लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०३३

← अध्यायः ३२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ३३
[[लेखकः :|]]
अध्यायः ३४ →

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि! ततश्चापि प्राकट्यं मम वच्मि ते ।
वेधसो वत्सरे चत्वारिंशे कल्पेऽष्टमे तथा ।। १ ।।
मनौ च दशमे प्रान्तद्वापरे भूतलेऽभितः ।
कालबलेन धर्मस्य नैर्बल्ये पापिदेहिषु ।। २ ।।
अधर्मस्य बले व्याप्तेऽसुराणां बलवर्धने ।
प्रजास्त्वासन् पीडिता वै मखा रुद्धाः समन्ततः ।। ३ ।।
दानं दया दमाद्याश्च सर्वथा विलयं गताः ।
अहिंसा सत्यमस्तेयं दृश्यन्ते नैव भूतले ।। ५८ ।।
शौचं तपो व्रतं चेति नष्टान्यति प्रजासु वै ।
दृश्यते नोपकारित्वं शीलं नैव च नैव च ।। ५ ।।
बाधन्ते दुर्बलान् सर्वे बलिश्चोपभुंजते ।
तत्स्मृद्धीस्ते प्रसह्यैवाऽप्यपहरन्ति सर्वशः ।। ६ ।।
दैत्यानां दानवानां चाऽसुराणां कोटयो भुवि ।
सर्वत्रैवाऽवलोक्यन्ते तीर्थयात्रा लयं गता ।। ७ ।।
मर्यादा नरनारीणां राक्षसैर्हि विनाशिता ।
सर्ववर्णाः स्वतन्त्राश्च धर्मन्यायविवर्जिताः ।। ८ ।।
देवानामर्हणं सर्वं सर्वथैव लयं गतम् ।
बालाऽनाथाऽतिथीनां च पालनं विलयं गतम् ।। ९ ।।
नास्तिक्यं सर्वकार्येषु सर्वधर्मेषु चाऽभवत् ।
वृद्धानां चावमानादि धार्मिकाणां प्रपीडनम् ।। 3.33.१ ०।।
आसुरैः सर्वथा लोके कृतं त्वभक्ष्यभक्षकैः ।
अपेयपानकैश्चाप्यकार्यैर्जुगुप्सितैरपि ।। ११ ।।
नृपाः सर्वे दैत्यवंशा आचार्या दैत्यवंशिनः ।
गुरवोऽपि दैत्यवंशा सम्बभूवुर्यदा क्षितौ ।। १२।।
दैवं पैत्र्यं तथा स्वर्ग्यं सर्वं लयं गतं द्रुतम् ।
तदा देवैश्च ऋषिभिर्मानवैर्धर्ममानसैः ।। १३।।
आराधितः स्वयं श्रीमत्परमेश्वर एव ह ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।। १४।।
ज्ञानविष्णुगृहे पुत्रस्वरूपोऽहं तदाऽभवम् ।
सुदर्शनेन सहितश्चक्रनारायणः प्रभुः । । १५।।
माता मे वेदिनी चाऽऽसीत् तत्कुक्षेः प्रकटोऽभवम् ।
तदा त्वं मन्निदेशेन राजकन्याऽभवः शुभा ।। १६।।
सार्वभौमस्य नृपतेर्ब्रह्मचित्रधरस्य वै ।
राज्ञ्याः शोभालिकानाम्न्याः कुक्षौ सुधाक्षिणी तदा ।। १७।।
सुधाक्ष्यास्ते पिता चक्रे सम्राट् स्वयंवरं तव ।
महोत्सवं ततस्तत्र राजानोऽसुरपुङ्गवाः ।। १८।।
त्वदाशयाऽऽययुः सर्वे सम्राजः खण्डगास्तथा ।
परखण्डगताश्चापि वैमानिका बलोत्कटाः ।। १ ९।।
अहं वैश्यो ज्ञानविष्णोः सुतश्चक्रसमन्वितः ।
ययौ स्वयंवरे तत्र रूपैश्वर्यगुणान्वितः ।। 3.33.२०।।
