लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २९२
← अध्यायः २९१ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः २९२ [[लेखकः :|]] |
अध्यायः २९३ → |
श्रीकृष्ण उवाच-
कोटिभिर्मुनिभिः साकं राधिके! श्रीबृहस्पतिः ।
संस्थितोऽभूदक्षतादिपूजापात्रैर्हरेः पुरः ।। १ ।।
मण्डपाख्यं पुरं रम्यं पञ्चाशद्योजनात्मकम् ।
अभिव्याप्येश्वरराजदर्शनार्थं स्थिताः प्रजाः ।। २ ।।
श्रीकृष्णः श्रीहरिं तत्र प्रणनाम स्वयं त्वहम् ।
ब्राह्मणाः संप्रणेमुश्च वेदमन्त्रान् जगुस्तदा ।। ३ ।।
यवांकुरान् ददुश्चापि बालकृष्णकरे तदा ।
पुष्पगुच्छं ददौ कृष्णः करे गले च मालिकाम् ।। ४ ।।
बृहस्पतिः पुष्पहारं कादम्बकं ददौ गले ।
साक्षतकुंकुमचन्द्रं भाले गुरुस्तथाऽकरोत् ।। ५ ।।
लाजाभिर्वर्धयामासुर्नार्यः कन्याप्रपक्षिकाः ।
जलपानं ददौ तत्रेश्वराय च बृहस्पतिः ।। ६ ।।
पुरं प्रवेशयामास बालकृष्णस्य वाहिनीम् ।
सर्वां दिव्यस्वरूपां च ददृशुः सर्वथा प्रजाः ।। ७ ।।
देवकन्या नागकन्या राजकन्याश्च योषितः ।
मुनिकन्याश्चेशकन्याः प्रपश्यन्तीश्वरं हरिम् ।। ८ ।।
पश्यन्ति योषितः सर्वा निमेषरहितेन वै ।
शिवस्वामी प्रपूजार्थं गोपुराग्रे समाययौ ।। ९ ।।
प्रपूज्य कुशलं पृष्ट्वा प्रसन्नं प्रचकार ह ।
वसुं च पितरं चापि तथाऽन्यान्महीमानकान् ।। 2.292.१० ।।
महीमानस्त्रियो नेमुः प्रपश्य परमेश्वरम् ।
प्रसन्नवदनं कान्तं मनोहरं सुरूपिणम् ।। ११ ।।
सर्वशोभान्वितं पूज्य सर्वेष्टं हृदयंगमम् ।
रत्नेन्द्रसारशोभाढ्यभूविमानस्थितं प्रभुम् ।। १२।
सर्वेषां परमात्मानं भक्तानुग्रहगोचरम् ।
नवीनचान्द्रधवलं शोभितं हारराजिभिः ।। १३ ।।
चन्दनोक्षितसर्वांगं बहुमालाविभूषितम् ।
रत्नकेयूरवलयरत्नमालाभिरुज्ज्वलम् ।। १४।।
रत्नकुण्डलभूषाभिर्गण्डस्थलीविराजितम् ।
रत्नेन्द्रसारनिर्माणक्वणन्मंजिररञ्जितम् ।। १५।।
सस्मितं गुच्छहस्तं च पश्यन्तं रत्नदर्पणम् ।
मुक्तैः संसेवितं श्वेतचामरैश्छत्रकेन च ।। १६ ।।
पार्श्वे स्वतःप्रकाशेन मुख्येश्वरेण राजितम् ।
नवयौवनसम्पन्नं शरत्कमललोचनम् ।। १७।।
शरत्पूर्णेन्दुतुल्यास्यं सर्वानुग्रहकारकम् ।
कोटिकन्दर्पसौन्दर्यं चाक्षरातीतमच्युतम् ।। १८।।
तीर्थपूतं कीर्तिपूतं सुरेश्वरादिवन्दितम् ।
परमाह्लादकं देवेश्वरं सौन्दर्यशेवधिम् ।। १ ९।।
दूर्वया पट्टसूत्रं च कदल्याः स्फुटमञ्जरीम् ।
दधानं च प्रचूडायां मालमाल्याभिमालिकाम् ।।2.292.२० ।।
पुष्पं नारीप्रदत्तं च सुगन्धिगुच्छमुत्तमम् ।
एतादृशं हरिं दृष्ट्वा मूर्च्छामापुः स्त्रियस्तदा ।। २ १।।
