लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०३१

← अध्यायः ३० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →

श्रीपुरुषोत्तम उवाच-
शृणु चान्यां कथां लक्ष्मि मम प्राकट्यशोभनाम् ।
सप्तत्रिंशेऽण्डजाख्ये वत्सरे वै वेधसः पुरा ।। १ ।।
एकोननवतिकल्पे षष्ठे मनौ समुद्भवाम् ।
ऋषिर्नाम्नाऽजहारितो बभूव तापसो महान् ।। २ ।।
वेदविज्ञः साधुधर्मश्चैकलोऽपि वने वसन् ।
अध्यापयति विप्रादीन् सत्करोति समागतान् ।। ३ ।।
अतिथीनर्चयत्यन्यान् ददात्येभ्यः समाश्रयम् ।
आश्रमे पर्णशालायां वसति वृक्षमण्डले ।। ४ ।।
फलकन्ददलपत्रमूलाढ्यान् पादपान् स च ।
वृत्त्यर्थं जलमादत्त्वा पोषयत्यपि सर्वदा ।। ५ ।।
देवानां च सतां चाभ्यागतानां स्वागतादिकम् ।
करोति फलमूलाद्यैः पक्वैर्मिष्टैर्निवेदितैः ।। ६ ।।
अथ राजा सैन्ययुक्तो विद्रवाधिपतिस्तदा ।
यात्रार्थमभिगच्छन् वै मार्गेणाऽऽश्रममाययौ ।। ७ ।।
विश्रान्तिं प्राप मध्याह्ने न च जानाति तमृषिम् ।
समर्थं चाश्रमवासं मत्वा किंचिद् वनेचरम् ।। ८ ।।
राजा नेमे न विप्रं तं साधुं साधुस्वभावकम् ।
प्रत्युताऽस्य द्रुमस्तम्बादिषूष्ट्रान् करिणो वृषान् ।। ९ ।।
तुरंगमान् मुमोचैते भक्षयामासुरेव च ।
भञ्जयामासुरामूलान्नाशयामासुरित्यपि ।। 3.31.१० ।।
पुष्पितान् फलितान् वृक्षान् ऋषिर्दृष्ट्वाऽवदन् नृपम् ।
मा राजन् मम वृक्षाणां नाशं विधेहि मूलतः ।। १ १।।
निष्कासय पशून् दूरे पार्श्वेऽरण्ये द्रुमान्विते ।
राजोवाच वनं मेऽस्ति सर्वं राज्ञो भवत्यपि ।। १२।।
पशवो मे क्षुधाव्याप्ता भक्षयिष्यन्ति वै द्रुमान् ।
याहि त्वं दूरतश्चास्मात् स्थानाद्वनेचरोऽसि यत् ।। १३।।
ऋषिर्गर्विष्ठनृपतेर्दण्डं व्यचिन्तयद् द्रुतम् ।
जलमादाय हस्ते च शशाप भव घोटकः ।। १४।।
तूर्णं राजाऽभवत्तत्र तुरंगमोऽतिशोभनः ।
सैन्यं दुःखं प्राप सर्वं प्रार्थयामास तमृषिम् ।। १५।।
तस्य राज्ञो विमोक्षार्थं राज्ञी चाप्यार्थयन्मुहुः ।
ऋषिस्तस्यै तदा प्राह पतिस्तेऽश्वोऽयमुत्तरे ।। १६।।
कालेऽश्वमेधयज्ञे त्वत्पुत्रनिष्पादिते पुनः ।
स्नात्वा नारायणयोगादवभृथे नृपो नरः ।। १७।।
भविष्यति न सन्देहश्चेदानीं यातु वै गृहम् ।
इत्युक्ता स्वपतिं चाऽश्वं नीत्वा सा स्वगृहं ययौ ।। १८।।
ससैन्या सा गृहं गत्वाऽऽराधयत्परमेश्वरम् ।
राज्ञ्या यशोवराख्यायाः पुत्रो धर्मधराभिधः ।। ३९।।
पितुर्वर्मधराख्यस्य मोक्षार्थं यज्ञमारभत् ।
