लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ००४

← अध्यायः ३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं चतुर्थं मम वर्तनम् ।
चन्द्ररक्षाकरं स्वर्गे गायतां मोक्षदं परम् ।। १ ।।
स्तावने वत्सरेऽजस्य कल्पे चतुर्थके तदा ।
द्वादशे च मनौ वर्तमानेऽसुरोऽतिदारुणः ।। २ ।।
धूम्रो नाम्नाऽभवद् रौद्रः शंभोर्मस्तकपृष्ठतः ।
समुत्पन्नो व्योमदेहोऽन्तरीक्षगो भयंकरः ।। ३ ।।
शंभोर्ललाटे भावन्तं दृष्ट्वा कान्तमयं मणिम् ।
स्पर्धां कृत्वा ययौ व्योम्नि चावाप्तुं वै निशामणिम् ।। ४ ।।
चन्द्रमसं समाहर्तुं यत्नं तदाऽकरोद् बहुम् ।
चन्द्रेण वार्यमाणः स निशितैः शस्त्रहेतिभिः ।। ५ ।।
निपपाताऽम्बरादद्रौ श्वेतशृंगाभिधे तदा ।
शंभुमुद्दिश्य च तपः शंभुपुत्रोऽकरोत्ततः ।। ६ ।।
निराहारोऽभवत्त्वेकयुगं ततो हि शंकरः ।
प्रसन्नः प्राह धूम्रं तं पुत्रं मस्तकपृष्ठजम् ।। ७ ।।
वद किं रोचते तेऽद्य कथं तपसि वर्तसे ।
वदेष्टं प्रददाम्येव मा कृथास्तप उग्रकम् ।। ८ ।।
इत्युक्तश्चाऽसुरः प्राह वरं देहि जयावहम् ।
चन्द्रं जेष्याम्ययत्नेन तथेच्छामि न चेतरत् ।। ९ ।।
तथाऽस्त्विति हरः प्राह ददौ धूम्राय शूलकम् ।
अप्रधृष्यमविनाश्यं चक्राच्चापि बलेऽधिकम् ।। 3.4.१ ०।।
तदादाय तु धूम्रः स मेर्वद्रिं प्रथमं ययौ ।
सार्वभौमजयं कर्तुं तृष्णातन्तुप्रप्रेरितः ।। ११ ।।
मेरुवासान् सुरान् जित्वा पृथ्व्यां जेतुं नृपान् ययौ ।
जित्वा भूमौ भूभृतश्च पातालान् प्रययौ ततः ।। १२।।
दैत्यान्नागान्कच्छपाँश्च मकरान्मत्स्यकाँस्तथा ।
नक्रान् जित्वा फणध्राँश्च जित्वा ययावरण्यकम् ।। १ ३।।
विद्याधराँश्च गन्धर्वान् जित्वा च किन्नराँस्ततः ।
गुह्यकान् चारणान् जित्वा ययौ संयमनीं पुरीम् ।। १४।।
यमदूताँस्तदा जित्वा युयुधे स यमेन वै ।
यमो दण्डेन कालेनाऽसुरः शूलेन वै मिथः ।। १५।।
युयुधाते तु नैकस्य पराजयोऽत्र विद्यते ।
यमेन संस्मृतो रुद्रोऽसुरेण संस्मृतो हरः ।। १६।।
हररुद्रौ समायातौ मध्यस्थौ सम्बभूवतुः ।
वारयामासतुस्तौ च ययतुः शंसितौ गृहम् ।। १७।।
अथाऽसुरो गर्वयुक्तो ययौ चेन्द्रं दिवस्पतिम् ।
इन्द्रो ज्ञात्वा महादेवदत्तं शूलमजय्यकम् ।। १८।।
उत्थाय सौम्यभावेन सत्कारं कृतवान् शुभम् ।
असुराय ददौ रम्यं हारं मण्यभिनिर्मितम् ।। १९।।
पूजयामास च शंभोः शूलं बहुविधानतः ।
असुरोऽपि विना रोषं मृदुर्भूत्वा विलोक्य तत् ।।3.4.२०।।
ययौ सूर्यं विजेतुं च सूर्यश्चास्तं द्रुतं ययौ ।
