञ्चगव्यादियुक्ताभिः कन्याभिर्वेष्टिता ह्यपि ।
पूजासामग्रिकास्थालयुक्ताभिः सह शोभना ।। १३।।
वह्न्युज्ज्वलांऽशुकाभिश्च सौभाग्याभिश्च वर्धिता ।
प्रथमं सा ययौ दुर्गां पुपूज परमेश्वरीम् ।। १४।।
पञ्चामृतैश्चन्दनाद्यैः पयोभिस्तीर्थवारिभिः ।
कुंकुमाऽक्षतकस्तूरीकैसरद्रवद्रव्यकैः ।। १६।।
सुगन्धिपुष्पहाराद्यैर्नैवेद्यैः पायसादिभिः ।
मिष्टान्नैर्जलपानाद्यैस्ताम्बूलकैः सुवर्णकैः ।। १६।।
दक्षिणाभिश्च पात्रैश्च नीराजनैः स्तवैस्तथा ।
प्रदक्षिणैर्नमस्कारैः क्षमापराधनार्थनैः ।। १७।।
पुपूज दुर्गां च ततः शाटीं च कञ्चुकीं तथा ।
घर्घरीं नक्तकं प्राऽऽर्प्य नुपूरे चोर्मिकास्तथा ।। १८।।
शृंखले रशनां चापि स्वर्णहारान् मणीन् शुभान् ।
कटके वलये चाऽङ्गुलीयकानि च पद्मकम् ।। १९।।
तन्तिकां नत्थिकां स्वर्णकुण्डले पत्रिकां तथा ।
चन्द्रकं च प्रकोष्ठयोर्वलये भूषणान्यपि ।।2.287.२०।।
समस्तानि ददौ दुर्गादेव्यै प्रोवाच वै ततः ।
मातर्मे भगवद्योगे प्रोद्वाहे स्यादविघ्नता ।। २१ ।।
द्रष्टव्याऽहं त्वया दुर्गे सर्वदा यामि यत्र वै ।
दुर्गाऽपि राधिके तत्र विहस्याऽऽह तथास्त्विति ।।२२।।
एवं दुर्गां प्रपूज्यैव प्राप्य प्रासादिकं फलम् ।
ययौ श्रीहनुमन्तं सा तपोऽर्थं त्वाश्रयप्रदम् ।।२३।।
गत्वा नत्वा वायुपुत्रं शांकरं भ्रातरं सुरम् ।
पञ्चामृतं जलं दत्वा चन्दनं चार्कमालिकाम् ।। २४।।
कुंकुमं चाक्षतान् स्वर्णमालां सिन्दूरकं तथा ।
तैलं क्षान्धिसारं च भूषाम्बराणि चापि वै ।।२५।।
शर्करां वटकान् दत्वा मिष्टान्नानि शुभानि च ।
जलपानं मुखशुद्धिं फलं दत्वा च दक्षिणाम् ।।२६।।।
नीराजनं ततः कृत्वा स्तवनं च प्रदक्षिणम् ।
क्षमामयाचत लक्ष्मीस्तपःसिद्धिसहायक ।। २७।।
भ्रातः रक्ष सदा मां त्वं भगवद्योगकारक ।
निर्विघ्नो मे सुयोगः स्याद् बालकृष्णेन शार्ङ्गिणा ।।२८।।
जगन्नाथेन नाथेन सुख्यहं स्यां तथा कुरु ।
इत्यभ्यर्थित एवाऽसौ हनूमानाह वै स्वसः ।।२९।।
तथास्त्विति सदा सौभाग्यवती भव दुःखहे ।
अथ नत्वा प्रसादं च गृहीत्वा स्वसखीयुता ।।2.287.३ ० ।।
समाययौ हि विश्वेशं पितरं मन्दिरस्थितम् ।
विश्वेश्वरं सुबहुधा पयसा मधुना तथा ।।३ १।।
दध्ना घृतेन च शर्करया तीर्थजलेन च ।
स्नापयित्वा गन्धसारः सम्पूज्याऽऽर्प्य निवेदनम् ।।।३२।।।
आरार्त्रिकं ततः कृत्वा क्षमां कृपामयाचत ।
निर्विघ्नतां मंगले चाऽयाचताऽपि तथास्त्विति ।।३ ३।।
विश्वेश्वरः पिता प्राह ययौ ततोऽन्नपूर्णिकाम् ।
प्रपूज्य मातरं तथा प्राऽऽर्प्य शृंगारकं तथा ।।३४।।
निवेदनं ददौ चापि नीराजनं व्यधात्ततः ।
अन्नपूर्णां चकाराऽस्या भाले साऽक्षतचन्द्रकम् ।।३५।।
अखण्डसौभाग्यवती शाश्वतजीवनी भव ।
