लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०२२

← अध्यायः २१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मम चापरम् ।
अवृषाख्ये वेधसश्च सप्तविंशे तु वत्सरे ।। १ ।।
कल्पे चतुःशते मनौ तृतीये भूतलेऽभवन् ।
भूसुरा यज्ञकर्तारश्चक्रुस्ते चाध्वरान् बहून् ।। २ ।।
अग्निहोत्रं दर्शहोमं पूर्णमासं प्रयाजकम् ।
स्विष्टकृद्यजनं पितृयज्ञं च वैश्वदैवतम् ।। ३ ।।
चातुर्मास्यं साकमेधं सोमं चाग्रायणेष्टिकम् ।
अवभृथेष्टिं तथा चातिरात्रं वाजपेयकम् ।। ४ ।।
अग्निष्टोमं तथा सौत्रामणिं च राजसूयकम् ।
अश्वमेधं सर्वमेधं पुंमेधं च सवान् बहून् ।। ५ ।।
बृहस्पतिसवं वैश्यसवं सोमसवं तथा ।
गोसवं ब्राह्मणसवं तथौदनसवं शुभम् ।। ६ ।।
पृथिसवं मरुत्स्तोमं पुत्रेष्टिं च तथाऽपरान् ।
यज्ञान् व्यधुश्चैकदा ते प्रारेभिरे नृमेधकम् ।। ७ ।।
पञ्चाहं तत्र वै यज्ञे द्व्यूनद्विशतपूरुषान् ।
देवताभ्यो हि विधिनोपाकृत्य च ततः परम् ।। ८ ।।
पुरुषाणां विशसनं कर्तुमारेभिरे द्विजाः ।
वपार्थं हवनार्थं च भ्रान्तास्तत्त्वविदो द्विजाः ।। ९ ।।
शृणु नारायणीश्रि! त्वं ये नृपशवश्चाऽभवन् ।
न्यूनद्वादशवर्षास्ते यज्ञोपवीतधारिणः ।। 3.22.१०।।
भक्ता अभक्ता विप्राद्या आसन् यज्ञार्थकल्पिताः ।
तत्रैकस्त्वभवद् योगी मम भक्तिपरायणः ।। ११ ।।
कालमायाद्यसंगी च देहादौ निस्पृहो नरः ।
शुभ्रवर्णः सुन्दराऽऽख्यः कोमलो मुदभृन्मुखः ।। १२।।।
पावितः प्रथमो विप्रैरुपाकृतः समाहृतः ।
विशसनस्य शालायां यथाविधि समर्चितः ।। १ ३।।
नारायणहरे कृष्णान्तरात्मन्नितिमानसः ।
आत्मनिवेदनो नित्यं मदर्थसर्वचेष्टकः ।। १४।।
एतादृशं मम भक्तं ज्ञात्वा विशसनार्थकम् ।
तूर्णं चाहं समायातः पद्मे विशसनगृहे ।। १५।।
अदृश्यः कर्मठानां वै दृश्यो भक्तस्य मे तदा ।
अदृश्यीकृत्य मद्भक्तं स्थितोऽहं तत्स्थले स्फुटः ।। १६।।
तदाकारश्च मौनश्च भक्तरक्षार्थमित्यपि ।
भ्रान्तिनाशार्थमेवापि हिंसायाश्च विछित्तये ।। १७।।
धर्मरक्षार्थमेवापि मृषाकर्मविछित्तये ।
विप्रेभ्यो बोधदानार्थं यथार्थताप्रवृत्तये ।। १८।।
तामसानां पापकर्मनाशार्थं शसनालये ।
प्राविरासं तदा लक्ष्मि! प्रत्यक्षः स्वीयरक्षकः ।। १९।।
अथ ते यागदीक्षाप्ता द्विजा मन्त्रान् जगुस्तदा ।
प्रोक्ष्य सर्वं सुविधिना पूरुषं मां प्रजगृहुः ।।3.22.२०।।
मुखबन्धं निर्दयाश्च प्रचक्रुर्यवपूरणैः ।
वृषणौ मर्दयामासुश्छेदयामासुरुत्सुकाः ।। २१।।
जीवतो मे भ्रमयुक्ता भ्रान्त्यात्मविधिना खलाः ।
विशसनं प्रचक्रुश्च तदाऽहं पापिनाशकृत् ।।२२।।
कर्तिताभ्यां वृषणाभ्यां वज्राऽऽभाभ्यां तु सत्वरम् ।
