लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २९५

← अध्यायः २९४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २९५
[[लेखकः :|]]
अध्यायः २९६ →

श्रोराधिकोवाच-
कति कन्यास्तदा कान्ताः प्रसंख्याता रतिगृहे ।
या वै पूर्वं सुलब्धाश्च ततो लब्धाश्च वै कति ।। १ ।।
श्रीकृष्ण उवाच--
राधिके निजपित्राद्यैरर्पिता यास्तु कन्यकाः ।
तास्तु कान्ताश्चतुष्कोट्यश्चतुर्लक्षाणि वै तथा ।। २ ।।
पञ्चपञ्चाशदपि च सहस्राणि तथाऽधिकाः ।
षट् शतानि द्वाविंशतिर्नूत्नकन्या निजीकृताः ।। ३ ।।
अथाऽन्याः कन्यकाः कौबेर्याद्याः सृष्टित्रयाऽऽगताः ।
अर्बुदं ताः स्वागता वै तथाऽब्जं सूक्ष्मवर्तिकाः ।। ४ ।।
राधिके सख्य एवैता बालकृष्णस्य मन्दिरे ।
अनादिश्रीकृष्णनारायणस्य शयनेऽभवन् ।। ५ ।।
कोट्यर्बुदाऽब्जास्ताः सर्वाः कान्ता वै रतिमन्दिरे ।
कोट्यर्बुदाब्जशय्यासु चासन् तावद्वरान्विताः ।। ६ ।।
अथ प्रातस्ततो जाते पञ्चम्यां श्रीहरिस्तदा ।
मंगलैर्गीतिकाभिश्च सुवाद्यानां निनादनैः ।। ७ ।।
भाटचारणबन्दीनां यशोगानैर्द्विजेरितैः ।
वेदस्तोत्रस्वराद्यैश्च वेत्रधारप्रशंसनैः ।। ८ ।।
जजागार प्रभुश्चापि प्रभ्व्यः सर्वा जजागरुः ।
कृतस्नानाह्निकः कृतशृंगारो बालकृष्णकाः ।। ९ ।।
कृतशृंगारशोभाभिः कान्ताभिः सहितः प्रगे ।
वृद्धान्पूज्यान्गुरून्श्रेष्ठान्सतीः साध्वीः प्रपूज्य च ।। 2.295.१० ।।
वृद्धाशीर्वादमादाय कोटिस्त्रीनरशोभितः ।
सज्जोऽभवन्नगर्यां हि भ्रमणार्थं सयात्रिकः ।। ११ ।।
योगयात्री तदा वृद्धनिदेशेन यथायथम् ।
सज्जा कृता सशोभा च फुल्लेकार्था सुशोभना ।। १ २।।
गजशोभं विमानं स्वं चाधिरुरोह सद्धवः ।
विशालं बहुशोभं च विश्वकर्त्रा तदा कृतम् ।। १३ ।।
मार्गयोग्याऽऽयतं चापि दैर्घ्ये तु बहुयोजनम् ।
कोट्यर्बुदाब्जसंख्यस्वनवोढाभिः सुसेवितः ।। १४।।
व्यराजत विमाने भूस्पर्शे तस्मिन् परेश्वरः ।
कैलासाख्यशिवमुक्तप्रेरितं नवसंस्थकम् ।। १५।।
रंगगुलालकाश्मीरकस्तूरीगन्धशोभितम् ।
पुष्पाहारावलिराजत्सर्ववर्तुलसुन्दरम् ।। १६।।
स्वर्णसिंहासनाऽसंख्ययुतं दृश्यं मनोहरम् ।
पुष्पप्रक्षेपणद्रोणीक्लृप्तं गुलालकोशवत् ।। १७।।
महीमानाग्रणीभिश्च नरैरग्रे प्रवासितम् ।