लक्ष्म्यास्तु जीवनं धन्यं श्लाघ्यमित्यूचुरीप्सितम् ।
हिमजा श्रीः ददर्शापि तारकं तं पुनः पुनः ।। २२।।
शिवेश्वरः विप्रयुक्तः सामात्यः सपुरोहितः ।
समागत्य ननामाऽपि देवदेवं हरिं प्रभुम् ।।२३।।
वस्वग्रे मण्डपे दीर्घे कारयामास नर्तनम् ।
नर्तकानां चातिरम्यं गान्धर्वाणां च गायनम् ।।२४।।
गायिकानां गीतिकाश्च नर्तकीनां च नृत्यकम् ।
वाद्यानां शब्दभेदाँश्च कारयामास वै पुरः ।। २५।।
आस्फोटानां स्फोटनानि विद्युत्खेलनकानि च ।
यन्त्राणां स्फोटननादान् दुन्दुभीनां सुगर्जनाः ।।२६।।
कारयामास वाहिन्याश्चाग्रे त्वग्रे शिवस्तदा ।
वर्धयामासुरेवाऽपि प्रजाः श्रीबालकृष्णकम् ।। २७।।
एवं तदा पुण्ययात्रा विश्रान्तिगृहमाययौ ।
कृष्णो विमानकात् समुत्तीर्य गोपुरमास्थितः ।। २८।।
पार्वत्या वर्धितो दुःखहाञ्जलिभिः पुनः पुनः ।
तीर्थजलेन चरणौ प्रक्षालितौ हरेस्तु वै ।।२९।।
चन्दनाक्षतपुष्पाद्यैः पूजितो मंगलद्रवैः ।
यवांकुरैश्च दूर्वाभिः पूजितश्च सुगन्धिकैः ।।2.292.३ ०।।
लाजाभिश्च तथा नीराजनैः सम्पूजितस्तदा ।
विप्रैश्च गुरुणा चाशीर्वाक्यैः संवर्धितस्तदा ।।३ १।।
प्रोक्षितश्च ततः पार्श्वे विश्रान्तिमन्दिरे क्षणम् ।
स्वर्णसिहासने नीत्वा सर्वशान्तिप्रदे शुभे ।।३२।।
हरिं निषादयामास तथा सर्वाग्र्यपूज्यकान् ।
पितरौ शिवदेवेश्च पुपूज स्वागतेन ह ।।३ ३ ।।
भोजनं मधुपर्काख्यं जलपानेन संयुतम् ।
ददौ तदा शिवस्वामी शान्त्यर्थं व्यावहारिकम् ।।३४।।
तदा कन्याः कोटिशोऽपि नैजं शृंगारमादधुः ।
योगयोग्याऽम्बरभूषा धारयामासुरुत्सुकाः ।।३५।।
गन्धसुगन्धदेहाश्च रंगरागयुतास्तथा ।
बिन्दुबिन्द्वीयुताश्चापि सज्जास्तदाऽभवन् स्थिताः ।। ३६ ।।
प्रतीक्षन्ते यदा लक्ष्म्याः दानं हरिर्ग्रहीष्यति ।
तदाऽस्माकं करान् कृष्णनारायणो ग्रहीष्यति ।।३७।।
इति लक्ष्म्याश्च शृंगारं सख्यस्तदा व्यधुः शुभम् ।
नखान् वै रञ्जयामासुः स्थलपद्मनिभान् शुभान् ।। ३८।।
अलक्तकेन करयोः पादयोश्च तलान्यपि ।
ओष्ठौ रक्तेन रंगेण रञ्जयामासुरेव च ।। ३९ ।।
कुंकुमकर्दमेनापि कपोलौ द्वौ च कर्णकौ ।
लोचने कज्जलेनाऽपि त्वञ्जयामासुरेव ह ।।2.292.४० ।।
ललाटं कैसरेणाऽपि चन्दनेन सुशोभितम् ।
देहं च चन्दनेनापि चक्रुः सुगन्धिसंभृतम् ।।४ १ ।।
गन्धसारैस्तथा देहं सुगन्धाढ्यं व्यधुश्च ताः ।
केशान् प्रसाधयामासुस्तैलसारेण गन्धिना ।।४२।।
कबरीं च प्रचक्रुस्ताः शोभनामुज्ज्वलां शुभाम् ।
धम्मिलं बन्धयामासुः स्थलपद्मस्रगन्वितम् ।।४३।।