कर्मठानां कपालानि ब्रह्मरन्ध्राण्यताडयम् ।।२३।।
वज्रमणिनिभाभ्यां साग्निभ्यां प्रताडिता द्विजाः ।
जज्वलुश्चापि मम्रुश्च भिन्नमूर्धकपालकाः ।।२४।।
सहस्रशः समुत्पन्ना महान्तो वर्तुलाश्च ते ।
महाशिलास्वरूपाश्च प्रलयानलसन्निभाः ।। २५।।
दाहयामासुरेवेमे पृथ्वीं नभश्च तारकान् ।
भेदयामासुरेवेमे शैलप्रायास्तदाऽखिलम् ।।२६।।।
नाशयामासुः परितो यज्ञं यज्ञीयकान्यपि ।
हाहाकारो महाञ्जातः स्वर्गप्रलयवाहकः ।।२७।।
पृथिव्यां पत्तनानां च दह्यन्ति बहुलर्द्धयः ।
अरण्यानि चार्षवासा दह्यन्ति वृषणानलात् ।।२८।।
शाला ग्रामा आवसथा दग्धास्तैर्वृषणानलैः ।
अथ विप्रा जीववन्तः प्रार्थयाञ्चक्रिरे सुरान् ।। २९।।
रक्षयन्तु सुराश्चास्मान् मृत्युमुखसमावृतान् ।
प्रायश्चित्तं करिष्यामो व्युत्क्रमादेरवन्तु नः ।।3.22.३०।।
नैवं पुनः करिष्यामो भ्रान्तिं त्यक्ष्याम एव नः ।
रक्ष रक्ष कृपापारावारपारीणमाधव! ।।३ १ ।।
इत्येवं म्रियमाणास्ते निपेतुः पादयोर्हरेः ।
मन्नियुक्तास्तदा यज्ञाधिदेवा जगदुर्द्विजान् ।।३२।।
शालायां वृषणाभ्यां वै तयोर्ग्रामा हि निर्गताः ।
दिव्या दिव्यचमत्काराः शालग्रामा हि ते हरेः ।।३३ ।।
भक्तरक्षाकृतेऽनादिकृष्णनारायणः स्वयम् ।
उपस्थितः शासितुं वः पुंपशुरूपवान् हरिः ।।३४।।
तस्य त्विमे वृषणा वै शालग्रामा भवन्ति हि ।
अग्निरूपा वज्ररूपाः शास्तारो भवतां द्विजाः ।। ३५।।
यूयमकार्यकरणा हिंसाभ्रान्ता विमार्गगाः ।
देवानां नो हव्यमिष्टं न मांसं वै कदाचन ।। ३६ ।।
पायसान्नं चेष्टतमं तेन कुर्वन्तु चाऽध्वरान् ।
फलानि शर्कराश्चापि बीजानि कमलानि च ।। ३७।।
कणा व्रीहियवाश्चापि शालयश्च दलानि च ।
तिला मिष्टान्नमपि च मधु रसाश्च शोभनाः ।।३८।।
समिधश्च प्रिया नित्यं देवानां न तु मांसकम् ।
द्विजा भ्रान्ता भवन्तो वै हिंसां कुर्वन्तु मा त्विह ।। ३९।।
वयं पवित्रा देवा मा ह्यशुद्धे योजयन्तु नः ।
पापफलं तु वै दुःखं भवतां तद् भविष्यति ।।3.22.४०।।
पुंस्त्वप्रणाशनं चच्चाऽध्वरेऽनुष्ठीयते द्विजाः ।
भवद्भिः स्वस्य पुंस्त्वस्य विनाशः क्रियते दिवि ।।४१ ।।
स्वर्गस्यापि विनाशो वो हिंसादोषेण जायते ।
वयं शुद्धिविहीनाश्च मांसदोषेण चाऽध्वरे ।।४२।।
प्रायश्चित्तीयकर्माणो भविष्यामो द्विजास्त्विह ।
स्वर्गे प्रायश्चित्तकर्म त्वकृत्वा स्वस्वमन्दिरम् ।।४३ ।।
संप्रवेष्टमशक्ता हि हिंसां कुर्वन्तु नो ततः ।
शालग्राममहाग्नेश्च शान्तिर्यथा भवेदिह ।।४४।।
तथा विष्णुं हरिं कृष्णं नारायणं परेश्वरम् ।
आराधयामस्त्वत्रैव सुरर्षिपितृमानवाः ।।४५ ।।