त्वं मां विलोक्य सर्वास्तान् विहाय परमेश्वरी ।
सभामध्ये ददौ मालां मम कण्ठेऽतिशोभनाम् ।। २१ ।।
अथ राजन्यवर्गास्ते क्रुद्धा युद्धार्थमुत्थिताः ।
मया सुदर्शनेनैवाऽयुतभूपा निपातिताः ।। २२।।
साधारणानां संख्या न दैत्याः सर्वे हता मया ।
दानवा निहताश्चाप्यसुराः सर्वे निपानिताः ।। २३ ।।
पिता ते रक्षितस्त्वेको भक्तो मे सोऽभवत्ततः ।
राज्यं निजं सुधाक्षिण्यै दत्तवान् पुत्रवर्जितः ।। २४।।
मया सर्वं कृतं राज्यं सहस्रवत्सरं ततः ।
धर्माः संस्थापिता लोके प्रजासु देवपितृजाः ।।२५।।
मर्यादा दानयज्ञानां स्थापिता च पुनर्मया ।
अनादिश्रीचक्रनारायणेन सर्वजिष्णुना ।। २६।।
स्मर नारायणीश्रि! त्वं साम्राज्यं तव वै तदा ।
जानाम्यहं हि तत् सर्वं नान्ये जानन्ति केचन ।।।२७।।।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिर्भवेद् ध्रुवम् ।
अन्येऽवताराः शतशो धर्मरक्षाकरा मम ।।२८।।
जातास्तदानीं बहुधा देवमानवसिद्धजाः ।
धर्मरक्षाकरा मुक्तिप्रदास्तान् पद्मजे! स्मर ।।२९।।
अथापि वेधसस्त्वेकचत्वारिंशे तु वत्सरे ।
अध्वराख्ये त्रिपञ्चाशत्कल्पे मनौ तु सप्तमे ।। 3.33.३० ।।
सप्तषष्ठितमे चापि कलौ प्राकट्यमेव मे ।
अभवत्तच्छृणु श्रि! त्वं परब्रह्मण एव ह । । ३१ । ।
कलेर्बलेऽतिसंव्याप्ते जने म्लेच्छमये तथा ।
एकाकारे सर्वलोके वर्णाश्रमविवर्जिते । । ३२ । ।
वितस्तिमात्रदेहे च पृथ्वीविवरमन्दिरे ।
तृणमूलादने लोके दैवपैत्र्यविवर्जिते । । ३३ । ।
कुटुम्बलोपे सर्वत्र स्वार्थसम्बन्धमात्रके ।
यथेष्टयुगले लोके मम भानविवर्जिते । । ३४ । ।
उपद्रवाधिके चाल्पसुखे चाश्रयवर्जिते ।
जाते च सत्यधर्माणां स्थापनार्थं स्वयं हरिः । । ३५ । ।
प्रादुरभवं भूमौ वै भक्तस्य पुत्रतां गतः ।
नाम्ना द्रावणविप्रस्य चतुर्भुजः स्वयं प्रभुः । । ३६ ।।
त्वं तदा ब्रह्मवर्चस्था मम देहे स्थिता सदा ।
अभवोऽदृश्यरूपा श्रीर्विजयाख्या मया सह । । ३७ । ।
आसुराणां विनाशार्थं गरुडः संस्मृतो मया ।
रथो दिव्यो गजाश्चापि चतुर्दन्ताः सितप्रभाः । । ३८ । ।
आयुधानि समस्तानि गदाखङ्गशराऽसयः ।
धनुश्शक्तिवज्रचक्रप्राशतोमरकुन्तलाः । । ३९ । ।
अस्त्रशस्त्रधरश्चाऽहं त्वया विजयया सह ।
जैत्रं रथं समास्थाय गारुडध्वजमूर्ध्वगम् ।।3.33.४० । ।
हस्तिवाह्यं व्योमगं च युयुधेऽसुरकोटिभिः ।
नाशिताश्च नृपाः पूर्वं म्लेच्छा दैत्येश्वरा बलाः । । ४१ ।।
दानवेशाश्चासुरेशास्ततो म्लेच्छप्रजादिकाः ।
मया च रक्षितास्तत्र संग्रामे शरणागताः । ।४२ । ।
कृतास्ते पाययित्वाऽम्भो पादयोर्ब्राह्मणाः पुनः ।