ययौ तदाऽसुरोऽजं च विजेतुं परमेष्ठिनम् ।।२१ ।।
ब्रह्मा ज्ञात्वा शांभवं तत् त्रिशूलं सम्पुपूज ह ।
मधुपर्कं ददौ चाप्यसुराय माननं ददौ ।।२२।।
धूम्रस्त्वासनमासाद्य सौवर्णं बहुशोभनम् ।
मुमुदे च मृदुर्भूत्वा नत्वाऽजं प्रययौ दिवम् ।।२३।।
चन्द्रं दृष्ट्वा पूर्णभासं ययौ तं प्रति सत्वरम् ।
सदा चन्द्रस्तत्र चासीन्नीरोगः सकलः सदा ।।२४।।
एकरूपः क्षयवृद्धिवर्जितः शाश्वतः सुखः ।
ग्रहग्रासादिहीनश्च पूर्णकलः समन्ततः ।। २५।।
तादृशं पूर्णपीयूषं गत्वा धूम्रो भयानकम् ।
शतचन्द्रायतं रूपं कृत्वा जग्राह पाणिना ।।२६।।।
स्पर्शैः सुधाऽमृतानां तु किरणानां महासुरः ।
सुखं महानन्दभृतं ह्यवापाऽपूर्वमुत्तमम् ।। २७।।
अतश्चन्द्रे जातलोभो जग्रास शशिनं मुखे ।
हाहाकारो महानासीत् स्वर्गे पृथ्व्यां समन्ततः ।। २८।।
अमृतस्य निधानं वै शीततेजोभृतं मणिम् ।
तज्ज्योत्स्नामनवाप्यैवौषधयोऽतिविजीवनाः ।। २९।।
मृतप्राया अभवँश्च देवाश्चाऽमृतवर्जिताः ।
किरणाधारजीवाश्च सर्वे मरणशालिनः ।। 3.4.३ ०।।
तदा जाताश्चाथ देवाः स्वगुरोः शरणं ययुः ।
सदस्पतिर्देवगुरुश्चाऽस्तौत् मां परमेश्वरम् ।। ३१ ।।
चन्द्रस्य रक्षणार्थाय लोकरक्षणहेतवे ।
नमो देवाधिदेवाय सूर्यचन्द्रप्रचक्षुषे ।। ३२।।
सर्वान्तर्यामिणे रक्षाकराय परमात्मने ।
पुरुषोत्तमसंज्ञाय सुधाप्रदाय शार्ङ्गिणे ।।३३।।
ग्रहनक्षत्रताराणां भास्कराय महात्मने ।
नमश्चान्तरवेद्याय चाऽभक्तक्षयकारिणे ।।३४।।
समायाहि हरे शीघ्रं रक्षां त्वं शशिनः कुरु ।
महादेवो ध्यानमग्नश्चिरकारी विराजते ।।३५।।
शीघ्रं धूम्राद् रक्ष मुक्तपते श्रीपरमेश्वर ।
स्तुतश्चैवं तदा चाहं नारायणीश्रि! सत्वरम् ।। ३६।।
त्वया साकं त्वाजगाम देवगुरोर्गृहं दिवि ।
द्रागेवाऽदृश्यरूपोऽपि तदङ्गे मानसः सुतः ।। ३७।।
समभवं सुबालोऽहं सर्वभूषणभूषितः ।
शंखचक्रगदापद्मशूलशक्तिशराऽऽयुधः ।। ३८।।
वज्रधनुर्दण्डपाशखङ्गचर्मविराजितः ।
त्वं तदा तु मयाऽऽज्ञप्ता प्रविष्टा चाऽसुरोदरे ।। ३९।।
चन्द्रमसि स्थिरा जाता चान्द्री कलाप्ररक्षिणी ।
त्वद्बलाद्वै तदा लक्ष्मि! चन्द्रो मूर्च्छां न चाप्तवान् ।।3.4.४०।।
नापि तेजोविहीनश्च नापि चामृतवर्जितः ।
नापि संपाचितो गर्भे धूम्रासुरेण वह्निना ।।४१ ।।
एवमेवाऽभवद्गर्भे यथापूर्वं तथाऽभवत् ।
अथाऽह पूजितो देवैर्देवगुर्वंकशोभितः ।।४२।।
प्रार्थितोऽसुरनाशार्थं जगामाऽहं महासुरम् ।
देवसैन्येन सहितो युयुधे चन्द्रघातिना ।। ४३।।