महीमानाग्रणीस्त्रीभिः पृष्ठे गीत्यभिघोषितम् ।। १८।।
तथा वै दम्पतीसम्बन्धिभिः पित्रादिभिर्युतम् ।
सर्वाग्रे सर्ववाद्यैश्च निनादितं सुमानितम् ।। १९।।
विमानं श्रीशंकरस्य गृहांगणे प्रपूजितम् ।
फुल्लगुलालप्रसृतिक्षेपकृद्दम्पतीश्रितम् ।।2.295.२० ।।
शनैश्चाऽग्रेऽप्रसरद्वै महानन्दप्रदर्शकम् ।
वाहिनी सा शिवप्रासादकादग्रे ससार ह ।।२ १ ।।
वर्धयन्ति युगलानि प्रजाजनाः फलादिभिः ।
द्रव्यैर्हारैर्हस्तदानैः पुष्पैः शुभाशिषा तदा ।।२२।।
गिरिजानगरं सर्वं भ्रमित्वा फुल्लयात्रिका ।
सर्वपूजां समगृह्य वर्धयिनीं प्रजाकृताम् ।।२३।।
काशीपत्तनमेवाऽपि समस्तं सान्तमित्यथ ।
भ्रमित्वा कुलदेव्याश्च दुर्गाया दर्शनं तथा ।।२४।।
हनूमतो दर्शनं च विश्वेश्वरस्य दर्शनम् ।
अन्नपूर्णादर्शनं च गणेशस्यापि दर्शनम् ।।२५।।
पञ्चगंगातटे धर्मदेवस्यापि च दर्शनम् ।
पूजनं च धनैर्दानैः पुष्पपत्रफलादिभिः ।।२६ ।।
कृत्वा सर्वत्र च ततो बिन्दुमाधवमाययौ ।
तत्र श्रीमाधवं प्रार्च्य दत्वा दानानि दक्षिणाः ।।२७।।
विमानं पावनीगंगाजलोपरि ह्यपासरत् ।
योगग्रन्थियताः कान्ताः कान्तश्चापि नदीजलम् ।।२८।।
आचमनं प्रगृह्यैव प्रपूज्य तीर्थमुत्तमम् ।
क्षमाप्य श्रीमतीं गंगां दीपदानं प्रदाय च ।।२९।।
मुखे प्रददुर्दानं बहुस्वर्णं समन्त्रकम् ।
सद्गुरुर्लोमशस्तत्र योगग्रन्थीन् व्यमोचयत् ।। 2.295.३०।।
ततो नगरमध्ये च विमानेन पुनः प्रभुः ।
महाराजपथेनापि निर्गतो वाद्यनादकैः ।।३ १।।
नरा नार्यश्च वै द्रष्टुं सत्वराः सर्वतः स्थिताः ।
दृष्ट्वा दृष्ट्वा कान्तकान्ताः कान्तं योग्यं सुसुन्दरम् ।।३२।।
प्रशशंसुर्हि बहुधा दम्पतीसुखमुत्तमम् ।
ऊचुः परस्परं तत्र मुग्धाः कृष्णनरायणे ।।३३ ।।
अयमेव चैति भगवान् कृपानिधिः,
सखि नः कदा स च मिलिष्यति प्रभुः ।
बहुकन्यकाभिरिह लब्ध ईश्वरः,
कृपयैव नैव निजपुण्यसंग्रहात् ।।३४।।
इह मानवं हि वपुराऽऽप्य दुर्लभं,
सखि चेन्न कृष्णभगवान्निषेव्यते ।
भवबन्धनानि च तदा न यान्ति शं,
निजनेत्रकैः प्रभुरयं विलोक्यताम् ।।३५।।
परमाऽक्षरेऽनिशमनन्तपार्षदैः,
सुखदाभिरीश्वरसतीभिरर्चितः ।
भुवनान्तरेष्वपि च कन्यकार्चितः,
सुखदः समागत इह प्रसेच्यताम् ।।३६।।
बहुकोटिरूपधरशक्तिको ह्ययं,
निखिलाभिकामरसपूरको ह्ययम् ।
