लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ००२

← अध्यायः १ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →

श्रीनारायणीश्रीरुवाच-
वेधसोऽस्य हरेकृष्ण पुरुषोत्तम मत्पते! ।
द्वापञ्चाशद्वत्सराणां नामानि वेत्तुमेव मे ।। १ ।।
इच्छा प्रजायते तस्माद् वद श्रीपुरुषोत्तम! ।
मनूनां चापि च चतुर्दशानां नाममात्रकम् ।। २ ।।
वेत्तुमिच्छामि भगवन् कल्पे वाराहके त्वहम् ।
एकपञ्चाशत्तमेऽब्दे ये कल्पाश्चान्ततो गताः ।। ३ ।।
तानपि वेत्तुमिच्छामि तव प्राकट्ययोगिनः ।
संक्षेपाद् वद मे कान्त! यदि भारो न विद्यते ।। ४ ।।
श्रीपुरुषोत्तम उवाच-
ब्रह्मणोऽस्य वत्सरस्तु प्रथमः पद्मवत्सरः ।
नालक्रमो द्वितीयश्च नालोर्ध्वगस्तृतीयकः ।। ५ ।।
तुर्यं स्तावनवर्षं च व्योमवाणं तु पञ्चमम् ।
षष्ठं तपोवप्सरं च सप्तमं यमवत्सरम् ।। ६ ।।
नियमं चाष्टमं चापि वर्षं नवममासनम् ।
दशमं प्राणरोधाख्यं चैकादशं प्रतिहृतिः ।। ७ ।।
द्वादशं धारणं वर्षं ध्यानवर्षं त्रयोदशम् ।
चतुर्दशं तु मननं पञ्चदशं समाधिकम् ।। ८ ।।
षोडशं प्रज्ञातवर्षं ब्रह्मणः परिकीर्तितम् ।
अप्रज्ञातं सप्तदशं चाष्टादशं तु लीनता ।। ९ ।।
नवदशं वत्सरं तु साक्षात्काराभिधं ततः ।
विंशतितमवर्षं च सृष्टिभानाभिधं ततः ।। 3.2.१० ।।
एकविंशतितमं वै वेदवत्सरसंज्ञकम् ।
रुद्रवत्सरनाम्ना च द्वाविंशो वत्सरस्ततः ।। ११ ।।
सनातनस्त्रयोविंशश्चतुर्विंशस्तथाऽऽर्षकः ।
धर्मवर्षं पञ्चविंशं षड्विंशोऽनङ्गवत्सरः ।। १ २।।
सप्तविंशोऽधर्मसंज्ञोऽष्टाविंशोऽनलवत्सरः ।
नवविंशं पितृवर्षं त्रिंशस्तु देववत्सरः ।। १३ ।।
एकत्रिंशं मानवाख्यं द्वात्रिंशं कल्पपादपम् ।
त्रयस्त्रिंशं सस्यसंज्ञं चतुस्त्रिंशं तु पाशवम् ।। १४।।
पञ्चत्रिंशं याक्षवर्षं षड्विंशं राक्षसाभिघम् ।
सप्तत्रिंशं चाण्डजाख्यमष्टात्रिंशं तु घर्मजम् ।। १ ५।।
नवत्रिंशं नागवर्षं चत्वारिंशं तु यादसम् ।
अध्वराख्यश्चैकचत्वारिंशो वै वत्सरस्ततः ।। १६ ।।
हिरण्यवत्सरं द्वाचत्वारिशं च ततः परम् ।
राजतं त्रिचत्वारिंशं कापालकं ततः परम् ।। १ ७।।
अप्सरोवत्सरं पञ्चचत्वारिंशं ततोऽभवत् ।
ब्रह्मसरोवत्सरं च स्वर्धूनीवत्सरं ततः ।। १८ ।।
अर्चिमार्गाऽभिधमष्टचत्वारिंशं च वत्सरम् ।