सुकुन्दकलिकाहारयुक्तं च परितस्तथा ।
मालतीपुष्पसंयुक्तं गुम्फितं चित्रतन्तुभिः ।।४४।।
प्रान्ते रम्याऽम्बरखण्डं कौशेयं चित्रशोभितम् ।
पारिजातप्रसूनानां शेखरेण विराजितम् ।।४५ ।।
सौवर्णमणिमालाभिर्गोलायितं शुभास्पदम् ।
चन्द्रकान्तमणिं तत्र न्यधुः प्रकाशहेतवे ।।४६ ।।
सूर्यकान्तं ब्रह्मरन्ध्रस्थले न्यधुश्च तैजसम् ।
स्त्रीयोग्यं सुमुकुटं ता न्यधुश्च मस्तकोपरि ।।४७।।
मणिहारकरत्नाढ्यं सौवर्णं रंगरंगितम् ।
शेखरास्तत्र लम्बन्ते मणिमौक्तिकपुष्पजाः ।।४८ ।।
तन्तिका स्वर्णपाराणां बहुरत्नादिगुम्फिता ।
भाले ता धारयामासुः कारयामासुरेव च ।।४९ ।।
मध्ये सुचन्द्रिकाबिन्द्वीं काश्मीरेण द्रवेण ह ।
साऽक्षतां च तथा विशालके भाले च कैसरीः ।। 2.292.५० ।।
रेखा वक्रा व्यधुश्चोर्ध्वाः कोणवक्राः शुभास्तदा ।
मध्ये मध्ये चतुष्क्यां च बिन्द्वीश्चक्रुश्च कौंकुमीः ।। ५१ ।।
चाकचक्यकरं चूर्णं मनाग् विकीरितं व्यधुः ।
पुष्पहारान् निदधुश्च दानयोग्यान् हि मंगले ।। ५२।।
सौवर्णीं मौक्तिकाढ्यां च नत्थिकां सुमनोहराम् ।
धारयामासुरेवापि स्वल्पां च श्रेष्ठवालिकाम् ।।५३ ।।
चिबुकं हरिकाढ्यं च सौवर्णं प्रददुस्तथा ।
बिन्द्वीं गाले ददुश्चापि कर्णयोः कुण्डले ददुः ।।५४।।
ईरिकेऽपि च सौवर्णे हीरकादिसमन्विते ।
ददुश्च कर्णयोः पञ्चसरिके कर्णशृंखले ।। ५५।।
सूक्ष्महीरकसन्नद्धे फुल्लिके पत्रिके ददुः ।
सौवर्णीं कण्ठहठिकां मणिनद्धां ददुस्तदा ।।५६।।
कौशेयीं कुचबन्धीं च कौशेयकीं च कंचुकीम् ।
स्वर्णबुट्टालिशोभाढ्यां स्वर्णतारालिसंभृताम् ।। ५७ । ।
दिव्यहीरकरत्नादिगुम्फितां हीरग्रन्थिताम् ।
केशाऽचली निदधुश्च स्कन्धयोश्चिपिकान्विताम् । ।५५८ । ।
सौवर्णरूप्यकजन्यां शलाकां बन्धिकां ददुः ।
ओर्णीं सौवर्णताराढ्यां कार्पटिको ददुस्तथा । । ५९ । ।
रञ्जितां रक्तशोभाढ्यां कुचयोः कुंकुमं ददुः ।
शाटीं स्वर्णमयीं रम्यां सूक्ष्महीरकसंभृताम् । । 2.292.६० । ।
सूक्ष्मतारमयीं मृद्वीं धारयामासुरुत्सुकाः ।
कंसदोरकबन्धाद्यैर्बन्धयामासुरम्बरम् ।। ६१ । ।
चिप्पिटैः सूक्ष्मरूपाभिः शलाकाभिस्तथाऽऽन्तरम् ।
भुजान्तरे तथा वक्षोऽन्तरे कट्यन्तरेऽम्बरम् ।। ६२ । ।
बन्धयामासुरेवाऽपि ददुश्चान्तरघर्घरीम् ।
महतीं घर्घरीं चापि सौवर्णतारगुम्फिताम् ।। ६३ । ।
हरिकैः स्वल्पकाऽऽदर्शैर्मणिभिः खचितां शुभाम् ।
रक्तवर्णां चित्रयुक्तां प्रान्तपिशंगिनीं तथा । । ६ ४।।
कट्यां कैसरपट्ट्याढ्यां संहितहीरनाडिकाम् ।
पादयोश्च ददुः पत्त्राणिके मखमलात्मिके । । ६५ । ।