आशीर्वादं ददौ चाथ कन्या नत्वा गणेशकम् ।।३६।।
दूर्वासिन्दूरलड्डूभिः प्रपूज्य तु सरस्वतीम् ।
गंगां ययौ पंचगंगां धर्मं देवं पुपूज च ।।३७।।
नत्वा दत्वा च दानानि स्वर्णरूप्यमयानि हि ।
मणिमाणिक्यहाराँश्च रत्नानि मौक्तिकानि च ।। ३८।।
आशीर्वादान् समगृह्य प्रजानां च ततो गृहम् ।
निजालयं प्राययौ च नत्वा शिवपुरं सती ।। ३९।।
मध्याह्ने त्वथ सर्वाभ्यः सखीभ्यो भोजनं ददौ ।
लक्ष्मीश्चक्रे सखीभ्यश्च परिवेषणमुत्सुका ।।2.287.४०।।
हिमजानगराऽऽवासमहीमानस्त्रियस्तदा ।
बुभुजुः कोटिशः पंक्तौ मिष्टान्नानि समन्ततः ।।४१।।
आबालवृद्धा नार्यो वै तृप्ता जाता हि भोजनैः ।
नार्यश्च शिवपुरगा महीमानस्त्रियस्तथा ।।४२।।
बुभुजुर्भोजनान्येव समस्ताः कन्यकादिकाः ।
ततो नराश्च बुभुजुः पत्तनोभयवासिनः ।।४३।।
शिवराजगृहस्थाश्च काश्याश्चापि प्रजाजनाः ।
बुभुजुः कोट्यर्बुदाब्जा ईशा देवाश्च मानवाः ।।४४।।
मेशुभान् मोहनस्थालान् माषलड्डून् सुमौक्तिकान् ।
चूर्णलड्डून् दुग्धपाकान् पायसान् क्षीरपोलिकाः ।।४५।।
मिष्टपोलीः पूरिकाश्च सूत्रफेणीं च बर्फिकाम् ।
दुग्धसारां बिरंजं च शष्कुलीं खाजकान् बटीः ।।४६ ।।
अपूपान् पूपसंयावान् बिन्दुलडडून् प्रभर्जिकान् ।
श्रीखण्डान् शतछिद्राँश्च जाम्बूकान् घेवराँस्तथा ।।४७ ।।
पिण्डकान् ग्रन्थकाँश्चापि कलिका घुर्घुराँस्तथा ।
वटान् फुल्लवटीश्चापि शर्कराक्ता बदामिकाः ।। ४८ ।।
चणकाँस्तण्डुलाँश्चापि भर्जितान् पाचितानपि ।
सूपौदनं च क्वथिकाः शाकानि विविधानि च ।।४९ ।।
भाजाश्च विविधाश्चापि सुधाश्चाऽमृतकानि च ।
तक्राणि पेयद्रव्याणि चोश्यानि सत्फलानि च ।।2.287.५ ० ।।
रसान् लेह्यान् भक्ष्यकणानारनालानि चापि ह ।
पर्पटान् चटनीश्चापि क्षारिकाः संस्कृतानपि ।।५ १ ।।
मिष्टफलानि च तथा चार्द्रबीजानि यानि च ।
शिम्बिकाश्च तथा वल्लान् गुन्द्रपाकादिकाँस्तथा ।। ५२ ।।
कन्दपाकान् विचित्राँश्च फलपाकान् गरिष्टकान् ।
राजिकाराद्धमेवापि फलचूर्णानि यानि च ।।५३ ।।
वन्यान् कन्दान् कृषिकन्दान् चाऽकृष्टपच्यकौषधीः ।
कल्पपादपसञ्जातान् भक्ष्यभोज्यान् प्रमिष्टकान् ।।५४ ।।
बुभुजुश्च पपुश्चापि पीयूषाणि विशेषतः ।
तत्तल्लोकीयभोज्यानि तेभ्यो तेभ्यो ददौ हरः ।। ५५।।
तत्तज्जातीयपेयानि तेभ्यो तेभ्यो ददौ हरः ।
ताम्चूलकानि रम्याणि स्वाद्वन्त्याननशोधिकाः ।।५६ ।।
वाटिकाश्च ददौ श्रीमान् शंकरो लोकशंकरः ।
बुभुजुश्च महीमानास्ततोऽतिथिजना अपि ।।५७।।
भिक्षुकाश्च दीनजना अनाथा नरयोषितः ।
कर्मचारास्तथा भृत्या दासा दास्योऽनुगाऽनुगाः ।। ५८।।
पार्षदा द्वारपालाश्च तथैव परिवेषकाः ।
रक्षका दर्शकाश्चापि बुभुजुर्हृष्टमानसाः । ।५९ ।।
