लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०२९

← अध्यायः २८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं वेधसो याक्षनामके ।
पञ्चत्रिंशे वत्सरे च कल्पेऽष्टाशीतियुच्छते ।। १ ।।
तृतीये च मनौ जातं प्राकट्यं मे शृणु प्रिये ।
अंशुक्रमथो राजर्षिस्तदासीद् दक्षिणे व्रती ।। २ ।।
मेरोः सन्निहिते देशे नालवेयप्रजाधिपः ।
समस्तस्य नलवस्य भूखण्डस्य नियामकः ।। ३ ।।
अन्ये सहस्रभूपाश्च करदास्तस्य चाऽभवन् ।
दानी ध्यानी व्रती भक्तः साधुसेवी श्रवी मखी ।। ४ ।।
हरिन्यासी निवेदी च विश्वासी पूजको मम ।
नृपोंऽशुक्रमथो लक्ष्मि महावैष्णवसत्क्रियः ।। ५ ।।
यथाऽभवत्तथा तस्य पत्न्योऽपि हरिदीक्षिताः ।
वैष्णव्यः शतसंख्याश्चाऽभवन् हरिपरायणाः ।। ६ ।।
दात्र्यो ध्यात्र्यो व्रतिन्यश्च भक्ताः साधुप्रसेविकाः ।
श्रविण्यश्च मखिन्यश्च हरिन्यासिन्य इत्यपि ।। ७ ।।
आत्मनिवेदिकाः सर्वा विश्वासिन्यश्च पूजिकाः ।
पातिव्रत्यपराश्चापि मयि सर्वकृतादराः ।। ८ ।।
मदर्चायां लग्नचित्ता मत्साधुदिव्यदृष्टिकाः ।
पत्यौ हरौ सत्सु नित्यं समसेवासमादराः ।। ९ ।।
राज्ञः पुत्रास्त्रिशतानि पुत्र्यः शतद्वयं तथा ।
पितृवत् मातृवत् सत्सु हरौ सेवापरायणाः ।। 3.29.१ ०।।
मनसा वस्तुभिर्देहैः सेवन्ते भगवत्कुलम् ।
सर्वे चासन् दिव्यभावा विदेहाः सिद्धपुंगवाः ।। १ १।।
नैषां राज्ये कदाऽप्यासन् नीतयो दुःखविप्लवाः ।
नाऽवग्रहो नातिवृष्टिर्न युद्धं भूमिकम्पनम् ।। १२।।
न शैत्याभिभवश्चौष्ण्योपद्रवोऽपि न वै क्वचित् ।
न रोगाश्चाऽभवन् राष्ट्रे नाऽकालमृत्यवो जनाः ।।१३।।
अन्नवस्त्रादिमोदिन्यः प्रजा भूषामहोत्सवाः ।
परस्परप्रसन्नाऽनुरागिण्यश्च सदाऽभवन् ।। १४।।
परस्परसहायाश्च नित्यमत्पूजनान्विताः ।
मह्यमर्पय्य खादिन्यो भोगिन्योऽर्पय्य मेऽखिलम् ।। १५।।
हृष्टपुष्टा नरा नार्यो द्वेषहिंसादिवर्जिताः ।
न स्तेना न कदर्याश्च राज्ये तेषां तदाऽभवन् ।। १६।।
सर्वरसप्रदा पृथ्वी ऋतवः फलपुष्पदाः ।
वृथा वल्लीविरुधश्चाऽऽस्तम्बात् फलसुमप्रदाः ।। १७।।
असत्यं मानवे नासीत् कापट्यं न प्रजास्वपि ।
तृष्णा नासीद् भोगवृत्तिः सन्तोषः संव्यवर्तत ।। १८।।
देवा महर्षयः सन्तः सिद्धाः साध्व्योऽप्यहर्निशम् ।
यतयो ब्रह्मशीलाश्च भुंजतेऽस्य सहस्रशः ।। १९।।
अन्नसत्राणि राज्येषु कृतानि तेन भूभृता ।