अब्धिमन्थं ततो वर्षं नारदाख्यं च वत्सरम् ।। १९ ।।
एकपञ्चाशत्तम सोमनाथवत्सरं ततः ।
द्विपञ्चाशत्तमं वर्षं वैष्णवाख्यं भविष्यति ।। 3.2.२० ।।
गायत्रीवत्सरं त्रिपञ्चाशत्तमं प्रवर्त्स्यते ।
एकपञ्चाशत्तमेऽयं वाराहो नाम कल्पकः ।। २१ ।।
मया वाराहरूपेण क्षितिर्जलात् समुद्धृता ।
अत्र वै मनवो भूपा भविष्यन्ति चतुर्दश ।। २२।।
स्वायंभुवो मनुः पूर्वस्ततः स्वारोचिषो मनुः ।
उत्तमश्च तामसश्च रैवतश्चाक्षुषस्ततः ।।२३।।
वैवस्वतश्च सावर्णी चाष्टमो मनुरेव ह ।
नवमो दक्षसावर्णी ब्रह्मसावर्णिकस्ततः ।।२४।।
ततश्च धर्मसावर्णिः रुद्रसावर्णिकस्ततः ।
ततश्च देवसावर्णिश्चेन्द्रसावर्णिकस्ततः ।।२५।।
चतुर्दशैते मनवश्चेन्द्राश्चापि चतुर्दश ।
दिवसे सम्प्रजायन्ते रात्रौ तावान् लयो मतः ।।२६।।
कल्पे कल्पे भवाम्येव पृथिव्यां पुरुषोत्तमः ।
ते पञ्चाशत्सहस्राणि कल्पास्तु ब्रह्मणो गताः ।। २७।।
नारायणि! ह्यवतारी तावत्संख्योऽभवं क्षितौ ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।२८।।
युगे युगे त्ववतारा मे भवन्ति यथाक्रियम् ।
तेषां संख्या न चास्त्येव जानाम्यहं न चेतरे ।।२९।।
तत्र नामान्यनन्तानि भवन्ति गुणकर्मभिः ।
किन्तु कल्पे त्वेकवारं भवामि पुरुषोत्तमः ।। 3.2.३ ०।।
अनादिश्रीकृष्णनारायणोऽहं बालकृष्णकः ।
अवतारी कोटिभक्तभक्तानीपतिरीशपः ।।३ १ ।।
यत्र कल्पे समारंभे योऽवतारो भवेन्मम ।
तेन नाम्नाऽपि च मया स वै कल्पः प्रकाश्यते ।। ३२।।।
तस्मात् कल्पाभिधानानि मद्विज्ञानकृतानि वै ।
न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् ।।३३।।।
अनादित्वाद्धि कालस्य ह्यसंख्यानाच्च वेधसाम् ।
आभूतसम्प्लवो ह्येतदहोरात्रं स्मृतं ततः ।।३४।।
त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ।
आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसम्प्लवः ।।३५।।
चतुर्युगसहस्रान्ते दिवसे ब्रह्मणो गते ।
सुषुप्सुर्विश्वसृट् नैजां रात्रिं वै कुरुते ततः ।। ३६।।
ततः स वसति रात्रिं तमस्येकार्णवे जले ।
प्रातः सिसृक्षया युक्तो यथापूर्वं करोति च ।।३७।।
वत्सरारंभदिवसे ब्रह्मा यद्यत् करोति हि ।
प्रधानं कर्म तन्नाम्ना वत्सरो वापि जायते ।।३८।।
