लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०४७
← अध्यायः ४६ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः ४७ [[लेखकः :|]] |
अध्यायः ४८ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं मम योगं परात्परम् ।
नारायणे जगन्नाथे सर्वकामफलप्रदे ।। १ ।।
मयि कृष्णे रतिं कुर्याद् या सा लभेत् परं पदम् ।
मयि ध्यानपरा लक्ष्मि चाण्डाल्यपि हि देवता ।। २ ।।
गणिका मम योगस्था निर्गुणा दिव्यवर्तना ।
अध्यात्मज्ञानसम्पन्ना हरिपूजापरायणा ।। ३ ।।
लभते चाक्षरं धाम पुनरावृत्तिवर्जितम् ।
यतो जातमिदं विश्वं यतश्चैतन्यमश्नुते ।। ४ ।।
यस्मिंश्च विलयं याति येनाऽऽविष्टं च जीवति ।
निर्गुणोऽपि परोऽनन्तो गुणवानिव भाति यः ।। ५ ।।
सदाऽऽन्तरस्थो योऽहं सः संसारभयनाशकः ।
तं मामभ्यर्च्य कान्तेशं संसारात् परिमुच्यते ।। ६ ।।
कर्मणा देहमाप्नोति देही कामेन बध्यते ।
स कामं मयि संयुज्य प्राप्नुयान्मत्परं पदम् ।। ७ ।।
मां विना कामनायुक्ता क्रोधेन चाभिभूयते ।
लोभस्तां प्रविशत्येव धर्मनाशं करोत्यपि ।। ८ ।।
मतिभ्रान्तिं जनयति पापं नयति मानवम् ।
एवं पापस्य मूलं स्याच्छरीरं मां विना प्रिये ।। ९ ।।
तस्मान्मद्योगमासाद्य दोषान्निर्गुणकान् व्रजेत् ।
सर्वां दृष्टिं च संगृह्य शेते योऽक्षरधामनि ।। 3.47.१ ०।।
तं मा वै मोक्षदं ज्ञात्वा सेवेत सत्यधर्मिणी ।
वेदार्थविद्भिः कर्मज्ञैरिज्यते विविधैर्मखैः ।। १ १।।
व्रतिभिस्तापसैर्योगसाधकैर्ज्ञानयज्ञकैः ।
स एव कर्मफलदो मोक्षदोऽकामकर्मणाम् ।। १ २।।
हव्यकव्यादिदानेषु देवतापितृरूपधृक् ।
भुंक्ते यो भगवान् मां तं मोक्षदम् ऋषयो विदुः ।। १ ३।।
ध्यातः प्रणमितो वापि पूजितो वापि भक्तितः ।
ददामि शाश्वतं धाम तं मां हरिं समर्चयेत् ।। १४।।
आधारः सर्वभूतानामेकोऽहं परमेश्वरः ।
जरामृत्युविनिर्मुक्तो मोक्षदोऽस्म्यव्ययो हरिः ।। १५।।
सम्पूज्य मम पादाब्जं देहिनोऽपि नरायणि ।
अमृतत्वं भजन्त्याशु मां विद्धि पुरुषोत्तमम् ।। १६।।
आनन्दमजरं ब्रह्म परं ज्योतिः सनातनम् ।
परात्परतरं सोऽहं तद्विष्णोः परमं पदम् ।। १७।।
अद्वयं निर्गुणं नित्यमद्वितीयमनौपमम् ।
परिपूर्णतमं ज्ञानमयं मोक्षस्य साधनम् ।। १८।।
एवंविधं तु मां लक्ष्मि सेवया सर्वभावया ।
या तूपास्ते योगिनी सा याति मत्परमं पदम् ।। १ ९।।
निर्गुणा संगरहिता शमादिगुणशोभना ।
वासनावर्जिता ब्राह्मी प्रिया यात्यक्षरं पदम् ।।3.47.२० ।।
ममाऽवताररूपाणि भवन्ति युगलानि वै ।
समर्थयन्ति मां सर्वे शाश्वतस्थानदं हरिम् ।।२ १ ।।
यस्याऽभिन्नमिदं सर्वं यच्चेंगद् यच्च नेंगति ।
तमूर्ध्वमजरं ध्यात्वा संसारान्मुच्यते सती ।। २२।।
जितप्राणा जिताहारा मम सेवापरायणा ।
हृदि पश्यति मां कान्तं सर्वानन्दसुखप्रदम् ।।२३ ।।
निर्गुणोऽपि गुणाधारो भूत्वा सेवां सतीकृताम् ।
अङ्गीकरोमि सर्वस्वां लोकानुग्रहरूपधृक् ।। २४।।
अध्यक्षः सर्वकार्याणां देहिनां हृदये स्थितः ।
अनुपमोऽखिलाधारस्तं मां वै शरणं व्रजेत् ।।२५।।
महदाद्या विशेषान्ता जाता यस्येच्छया कृतेः ।
तं विद्यान्मां हरिं कृष्णनारायणमनामयम् ।।२६।।
यस्याऽऽज्ञया जगच्चानिरुद्धः सृजति रूपवत् ।