हृदये स्थितोऽपि निजनेत्रगोचरो,
भवतीह तं पतितया प्रगृह्यताम् ।।३७।।
श्रुतयः पुराऽस्य यशसां प्रगायनै-
रथ कन्यकातनुधरा ह्यसेवयन् ।
सुरपत्निकाश्च नृपकन्यकादिकाः सह,
यानगा हरिवतीर्विपश्यत ।।३८।।
ननु पुण्यनाणकधनैः सुगम्यकं,
वयमत्र तादृशधनेन वर्जिताः ।
नहि लब्धवत्य इह यः परेऽक्षरे,
भजनेन चापि च लयेऽपि चेष्यते ।।३९।।
सखि कान्तकोटिरिह भुज्यते यथा,
निजकर्मणाऽपि च हरिर्न लभ्यते ।
यदि लभ्यतेऽपि नहि भुज्यते त्विह,
स्वजनुस्तदाऽपि विफलं विलोक्यते ।।2.295.४०।।
विजयन्तु तस्य सुममालिकायुता,
बहुवत्सराणि च सुखाब्धिमग्निकाः ।
शतकोटिकामवररूपशोभनं,
सुखयन्तु चापि लभन्तु सत्सुखम् ।।४१।।
अपि नः स्पृहाऽस्य मुखपंकजे सखि,
ह्यतिजायते किमिह लब्धिसाधनम् ।
इयमर्थनाऽस्ति हृदयस्थितो भवान्,
प्रददातु तत्र नवसंगमं हि नः ।।४२।।
अयि वध्व! ईश्वरकृताऽभिवन्दनाः,
प्रणिभालयन्तु निजदासिका हि नः ।
समये क्वचिन्निजपतिं रतिस्थले,
स्मरणं दधत्विति हि नोऽर्थनाऽस्ति वै ।।४३।।।
राधिके चेति ताः स्तुत्वा नत्वा धृत्वा हरिं हृदि ।
पुष्पाद्यैर्वर्धयामासुः कृष्णं नारायणं प्रभुम् ।।४४।।
शृणु राधे परब्रह्म विलोक्य वारयोषितः ।
सहस्रशः पुपूजुश्च वर्धयामासुरुत्सुकाः ।।४५।।
मुमुहुश्चाऽक्षताः कन्यास्तिस्रः चतुःशतं तथा ।
मात्राज्ञया तदा ताश्च मार्गे मार्गे वरं प्रभुम् ।।४६।।
प्रपूज्य पुष्पमालाश्च कण्ठे प्रभोस्तु वै न्यधुः ।
अर्पितास्ताश्च मातृभिर्विमानमध्यरोहयन् ।।४७।।
कृष्णपत्न्यश्च ता जाता गान्धर्व्यः सेविकाः सदा ।
एवं राधेऽनादिकृष्णनारायणस्य पत्निकाः ।।४८।।
चतुःकोट्यश्चतुर्लक्षाण्यपि चापि ततोऽधिकाः ।
षटपञ्चाशत्सहस्राण्यभवँश्च पूर्वबृंहिताः ।४०४,५६००० ।।४९।।
कोट्यर्बुदाऽब्जसंख्याश्च तदन्याश्च निजीकृताः ।
ता एताः सह मोदन्ते समरूपैः समस्तकैः ।
( कोटयः, अर्बुदानि, अब्जानि च) ।।2.295.५० ।।
अनादिश्रीकृष्णनारायणैः श्रीबालकृष्णकैः ।
त्रेतायां फुल्लयात्रीया वाहिनी च ततः परम् ।।।५१।।
शिवस्वामिपुरं याता निजावासमनुत्तमम् ।
फुल्लयात्रापरिहारस्ततो जातः शुभावहः ।।५२।।
शिवेश्वरादयो याता निजावासं समुत्सुकाः ।
श्रीकृष्णाद्यास्ततो याताः पार्वतीपत्तनं शुभम् ।।५३।।
भोजनानि ततः सर्वान् महीमानान् हि शंकरः ।