दीक्षितः सञ्चयामास यज्ञीयं वस्तुजातकम् ।।3.31.२०।।
शुद्धपृथ्व्यां चतुष्प्रान्ते वाजिमेधीयमण्डपे।
यज्ञकार्ये वर्तमाने गुरुणा देवसत्रिणा ।।२१।।
सर्वस्याऽऽप्त्यै सर्वजित्यै सर्वशापविछित्तये ।
सर्वपापोपशान्त्यै च हूयमानेऽनले घृते ।।२२।।
देवाः साक्षात् समायँश्च ब्रह्मविष्णुमहेश्वराः ।
अन्ये देवाश्चाययुर्वै भागधेयाऽधिकारिणः ।।२३।।
देवसत्री गुरुर्विप्रोऽपूजयत्तं तुरंगमम् ।
पूर्वभागे कृष्णवर्णं पश्चार्धे श्वेतरूपिणम् ।।२४।।
ललाटे शकटाकारपुण्ड्रयुतं शुभाकृतिम् ।
प्रागसकृत्प्रपायितसोमरसाऽश्वयुग्मजम् ।।२५।।
जातमात्रं प्रपायितसोमरसं च वर्धितम् ।
चैत्र्यां सांग्रहणीष्टिकृद् वैशाख्यां च नृपस्ततः ।।२६।।
प्रजापतिदेवताकयागकृच्च ततः परम् ।
अमावस्येष्टिकृच्चापि कारितवपनस्तथा ।।२७।।
धृतनूत्नाऽम्बरो मौनी कृताऽग्निहोत्रसत्क्रियः ।
परेऽह्नि मण्डपे गत्वा कृतैकादशकाहुतिः ।।२८।।
ब्रह्मौदनं च ऋत्विग्भ्यश्चाशयित्वा सुकल्प्य तान् ।
यज्ञीयाऽश्वं यजमानः श्वानं च चतुरक्षकम् ।।२९।।
तडागादिजले नीत्वा सर्त्विक् तौ समप्रोक्षयत् ।
अध्वर्युश्चाऽप्रोक्षयच्च श्वानमुत्सृज्य वै ततः ।।3.31.३० ।।
अश्वं चावासृजत् पृथ्व्यां भ्रमणार्थ नृपः स्वयम् ।
रक्षकैर्धन्विभिः शूरैश्चतुःशतैर्युतं ततः ।। ३ १।।
नृपः प्रत्यहमेवापि विष्णुक्रमणसंज्ञकान् ।
होमान् सायं च प्रातश्च कुर्वन् वीणाप्रगाथिनौ ।।३२।।
ब्रह्मक्षत्रौ समाहूय गाययत्येव वै यशः ।
पारिप्लवं शृणोत्येव प्रतीक्षतेऽश्वकाऽऽगमम् ।।३३।।
आश्वपदिकमार्गेषु योग्यहोमानकारयत् ।
मुख्यं दन्तान् हनूं चोरु पादौ लिंगं च वाजिनः ।।३४।।
संस्मृत्य हवनं चाऽप्यकारयन् नृपतिः स्वयम् ।
गमनं धावनं चाक्रन्दनं हेषणमित्यपि ।।३५।।
शयनं चाऽप्यवघ्राणं लुण्ठनं वाजिनो गुणान् ।
संस्मृत्य देवतीकृत्य तेभ्यो होमान् ददौ नृपः ।।३६।।
अथ कृत्वा विजयं चागतमश्वं तु पावनम् ।
प्रपूज्याऽस्थापयत् स्थाने सुत्याकमकारयन्नृपः ।।३७।।
सुत्यात्रये द्वितीयेऽह्नि चोद्गातुः स्थानकेऽश्वकम् ।
उद्गातारं व्यधाद् राजा वडवाभिः समन्वितम् ।।३८।।
ह्रेषां चकार तुरगश्चोद्गीथः स व्यजायत ।
अखातयत्ततो यूपानेकविंशतिसंख्यकाम् ।।३९।।
मध्ये चोत्तरदक्षिणकोणयोः सुव्यवस्थितान् ।
पूर्वेऽग्निष्ठे तुरगं तं बबन्ध राज्जुदालजे ।।3.31.४०।।
यूपेऽस्य पार्श्वयोर्देवदारुजौ द्वौ च यूपकौ ।
तत्पार्श्वयोस्त्रयस्त्रयो बिल्ववृक्षविनिर्मिताः ।।४ १ ।।
