लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०२७
← अध्यायः २६ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः २७ [[लेखकः :|]] |
अध्यायः २८ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणाश्रि! त्वं परं तस्मात् कथामृतम् ।
प्राकट्यं मे यथा ते च द्वात्रिंशे परमेष्ठिनः ।। १ ।।
कल्पद्रुवत्सरे षट्पंचाशत्कल्पेऽष्टमे मनौ ।
एकदा वै कुबेरस्य यक्षः सुवर्णमालिकः ।। २ ।।
ययौ स्वर्गे विहर्तुं च ततो विष्णुपुरं ययौ ।
सत्यलोकं ततो वीक्ष्य दिक्पालानां तथालयान् ।। ३ ।।
वीक्ष्य यमालयं द्रष्टुं ययौ संयमनीं पुरीम् ।
तावत्तस्याऽऽयुषश्चाऽन्तो जातो मृत्युं गतो हि सः ।। ४ ।।
यक्षस्य यमराजः प्राऽकारयच्चान्तिमां क्रियाम् ।
ज्ञात्वा कुबेरो यक्षस्य मरणं वै यमालये ।। ५ ।।
यमदूतैर्मारितश्चेत्यमन्यत ततो रुषा ।
ज्वलन् सैन्येन सहितो यमस्थल्यां स्वयं ययौ ।। ६ ।।
योधयामास बहुधा यमेन सह वै तदा ।
यमं जित्वा स्वर्णमालं निनाय स्वगृहं प्रति ।। ७ ।।
अथ राजा यमस्तूर्णमाह्वयामास निर्ऋतिम् ।
राक्षसं सैन्यसहितं निर्ऋतोऽपि तलस्थितान् ।। ८ ।।
पातालादिनिवासाँश्च राक्षसान् युद्धशालिनः ।
कोट्यर्बुदाऽब्जसंख्यानाह्वयामास स्वपक्षगान् ।। ९ ।।
कुबेरं तस्य राज्यं च जेतुं ययुश्च ते ततः ।
युद्धवाद्यान्यवाद्यन्ताऽलकायाः सन्निधौ हि खे ।। 3.27.१ ०।।
ज्ञात्वा कुबेरकस्त्वेतन्निर्ययौ यक्षकोटिभिः ।
युद्धं त्वाकस्मिकं तत्राऽभवत् सर्वविनाशकम् ।। १ १।।
याम्यदूतैर्हता यक्षाः कोटिशो राक्षसैस्तथा ।
कुबेरोऽपि हतः कण्ठाद् द्वेधा यमेन वै तदा ।।१२।।
कुबेरराज्यं सर्वं स्वायत्तीकृतं यमेन तु ।
निर्ऋतेन तथा राज्ये राक्षसा नियतीकृताः ।। १३।।
अथ यक्षाः परे केचित् त्रस्ताः श्रीशानदिक्पतिम् ।
इन्द्रं वरुणं वायुं च गत्वा न्यवेदयद्धि तत् ।। १४।।
ते सर्वे त्वाययुस्तूर्णं कुबेरनगरीं प्रति ।
दृष्ट्वा ते धर्मराजं वै तथा निर्ऋतमित्यपि ।। १५।।
ईशानो निजशिष्यस्य कुबेरस्य च पक्षगः ।
वैरनिर्यातनार्थं वै युद्धं चक्रे हि दारुणम् ।। १६।।
महेन्द्रोऽपि तथा वह्निर्वायुर्वरुण इत्यपि ।
कुबेरपक्षमादाय युद्धं चक्रुर्यमेन ते ।। १७।।
अथ सूर्यः स्वपुत्रस्य यमस्य पक्षमावहन् ।
स्वर्भानुश्च तथा शनिश्चरश्चान्येऽपि राक्षसाः ।। १८।।
यमपक्षं परिगृह्य युद्धं ददुर्महोल्बणम् ।
कोटिशश्च गणास्तत्र सुरा यक्षा हताः पुनः ।।१९।।