कारयामास विधिना बहुमिष्टान्नकानि वै ।।५४।।
पायसानि विविधानि ओदनान्युत्तमान्यपि ।
शाकानि द्विदलाश्चापि भक्ष्यभोज्यानि यानि च ।।५५।।
लेह्यचोष्याणि सर्वाणि मिष्टपानानि यानि च ।
अमृतान्यपि सर्वाणि भोजयामास शंकरः ।।५६।।
महीमानान् समस्तांश्च दम्पतीपक्षकानथ ।
ग्रामप्रजा दीनभिक्षून् भोजयामास शंकरः ।।५७।।
सर्वसेवकवर्गाश्च तथा नाट्यादिवर्गकान् ।
सर्वान् स्तावकवर्गांश्च वादकान् वै समस्तकान् ।।५८।।
वाहकाँश्च समस्ताँश्च रक्षकान् गायकाँस्तथा ।
कर्मचारान् यतीन् साधूँश्चातिथीन् प्रसमागतान् ।।५९।।
विप्रान् सर्वान् गुरून् सर्वान् ब्रह्मप्रियाः प्रभुं तथा ।
कृष्णस्य पितरं भ्रातॄन् कुटुम्बं च समस्तकम् ।।2.295.६०।।
भोजयामास शिवराड जलपानानि संददौ ।
पातालवासिनः सर्वान् सर्वान् पृथिवीवासिनः ।।६ १।।
स्वर्गादिवासिनः सर्वान् सर्वानैश्वरवासिनः ।
भोजयामास बहुधा सर्वानक्षरवासिनः ।।६२।।
मुनीन् साधून् सतीः साध्वीर्ब्रह्मचर्यधृतास्तथा ।
त्यागिवर्गान् योगिवर्गान् भोजयामास चेश्वरान् ।।६३!।
अपि कीटपतंगादीन् पशून् पक्षिगणाँस्तथा ।
स्वेदजान् जलजाँश्चापि भूजान् स्थावरजंगमान् ।।६४।।।
तीर्थानि पर्वताँश्चापि नदीनदाँश्च सागरान् ।
कल्पलतादिकान् सर्वान् देवान् चैत्यान् समस्तकान् ।।६५।।
भूतप्रेतपिशाचादीन् गान्धर्वान् किन्नराँस्तथा ।
चारणान् काशिकावासान् भोजयामास शंकरः ।।६६।।
जलपानान्यदाच्चापि ताम्बूलकानि सन्ददौ ।
दक्षिणा भूयसीश्चापि स्वर्णरूप्यसुमौक्तिकीः ।।६७।।
सौवर्णमुद्रिकाश्चापि भूषाम्बराणि मालिकाः ।
ददौ तदा शिवस्तत्र कोटिकोट्यर्बुदात्मिकाः ।।६८।।
यौतकं प्रददौ पश्चात् कोटिसौवर्णमुद्रिकाः ।
कल्पपेटीं कल्पपात्रं चाक्षयां स्थालिकां तथा ।।६९।।
अव्ययं कोशमेवापि चाऽविघ्नं छत्रकं तथा ।
सर्वरसां पात्रिकां च सर्वगन्धां सुवल्लिकाम् ।।2.295.७०।।
सर्वरूपां पुत्तलीं च स्थिरयौवनिकां गुटीम् ।
चामरं व्योमगतिदं कवचं कालवारकम् ।।७१ ।।
शय्यां चाऽऽनन्दनिधिकां पारशं च मणिं तथा ।
चिन्तामणिं ददौ चापि बालकृष्णाय वै तदा ।।७२।।
काशीराजो ददौ चापि विमानं सूर्यवर्चुलम् ।
हस्तिशतं सहस्राश्वान् कामधेनुसहस्रकम् ।।७३ ।।
लक्षकं वृषभाणां च श्यामकर्णाऽश्वलक्षकम् ।