तत्पार्श्वयोस्त्रयस्त्रयः खादिरास्तत्प्रपार्श्वयोः ।
पालाशाश्च त्रयस्त्रयो यूपास्तान् समपूजयत् ।।४२।।
अश्वं रशनयाऽऽवेष्ट्य त्रयोदश पशून् परान् ।
रशनायां रज्जुबन्धैरबन्धयच्च पार्थिवः ।। ४३ ।।
अश्वललाटे चाग्नेयं पश्चभागे तु पौष्णकम् ।
उपर्यैन्द्रापौष्णपशुमबन्धयच्च पार्थिवः ।।४४।।
बाह्वोराज्ञेयकौ कृष्णग्रीवौ चाबन्धयन्नृपः ।
त्वाष्ट्रौ सक्थ्नोः श्वेतपृष्ठौ बार्हस्पत्यौ तु पार्श्वयोः ।। ४५।।
श्वेतवर्णोदरं धातृदैवं चाऽधो ह्यबन्धयत् ।
पुच्छे श्वेतमजं चाप्यबन्धयत् पार्थिवस्ततः ।।४६ ।।
कृष्णवर्णमजं सौर्यं दक्षपार्श्वेऽप्यबन्धयत् ।
याम्यं कृष्णं वामपार्श्वेऽबन्धयच्चैवमेव सः ।।४७।।
ग्राम्यान् शतत्रयं नवचत्वारिंशद् बबन्ध सः ।
आरण्यकान् शतत्रयं षष्टिं चापि बबन्ध सः ।।४८ ।।
अजादयो ग्राम्यवाच्या आरण्याः श्वापदादयः ।
तदुपाकरणं चक्रे पर्यग्निकरणं तथा ।।४९।।
नमस्कृत्य पशून् सर्वान् संकल्प्य देवतार्थकान् ।
दिव्यान्पूज्यानपसार्याऽवाऽसृजत्तान्पशून्नृपः । ।3.31.५ ० ।।
अश्वनाम्ना सुकुष्माण्डं धृत्वा घृताक्तकम्बले ।
कृत्वा प्राक्शिरसं चोदक्पादं संज्ञपनं व्यधात् ।।५ १ ।।
राज्ञ्यः पत्न्यो ग्राम्यशब्दैर्गर्हां व्यधुस्ततः परम् ।
फलगर्भवपाहोमान् षट् प्रजापतये ददौ ।।५२।।
विष्णुक्रमानक्रामच्च कुष्माण्डान्यपराणि च ।
पशुस्थानानि संज्ञप्य होमान् सर्वानकारयत् ।।५३ ।।
आज्यादिना तिस्र आहुतीश्च हुत्वा ततः परम् ।
पत्नीसंयाजान्तकर्माऽनुष्ठाय व्यरमन्नृपः ।। ५४।।
सुत्यादिने तृतीये च कृत्वा सौमिककर्म च ।
प्राजापत्यान् पशूनेकादश कुष्माण्डरूपिणः ।।५५।।
हुत्वा कर्माण्यनुष्ठायाऽवभृथं प्रचकार ह ।
पिंगाक्षश्वेतकुष्ठस्य पुरुषस्य तु मूर्धनि ।।५६ ।।
होमत्रयं प्रदत्वा चाऽददत् शतसुवर्णकम् ।
कृत्वा त्रैधातवीयेष्टिम् आसम्वत्सरमेव ह ।।५७।।
तत्तदृतुफलैः राजाऽयजच्चाश्वं प्रपूजयन् ।
दैवाऽश्वं देववन्मेने राजा परमधार्मिकः ।।५८ ।।
वत्सराऽन्ते लक्षयतीन् साधून् सन्यासिनस्तथा ।
सतीः साध्वीस्तथा विप्रान् बालान् विद्यार्थिनस्तथा ।।५९ ।।
विद्यार्थिनीर्भिक्षुकीश्च भोजयामास वै नृपः ।
आवर्षं नित्यहोमान्ते ददौ दानानि भावतः ।।3.31.६०।।
प्रतीक्षते कदा चाश्वरूपः पिता मनुष्यताम् ।
गच्छेदिति विचारस्थो निद्रां ययौ नृपो निशि ।।६१।।
वत्सरान्ते यज्ञपरिहारे रात्रौ नरायणम् ।
ददर्श दिव्यरूपं चाऽच्युतं मुकुटमण्डितम् ।।६२।।
सर्वाभरणसंयुक्तं सर्वशोभासमन्वितम् ।