अभ्यस्तयुद्धकर्माणो याम्या जयं गताः पुनः ।
राक्षसा लेभिरे युद्धे विजयं याम्यपक्षगाः ।।3.27.२०।।
क्रूराश्च क्रूरकर्माणो लोहघृष्टकरादयः ।
लोष्ठाऽग्निशस्त्रयन्त्रास्त्रकोविदा निर्घृणा यमाः ।।२१।।
मारयामासुरत्यर्थं वायुं चेन्द्रं जलाधिपम् ।
ईशानं चानलं चापि भग्नास्ते नष्टसैन्यकाः ।।२२।।
हाहाकारो महानासीज्जगत्यां सर्वशस्तदा ।
देवास्त्रस्ता ययुः सत्यं गह्वराण्यपरे तथा ।।२३।।
पृथ्व्यां स्वर्गे च सर्वत्र बलं पातालवासिनाम् ।
दिक्पालानां प्रदेशेषु त्वभवद् वर्धितं तदा ।।२४।।
लक्ष्मि! तदाऽन्तरीक्षं वै चकम्पे सर्वतो दिशः ।
दिक्पालानां विवादेषु भृत्यकोट्यो हता मृताः ।।२५।।
यमराजोऽभवद् राजा चाऽलकायाः समन्ततः ।
अस्तित्वं वै कुबेरस्य निष्कासितं समन्ततः ।।२६।।
निर्ऋताः राक्षसाः सर्वे यमाश्चार्कः शनिस्तथा ।
राहुश्चाऽन्ये परे चापि बभूवुः स्वबलैधिताः ।।२७।।।
स्वतन्त्रा इव त्रैलोक्यां घ्नन्ति विरोधशालिनः ।
निष्कासयन्ति चाऽनम्रान् देवादीन् निजवासतः ।।२८।।
एवं जातं स्वर्गलोके चाऽव्यवस्थं मिथोऽपि च ।
दिक्पालानां बलं नष्टं यमदण्डस्य सन्निधौ ।। २९।।
इन्द्राज्ञायां न वर्तन्ते सूर्यचन्द्रादयोऽपरे ।
सुरास्तदाश्रिताश्चापि स्वर्गं वै परगं ह्यभूत् ।।3.27.३ ० ।।
अथैवं वीक्ष्य कमले! ईशानेन्द्रानलानिलाः ।
वरुणश्च परे देवा महेन्द्रगृहमाययुः ।।३ १।।
चक्रुश्च मन्त्रणां तत्र किंकर्तव्यविहीनकाः ।
ब्रह्माणं सस्मरुश्चापि विष्णुं सस्मरुरीश्वराः ।।३२।।
शेषं प्रसस्मरुश्चाप्याययुस्ते परमेश्वराः ।
शुश्रुवुस्ते कुबेरस्य नाशं चान्यपराजयम् ।।३३।।
विजयं धर्मराजस्य शोकं चक्रुः क्षणं तदा ।
धर्मराजगृहे तत्राऽन्यायो नैव भवेदिति ।।३४।।
कारणं सर्वमेवाऽपि ज्ञात्वा यक्षस्य वै मृतिम् ।
न्याय्यामन्यायमालम्ब्य कुबेरस्य तु योधनम् ।। ३५।।
कम्पयित्वा शिरांस्येते मेनिरे न जयं पुनः ।
यत्राऽन्यायो न विजयस्तत्र संभवति क्वचित् ।।३६।।
कुबेरस्याऽन्यायभाक्त्वे मृत्युश्चाऽयं न संशयः ।
चतुर्दशानां लोकानां देहिनां नायको यमः ।।३७।।
आयुष्यान्ते नयत्येव तत्र का परिदेवना ।
इन्द्रं वायुं जलेशं चेशानं वह्निं तयेश्वरान् ।।३८।।
नयत्येव यमेशो वै का कथाऽन्यस्य वै मृतेः ।
'तस्माद् यमाय देवाय देवो वै विजयोऽत्र ह ।।३९।।
अस्माभिस्तु प्रमन्तव्यः पराजयोऽत्र कर्मणि ।
कुबेरो दिक्पतिर्भूत्वा त्वन्यायं कुरुते यदि ।।3.27.४०।।