निष्कासिताश्च ते सर्वे मत्प्राकट्यानलान्तरात् । । ४३ । ।
पाविताश्च कृताः कायाकल्पिता द्विजकोटयः ।
स्थापितास्तेषु सर्वेषु धर्मा मे सत्यसंभवाः । । ४४ । ।
ममाऽस्तित्वबलेनाऽपि भूतानि सात्त्विकानि वै ।
संभूतानि समस्तानि नरा नार्योऽतिसात्त्विकाः । । ४५ । ।
सत्यधर्मपराः सर्वे संभूता मत्प्रभावतः ।
पवनाऽनलवार्भूमिव्योमाद्याः सत्त्वतां गताः । ।४६ ।।
वृक्षवल्लीतृणाद्याश्च रसपूर्णास्तदाऽभवन् ।
विप्राः कृता हि राजानो यशाश्चापि प्रवर्तिताः । । ४७ ।।
आस्तिक्यं दानधर्माश्च विवाहाश्च प्रवर्तिताः ।
साधुसाध्वीजनाश्चापि सन्तः सिद्धाः शुभाः कृताः । ।४८ ।।
तिष्यो विनाशितश्चापि सत्यः संस्थापितो मया ।
देवाश्च रक्षिता सर्वे ऋषयः स्थापिताः पुनः । । ४९ ।।
मन्दिराणि कारितानि होमशाला विधापिताः ।
सत्यत्रेतायुगकालमवसं भूतले तदा ।।3.33.५०।।
स्मर लक्ष्मि! तदा चमत्कारं मम पुरातनम् ।
अनादिश्रीसत्यनारायणं श्रीविजयान्वितम् ।।५१।।
परब्रह्म स्वयं सत्यस्थापकं चावतारिणम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।।।५२।।
एवमन्येऽप्यवतारास्तत्र तत्र सहस्रशः ।
मम जातास्तु तान् सर्वान् जानाम्यहं न चेतरः ।।५३।।
पठनाच्छ्रवणादस्य सत्यधर्माश्रितो भवेत् ।
भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टफलवान् भवेत् ।।५४।।
अथाऽन्यन्मम दिव्यं च प्राकट्यं कथयामि ते ।
ब्रह्मणो द्वाचत्वारिंशाऽब्दे हिरण्याभिधानके ।।५५।।
कल्पे नवतिसंख्ये चाऽऽरम्भे चाद्यमनोस्तथा ।
पृथ्व्यां द्वादशखण्डानां विभाजकास्तु पर्वताः ।।५६।।
सपक्षाश्च स्वतन्त्राश्च तथाऽन्ये द्वीपपर्वताः ।
चेतनाः सबला मूर्ताः स्थानार्थं वादमादधन् ।।५७।।
अहं मेरोः सन्निधाने निवत्स्यामि न दूरतः ।
अहं चाऽह तथेत्येवमन्योन्येषां विवादनम् ।।५८।।
अभवद् बलिनस्तत्र ये चासेस्ते तु वै बलात् ।
इष्टस्थलेष्ववसँश्च परे याता मनुं प्रति ।।५९।।
स्वस्वकष्टनिवेदार्थं मनुनाऽऽहूय बोधिताः ।
तथापि मेनिरे नैव बलिष्ठास्ते मनोर्वचः ।।3.33.६०।।
अथेन्द्राय ददावाज्ञां वज्रधराय शिक्षणम् ।
पर्वतेव्यः प्रदातुं चान्यथा दण्डयितुं नगान् ।।६१।।
इन्द्रस्त्वागत्य भूभागे मेरौ मेरोः समीपतः ।
पर्वतान् मूर्तरूपाँश्चाऽऽहूय जगाद तद्धितम् । ।६२।।
ब्रह्मणा निर्मिता यूयं पृथ्वीस्थैर्यस्य हेतवे ।
खण्डविभागकार्याय रत्ननिधानहेतवे ।।६३।।
प्रजारक्षणकार्याय खण्डप्राकारहेतवे ।
ये ये यत्र नियुक्तास्ते तत्र तत्रैव सर्वथा ।।६४।।