भुंजते लक्षशो विद्यार्थिनो विद्यार्थकन्यकाः ।।3.29.२०।।
प्रतिखेटं प्रतिग्रामं प्रतिग्रामं प्रतिपत्तनमस्य वै ।
अन्नसत्रेऽतिथयश्च गृह्णन्ति भोजनं वरम् ।।।२१ ।।
प्रातर्नित्यं प्रतिग्रामं देवानां सर्वसम्पदाम् ।
पूजनं नृपतेरेव धनादिभिः प्रजायते ।।२२।।
घटिकाकालपर्यन्तं कृत्वा संकीर्तनं हरेः ।
भुंजतेऽतिथिवर्गाश्चाऽनाथाद्या अस्य सत्रके ।। २३।।
सायं भजन्ते मां लोका रात्रौ संकीर्तयन्त्यपि ।
दिवा मत्कार्यपरमास्ततः स्वार्थपरा जनाः ।।२४।।
एवंविधाः प्रजास्त्वस्य देहाऽनादरतत्पराः ।
तपस्यो भक्तिमत्यश्च साधुसेवापरायणाः ।।२५।।
साधुरूपो हि भगवान् चेतनोऽत्र क्षितौ सदा ।
कोटिरूपो राजते वै प्रजानां श्रेयसां करः ।।२६।।
साधुरेव हि भगवान् साधुरेव हि तारकः ।
साधुः सद्गतिदाता च साधुमूर्तिः स्वयं प्रभुः ।।२७।।
साधुर्यन्मानवं रूपं दृश्यतेऽस्मत्समं ह्यपि ।
दिव्यं तत् तत्क्रिया दिव्या मोक्षदो भगवान् स्वयम् ।।२८।।
दर्शनं स्पर्शनं पादसंवाहनं प्रसेवनम् ।
भोजनं बहुधा सेवा सर्वं साधोः प्रमुक्तिम् ।। २९।।।
साधूनां परिचर्या या सकृद्वा बहुधापि वा ।
पापनाशकरी सर्वा ब्रह्ममुक्तिप्रदायिनी ।।3.29.३० ।।
ये पुत्रा दीक्षिता दिव्या हरेरेव हि वंशिन ।
भवन्ति जन्मभूत्यागास्त एव हरिरूपिणः ।।३१।।
तत्क्रियायां ब्रह्मचर्यं व्रतं दानं च दक्षिणा ।
तपो धर्मो विवेकश्च भक्तिः सर्वं प्रतिष्ठितम् ।। ३२।।
साधोर्हस्तौ हरेर्हस्तौ सत्पादौ चरणौ हरेः ।
सतां मुखं कृष्णमुखं त्वक् श्रीहरेः सतां त्वचम् ।।३३।।
नेत्रे द्वे श्रीहरेर्नेत्रे सजिह्वा जिह्विका हरेः ।
सन्मस्तकं हरेर्मूर्धा सन्नासा नासिका हरेः ।।३४।।
सत्कर्णौ श्रीहरेः कर्णौ सद्दन्ता दशना हरेः ।
सतां कण्ठो हरेः कण्ठो हरेर्वक्षः सतामुरः ।। ३५।।
सतां तुन्दं हरेस्तुन्दं सत्कटिः श्रीहरेः कटिः ।
सतां दृष्टिर्हरेर्दृष्टिः सतां स्पर्शो हरेर्हि सः ।।३६।।
सतां प्रसन्नता या सा हरेरेव प्रसन्नता ।
सुखं सतां तु सेवोत्थं हरेरेव सुखं मम ।। ३७।।
मोदः प्रमोदश्चानन्दश्चोत्सवा ये सतां मताः ।
ते सर्वे श्रीहरेरेव ममानन्दाः पृथङ् न वै ।। ३८।।
सतां सन्तोषणं सर्वं मम सन्तोषणं हि तत् ।
सतामिन्द्रियवर्गो यो ममेन्द्रियाणि तानि वै ।।३९।।
सतां बुद्धिर्मम बुद्धिः सन्तोऽहं सर्वदा भुवि ।
अहं सन्तः सदा लोके भवामि बहुरूपवान् ।।3.29.४०।।