तत्पञ्चाशत्तमे वर्षे वेधसः कल्पकेष्वहम् ।
बहुवारं समुत्पन्नो नारायण्या त्वया समम् ।।३ ९।।
ब्राह्मकल्पे पाद्मकल्पे वैराजकल्पके तथा ।
श्वेतकल्पे लोहिते च कृष्णकल्पेऽभवं तथा ।।3.2.४०।।
सनत्कल्पे भवकल्पे भुवः कल्पेऽभवं तथा ।
तपःकल्पे भावकल्पे रंभकल्पे ऋतौ तथा ।।४१ ।।
ऋतुकल्पे वह्निकल्पे हव्यवाहनकेऽपि च ।
अनादिश्रीकृष्णनारायणश्चाहं तदाऽभवम् ।।४२।।
सावित्रकल्पे भुवःकल्पे चोशिककल्पके ।
कुशिके चापि गान्धारे ऋषभे षट्जकल्पके ।।४३।।
मार्जालीये मध्यमे च वैराजे कल्पकेऽपि च ।
निषादे प्राणके चापि मेघवाह्येऽभवंस्तथा ।।४४।।
चिन्तके चाऽकूतिके विज्ञातौ मानसेऽपि च ।
भावे रथन्तरे श्वेतलोहिते रक्तवाससि ।।४५।।
पीते च सितकल्पे च विश्वरूपेऽभवंस्तथा ।
तदन्येषु च कल्पेषु यथाकार्यं नरायणि! ।।४६।।
अभवंश्चाऽभवंश्चापि मेऽवतारा असंख्यकाः ।
कल्पे कल्पेऽपि बहुधा श्रीस्त्वं बह्वी प्रजायसे ।।४७।।
मम पत्नी यथा त्वद्य विवाह्या मम जायसे ।
तव नामान्यनन्तानि तेऽवतारा असंख्यकाः ।।४८।।
जानाम्यहं तु तत्सर्वं नारायणीश्रि! सर्वथा ।
नारायणि! त्विदं सर्वं व्याप्तं ममैव तेजसा ।।४९।।
मम लक्ष्म्या ममैश्वयैर्मद्गुणैर्मद्विभूतिभिः ।
मदंशैर्मम सामर्थ्यैर्मम सम्पत्समृद्धिभिः ।।3.2.५०।।
पतंगे चापि मत्तेजः प्रदीपेऽपि च मामकम् ।
विद्युति ग्रहनक्षत्रतारासु शशिसूर्ययोः ।।५१।।
मम तेजो हि सर्वत्र तेजस्विनो मया हि ते ।
मण्योषधिषु द्युमार्गे स्वर्गे जने तपस्यपि ।।५२।।
महर्लोके सत्यलोके मेरौ तेजो हि मामकम् ।
लोकालोके शंकरे च विष्णौ चाजे विराजके ।।५३ ।।
महाविष्णौ प्रधानेशे प्रकृतीशेऽक्षरेऽपि च ।
मुक्तेषु चापि सर्वेषु चावतारेषु सर्वथा ।।५४।।
ऐश्वर्यगुणतेजांसि ममैव सन्ति तानि वै ।
मम मूर्तेः किरणैस्ते पुष्टिं तृप्तिं विदन्ति च ।।५५।।
पुरुषोत्तममूर्तेश्च किरणानां विचित्रता ।
पुष्णाति मुक्तजातानि विभिन्नतृप्तिदानतः ।।५६।।
सदा षोडशवर्षोऽहं चैकमानोऽक्षरे परे ।
पोषयामि मुक्तजनान् महानन्दादिदानकैः ।।५७।।
मम तेजांसि सर्वाणि महानन्दमतानि वै ।
शान्तिशीतलतातृप्तिसुधाभृतानि सन्ति च ।।५८।।
तद्भोक्तारो मुक्तजना मुक्तान्यश्च त्वया सह ।
शाश्वतानन्दपूर्णास्ते नित्यतृप्ता भवन्ति हि ।।।५९।।