कोमले स्थलपद्माभे सौवर्णरत्नगुम्फिते ।
अंगुलीयकमेवाऽपि प्रत्यंगुलं सशृंखलम् । । ६६ । ।
पंचांगुलप्रपर्याप्तं सौवर्णं च ददुस्तदा ।
पञ्चजयोश्चोर्ध्वभागे सौवर्णीं कच्छपीं ददुः ।। ६७ । ।
ऊर्मिका अपि निदधुर्हीरकादिसमन्विताः ।
पद्मकं हस्तके चापि नुपूरे पत्प्रकोष्ठयोः ।। ६८ । ।
सौवर्णे सिंहशोभाढ्ये किंकिणीजालनादिते ।
काम्बिके च तथा कटकिके माणिक्यसंयुते । । ६९ । ।
मञ्जीरके च सौवर्णे ददुः प्रकोष्ठयोः श्रियाः ।
रशनां चापि सौवर्णीं कट्यां ददुः समौक्तिकीम् । । 2.292.७० । ।
कटके हीरकनद्धे व्यंगिडिकाः सुवर्णजाः ।
रत्नहीरकसन्नद्धाः शृंगले तु प्रकोष्ठयोः ।।७ १ । ।
पद्मकाढ्ये कंकणे च वलयानि ददुस्तथा ।
भुजबन्धौ कानकौ च मंगले दलके ददुः ।।७२ ।।
सौवर्णे शुभकटके ददुश्च शृंखलेऽपि च ।
स्वस्तिकं कानकं चापि चन्द्रकं भुजयोर्ददुः । । ७३ ।।
कण्ठे हेममयान् हारान् रत्नहीरकशोभितान् ।
मुद्गमालां यवमालां जम्बूमालां ददुस्तथा । ।७४ ।।
प्लक्षपत्रं कानकं च कण्ठीं मौक्तिकमालिकाम् ।
सप्तशृंखलिकाहारं सूक्ष्मपत्रीं शुभां न्यधुः ।।७५ ।।
चतुष्किकादलीं मालां बद्रीमालां च माषिकाम् ।
हीरकैः संभृतां श्रेष्ठां कोटिमूल्यां च तैजसीम् ।।७६ । ।
सर्वशोभाकरीं नेत्रचौरीं पट्टिककञ्चुकीम् ।
धारयामासुरेवाऽपि नक्तकं करयोर्ददुः ।।७७ ।।
इति शृंगारिता कन्या लक्ष्मीर्लक्ष्मीसखीजनैः ।
सर्वाः कन्याः कोटिशोऽपि शृंगारितास्तदाऽभवन् ।।७८।।
उद्वहिष्यति नः कृष्णो सुयोगे कृष्णयोरिति ।
अथ वाद्यान्यवाद्यन्त सर्वाणि वसुयात्रिणाम् ।।७९।।
आप्ते शुभे क्षणे श्रेष्ठे नक्षत्रे मंगलावहे ।
सर्वसौभाग्यदे योगे माहेन्द्रे सम्पदां प्रदे ।।2.292.८० ।।
महानन्दप्रदे श्रेष्ठोदये सिद्धिसमन्विते ।
लग्नेशान्वितसंल्लग्ने प्रोद्वाहोचितशोभने ।।८ १ ।।
सद्ग्रहाणां दृष्टिशुद्धे चाऽसतां दृष्टिवर्जिते ।
चन्द्रताराशुद्धियुक्ते वेधदोषादिवर्जिते ।।८२।।
शलाकादिकहीने च सदा सुखप्रदे क्षणे ।
दम्पत्योः सुखयोग्ये च समये बालकृष्णकः ।।८३ ।।
आययौ शिवदेवस्य कैलासमाडपाऽङ्गणम् ।
बृहस्पतिना विप्रैश्चर्षिभिर्निश्यर्थितो हरिः । ।८४ ।।
लोमशाद्यैश्च सहितो ज्ञातिभिर्बान्धवैः सह ।
पित्रा मात्रा नृपैः सार्धं सम्बन्धिभिः सुहृज्जनैः ।।८५ ।।
सुरैश्च पितृभिः सार्धं साधुभिर्यतिभिः सह ।
पार्षदैश्चेश्वरैर्मुक्तैर्भट्टैश्चापि पुरोहितैः ।।८६ ।।
सृष्टिपालैः समस्तैश्च वेदीमण्डपमाययौ ।
रंभास्तम्भसहस्रैश्च स्वर्णपट्टविभूषितैः ।।८७।।
चम्पकाऽशोकचूतानां चन्दनानां च तोरणैः ।