अपरिग्रहधर्माणः सन्तो मे ब्रह्ममूर्तयः ।
सतां धर्मार्थकामा ये ते मे सर्वे मताः सदा ।।४१।।
इत्येवं कमले राजा राज्ञ्यश्च निर्मलान्तराः ।
कुमाराश्च कुमार्यश्च प्रजा भृत्यास्तथेतराः ।।४१।।
सर्वे सतां प्रसंगैस्ते ह्यासन् मम परायणाः ।
सिद्धयः कल्पलतिकाः कल्पपात्राणि तद्गृहे ।
चिन्तामणय एवापि कामगावः सदाऽवसन् ।।४३।।
लक्षशः साधवश्चापि साध्व्यश्च कृतभक्तयः ।
भजन्ते मामाश्रमस्था निष्कामा मत्परायणाः ।।४४।।
अथ तेषां भक्तिं विलोक्याऽऽत्मनिवेदिताम् ।
कृपयाऽहं तदेयेषोषितं साध्वीसतां गणे ।।४५।।
माधवाख्ये मम मासे राजा चकार कीर्तनम् ।
मासिकं चाऽखण्डितं च त्रिंशद्दिनं मखात्मकम् ।।४६।।
हरे नारायण विष्णो कृष्ण केशव माधव ।
परब्रह्म प्रभो श्रीश पुरुषोत्तम सत्पते ।।४७।।
नमोऽनादिकृष्णनारायणाय परमात्मने ।
नमोऽन्तरात्मने साधुस्वरूपायाऽखिलात्मने ।।४८।।
नमः साध्वीस्वरूपाय श्रीकान्ताय सदात्मने ।
नमो भक्तिप्रलभ्याय सेवासाध्याय चक्रिणे ।।४९।।
स्वतन्त्रस्त्वं चाऽक्षरेशो वर्तसे मुक्तकोटिषु ।
तथाऽत्राऽऽयाहि साक्षाद्वै दिव्यमूर्तिर्यथाऽसि नः ।।3.29.५०।।
इत्येवं भजनं चक्रुः राजा प्रजाश्च साधवः ।
तैः सहाऽयं कीर्तयामि नृत्यामि च हसामि च ।।५१।।
भुञ्जे तिष्ठामि संयामि निषीदामि वदामि च ।
पिबामि चापि जिघ्रामि रसयामि स्वपिम्यपि ।।५२।।
प्रमोदे चानन्दयामि विहरामि नमामि च ।
प्रसेवे साधुवेषोऽहं साधुषु तन्मखोत्सवे ।।९३।।
गूढरूपं च मां ते तु नैव जानन्ति माधवम् ।
साधुं कंचित् प्रजानन्ति केचनैव समाजके ।।१४।।
त्व तदाऽभूः सती साध्वी बाला शीलपरायणा ।
काषायाऽम्बरवेषा च प्रत्यक्षा गूढसद्गुणा ।।५५।।
गूढरूपा गूढचिह्ना साध्वीसेवापरायणा ।
साध्वीनां मण्डले तत्र व्यचरः समवर्तना ।।५६।।
न ताः साध्व्यः प्रजानन्ति लक्ष्मीं त्वां गोचरामपि ।
मम माया तथा चास्ते स्वतन्त्राऽऽवरणात्मिका ।।५७।।
अन्नसत्रं मखसत्रं तथा कीर्तनसत्रकम् ।
माधवान्ते प्रपूर्णं च जातं वै पूर्णचन्द्रके ।।२८।।
दिने सायं कथां चक्रुर्मम माहात्म्यबोधिनीम् ।
साधवश्चापि सत्यश्च राजा प्रजा महोत्सवे ।।५९।।
मम पूजां ततश्चक्रुर्निशि मूर्तौ सुवस्तुभिः ।
नीराजनं ततश्चक्रुः पुष्पाञ्जलीर्ददुस्ततः ।।3.29.६०।।
भोजनानि प्रददुश्च ततः सवाद्यनर्तनम् ।
कीर्तनं तालमानाद्यैः सुस्वरैस्तालिकादिभिः ।।६१ ।।