रोम्णां मूर्तेः किरणानि निर्यान्ति रसभृन्ति वै ।
सृष्टित्रयस्यौषधयः पुष्णन्ति तद्रसैः सदा ।।3.2.६०।।
मुक्ताश्च तद्रसैः पुष्टाः सर्वदैकप्रमाणिनः ।
एषां तेजांसि नेत्राभ्यां निर्यान्ति भास्कराणि वै ।।६१ ।।
तत्प्रभाभिः प्रपश्यन्ति सृष्टित्रयस्य देहिनः ।
दक्षनेत्रकिरणेभ्यः सूर्या भवन्ति सर्वशः ।।६२।।
वामनेत्रकिरणेभ्यश्चन्द्रा भवन्ति सर्वशः ।
मस्तकस्य च परिधेर्भवन्ति स्तनयित्नवः ।।६३।।
सृष्टित्रयस्य वै विद्युत्प्रवाहाश्च भवन्त्यपि ।
मुखमाधुर्यतेजांसि निस्सरन्त्यभितो हरेः ।।६४।।
तन्माधुर्यमधुभिश्च तृप्यन्ति मुक्तकोटयः ।
तृप्तिभृद्भिर्हि किरणैः सृष्टित्रयस्य देहिनः ।।६५।।
कपोलाभ्यां मम मूर्तेर्निर्यान्ति मोहिनीप्रभाः ।
ताभिर्मुक्तास्तथेशाद्या मुग्धा मूर्तौ भवन्ति वै ।।६६।।
ओष्ठाभ्यां चामृतभृन्ति निर्यान्ति किरणानि वै ।
तद्रसामृतपानेन तृप्यन्ति त्रिसृजिस्थिताः ।।६७।।
नेत्रप्रान्तात् प्रभवन्ति तेजांसि प्रेमभृन्ति च ।
तैश्चाकृष्टाः प्रेमभागा जायन्ते त्रिसृजिस्थिताः ।।६८।।
सुधाभृतानि दन्तेभ्यो जायन्ते किरणानि वै ।
सुधापानैः सृष्टयो वै सर्वास्तृप्यन्ति सर्वदा ।।६९।।
पीयूषाणां किरणानि भालमध्याद् भवन्ति वै ।
पीयूषपानतृप्ताश्च जायन्ते त्रिसृजिस्थिताः ।।3.2.७०।।
कर्णाभ्यां संप्रजायन्ते तारतेजःस्वरात्मकाः ।
तेजःप्रवाहास्तैः सर्वे शृण्वन्ति दिव्यकर्णकाः ।।७ १ ।।
मूर्तेरभितो जायन्ते मिष्टस्पर्शाः सुखावहाः ।
स्पार्शनैः किरणैः स्पृष्टा भुञ्जते सुखमाच्युतम् ।।७२।।
जिह्वातः किरणानीष्टमिष्टरसानि यान्ति हि ।
सर्वसृष्टिजनास्तैस्तु रस्यन्तेऽदन्ति तद्रसम्। ।।७३।।
नासिकातः किरणानि गन्धवन्ति प्रयान्ति च ।
तद्गन्धैः सर्वसृष्टिस्था जिघ्रन्ति वै सुगन्धिकम् ।।७४।।
श्रीहरेर्मे हृदयात्तु निस्सरन्त्यभितः खलु ।
शाश्वतानन्दपूर्णानि किरणानि सुखानि वै ।।७५।।
तैर्महानन्दमग्नाश्च वर्तन्ते त्रिसृजिस्थिताः ।
मम मूर्घ्नश्चिदाकाशात्मकब्रह्माख्यरन्ध्रतः ।।७६।।
प्रभवन्ति महानन्दा मिष्टा वाणी परा तथा ।
ताभ्यः सृष्टित्रयस्थाश्च व्याहरन्ति वचांसि हि ।।७७।।
मद्वाचा वाग्मिनः सर्वे मत्कृतार्थानुयोगिनः ।