सर्वैश्वर्यादिसम्पूर्णं न्यूनषोडशवत्सरम् ।।६३।।
आचतुर्दशहायन्या त्वया लक्ष्म्या विराजितम् ।
प्रसन्नाननया सत्या तदा सौभाग्यशोभया ।।६४।।
निद्रायामेव तुष्टाव श्रीकृष्णं पुरुषोत्तमम् ।
त्वं यज्ञस्त्वं चाश्वरूपश्चाश्वमेधस्त्वमेव च ।।६५।।
त्वं राजा त्वं राज्यपालस्त्वं राजेश्वर एव च ।
त्वं लोकस्त्वं लोकनाथस्त्वं देवस्त्वं सुरेश्वरः ।।६६।।
त्वं विष्णुस्त्वं स्वयं ब्रह्मा त्वं वैराजो महेश्वरः ।
त्वं भूमा त्वं प्रधानेशो वासुदेवो जनार्दनः ।।६७।।
त्वं धामेशो महाकालो मायेशस्त्वं परेश्वरः ।
त्वं श्रीकृष्णप्रभुः श्रीमत्पुरुषोत्तम सर्वराट् ।।६८।।
कर्ता धर्ता नियन्ता च पाता हर्ताऽन्तरस्थितः ।
त्वमेव सर्वं भगवँस्त्वयि सर्वं समर्पितम् ।।६९।।
त्वं वै शरण्य एवाऽसि पितुर्मेऽश्वभवं प्रभो ।
शापजन्यं द्रुतं नारायण नाशय केशव ।।3.31.७०।।
एवं तुष्टाव मां राजा तदा सोऽभिहितो मया ।
अश्वमेधे महायज्ञे मां विहाय त्वया नृप ।।७१।।
पूजिता देवताश्चाऽन्ये विना मत्स्मरणं किल ।
अनर्पितोऽश्वमेधश्च मयि चाऽर्पणवर्जितः ।।७२।।।
त्वदिच्छापूरको नैव वर्ततेऽद्य नराधिप ।
तस्मात्पुनस्त्वश्वयज्ञं कुरु पूजय मां पुनः ।।७३।।
सर्वत्र सर्वकार्येषु ततस्ते जनको नरः ।
मानुषतां पुनश्चापि समेष्यति न संशयः ।।७४।।
दर्शनं मे पुनर्भावि सर्वं योग्यं भविष्यति ।
इत्युक्त्वाऽदृश्यतां प्राप्तस्त्वयाऽहं श्रीनरायणि ।।७५।।
धर्मधरो नृप निद्रां विहाय तूर्णमेव ह ।
उत्थितश्च यथार्थं वै स्वप्नं मेने ततः पुनः ।।७६।।
कृत्वा मे कानकीं मूर्तिं यथादृष्टां त्वया सह ।
पुनश्चक्रेऽश्वमेधं स विधिना मां प्रपूजयन् ।।७७।।
अवभृथे पुनश्चाऽहं प्राप्तो दिव्यस्वरूपवान् ।
त्वया साकं तदा लक्ष्मि स्नात्वा वारि च पावनम् ।।७८।।
अश्वे पितरि चिक्षेप स्वयं नारायणो ह्यहम् ।
स तु राजा वर्मधराऽभिधो विधूय पापकम् ।।७९।।
पूर्वरूपं राजरूपं प्राप्तवान् द्रुतमेव ह ।
साश्रुर्जातिस्मरो मां स तुष्टाव बहुगद्गदः ।।3.31.८०।।
यशोवराऽभिधा राज्ञी श्रि! ते सत्कारमाचरत् ।
देवसत्री गुरुस्तस्याः पुपूज मां परेश्वरम् ।८ १।।
षोडशोपसुवस्त्वाद्यैः प्रार्थयामास वै पुनः ।
अजहारितवचनाद्भगवन्! समुपागतः ।।८२।।
शापमुक्त्यै नृपस्याऽस्य वसाऽत्र भगवन्! सदा ।
तथाऽस्त्वेवं मयोक्तश्च देवसत्री तपोधनः ।।८३ ।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अनादिश्रीमेधनारायणनाम्ना स्थिरोऽभवम् ।।८४।।