तत्पक्षाणां हि सर्वेषां दुःखं स्याद् वर्धितं पुनः ।
तस्मादत्र न विष्णोश्च शेषस्य वेधसोऽपि च ।।४१।।
अन्येषामपि चातुर्यं जयमेष्यति वै सुराः ।
अतस्तत्र न गन्तव्यं यत्राऽऽस्ते यमराट् स्वयम् ।।४२।।
अलकायां विशेषेण सर्वनाशाय भो सुराः ।
किन्तु देवाधिदेवानामीश्वराणां महेश्वरः ।।४३।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अक्षराधिपतिः श्रीशः श्रीहरिः परमेश्वरः ।।४४।।
स्मर्तव्यस्त्वत्र वादे वै निर्णयं स विधास्यति ।
इन्द्रगृहे महासत्रं कुर्वन्तु प्रजयात्मकम् ।।४५।।
परमेशस्य भो देवाः स्वयमायास्यति प्रभुः ।
इत्युक्तास्ते हराद्याश्च देवा इन्द्रालये तदा ।।४६।।
जपसत्रं प्रचक्रुश्च देवेश्वराश्च सर्वशः ।
'हरेकृष्ण हरेविष्णो परमेश परात्पर ।।४७।।
अनादिश्रीकृष्णनारायण रक्ष परेश्वर' ।
सततं कीर्तनं चक्रुर्देवानां पूर्णवत्सरम् ।।४८।।
इन्द्रस्य वत्सरान्ते श्रीहरिश्चाऽहं समाययौ ।
गोचरः सर्वदेवानां शंखचक्रादिमान् प्रभुः ।।४९।।
त्वया साकं तदा लक्ष्म्या सर्वभूषाढ्यया प्रिये! ।
देवा मामनुसंवीक्ष्याश्चर्थपराः सुसत्वरम् ।।3.27.५०।।
उत्थाय नेमुर्बहुधा चक्रुश्च पूजनं मम ।
मधुपर्कं ददुश्चापि सत्कारं च दधुस्ततः ।।५१।।
महासनं ददुस्तत्रोपाविशं च त्वया सह ।
न्यवेदयँश्च ते सर्वमुदन्तं धनरक्षिणः ।।५२।।
यक्षाणां नाशनं चापि निजानां च पराजयम् ।
यमस्य विजयं चापि स्वर्गे स्वतन्त्रतां तथा ।।५३।।
अव्यवस्था च देवेषु शुश्रावाऽहं च पद्मजे ।
क्षणं ध्यानं तदा कृत्वाऽवोचं दिक्पालकानिदम् ।।५४।।
भवद्भिर्वै मया साकं गन्तव्यं यत्र वै यमः ।
कुबेरस्य नगर्यां हि सर्वं सौख्यं भविष्यति ।।५५।।
साम्ना वादस्य सर्वस्य नेष्येऽन्तं प्रसुखावहम् ।
इत्युक्त्वाऽहं त्वया साकं सर्वैर्देवगणैः सह ।।।५६।।
अगच्छं त्वलकाभूमौ यमनैऋतसन्निधौ ।
श्रुत्वा मां स तु तूर्णं वै त्रस्तमना उपाययौ ।।५७।।
पद्भ्यां मत्सन्निधौ लक्ष्मि! भयं प्रापाऽप्यचिन्तयम् ।
पादप्रक्षालनं चक्रे पपौ वार्यमृतं मम ।।५८।।
स्वागतं प्रददौ चाप्यासनं वाद्यान्यवादयत् ।
दासवत् सर्वदेवानां पश्यतां प्रजगाद माम् ।।५९।।
अपराद्धं मया कृष्ण! कुबेरो मारितो मया ।
नगरीयं कृता वश्या क्षमस्व पुरुषोत्तम ।।3.27.६०।।
अन्यायमार्गिणां दण्डोऽवश्यं भवति केशव ।
यद्यहं स्यां तथा तर्हि दण्डो मय्यपि धीयताम् ।।६१।।
इत्युक्त्वा शरणं प्राप्य पपात पादयोर्मम ।