मद्धस्ताभ्यां किरणानि क्रियावन्ति प्रयान्ति च ।।७८।।
तैश्च सृष्टित्रयस्था वै भवन्ति यत्नशीलिनः ।
ममोदरात् किरणानि निर्यान्ति परितस्तथा ।।७९।।
प्राणदानि च तैः सर्वे जीवन्ति त्रिसृजिस्थिताः ।
मम प्रजननाद् यान्त्यानन्दाढ्यकिरणानि वै ।।3.2.८०।।
तन्मात्रयाऽऽनन्दवन्तः सृष्टित्रयस्थदेहिनः ।
मन्मूर्तेः पादयोर्यान्ति विहारकिरणानि वै ।।८ १ ।।
तैर्भवन्ति सगतिकाः सृष्टित्रयस्य देहिनः ।
मन्मूर्तेः कटिभागाच्च प्रयान्ति किरणानि ह ।।८२।।
सबलानि च तैः सर्वे बलवन्तो भवन्ति हि ।
पृष्ठदण्डात् किरणान्याधारवन्ति प्रयान्ति च ।।८३ ।।
तेन लोकाण्डकोट्यश्चाऽऽधारस्तंभाश्रिताः सदा ।
मम पायूत्सर्जभासो यान्ति वै सृष्टिकोटिषु ।।८४।।
ताभिर्भाभिः समुत्सर्गो जननानि भवन्ति च ।
मम नितम्बभागाभ्यां किरणानि प्रयान्ति च ।।८५।।
आस्यशक्त्याऽऽसनबद्धाः सर्वे लोका भवन्ति तैः ।
ममाऽऽन्तरगता भासः प्रयान्ति सर्वसृष्टिषु ।।८६।।
ताभिर्भाभिर्मननं च बोधनं माननं तथा ।
चिन्तनं निर्णयं साक्षाद्विज्ञानं यान्ति देहिनः ।।८७।।
मम कौस्तुभकिरणैः प्रदीपाः संभवन्ति च ।
मम सौन्दर्यकिरणैः सुन्दर्यः सृष्टयस्त्विमाः ।।८८।।
मम लक्ष्म्याश्च किरणैर्गृहिण्यः सर्वसृष्टिषु ।
गृहलक्ष्म्यो भवन्त्येव सर्वसौभाग्यशोभिताः ।।८९।।
मम वात्सल्यकिरणैः स्नेहबद्धा हि सृष्टयः ।
ममोदार्यप्रभाभिश्चौदार्ययुक्ता हि सृष्टयः ।।3.2.९० ।।
ममाऽभिरूपकिरणैः सर्वं रूपान्वितं सदा ।
मम कल्पाख्यकिरणैः कामावसायितादिकाः ।।९ १ ।।
सिद्धयः सम्प्रवर्तन्ते कल्पपादपवल्लयः ।
मम धर्मप्रदरश्मिभिश्च तृप्यं सृजित्रयम् ।। ९२।।
पाकं च परिणामं च प्रयान्ति तैश्च सृष्टयः ।
मम रौद्रैश्च किरणैस्तिरोभावं प्रयान्त्यपि ।।९३।।
स्थैर्यशक्तिमयैश्चापि किरणैः सर्वमण्डलम् ।
सृष्टित्रयात्मकं स्वस्वक्रमस्थैर्ये प्रवर्तते ।।९४।।
ममाऽऽपूरककिरणैरापूर्यन्ते हि सृष्टयः ।
मम पुण्यककिरणैः पूयन्ते चेश्वरादयः ।।९५।।
मम विज्ञानकिरणैः सार्वज्ञ्यं यन्ति देहिनः ।
मम कृपाप्रभाभिश्च समुद्यन्ति हि देहिनः ।।९६।।
मम शोभाप्रभाभिश्च शोभन्ते सृष्टिनायकाः ।
मम गुप्तप्रतेजोभिर्निगूढैश्वर्ययोगिनः ।। ९७।।
मम मूर्तेर्निदिध्यासैर्मन्मयाः साधवः सदा ।