जडाश्च चेतनाश्चापि ईशा देवाश्च मानवाः ।
सृष्टित्रयनिवासाश्च महीमानाश्च येऽत्र च ।।2.287.६ ० ।।
सर्वे ते पूर्णतृप्ता वै जाता भोजनसत्तमैः ।
सर्वे विश्रान्तिमापुश्च महीमानास्ततः क्षणम् ।। ६१ ।।
अथ श्रीबालकृष्णोऽसौ ज्ञातुं दार्ढ्य शिवस्य तु ।
भूत्वा श्रीकृष्णरूपोऽसौ शिवेश्वरः ययौ द्रुतम् ।।६ २।।
रहस्ये शिवदेवं तु गत्वा प्राह शृणु प्रिय ।
पुत्रः योग्यं च वाऽयोग्यं कथयामीह मे शृणु ।। ६३ ।।
भवान् जानातु यं कं वा जानाम्येनं वदामि च ।
पत्नीव्रतस्य पुत्रोऽयं विप्रो वै भिक्षुकोऽस्ति हि ।।६४।।
बालकृष्णोऽस्ति वै नाम्ना बालशो दीनजन्मवान् ।
भिक्षुकाय सुता नैव देया राज्ञा कथंचन ।।६५।।
विदेशस्थाय तत्रापि नैव देया कथंचन ।
जात्या समेन कन्याया प्रदानं शोभते सुखः ।।६६।।
विजातिना तु लोकेऽत्र दुःखं स्यान्नात्र संशयः ।
अन्यच्चापि शरीरेण कृष्णोऽयं दृश्यतेऽबलः ।।६७।।
धवलायास्तव पुत्रा यौगल्ये शोभतेऽपि न ।
तथाऽन्यत्ते कथयामि पुराणोऽयं विलोक्यते ।।६८।।
कन्येयं कोमला स्वल्पवर्षीया दीयते कथम् ।
तथाऽन्यच्चापि राजेन्द्र कुमाराय कुमारिका ।।६९।।
देया चेत् सुखमिच्छेथाः कन्यायाः शाश्वतं तदा ।
बालकृष्णोऽत्र वै कोटिवधूभिः सह चागतः ।। 2.287.७०।।
तत्रेयं कियती बाला गणनायां भविष्यति ।
सपत्नीनां कलहस्तु विषाद् वह्नेस्तु दुःसहः ।।७१ ।।
शृणु त्वन्यत्तथा चाऽस्य सर्वभक्षित्वमस्ति हि ।
भुंक्ते सर्वप्रदत्तं च ह्येकधर्मोऽस्य नास्त्यापि ।।७२।।।
अमायी चापि तु सदा निर्गुणोऽयं प्रविद्यते ।
किं चाऽयं वर्तते नित्यं मुनिवृत्तिपरायणः ।।७३।।।
रन्तुं नैवाऽपि जानाति कामनावर्जितोऽस्ति च ।
मायामारो विद्यतेऽसौ मायां कर्तुं न वेत्यसौ ।।७४।।
पश्य गोपालकर्माऽस्य पिता गोपालसदृशः ।
गोपालकृप्णनामाऽस्ति भिन्नकर्मसमाश्रितः ।।७५।।
क्षत्रियेण न विप्राय भिन्नकर्मकृते सुता ।
देयेति सर्वथा बुध्वा यथेष्टं ते तथा कुरु ।।७६।।
हत्युक्त्वा विररामाऽसौ श्रीकृष्णो बालकृष्णकः ।
विश्वेश्वस्तु पितरं नत्वा प्राह विचार्य वै ।।७७।।
पितः पुत्र्या भालरेखा सञ्चितं च तथा पुरा ।
विद्यते विप्ररूपेण साकं तत्र प्रदानकम् ।।७८।।
पत्नीव्रतो महाविष्णुः स्वयं पृथ्व्यां हि वर्तते ।
जानामि योगदृष्ट्यैव तत्पुत्रं पुरुषोत्तमम् ।।७९।।
सदाभिक्षाकरश्चायं भक्तानां स्नेहशालिनाम् ।
परब्रह्म स्वयं चास्ते कथं देया न पुत्रिका ।।2.287.८०।।
दीनार्थं जन्मवानास्ते बालिनां शंप्रदो हरिः ।
बालात्मनां निर्मलानां कृषिं मोक्षं करोति सः ।।८१ ।।
बालकृष्णो हरिश्चास्तेऽक्षरधामाधिपः प्रभुः ।
राज्ञा मया महाराज्ञे भिक्षुकाय तु शार्ङ्गिणे ।।८२।।
प्रदातव्या सुता तत्र यशोलाभोदयोऽस्ति हि ।