किंकिणीघुर्घुरशब्दैश्चक्रुर्जागरणान्विताः ।
तदाऽहं कीर्तनाऽऽकृष्टः प्राविरासं हि नर्तकः ।।६२।।
नर्तकी त्वं बालिका वै बालोऽहं षोडशाब्दिकः ।
चतुर्दशाऽऽब्दिकी त्वं च सुवेशाभूषणान्विता ।।६३।।
मायूरपिच्छमुकुटा दिव्यकुण्डलशोभना ।
नृत्यार्हसर्ववेषाढ्या प्रसन्ना नाट्यकोविदा ।।६४।।
अहं चापि तथारूपः सर्वयोग्यपरिग्रहः ।
सभायां रङ्गमध्ये चागतोऽलक्ष्यप्रदेशतः ।।६५।।
न वै कैश्चिदहं ज्ञातो ज्ञाता वा च कुतो न्विमौ ।
चकिता नौ विलोक्याऽऽसन् राजाद्यास्ते सभाजनाः ।।६६ ।।
आवयोर्वै महत्तेजः सभायां प्रासरत्तदा ।
आनन्दमोदसौख्यानि प्रासरन् वै समाजके ।।६७।।
मिष्टं स्वेष्टं कामितं च महासौख्यं तदाऽभवत् ।
जनानां त्वावयोर्योगान्नृत्यगीतिप्रतालनैः ।।६८।।
अस्मल्लीनास्तदा सर्वे प्रत्ययैकप्रतानिताः ।
चाक्षुषमात्रवेगाश्च श्रवणाकृष्टमानसाः ।।६९।।
व्यपश्यन् निर्निमेषा मां त्वां दिव्यां श्रीं श्रियःपतिम् ।
अनन्तकोटिसूर्याभमसंख्यचन्द्रशोभनाम् ।।3.29.७०।।
मां त्वां व्यलोकयन् लोकाः कृपालुं च कृपान्विताम् ।
कीर्तनं स्नेहभजनं कारणं सत्प्रसेवनम् ।।७१ ।।
दिव्यभावः सदा सत्सु हेतवो दर्शने हि नौ ।
अथाऽनृत्यन्त भक्तान्यो भक्ताश्चाकृष्णमानसाः ।।७२।।
परमानन्दमग्नाश्च देहातिभानवर्जिताः ।
सर्वेषां देहिनां तत्र दर्शनं चावयोः शुभम् ।।७३।।
दिव्यं यथाऽक्षरे धाम्नि तथाऽभवत् क्षणं तदा ।
अथानन्तरमेवाऽहं तेजस्तिरो व्यधापयम् ।।७४।।
आकृष्टा वृत्तयस्तेषां स्वास्थ्यमाप्ता यथेन्द्रियम् ।
ततो नौ निजतुल्यौ ते व्यलोकयन्तुपस्थितौ ।।७५।।
विनिवृत्ता द्रुतं नृत्याद् गायनात् कीर्तनादपि ।
महाश्चर्यभरा नेमुर्दण्डवत्त्वां च मां जनाः ।।७६।।
ददुर्मुख्यासनं स्वर्णसिंहासनं नृपादयः ।
आवां सिंहासनस्थौ च पुऽपूजुस्ते कृतादराः ।।७७।।
चन्दनैरक्षतैश्चापि पुष्पैर्हारैः सुगन्धिभिः ।
राजाद्या रत्नहारैश्च सौवर्णरशनादिभिः ।।७८।।
मुकुटाद्यैश्च भूषाभिर्धूपैनैंवेद्याभोजनैः ।
मिष्टपानैश्च ताम्बूलैर्नीराजनेन संस्तवैः ।।७९।।
नमस्कारैश्च ते सर्वे दण्डवद्भिः पुनः पुनः ।
जयशब्दैर्हर्षनादैर्वेत्रधृग्घोषणैस्तथा ।।3.29.८०।।
सर्वे प्रसादयामासुरत्यर्थं त्वां च मां तदा ।
तुष्टुवुः परया प्रीत्या ज्ञात्वा वै परमेश्वरम् ।।८ १ ।।
साधव ऊचुः-
यत्र क्वापि भवेज्जन्म पश्चात्पुण्यप्रतापतः ।
भवच्छरणमापन्नाः पुत्राः स्मो भगवँस्तव ।।८२।।