दासीनां च सहस्रं वै रत्नसिंहासनं तथा ।।७४।।
मृत्युभक्षां महायष्टिं रोगघ्नीं वेत्रिकां तथा ।
आजनाभाश्च राजानो प्रददुर्यौतकान्यपि ।।७५।।
आजनाभ्यः प्रजाश्चापि यौतकानि तथा ददुः ।
कन्यानां पितरश्चापि भ्रातरश्चापि मातरः ।।७६।।
कन्याधनं ददुश्चापि भूषाम्बरादि शोभनम् ।
रत्नहीरकमाल्यानि हारान् मणिकृताँस्तथा ।।७७।।
सौवर्णराजतरत्नपात्राणि मौक्तिकानि च ।
विमानानि सुयानानि शय्याः पर्यंकशोभिताः ।।७८।।
मुक्तास्तथेश्वराश्चाप्यवतारा ईश्वरीगणाः ।
देवाश्च पितरश्चापि महर्षयश्च मानवाः ।।७९।।
सर्वे ददुर्यौतकानि यथायोग्यानि सर्वथा ।
यौतकस्य परिहारे कृतो ततो हरिः स्वयम् ।।2.295.८०।।
ददौ यथार्हपात्रेभ्यः सौवर्णं पारितोषिकम् ।
दासेभ्यो भृत्यवर्गेभ्यः सेवकेभ्योऽयुताऽयुतम् ।।८ १ ।।
सौवर्णानां ददौ चापि कर्मचारिभ्य इत्यपि ।
गायकेभ्यो नापितेभ्यः सवाहकेभ्य इत्यपि ।।८२।।
देहमर्दकलोकेभ्यः सेविकाभ्यस्तथा ह्यपि ।
मार्जिकाभ्यः क्षालिकाभ्यो मञ्जिकाभ्यो ददौ धनम् ।।८३।।
नर्तकीभ्यो वादिनीभ्यो गायिकाभ्यो ददौ धनम् ।
भाटचारणबन्दीभ्यो विद्याध्रेभ्यो ददौ धनम् ।।८४।।
गान्धर्वेभ्यस्तथा शिल्पिचित्रकेभ्यो ददौ धनम् ।
यानिभ्यो मार्गदर्शिभ्यो जयिभ्यः प्रददौ धनम् ।।८५।।
जलिभ्यः पवनिभ्यश्च शमनिभ्यो ददौ धनम् ।
शाकटिभ्यो विमानिभ्यो रथिभ्यः प्रददौ धनम् ।।८६।।
पताकिभ्यो वादकेभ्यो यन्त्रिभ्यः प्रददौ धनम् ।
रक्षिभ्यः सहयायिभ्यो भिक्षुकेभ्यो ददौ धनम् ।।८७।।
कन्यकाभ्यः कुमारेभ्यः सतीभ्यः प्रददौ धनम् ।
नालिनीभ्यः शोधिनीभ्यस्तालिनीभ्यो ददौ धनम् ।।८८।।
वंशिनीभ्यो द्विजेभ्यश्च तैर्थिकेभ्यो ददौ धनम् ।
दर्शकेभ्यो लम्बहस्तकेभ्यश्चापि ददौ धनम् ।।८९।।
मनसा वाञ्च्छकेभ्योऽपि ददौ कृष्णनरायणः ।
राजानश्च ददुः स्वर्णं रूप्यकं मुद्रिकास्तथा ।।2.295.९० ।।
पात्राम्बराणि च तथा पारितोषात्मकं धनम् ।
सीवकेभ्यश्च मालिभ्यः कार्दमिभ्यो ददुर्धनम् ।।९ १।।
गन्धसारिभ्य एवापि पत्रिभ्यश्च ददुर्धनम् ।
कैलासाय मण्डपाय मूर्तिमते हरिः स्वयम् ।।९२।।
कोट्यर्बुदाब्जमूल्याँश्च सौवर्णमुकुटान् ददौ ।
गणेभ्यश्चापि सर्वेभ्यः सौवर्णं पारितोषिकम् ।।९३।।
अनादिश्रीबालकृष्णो ददौ चान्येभ्य इत्यपि ।