विदेशोऽस्याऽक्षरं ब्रह्म तस्मै देया कथं न वै ।।८३।।
जात्या समा मम पुत्री ब्रह्मणा ब्राह्मणी त्वियम् ।
जातिर्न देहजा क्वापि गुणजा विद्यते सदा ।।८४।।
ब्राह्मी लक्ष्मीर्मम कन्या ब्रह्मणा सह युज्यते ।
कृष्णोऽयं सार्थकश्चास्ते पापसंकर्षणात् तथा ।।८५।।
स्वधामनयनाच्चापि कृष्णोऽयं च यथा भवान् ।
पुराणोऽयं तु पुरुषः पुरुषोत्तमसंज्ञकः ।।८६।।
पुराणी मे कन्यका नारायणी पुरुषोत्तमी ।
पुरुषोत्तमसंज्ञस्य तन्वः सर्वाः प्रजा मताः ।।८७।।
वध्वः सर्वा हरेस्ताश्च समर्थस्य न दूषणम् ।
बालेयं दृश्यते त्वद्य सुग्राह्या तेन शार्ङ्गिणा ।।८८।।
सर्वासामग्रगण्या च गणना सा महोत्तमा ।
सापत्न्यं नास्ति कृष्णाग्रे रागद्वेषहरो हि सः ।।८९।।
सर्वभक्षित्वमेवाऽस्य परात्मनो हि युज्यते ।
भूषणं धर्मधर्तुर्वै सर्वधर्मात्मनः प्रभोः ।।2.287.९०।।
माया वै बन्धदा यत्र नास्ति सन्ति न तद्गुणाः ।
साधुवर्तन एवाऽसौ सर्वकर्मफलप्रदः ।।९ १ ।।
न्यायवर्तन एवाऽसौ वर्तते चाप्यहिंसकः ।
मुनिरेव सदा चास्ते वेदाः श्वासास्तथाऽस्य ह ।।९२।।
गायन्ति सुगुणान् शश्वत् मौनं चास्यैव भूषणम् ।
अपूर्णस्य पितः सञ्जायते वै कामना मुहुः ।।९३।।
सर्वसम्पत्प्रपूर्णस्य सर्वानन्दभृतस्य च ।
सर्वात्मकस्य कृष्णस्याऽकामत्वं तु गुणो महान् ।।९४।।
रमणं विषयोत्थं वै नाऽयं जानाति यत्परः ।
पुत्री मेऽपि तथा चास्ते मायापरा रमात्मिका ।।९५।।
बन्धदायाश्च प्रकृतेर्नाशकोऽयं परेश्वरः ।
कुहकं न करोत्येव मायापरो हि सोऽस्ति च ।।९६ ।।
गोपालस्त्वं पिता चास्ते गोपालः सोऽपि तत्पिता ।
वैश्ययोः सहमेलस्तु भाग्यादेवाऽत्र संगतः ।। ९७।।
विश् प्रवेशनेऽतो वेष्टा चान्तर्यामी प्रभुर्हिं सः ।
लक्ष्मीः सृष्टित्रये सर्वप्रविष्टाऽन्तर्नियामिका ।।९८।।
तयोस्तु संगतिर्योग्या सर्वदैव प्रशस्यते ।
क्षत्रियः सर्वदा रक्षाकरः शरणवासिनाम् ।।९९।।
भगवान् श्रीबालकृष्णः क्षत्रियो वै कथं न हि ।
क्षत्रिया मम पुत्री च क्षत्रियो भगवानपि ।। 2.287.१ ००।।
द्वयोर्योगोऽस्ति वै भाग्याद् प्रोद्वाहः कृष्णयोरिति ।
शुभो मे भाति तस्मात्त पितः शंका न रोचते ।। १०१ ।।
इत्युक्तवन्तं श्रुत्वैव हृदये हृष्टमानसः ।
पुत्रं तथास्त्वभिधाय श्रीकृष्णः प्रययौ ततः ।। १ ०२।।
राधिकेऽथ ततश्चापि बालकृष्णः स्वयं प्रभुः ।
शांभवी चापि विज्ञातुं स्त्रीभूत्वा प्रययौ गृहम् ।। १०३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चतुर्थ्यां प्रगे कृतं मंगलं, कन्याकृतं कुलदेवतापूजनम्, महीमानानां भोजनादि, बालकृष्णस्य श्रीकृष्णरूपस्य शिवेश्वरेण सह कन्या न देयेतिसंवादः, तदुत्तराणि, चेत्यादिनिरूपणनामा सप्ताशीत्यधिकद्विशततमोऽध्यायः ।। २८७ ।।