स्वयमेव हरिश्चाग्नेः शान्तिं तत्र करिष्यति ।
अयं चाऽवृषणो देवो नारायणः स्वयं नरः ।।४६ ।।
भवद्भिर्होमकार्यार्थं योजितः संस्कृतस्त्विह ।
तमेनं परमात्मानं शरणं सम्पतन्तु च ।।४७।।
स हि रक्षां रक्षको वै क्षमां कृत्वा करिष्यति ।
इत्युक्तास्ते सुरा लक्ष्मि! तदा तुष्टुवुरीश्वराः ।।४८।।
पितरो मानवा विप्रा मामेवाऽवृषणं हरिम् ।
त्वं परब्रह्म भगवान् मूलश्रीपुरुषोत्तमः ।।४९।।
एकमेवाऽद्वितीयस्त्वं सर्वेश्वरपरेश्वरः ।
त्वमेवाऽक्षरमुक्तानामक्षरस्याऽपि कारणम् ।।3.22.५०।।
अवताराऽवताराणां कारणं शक्तिसञ्जुषाम् ।
शक्तीनां कारणं सर्वेश्वराणां कारणं भवान् ।।५१ ।।
यज्ञानां कारणं त्वं च मन्त्राणां कारणं भवान् ।
विधीनां च निधीनां च द्रव्याणां कारणं भवान् ।।५२।।
सर्वेषां कर्मकाण्डानां देवानां कारणं भवान् ।
कर्ता प्रेरयिता त्वं च वेत्ता तृप्तिस्त्वमेव च ।।५३।।
द्विजाश्च कर्मठाश्चापि यजमानस्त्वमेव च ।
द्रव्याणि सर्वहव्यानि त्वमेव भगवन्नसि ।।५४।।
अर्थज्ञानं विधेर्ज्ञानं मन्त्रज्ञानं च वैदिकम् ।
त्वां विना च क्रियाज्ञानं कोऽन्यो दर्शयितुं क्षमः ।।५५।।
क्षमां कृत्वा हरे नाथ दह्यमानं जगत् त्विह ।
रक्ष रक्ष कृपासिन्धोऽपराधाँश्च क्षमस्व नः ।।५६।।
अज्ञातमन्त्रतत्त्वाश्च वयं विशसनं तु यत्। ।
कृतवन्तो नरस्यैतत् क्षमस्व कृपया प्रभो ।।५७।।
अज्ञानिनामपराधान् क्षमन्ते ज्ञानिनो जनाः ।
त्वं पिता जननी रक्षाकरो विज्ञो महेश्वरः ।।५८।।
त्वं प्रभुः सर्वकर्ता च सर्वशास्ता सुखप्रदः ।
यथार्थबोधकश्चासि शाधि नः पुरुषोत्तम ।।५९।।
एते त्वच्छरणं प्राप्तास्त्राहि नः शरणागतान् ।
इत्येवं प्रार्थितश्चाऽहं तदा लक्ष्मि! पुमुत्तमः ।।3.22.६ ०।।
उपादिदेश तान् सर्वान् वेदार्थं मम भाषितम् ।
द्विजत्वं दयया श्रेयोविधानेनाप्यहिंसया ।।६ १।।
शुद्ध्या भक्त्या रागद्वेषराहित्येन प्रजायते ।
अलोभेनाऽप्यकामेनाऽतृष्णया तपसा तथा ।।६२।।
सदाचारेण धर्मेण सन्तोषेण प्रजायते ।
सत्येन दैववृत्त्या चेश्वरार्पणेन विप्रता ।।६३ ।।
अद्रोहेणाऽभयदानमोक्षदानेन जायते ।
तद् ब्राह्मण्यं विद्यया च वेदेनाऽधिप्रकाशते ।।६४।।
प्राप्य तद् द्रोहकरणं द्विजानां वृष एव न ।
हिंसा द्रोहो महानत्र स्वर्गमोक्षनिरोधकृत् ।।६५।।
परदुःखकरश्चात्मा दुःखं भुंक्तेऽपि तादृशम् ।
जीवतः शसने दुःखमपारं तत्र जायते ।।६६।।
एवं दुःखं प्रदायैव धर्मोऽधर्मत्वमृच्छति ।
अन्यच्चापि च विप्रेन्द्राः शृण्वन्तु सुविवेकवत् ।।६७।।
शुद्धं स्वादु सुगन्धं च परमान्नं मुखे गतम् ।
उच्छिष्टं जायते तत्तूदरे मलत्वमृच्छति ।।६८।।