तदा लक्ष्मि! मयाऽऽज्ञप्ता कन्यारूपाऽभवः क्षणम् ।
असुरो धूम्रसंज्ञोऽपि त्वां विलोक्य मुमोह च ।।४४।।
शूलं विसृज्य च क्षणं त्वां धर्तुं यत्नमाचरत् ।
त्वया शूलं तदा ग्रस्तं ममाज्ञया हि शांकरम् ।।४५।।
मया चक्रेण वै शीघ्रं हतोऽसुरः सहस्रधा ।
धूम्रो विनाशमापन्नो भस्मसादभवत्तदा ।।४६।।
चन्द्रः पूर्णकलस्तत्र निर्जगामोदराद् बहिः ।
त्वं च शूलधरी चान्द्री कन्या नाम्ना तु कौमुदी ।।४७।।
वर्धिता सर्वदेवाद्यैः पूजिता परमेश्वरी ।
अहं सर्वैः पूजितश्च वर्धितो वन्दितस्तथा ।।४८।।
देवगुरोः सुतश्चाऽहं भगवान् पुरुषोत्तमः ।
चन्द्रमसा हरिर्ज्ञात्वा वन्दितः पूजितस्तथा ।।४९।।
कन्या त्वं कौमुदीनाम्नी दत्ता मह्यं तदा प्रिये ।
मया विवाहिता त्वं च देवगुरोर्गृहोषिणा ।।3.4.५०।।
अनादिश्रीदेवनारायणनाम्ना नरायणि! ।
ततः सस्मार शंभुं च देवगुरोर्गृहेऽप्यहम् ।।५१ ।।
शंभुस्तूर्णं समायातो ज्ञात्वा मां परमेश्वरम् ।
धूम्रासुरं विनष्टं च ज्ञात्वा मुमोद वै हरः ।।५२।।
त्रिशूलं प्रददौ शंभुश्चन्द्रमसे हि शाश्वतम् ।
पिता तुभ्यं ददौ शूलं यौतकं शाश्वतं शिवम् ।।५३।।
त्वया मह्यं प्रदत्तं च मया हस्ते सुरेखकम् ।
कृतं धृतं सर्वदैव पश्य दक्षे करे मम ।।५४।।
त्रिशूलं रेखितं चास्ते प्राकट्यं याति चेच्छया ।
स्मर लक्ष्मि! तव प्राकट्यं च मेऽपि तदाऽभवम् ।।५५।।
अवतारी स्वयं चाऽऽसं तदा देवनरायणः ।
अवतारास्तदा मेऽप्यासँश्च कोटिसहस्रशः ।।।५६।।
आकल्पान्तं चाऽभवं वै त्वया साकं गुरोर्गृहे ।
अथाऽजस्य पञ्चमे वत्सरे योऽहं तदाऽभवम् ।।५७।।
आद्ये कल्पे चाद्यमनौ त्वं चाऽभवः कथां शृणु ।
व्योमबाणाभिधे वर्षे प्राक्कल्पे प्रथमे मनौ ।।५८।।
विद्यमाने ब्रह्मपुत्रा महर्षयोऽजसंसदि ।
संहताश्च प्रचक्रुर्वै विचारं वेदवादिनः ।।।५९।।
ब्रह्माण्डे भूतलं कर्मभूमिः फलप्रदाऽस्ति यत् ।
तत्र कृतं देहिभिर्वै दत्तं दानं वृषादिकम् ।।3.4.६०।।
अन्यलोकगतैः सर्वैः प्राप्यते भोजनादिकम् ।
भूतले यत्प्रदत्तं च जलान्नाम्बरभूषणम् ।।६१।।
क्षेत्रवाटीरूप्यकन्यासुवर्णगृहसाधनम् ।
हव्यं कव्यं बलिः पुण्यं व्रतं श्राद्धं सहायकम् ।।६२।।
सर्वं लोकान्तरे दात्रा कर्त्राऽऽप्यतेऽयुतोत्तरम् ।
यथा जीवन्ति सन्न्यासा वानप्रस्थाश्च नैष्ठिकाः ।।६३।।
गार्हस्थ्यमुपसंलम्ब्य तथाऽऽलम्ब्य क्षितौ कृतम् ।
जीवन्ति स्वर्गदेवाश्च पितरश्च महर्षयः ।।६४।।
सुकृतं तद् यज्ञकार्यं जीवनं सर्वदेहिनाम् ।
विप्राणां भोजनं यत्र देवानां हव्यमित्यपि ।।६५।।