निवसन्तु नान्यथा वै हितं मे वचनं यतः ।
अन्यथा भवतां पक्षान् शातयित्वा बलादहम् ।
वज्रेण सर्वथा युष्मान् पातयिष्ये यथास्थलम् ।।६५।।
इत्येवं गर्वयुक्तं वै श्रुत्वेन्द्रवाक्यमुल्बणाः ।
पर्वतास्तूर्णमेवैते समुत्पेतुर्विहायसा ।
सर्वे बलिनो गर्विष्ठाः स्वेच्छारूपधरास्तदा ।।६६।।
ग्रहतुल्या महेन्द्रस्योपरि निपेतुरेव ह ।
इन्द्रस्तु मर्दितस्तत्र मृतप्रायो बभूव ह ।।६७।।
वज्रं वज्रधरस्यापि नष्टं चूर्णं बभूव च ।
इन्द्रबलं हतं दीर्घभूभृद्भिश्चूर्णितं तदा ।।६८।।
कच्चरिताः सुराद्याश्च पलायनं प्रचक्रिरे ।
भूभृतो व्योमगाश्चापि युद्धं चक्रुः सुरैः सह ।।६९।।
पृथ्वी भारेण हीना च समतौल्यं विहाय सा ।
महाजलतलं गन्तुं पार्श्वनिम्ना बभूव ह ।।3.33.७० ।।
अथोत्पाता बभूवुश्च ग्रहाणामपि सर्वतः ।
वायूनामपि चाऽस्थैर्यं पर्वतैश्च कृतं ह्यभूत् ।।७ १ ।।
गगनं कम्पते सर्वं समण्डलं लये यथा ।
पृथिव्याः रक्षणं स्थैर्यं पर्वतस्थैर्यलम्बितम् ।।७२।।
पृथ्वीस्थैर्ये ततो मेरोः स्थैर्यं ध्रुवस्य चापि वै ।
सत्येवं स्वर्गलोकानां स्थैर्यं सुखं भवेदिति ।।७३ ।।
विचार्य सहसा ब्रह्मा रुद्रो विष्णुश्च देवताः ।
महान्तो नम्रभावाश्च सान्त्वनायुक्तबोधिनः ।।७४।।
बोधयामासुरेवैतान् पर्वतान् बहुधा तदा ।
नियुक्तस्थानवासार्थं तथाप्येते न मेनिरे ।।७५।।
हिरण्यकः कानकश्च राजतो रात्नकस्तथा ।
माणेयश्च वैष्णवश्च हैमेयश्च दिगीशकः ।।७६ ।।
भैरवश्च महेन्द्रश्च तथोदयनपर्वतः ।
आरुणश्च महाभश्च लोकालोकश्च मेरुकः ।।७७।।
एवमन्ये महारौद्रा मेनिरे न तदा सुराः ।
पर्वतानां महाक्लेशप्रशमाय नरायणम् ।।७८ ।।
परमेशं ह्यनादिश्रीकृष्णनारायणं हरिम् ।
सस्मरुस्तूर्णमेवाऽहं शंखचक्रगदाधरः ।।७९ ।।
परब्रह्म स्वयं तत्राऽऽजगाम तूर्णमेव ह ।
सुदर्शनं धृतं चक्रं गदा पृथ्व्यां धृता मया ।।3.33.८० ।।
यत्र चोर्ध्वाऽभवत् पृथ्वी तत्राऽपेक्षितवत्ततः ।
समतोलाऽभवत् सा च रक्षिताऽऽयुधभारतः ।।८१ ।।
पर्वतांश्च समाहूय वरदानेन ते ततः ।
योजिताश्च मया लक्ष्मि! मम वासकृता हि ते ।।८२।।
ये मयोक्तेषु देशेषु स्थास्यन्ति पर्वताः क्षितौ ।
तत्र तत्राऽहमेवापि स्थास्ये श्रीपुरुषोत्तमः ।।८३ ।।
ततस्ते पर्वतास्तूर्णं मम वाक्यं समाश्रिताः ।
मेरुमध्ये च परितो लोकालोको विधापितः ।।८४।।
चतुष्कोणेषु चत्वारो लम्बा समुद्रगाः कृताः।
हिरण्यकोऽग्निकोणे च कानको निर्ऋतेऽक्वके? ।।८५।।
राजतश्च मरुत्कोणे रत्नकश्चेशकोणके ।
पूर्वे चोत्तरदक्षावायतौ माणेयवैष्णवौ ।।८६ ।।