तद्विकाराः पेशिकामांसाद्या मलस्वरूपिणः ।
देवादिभिः कथं सत्त्वमयैः शुद्धैः सुधादनैः ।।६९।।
भुज्यन्ते तादृशं विप्रा विचारयन्तु तात्त्विकम् ।
तामस्यो मक्षिका यत्र व्याकुलिता भवन्ति हि ।।3.22.७०।।
अशुद्धं चापि दुर्गन्धं तामसं मलिनं हि तत् ।
कथं देवा द्विजास्तद्वै समिच्छेयुर्हि भोजनम् ।।७१ ।।
दुग्धं सुगन्धं श्रेष्ठं वै रसात्मकं घृतान्वितम् ।
सात्त्विका यत् समिच्छन्ति पवित्रं भोजनं पयः ।।७२।।
मक्षिका यत् समिच्छन्ति सुगन्धं मिष्टकं मधु ।
रसाँश्च विविधान् मिष्टाँस्तान् समिच्छन्ति देवताः ।।७३।।
तस्माद्धिंसात्मकं यज्ञं मा कुर्वन्तु द्विजोत्तमाः ।
पशूनां बन्धनं संज्ञपनं विशसनं तथा ।।७४।।
वपोद्धरणं होमादि सर्वं हिंसात्मकं हि तत् ।
हिंसा क्वापि न वै कार्या चेत्येवं वैदिकी श्रुतिः ।।७५।।
सर्वार्पणं हरौ कार्यं चेति मे वैदिकी श्रुतिः ।
पत्रं पुष्पं फलं तोयं वस्त्रं गृहं धनं सुतः ।।७६।।
सुता पत्नी पतिर्गौश्च क्षेत्रं सम्पत् स्वयं तथा ।
नारायणाय दातव्यं चेत्येवं वैदिकी श्रुतिः ।।७७।।
नारायणात्मना ध्यात्वा कृत्वा नारायणेऽर्पणम् ।
यथार्हमुपयोक्तव्यं न तु घातो विधीयते ।।७८।।
उपाकृत्यैव तु तत्तद्देवताभ्यो यथाऽर्पितम् ।
सर्वं प्रासादिकं कृत्वा योक्तव्यं वैष्णवो वृषः ।।७९।।
सर्वं नारायणस्येति ध्यात्वैवं च ततः परम् ।
ग्रहीतव्यं नान्यथेति सर्वं स्वं प्रार्पयेद्धरौ ।।3.22.८०।।
वैश्यसवे चतुर्वर्षस्त्रीपशुश्च तथाऽर्पितः ।
उत्स्रष्टव्यो हरेः सा च भोक्तव्या नैव सर्वथा ।।८ १ ।।
पूजनीया देविका सा चेति वै वैदिकी श्रुतिः ।
गोसवेऽपि तथा गावोऽर्पणीयाः परमेश्वरे ।।८२।।
दक्षिणाश्चाऽयुतसंख्यागावो मताः प्रपूजिताः ।
उत्स्रष्टव्याः पूजनीया दातव्या दुग्धलब्धये ।।८३।।
मरुत्स्तोमेऽपि च सप्तदशापि पञ्चवत्सराः ।
पुंपशवस्तथाऽस्पृष्टगर्भा वर्षत्रयात्मकाः ।।८४।।
स्त्रीपशवश्चार्पणीयाः परमेशे परात्मनि ।
साधवस्ते तथा साध्व्यो भवेयुर्ब्रह्मबोधदाः ।।८५।।
प्रथमे च द्वितीये च तृतीये वत्सरेऽपि च ।
चतुर्थे पञ्चमे वर्षे तथासंख्या नराः स्त्रियः ।।८६।।
त्यागाश्रमे प्रदातव्या अच्युतगोत्रका इति ।
वैष्णवास्ते प्रकर्तव्या इत्येवं वैदिकी श्रुतिः ।।८७।।
अश्वमेधेऽपि दैवः स नोपयोक्तव्य एव ह ।
अश्वो योऽर्पित एवाऽपि देवाय देवतायनः ।।८८।।
कुष्माण्डाख्यं फलं देयं वह्नये देवताजुषे ।
पुरोडाशाः प्रदातव्याश्चरवोऽपि यथोचितम् ।।८९।।
एवमेतन्न सन्देहो विधेयो ब्राह्मणैरिह ।
वेदवक्ताऽप्यहं चाऽस्मि यज्ञात्माऽप्यहमेव च ।।3.22.९०।।
मन्त्रेऽहमेव तिष्ठामि हार्दे विदन्तु मे द्विजाः ।