अच्युतो वै पिता यस्य ते त्वच्युता भवन्ति वै ।
वयं चाऽच्युततां प्राप्ताः कृपैषा श्रीहरे तव ।।८३।।
सुपुत्रेषु च दिव्येषु कृपया त्वं समागतः ।
स्नेहपात्राणि संवीक्ष्य प्रत्यक्षः सा कृपाऽपरा ।।।८४।।।
अथाऽतोऽपि सदा सत्सु वासो यथा तनौ तथा ।
सतां मध्ये वस कृष्ण कृपेयं पारमार्थिकी ।।८५।।
यथा धाम्नि तथा सत्सु मण्डलेषु निवासनम् ।
सदा साधुस्वरूपेण करोतु परमां कृपाम् ।।८६।।
साध्व्य ऊचुः-
मातर्लक्ष्मि महामातस्त्वा वयं शरणागताः ।
मोक्षार्थिन्यो ब्रह्मसाध्व्यो भवत्याः पुत्रिका वयम् ।।८७।।
मातृवात्सल्यमत्यन्तं सुतासु तु निसर्गजम् ।
तत्पुरस्कृत्य जननि ददासि दर्शनं हि नः ।।८८।।
अबलानां बलोपेतं भाग्यमद्य प्रवर्तते ।
दिव्यतां प्राप्य ते योगान्मुक्ततां याम एव ह ।।८९।।
करुणा तेऽप्यतुल्याऽस्ति यत्साध्वीषु विभावनम् ।
तत्रापि चातिकारुण्यं यदि वासं प्ररोचयेः ।।3.29.९०।।
प्रार्थनामुररीकृत्य यथेष्टं प्रकरोत्विह ।
अनादिश्रीकृष्णनारायणाज्ञयाऽक्षरेश्वरि ।। ९१ ।।
राज्ञी प्रोवाच-
धन्याहं मम पुत्र्यश्च पुत्रा राज्यं नृपस्तथा ।
प्रजा धन्या मम लक्ष्मि यदत्र दर्शनं तव ।।९२।।
कुरु वासं सदा चाऽत्र तव सर्व भवत्यपि ।
दास्यहं सर्वदा तेऽस्मि वस लक्ष्मि कृपां कुरु ।।९३।।
संसारे लाभ एवाऽत्र प्राप्तः साध्वीसमागमः ।
भवत्या दर्शनं साक्षात् स एवानन्यलाभकः ।।९४।।
राजोवाच--
कुलं राज्यं धनं वंशः सर्वं कृष्ण भवत्कृते ।
मयाऽर्पितं कृतं कृत्स्नं त्वदात्मकं त्वदर्थकम् ।।९५।।
कृपेयं दर्शनं साक्षात्तवाऽत्र सत्समागमात् ।
प्राप्तव्यं सर्वमेवाऽद्य प्राप्तं चात्यन्तिकं फलम् ।।९६।।
सर्वदा वस मे गेहे कृपां कृत्वा परेश्वर ।
इत्युक्त्वा प्रणनामैव पवात पादयोर्नृपः ।।९७।।
तथास्त्वोमिति तं चोक्त्वा न्यवसं साधुमण्डले ।
अनादिश्रीसाधुनारायणः साकं त्वया प्रिये! ।।९८।।
आकल्पान्तं ततः साध्वीनारायण्याऽवसं क्षितौ ।
स्मर त्वां मां तथा सर्वं चावतारान् परानपि ।।९९।।
पठनाच्छ्रवणाच्चापि स्मरणान्मुक्तिमाव्रजेत्। ।
प्राकट्यं मे तवोक्तं वै मोक्षदं कृपयाऽन्वितम् ।। 3.29.१ ००।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चत्रिंशद्वत्सरेंऽशुक्रमथनृपतेर्भक्त्याऽनादिश्रीसाधुनारायणस्य साध्वीनारायण्या लक्ष्म्या सह प्राकट्यमित्यादिनिरूपणनामा नवविंशतितमोऽध्यायः ।। २९ ।।