सदिति मम चाख्यास्ति तद्वन्तो ये भवन्ति वै ।। ९८ ।।
ममाऽऽत्यन्तसयुजास्ते सन्तो मन्मूर्तयः प्रियाः ।
भवत्यः काशिकाक्षेत्रे विधायाग्निं प्रदक्षिणम् ।।९९।।
मम सायुज्यमापन्नाः सत्यो मन्मूर्तयः प्रियाः ।
मामाराध्य मम योग गतास्ते मूर्तयो मम ।। 3.2.१० ०।।
मुक्ताश्चेशाः सुरा विप्राः सन्तो गावश्च कन्यकाः ।
कुमारा ब्रह्मशीलाश्च सत्यश्च मूर्तयो मम ।। १० १।।
मम मूर्तेः किरणैश्च सत्तावद्भिः सृजित्रये ।
प्रजायन्ते तु राजानो मद्योगान्मूर्तयो मम ।। १ ०२।।
इन्द्रः स्वायंभुवो ब्रह्मा वैराजस्तत्पिताऽपि च ।
तत्पितुश्च पिता चापि सर्वास्ता मम मूर्तयः ।। १०३ ।।
शची शतस्वरूपा सावित्री वैराजिका तथा ।
महालक्ष्मीः प्रधाना च प्रकृतिर्मम मूर्तयः ।। १ ०४।।
वासुदेवादयो व्यूहाः श्रीकृष्णाद्याश्च मूर्तयः ।
नारायणास्तथा सन्तः साध्व्यश्च मम मूर्तयः ।। १ ०५।।
अग्निर्विष्णुः सुवर्णं च हृदयं चेतनं गुरुः ।
युगलं तुलसी सत्यं सर्वदा मम मूर्तयः ।। १ ०६।।
वेदः सूर्यो व्यवसायो दण्डः स्नेहोऽतिथिः सुखम् ।
अर्भकश्चाश्रितोऽनाथो विद्यार्थी मम मूर्तयः ।। १ ०७।।
राजाऽऽचार्यः प्रधानश्चोपदेष्टा व्यास आर्तिहाः ।
रक्षकः पालकः स्वामी शरण्यो मम मूर्तयः ।। १ ०८।।
यज्ञः श्राद्ध पूजनं च स्वागतं मधुपर्ककम् ।
दक्षिणा हव्यकव्यादि मन्मयं मम मूर्तयः ।। १ ०९।।
कण्डनी पेषणी चुल्ली जलकुम्भी च मार्जनी ।
मदर्थं तूपयुक्तास्ताः पावन्यो मम मूर्तयः ।। 3.2.११ ०।।
शय्या यानं वाहनं च गोधनाद्यं गृहादिकम् ।
मदर्थं चोपयुक्तं चेत् सर्वं मन्मूर्तिरूपि तत् ।। १११ ।।
सर्वं मदन्वितं नारायणीश्रि! त्वं यथा मम ।
मदर्थं चेत् कृतं सर्वं मम सायुज्यदं भवेत् ।। १ १२।।
इत्येवं कथितं तेऽत्र भोजनं मूर्तिरूप्यहम् ।
सर्वेषां पृच्छ मे चान्यज्जिज्ञासितं तु ते यदि ।। ११३ ।।
पठित्वेमं तथा श्रुत्वा मद्भावं चाप्नुयात् प्रिये ।
मुक्तिं मुक्तिं लभेत् तीर्थफलं योगफलं लभेत् ।। १ १४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वापञ्चाशद्वत्सरनामानि, वर्तमानकल्पीयचतुर्दशमनुनामानि, पञ्चाशद्वर्षीयाऽन्तिमचत्वारिंशत्कल्पनामानि, पुरुषोत्तमकिरणपोष्यं सृष्टित्रयादीतिविभूतिवर्णनमित्यादिनिरूपणनामा द्वितीयोऽध्यायः ।। २ ।।