प्रतिज्ञां सम्प्रकुर्वन्तु हन्तव्यो जन्तुरेव न ।। ९१ ।।
पूजनं मे वृषणयोः शालग्रामस्वरूपयोः ।
कुर्वन्तु तेन शान्तिर्वै भविष्यत्यनलस्य ह ।।९२।।
नान्यथा स्यादग्निशान्तिर्जगद् भस्मीभविष्यति ।
शालासु कर्तितौ मे वै वृषणौ पुंस्त्वसंभृतौ ।।९३।।
ताभ्यां ग्रामाः समूहाश्चोत्पन्नाः कोट्यर्बुदाधिकाः ।
शालग्रामा हि ते सर्वे मत्स्वरूपा मदात्मकाः ।।९४।।
जगद्भस्मकराः सर्वे तानर्चयन्तु वै द्विजाः ।
इत्युक्ताः क्ष्मासुराः सर्वे बहुभिश्चोपचारकैः ।।९५।।
वैष्णवैः साममन्त्रैश्च पुंसूक्तैश्च पुनः पुनः ।
पुपूजुश्चाऽपि नाप्येताः शान्ताः शालशिलास्तदा ।।९६।।
अहं विप्रानकथयं संशृणुध्वं वै समाहिताः ।
विना योग्यासनं नैव शान्तिं यास्यन्ति ताः शिलाः ।।९७।।
प्रार्थयन्तु श्रियं लक्ष्मीं योग्यं सा संविधास्यति ।
अथ विप्रैरर्चिता त्वं लक्ष्मीसूक्तादिभिस्तदा ।।९८।।
पूजिता वन्दिता चापि शान्त्यर्थं विनिवेदिता ।
ततस्त्वं पिप्पलपत्राकारपीठात्मिकाऽभवः ।।९९।।
दिव्यासनात्मिका जाता दिव्यसौवर्णरूपिणी ।
सिंहासनाभिधाना वै धृतवत्यपि ताः शिलाः ।। 3.22.१०० ।।
अथ शान्तिं तथा स्थैर्यं शिलाः प्राप्ताश्च निष्क्रियाः ।
उपद्रवविहीनाश्च शान्तोऽग्निः सर्वतो दिशि ।। १० १।।
सुरैश्च पितृभिः सर्वैर्मानवैर्मुनिभिस्तदा ।
पूजिता बहुभावाद्यैः शालग्रामाश्च चन्दनैः ।। १ ०२।।
सुगन्धिभिश्चोपचारैर्दिव्यास्ते हरयोऽभवन् ।
हर्यात्मका हरेरंशा हर्यर्चारूपिणः सदा ।। १०३ ।।
हरेर्मेऽङ्गमया मदात्मका मोक्षप्रदायिनः ।
श्रीयुक्तास्ते भगवन्तोऽभवन्पाषाणमूर्तयः ।। १ ०४।।
अथ मूलौ वृषणौ मे मया धृतौ यथास्थले ।
लग्नितौ च यदा तौ मे तदाऽहं पुंस्त्वसंयुतः ।। १ ०५।।
पूर्णमूर्तिरभवं वै भक्ता मया हि रक्षिताः ।
नरमेधे पुरा यज्ञे भूत्वा प्रत्यक्षरूपिणा ।। १ ०६।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अनादिश्रीशालपुंस्त्वनारायणोऽभवं तदा ।। १ ०७।।
सौम्यः शालग्राममूर्तिः पीठिकाश्रीशुभासने ।
आकल्पं चाऽभवं लक्ष्मि! स्मर मां त्वां तथाविधाम् ।। १ ०८।।
अवसंश्च त्वया साकं मूर्तिमान् श्रीपतिः पुमान् ।
अन्ये मे तेऽवताराश्च तत्र कल्पेऽभवन् प्रिये! ।। १ ०९।।
सर्वान् वेद्मि यथाकार्यमवतारान् हि मे प्रिये! ।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः प्रजायते ।। 3.22.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽवृषाख्ये सप्तविंशे वत्सरे नरमेधे भक्तरक्षार्थम् अनादिश्रीपुंस्त्वनारायणस्य प्राकट्यं नरमेधादिय-
ज्ञार्थज्ञानादिकं चेत्यादिनिरूपणनामा द्वाविंशतितमोऽध्यायः ।। २२ ।।