श्राद्धं च पितृदेवानामृषीणां पुण्यमित्यपि ।
सोम सुधाऽमृतं भोज्यं यज्ञे सर्वं हि लभ्यते ।।६६।।
तस्माद् यज्ञः प्रकर्तव्यः शिक्षणीयः क्रियात्मकः ।
मानवेभ्यो भूदेवेभ्यः क्रियासन्तानहेतवे ।।६७।।
क्रतुतन्तौ समारब्धे सन्धिते योजिते कृते ।
यज्ञानां सम्प्रचारेण जीवनं स्यान्निरामयम् ।।६८।।
तस्माद् गच्छाम एवाऽद्य महर्षयो हि भूतलम् ।
देवान् पितॄन् सह नीत्वाऽऽचरिष्यामः क्रतूत्तमम् ।।६९।।
इतिसम्मन्त्र्य मुनयः पितरश्च सुरेश्वराः ।
आययुर्भूतलं लक्ष्मि! यज्ञार्थं मेरुसन्निधौ ।।3.4.७०।।
पालाशाऽऽरण्यके सर्वे स्वर्गंगायास्तटे स्थिताः ।
प्रयतन्ते स्म यज्ञार्थं भिन्नकर्मनियोजिताः ।।७१ ।।
प्रथमोऽयं यतो यज्ञः क्रमं जानन्ति नैव ते ।
न कश्चित् सर्वयज्ञानामभ्यासी कर्मगोचरः ।।७२।।
यथाक्रमविनिर्योक्ता देवे पितरि भूसुरे ।
महर्षौ वा तदा तत्राऽभवत् कर्मक्रमाभिवित् ।।७३।।
ततस्ते मोहमापन्नाः कर्मकाण्डाऽप्रवेदिनः ।
इदं पूर्वमिदं पूर्वमेवमाग्रहिणोऽभवन् ।।७४।।
अनिश्चित्ते क्रतुक्रमे तदंगानां क्रमेऽपि च ।
वेधःपुत्रो ब्रह्मकुमाराख्यौ नैष्ठिकशीलवान् ।।७५।।
यजमानं चाह तत्र ज्योतिष्मन्नामकं मनुम् ।
वयं सर्वे कर्मकाण्डे ह्यपूर्वगोचराः खलु ।।७६।।
विगुणे तु फलं यज्ञे विपरीतं भवेदिति ।
यज्ञद्रष्टा यज्ञवक्ता नान्यो नारायणं विना ।।७७।।
परब्रह्माऽक्षरातीतं श्रीहरिं पुरुषोत्तमम् ।
तमेवाऽऽराधयामोऽत्र संहत्य क्रमहेतवे ।।७८।।
स चाऽऽगत्य क्रतुं सर्वं शिक्षयिष्यति यज्ञकृत् ।
यज्ञदेवः स यज्ञात्मा यज्ञज्ञो यज्ञकारकः ।।७९।।
इत्युक्तो वै मनुश्चान्ये स्वीचक्रुस्तद्वचस्ततः ।
परमेशं मिलित्वैवाऽऽराधयामासुरुत्सुकाः ।।3.4.८०।।
महर्षयश्च पितरो देवता भूसुरादयः ।
ओं नमो यज्ञरूपाय परमेशाय कर्मिणे ।।८ १।।
यज्ञदेवाय यज्ञाय यज्ञज्ञाय क्रतुकृते ।
यज्ञशास्त्रेऽध्वरकार्यकारिणे परमात्मने ।।८२।।
नमोऽन्तर्यामिणे नश्च साहाय्यदाय शार्ङ्गिणे ।
इत्यस्तुवन् सुराद्या मां यज्ञार्थं पुरुषोत्तमम् ।।८३।।
तदाऽहं तु त्वया साकं श्रुत्वाऽक्षरेऽपि चार्थनाम् ।
अगच्छं गांगतीरं वै मेरोः पालाशकृद्वनम् ।।८४।।
ब्रह्मकुमारनिकटे बालोऽहमृषिवेषधृक् ।
सर्वविद्यामयः सर्वमन्त्रद्रष्टा नियोगवान् ।।८५।।
यावद्विधिप्रवीणोऽहं यावत्पात्रधरो द्विजः ।
सर्वक्रमाभिवेत्ता च सर्वद्रव्यादिबोधवान् ।।८६।।
द्वितीयो वै यथा ब्रह्मा तथा प्रकटितोऽभवम् ।