त्वया मेधावतीलक्ष्म्या साकं विद्रवखण्डके ।
ततः पृथ्व्यां चाश्वमेधा यज्ञा वै बहवोऽभवन् ।।८५।।
उच्चावचा मखा यथाशक्त्याऽकुर्वन् नराधिपाः ।
विना युद्धं दिव्यमश्वं प्रपूज्य च पुनः पुनः ।।८६।।
वर्तमानस्य मे भूमौ पूजितस्याऽश्वमेधके ।
उत्सृष्टं तुरगं केचिन्नाऽबध्नन् मम भीतितः ।।८७।।
सर्वे नृपा ज्ञातवन्तो नारायणोऽश्वमेधिनः ।
पक्षे गृहे मखे चाऽऽस्ते प्रत्यक्षः परमेश्वरः ।।८८।।
तस्य यज्ञे युद्धविघ्नं कर्तव्यं नहि सर्वथा ।
युद्धेन विजयं कश्चिन्नैव यास्यति निर्णयः ।।८९।।
इत्येवं तत्र कल्पे वै यज्ञा हिंसाविवर्जिताः ।
दैवपाशवभोक्तारोऽभवन् मत्तोषकारिणः ।। 3.31.९०।।
अजहारितविप्रश्च साधुधर्मपरायणः ।
श्रुत्वा मां त्वाययौ शीघ्रं श्रीपतिं पुरुषोत्तमम् ।।९ १ ।।
राजगृहं च राजानं मिलित्वा मां ततः परम् ।
साधुरूपो मम भक्तो मत्सेवायां व्यराजत ।।९२।।
प्रददौ स मयाऽऽज्ञप्तो वैष्णवान् श्रेयसे मनून् ।
प्रजाभ्यो बोधयामास कारयामास मच्छ्रितान् ।। ९३ ।।
वर्मधरोऽपि वैराग्यात् प्राप्य दीक्षां तु साधवीम् ।
उपादिदेश लोकेभ्यः प्रत्यक्षोपासनां हि मे ।।९४।।
भेजे मां सततं साधुः साधुधर्मपरायणः ।
राज्ञी यशोवरा चापि साध्वीदीक्षामवाप्य माम् ।।९५।।
भेजे श्रिया युतं नित्यं साध्वीधर्मपरायणा ।
नारीभ्यः प्रददौ सा तु दीक्षां मे वैष्णवीं सतीम् ।।९६।।
भजनं कारयामास कारयामास वैष्णवीः ।
साध्वीर्ब्रह्मस्वरूपस्था ब्रह्मशीलप्रपालिकाः ।। ९७।।
आकल्पान्तं स्थितश्चाहं त्वया साकं नरायणि ।
स्मर नारायणीश्रि! त्वं सर्वं मेधावतीं निजाम् ।।९८।।
एवमन्येऽवतारा मे जातास्ततोऽप्यनेकशः ।
जानाम्यहं तु तान्सर्वान् धर्मकार्यपरायणान् ।। ९९।।
पठनाच्छ्रवणादस्य स्मरणाद्धारणादपि ।
अश्वमेधफलं प्राप्याऽघानि निर्धूय सर्वथा ।। 3.31.१० ०।।
सकामश्चेद् बहून् स्वर्गान् भुक्त्वा चिरं ततः परम् ।
यायाद् ब्रह्मपरं धाम भक्त्या मे सततं प्रियम् ।। १० १।।
निष्कामस्य तु भक्तस्य भक्तिर्मे जायते द्रुतम् ।
सर्वसौख्यैः सुसन्तुष्टो याति मत्परमं पदम् ।। १ ०२।।
सर्वतीर्थफलं सर्वव्रतोत्थं च फलं तथा ।
सर्वसेवाफलं चापि प्राप्नुयात् श्रवणाज्जनुम् ।। १०३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः सप्तत्रिंशे वत्सरेऽजहारितशापेनाऽश्वीभूतस्य वर्मधरनृपस्य मोक्षार्थं तत्पुत्रकृताश्वमेधेऽनादि-
श्रीमेधनारायणस्य मेधावतीश्रिया सहितस्य प्राकट्यमित्यादिनिरूपणनामैकत्रिंशोऽध्यायः ।। ३१ ।।