दक्षिणे प्राक्पश्चलम्बौ हैमेयश्च दिगीशकः ।
पश्चिमे चोत्तरदक्षौ मैरवश्च महेन्द्रकः ।।८७।।
उत्तरे चारुणो महाभश्चायतौ निवेशितौ ।
पूर्वाऽब्धौ निहितश्चाप्युदयनः सर्वभाऽन्वितः ।।८८।।
एवमन्ये पर्वताश्च मध्ये मध्ये निवेशिताः ।
अथ ते प्रार्थनां चक्रुः पक्षनाशो हि नो न वै ।।८९।।
भवेदिति मयोक्तं च सपक्षाः सन्तु वै स्थिराः ।
यद्याकाशे गतिमन्तो भविष्यथ तदा ह्ययम् ।। 3.33.९ ०।।
महेन्द्रो वज्रधारेण शातयिष्यति पक्षकान् ।
ततस्ते स्थैर्यमापुश्च स्वस्वस्थाने यथासुखम् ।।९ १ ।।
अथ देवादयः सर्वे पूजयित्वा च मां ययुः ।
निजलोकान् पर्वतेषु निवासं च त्वया सह ।।९२।।
व्यधापयं बहुरूपधरो रक्षाकरः प्रभुः ।
आकल्पान्तं न्यवसं वै त्वया हिरण्यया सह ।। ९३ ।।
अनादिश्रीहिरण्यश्रीनारायणः पुमुत्तमः ।
वाग्बद्धोऽहं पर्वतेषु न्यवसं बोधयन् सुरान् ।।९४।।
मानवानपि पितॄँश्च महर्षीन् व्योमचारिणः ।
अथ स्थिराऽभवत् पृथ्वी पर्वताः सुखिनोऽभवत् ।।९५।।
निर्भया मम वासेन प्रजाश्च सुखितास्तथा ।
अनादिश्रीहिरण्मयनारायणं परं प्रभुम् ।।९६।।
स्मर नारायणीश्रि! त्वं त्वां हिरण्यां तथा स्मर ।
एवमन्येऽप्यवतारा देवमानवजन्तुषु ।।९७।।
कार्यापेक्षा अभवँश्च तान् जानामि समस्तकान् ।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिर्भवेच्छुभा ।।९८।।
मम स्मर्तुर्गृहे वासो नित्यदा मम जायते ।
यत्र मे भावयुक्ताश्च भक्ता वसन्ति तत्र च ।।९९।।
वसाम्येव न सन्देहो पर्वते च वनेऽपि च ।
गृहे प्रासादके चापि महालये जलेऽपि च ।। 3.33.१०० ।।
मम भक्तस्य रक्षार्थे पुष्ट्या रक्षार्थमित्यपि ।
देवानां चापि लोकानां सृष्टेः रक्षार्थमित्यपि ।। १०१ ।।
निवसामि स्थलं कृत्वा तद्रूपोऽमानवोऽपि सन् ।
यत्र वसामि तत्रैव धामाऽक्षरं ममाऽस्ति च ।। १ ०२।।
मुक्ताश्चायान्ति तत्रैव सर्वे तत्र प्रपद्यते ।
मायिका नैव पश्यन्ति पश्यन्ति दिव्यचक्षुषः ।। १०३।।
सिद्धा मुक्ताः साधवश्च सन्तः सन्यासिनोऽमलाः ।
साध्व्यः सत्यश्च भक्तांश्च पश्यन्ति मज्जनिं प्रिये! ।। १ ०४।। इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चत्वारिंशे वत्सरे दैत्यानां नाशार्थम् अनादिश्रीचक्र- नारायणस्य सुधाक्षिणीश्रीसहितस्य, एकचत्वारिंशे वत्सरे च सत्ययुगधर्मस्थापनार्थम् अनादिश्रीसत्यनारायणस्य विजयाश्रीसहितस्य, द्वाचत्वारिंशे वत्सरे च पर्वतानां स्थित्यर्थम् अनादिश्रीहिरण्यनारायणस्य हिरण्याश्रीसहितस्य प्राकट्यमित्यादिनिरूपणनामा त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।