अन्यायेन विहीनस्य दण्डो नैव हि युज्यते ।।६२।।
कुबेरोऽयं मारितो यत् तन्न योग्यं भवेदिह ।
यक्षेश्वरो जीवनीयो जीवनीया गणा अपि ।।६३।।
सुराद्या जीवयितव्या ये हता आहवे यम ।
कुबेरस्य पुरी तस्मै दातव्या पुनरेव ह ।।६४।।
त्वया धर्म प्रगन्तव्यं यमराजपुरीं प्रति ।
संयमनीं सदा रक्ष माऽन्यगृध्नां समाचर ।।६५।।
इत्युक्तश्च मया धर्मराजोऽयाचत वै क्षमाम् ।
पदं कौबेरकं त्यक्त्वा प्रस्थानमकरोत् ततः ।।६६।।
मया लक्ष्मि! कुबेरस्याऽऽवाहनं तत्र वै पुनः ।
कृतं मानसपुत्रो मे जज्ञे धनाधिपस्ततः ।। ६७।।
वैष्णवः परमो भक्तो यक्षाश्च जज्ञिरे पुनः ।
अन्ये मृताः सुराः सर्वे जज्ञिरे मानसा मम ।।६८।।
सुता देवादयस्ते वै मामानर्चुर्मुदान्विताः ।
मयाऽर्पितं कुबेराय मानसाय पदं पुनः ।।६९।।
तेनाऽर्थितस्तदा चाऽहं नित्यवासार्थमेव ह ।
स्वर्णवत्यां नगर्यां वै न्यवसं स्वर्णवर्णवान् ।।3.27.७० ।।
शंकराद्याः पूजयित्वा ययुस्ते स्वपदानि हि ।
यमो ययौ याम्यपदं चाऽन्ये ययुर्निजालयान् ।।७१ ।।
कुबेरस्य नवीने तूद्भवे तस्य महोत्सवः ।
मया कृतः स्वर्णपुर्यां पूजितो वर्धितस्तथा ।।७२।।
त्वं सदा कानकीलक्ष्मीर्मया साकं विराजिता ।
अनादिश्रीस्वर्णनारायणेन सार्धमीश्वरी ।।७३ ।।
आकल्पान्तं न्यवसं वै स्वर्णवत्यां परेश्वरः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।७४।।
सर्वेषां लोकपालानां दिक्पालानां नियामकः ।
सर्वरक्षाकरः साक्षाच्छ्रीपतिः परमेश्वरः ।।७५।।
स्मर लक्ष्मि सुवर्णे त्वं प्राकट्यं मे च ते तदा ।
राजराजेश्वरीरूपं सर्वानन्दपरिप्लुतम् ।।७६।।
अथ सूर्यादयश्चान्ये देवा यमानुगा अपि ।
क्षमाप्य मां भजन्ते स्म स्वर्णनारायणं ततः ।।७७।।
हिरण्यवर्णं पुरुषं स्वर्णश्मश्रुं यमार्दनम् ।
दिक्पालानां नियन्तारं विनेतारं विरोधिनाम् ।।७८।।
क्लेशानां शान्तिकर्तारं दातारं सम्पदां तथा ।
दग्धारं पापपुञ्जानां हर्तारं विपदां च माम् ।।७९।।
पूजयन्ति हि देवाद्याः परमेशं सनातनम् ।
परव्रह्माऽक्षरातीतं सत्पतिं मुक्तसेवितम् ।।3.27.८० ।।
पठनाच्छ्रवणाच्चास्य स्मरणादपि मुक्तिभाग्।
भुक्तिभागपि जायेत स्वर्णश्रि नाऽत्र संशयः ।।८ १ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वात्रिंशे वत्सरे यमेन मारितस्य कुबेरस्योज्जीवनार्थम् अनादिश्रीस्वर्णनारायणस्य कानकीश्रीसहितस्य प्राकट्यमित्यादिनिरूपणनामा सप्तविंशतितमोऽध्यायः ।। २७ ।।