भगिनीपुत्रकेभ्यश्च पुत्रीभ्यः पारितोषिकम् ।।९४।।
भूषाम्बरादिकं तत्र ददौ सौवर्णमुत्तमम् ।
विश्वकार्याय देवाय ददौ श्रीबालकृष्णकः ।।९५।
कण्ठहारं च सौवर्णं कोटिहीरकगुम्फितम् ।
स्वर्णमणिकृतं चापि मुकुटं शोभनं तदा ।।९६।
शिवेश्वराय भगवान् परमेश्वरभाववान् ।
ददौ सिंहासनं दिव्यं चाऽविकुण्ठं जगत्त्रये ।।९७।
शिवेश्वरोऽपि च ददौ सर्वस्वं परमात्मने।
बृहस्पतये सर्वस्वं हरिस्तदा तु सन्ददौ ।।९८।।
इत्येवं प्रददुस्तत्र पारितोषं यथार्थकम् ।
ततः स्वल्पां प्राप्तवन्तो विश्रान्तिं मध्यसूर्यके ।।९९।।
अथ तीर्थे स्नानवाञ्च्छा कृतवान् भगवान् पुनः ।
सर्वस्त्रीभिर्महीमानैः सह गंगां ययौ पुनः ।। 2.295.१० ०।।
तीर्थविधिं चकाराऽथ दानानि विविधानि वै ।
प्रायश्चित्तानि कृत्वैव ददौ सस्नौ पुनः पुनः ।। १०१ ।।
सर्वाः कान्ता प्रसस्नुश्च ददुर्दानानि भूरिशः ।
शंभुस्तत्र विप्रवेषः समाययौ हि भिक्षुकः ।। १ ०२।।
भिक्षां ययाचे भगवान् प्रददौ स्वर्णलक्षकम् ।
पुनर्ययाचे च ततो ददौ तुलसीमालिकाम् ।। १ ०३।।
पुनर्ययाचे च ततो ददौ मूर्तिं निजां हरिः ।
कानकीं सर्वरूपाढ्यां स्वस्तीत्युवाच शंकरः ।। १ ०४।।
पुनर्ययाचे वचनं हरिः प्राह वदाऽत्र मे ।
शंभुर्ययाचे गंगायां वासं तीर्थार्थमेव ह ।। १ ०५।।
वरणायां तथाऽऽवासं ययाचे परमात्मनः ।
हरिस्तथास्त्विति प्राह पञ्चगंगाजले तटे ।। १ ०६।।
बालकृष्णं महातीर्थं कृत्वोवास ततो हरिः ।
अदृश्यदिव्यरूपेण सर्वदाऽन्येन वर्तते ।। १ ०७।।
मार्गशीर्षे शुक्लपक्षे चतुर्थ्यां पञ्चमीदिने ।
प्रतिवर्षं समायाति ब्रह्मप्रियासमन्वितः ।। १ ०८।।
अनादिश्रीकृष्णनारायणः श्रीकृष्णचन्द्रकः ।
तदा स्नानात्तथा दानान्मोक्षात्मकं फलं ध्रुवम् ।। १०९।।
अथ स्नात्वा सकान्तः श्रीहरिः शिवपुरं ययौ ।
दुग्धपानादिकं कृत्वा लेभे विश्रान्तिमच्युतः ।। 2.295.११ ०।। इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कान्तानां संख्या, पञ्चम्यां प्रातः ल्लकयात्राभ्रमण, गंगायां ग्रन्थिमोचनम्, मध्याह्नभोजनम्, शिवपुरे चागत्य विश्रान्तिः, पारितोषिकाद्यर्पणम्, गंगायां पुनस्तीर्थस्नानं, बालकृष्णतीर्थं, पंचगंगायां ग्रन्थितीर्थम्, शंकराय भिक्षादानं चेत्यादिनिरूपणनामा पञ्चनवत्यधिकद्विशततमोऽध्यायः ।। २९५ ।।