सर्वे दृष्ट्वा तु मां विप्रं कोटिभास्करभासुरम् ।।८७।।
सहसोत्थाय नेमुर्मां कस्त्वं पप्रच्छुरुत्सुकाः ।
अध्वरोऽहं हि भगवान् भवदाराधनाफलम् ।।८८।।
इत्युक्त्वाऽहं बालरूपो ब्रह्मकुमारकाऽङ्कगः ।
अभवं पुत्रभावेनाऽभावयत् सोऽपि मां तथा ।।८९।।
त्वं तदा चाविशो ज्योतिष्मन्मनौ भूयसी सती ।
अथाऽहं च समाश्वास्य सर्वान् यज्ञार्थकर्मसु ।।3.4.९०।।
नियुज्य क्रमवारं तान् प्रावर्तयं क्रतुं तदा ।
अनादिश्रीकृष्णनारायणोऽहं परमेश्वरः ।।९१।।
अनादिश्रीयज्ञनारायणो भूत्वा व्यधापयम् ।
अवभृथान्तं यज्ञं तं वैष्णवं सार्वभौमिकम् ।।९२।।
अध्वरोऽहं मनोस्तस्माद् ययाचे दक्षिणां तदा ।
भूयसीं यज्ञभूमौ वै मण्डपे वेदिकान्तिके ।।९३।।
तदा त्वं कन्यका नाम्ना भूयसी दक्षिणाऽभिधा ।
प्रादुरभवः कल्याणि! कन्यका वै मदर्थिनी ।।९४।।
मनोर्ज्योतिष्मतः पुत्री नारायणी हि भूयसी ।
अध्वरेऽम्बरभूषाढ्या कोटिस्वर्णधनान्विता ।।९५।।
मद्योग्या याचमानाय मह्यं वै मनुनाऽर्पिता ।
तत आरभ्य तद्वर्षे सहस्रकल्पकात्मके ।।९६।।
मयाऽऽदिष्टप्रकारेणाऽध्वराः सर्वे प्रवर्तिताः ।
कल्पायुश्चाऽभवँस्तत्र त्वया साकं महाध्वरः ।।९७।।
यज्ञनारायणः सोऽहं चानादिः पुरुषोत्तमः ।
अवतारी स्वयं स्वामी परब्रह्म परेश्वरः ।।९८।।
भूयसी दक्षिणानाम्नी त्वं मे पत्नी तदाऽभवः ।
स्मर नारायणीश्रि! त्वं तत्कल्पं तं च वत्सरम् ।।९९।।
ततोऽन्ये मेऽवताराश्च तत्राऽभवन् हि कोटिशः ।
वेद्मि सर्वानहं लक्ष्मि! नान्ये स्मरन्ति तानपि ।। 3.4.१ ००।।
सर्वयज्ञस्वरूपोऽस्मि सर्वे यज्ञा मयि स्थिताः ।
सर्वयज्ञा मूर्तयो मे सर्वयज्ञप्रवर्तकः ।। १०१ ।।
भोक्ता सर्वेषु यज्ञेषु सर्वाऽध्वरफलप्रदः ।
सर्वक्रियाकलापज्ञश्चाऽहं भवामि चाध्वरे ।। १० २।।
त्वां विना नैव तिष्ठामि दैवे पैत्र्ये तथाऽऽर्षके ।
मानवे वा विधौ लक्ष्मि! दानेऽर्हणे च पूजने ।। १० ३।।
जपे व्रते क्रमे ज्ञाने साकं त्वया वृषेऽपि च ।
उपतिष्ठामि देवेशि! शिवेश्वरि! न चान्यथा ।। १०४।।
इत्येवं चाध्वरं जन्म कथितं वै त्वया सह ।
पठनाच्छ्रवणाच्चापि महाध्वरफलं भवेत् ।। १ ०५।।
तवापि स्मरणाल्लक्ष्मि! भूयसीदक्षिणाफलम् ।
सम्पत्सिद्धिर्भवेदत्र परत्र मोक्षणं भवेत् ।। १० ६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चतुर्थवत्सरे धूम्रासुरनाशार्थं चन्द्ररक्षार्थम् अनादिदेवनारायणस्य, पञ्चमवत्सरेऽध्वरतन्तुसम्पादनार्थम्
अनादियज्ञनारायणस्य च प्राकट्यमितिनिरूपणनामा चतुर्थोऽध्यायः ।। ४ ।।