सर्वरूपाढ्यपुष्पाणां मालाभिः सुपरिष्कृतम् ।।८८ ।।
मंगलस्वर्णकलशैः फलपल्लवशोभितैः ।
कस्तूरिकाऽक्षतैर्लाजादूर्वाकुंकुमपूजितैः ।।८९ । ।
पुष्पैः पर्णैश्चन्दनैश्च रत्नैर्वस्त्रैः समन्वितैः ।
परितो भ्राजमानैश्च मण्डितं सुमनोहरम् ।। 2.292.९० ।।
शंभोर्वै पक्षगैः सर्वैर्महीमानैश्च वेष्टितम् ।
पार्षदैश्चाऽवतारैश्च संकर्षणपुरोगमैः ।। ९१ ।।
ईश्वरैर्दैवताभिश्चर्षिभिर्नृपैर्दिगीश्वरैः ।
कैलासवासिभिश्चापि सृष्टित्रयनिवासिभिः ।। ९२।।
पुरोहितैर्ब्राह्मणैश्च यतिभिश्चाऽवधूतकैः ।
गणैश्च योगिनीभिश्च कन्यापितृभिरित्यपि ।। ९३ ।।
रत्नेन्द्रसारनिर्माणवेदीयुक्तं शुभास्पदम् ।
रंगैश्चान्दनचूर्णैश्च कस्तूरीकुंकुमादिभिः ।। ९४ ।।
सुगन्धिसारकैश्चापि सुगन्धितं सुरंगितम् ।
नानामणिप्रभाव्याप्तं धूपसुगन्धवासितम् ।।९५।।
चित्रशोभान्वितं रम्यं गान्धर्वीगीतिकायुतम् ।
संगीतनादितं विद्याधरीनृत्यसुशोभितम् ।।९६।।
परितो युवतीभिश्च वीक्षितं मंगलायनम् ।
मांगलिकं घटं धृत्वा गुरुणा च पुरोधसा ।।९७।।
शोभितं कल्पवल्ल्यादिराजितं दानमण्डपम् ।
कुशहस्तेन भूपेन दानार्थं चोपतिष्ठता ।।९८।।
दानवस्तुसहितेन शोभितं यज्ञमण्डपम् ।
समन्तादूर्ध्वभागेषु कोट्यब्जकन्यकादिभिः ।।९९।।
प्रोद्वाह्याभिर्भूषिताभिः पित्रादिकयुतादिभिः ।
कृताधिवासं रम्यं तं मण्डपं बालकृष्णकः ।। 2.292.१० ०।।
मुख्यद्वारं त्वाजगाम पूजितो वर्धितो द्विजैः ।
शिवेश्वरस्तत्र चाग्रे पूजनार्थं समाययौ ।। १०१ ।।
बालकृष्णो हि भगवान् समयं प्राप्य सत्वरम् ।
सर्वा आज्ञापयामास कान्ता याः स्वस्य तास्तदा ।। १ ०२।।
मयाऽर्पितानि वस्त्राणि भूषाः शृंगारकाणि च ।
सर्वाण्युद्वाहयोग्यानि धृत्वाऽऽयान्तु सुमण्डपे ।। १०३ ।।
उद्वाहो भवतीनां वै कार्यो मया श्रिया सह ।
श्रुत्वा सर्वाः सज्जीभूयाऽऽययुर्वृध्याऽपि मण्डपे ।। १ ०४।।
स्वस्वपित्रादिसहिता दानार्थं समुपस्थिताः ।
शिवस्वामिकृते नैजकन्यार्थं तु विधौ तदा ।। १ ०५।।
सर्वासां विधिरेवास्मिन् विधौ तत्राऽप्यवर्तत ।
शृण्वाश्चर्यं राधिके कोट्यर्बुदाब्जाधियोषिताम् ।। १ ०६।।
कृते कृष्णो यच्चमत्कारादि तत्र व्यदर्शयत् ।
शिवेश्वरः कर्मकाण्डं प्रावर्तयद्धि सर्वतः ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य गोपुरे पूजनं दर्शनं, तदग्रे नर्तनं चास्फोटनं, विश्रान्तिमन्दिरे विश्रमणं मधुपर्कदानं, सर्वकन्यकानां
लक्ष्म्याश्च शृंगारः, देवस्य तुदानमण्डपमुख्यद्वारं प्रत्यागमनमित्यादिनिरूपणनामा द्वानवत्यधिकद्विशततमोऽध्यायः ।। २९२ ।।