प्रद्युम्नः पालकश्चास्ते संकर्षणो विकर्षति ।।२७।।
ब्रह्मविष्णुमहेशाश्च तदंशास्तत्क्रियापराः ।
तं मां सर्वांशधर्तारं विद्यान्मुक्तिं व्रजेत् ततः ।।२८।।
यज्ज्ञानं भक्तिमूलं स्यान्मोक्षदं ज्ञानमित्यपि ।
भक्तिः कर्मात्मिका स्नेहसेवात्मिका शुभोत्तमा ।।२९।।
दानानि यज्ञा विविधा व्रततीर्थार्हणादिकाः ।
यया पूर्वे कृतास्तस्या भक्तिर्भवेद्धरौ मयि ।।3.47.३०।।
शाश्वतः परमो धर्मो भक्तिलेशेन शोभते ।
श्रद्धया परया युक्तो मयि भागवतो भवेत् ।।३ १ ।।
दोषाणां विलये बुद्धिः प्रसन्ना जायते सदा ।
दोषा रागादयस्ते च मयि क्षिप्ता विशारदाः ।।३२।।
गुणा एव प्रजायन्ते विवर्तन्ते यतो मयि ।
तैर्युक्ता च मतिः श्रेष्ठा प्रसन्ना च विशारदी ।।३ ३।।
सा ज्ञानात्मकधारा च तदा प्राप्यो भवाम्यहम् ।
सा मतिर्ज्ञानरूपा वै मोक्षदा मम धामदा ।।३४।।
क्रियायोगं मयि कृत्वा मतिनैर्मल्यमर्जयेत् ।
सेवायोगेन मां नित्यं ततो दासी प्रसेवयेत् ।।३५।।
साधुभूर्वार्वह्निसूर्यविप्रहृच्चित्रधातुजाः ।
साध्वीगोयोगिबुद्ध्याद्याः प्रतिमा मम मूर्तयः ।।३६।।
देवताचैत्यतीर्थाद्याः प्रतिमाश्च विभूतयः ।
एतासु पूज्य एवाऽहं पत्याविव जनार्दनः ।।३७।।
कर्मणा मनसा वाचा भक्त्या सर्वगतं च माम् ।
पूजयेद् भक्तिसंयुक्ता या सा ब्राह्मी भविष्यति ।।३८।।
वध्वा पत्यौ नरभावो नेशभावो भवत्यपि ।
कामक्रोधादिदोषाणां दर्शनाद् दिव्यता न वै ।।३९।।
किन्तु पत्यौ कृता स्याच्चेद् दिव्यता मनसा सदा ।
वध्वा नारायणदृष्ट्या सेवा सा मुक्तिदा भवेत् ।।।3.47.४०।।
नार्या मूर्तौ प्रतिमायां दिव्यदृष्टिः कृता यदि ।
सा स्यात्तस्या मोक्षदा वै शिवलिंगे यथा मतिः ।।४१ ।।
साधवश्च तथा साध्व्यो मूर्तयः प्रतिमा मम ।
तासु दृष्टिं शुभां दिव्यां कृत्वा सेवां समाचरेत् ।।४२।।
पाञ्चभौतिकप्रतिमाश्चेतनास्ता ममैव ह ।
तासां संप्रीणनाच्चाऽहं प्रसन्नः संभवामि हि ।।४३।।
क्रियार्पणं कृतं तत्र गृह्णामि सेवनात्मकम् ।
ददामि सेविकायै तु धामाऽक्षरं पदं परम् ।।४४।।
अहिंसासत्यमक्रोधो ब्रह्मचर्याऽपरिग्रहौ ।
अनीर्ष्या च दया शान्तिः सेवा च सद्गुणा इमे ।।४५।।
सर्वान् विन्यस्य च मयि मम योगं समाचरेत् ।
चराचरात्मको नाथः श्रीकृष्णपुरुषोत्तमः ।।४६।।
मत्वैव श्रीहरिं नैजं पतिं कृत्वा भजेत् प्रिया ।
योगोऽयं साध्यरूपो वै श्रेष्ठः साक्षान्मदात्मकः ।।४७।।
मम प्राप्तिस्वरूपः स जानन्त्येनं मनीषिणः ।
दोषान् विहाय कृत्वैव गुणरूपान् हरौ मयि ।।४८।।
आनुकूल्येन सर्वेशं कान्तं मां प्रभजेत् सती ।
मुक्त्यर्थमर्चयेन्नित्यं क्रियायोगपरा प्रिया ।।४९।।
रता लोकहिते चापि स्वहिते च रता तथा ।
समर्चयति मां साध्वी दिव्यक्रियावती हि सा ।।3.47.५०।।
नारायणं जगद्योनिं सर्वान्तर्यामिणं हरिम् ।
स्तोत्राद्यैः स्तौति मां प्रातः कीर्तनैर्गायति प्रभुम् ।।५१ ।।
उपवासादिभिश्चापि कथाश्रवणचिन्तनैः ।
पुष्पाद्यैश्चाऽर्चनं चापि क्रिया दिव्या हि सा मता ।।५२।।
भक्तिक्रियावतामेवं दोषा नश्यन्ति मूलतः ।
दिव्यभावं प्रयान्त्येव कामक्रोधादयोऽपि च ।।५३।।
मतिर्दिव्या भवेच्चापि मोक्षदा ज्ञानसंभृता ।
एकं नारायणं मां च ऋते सर्वमनित्यकम् ।।५४।।
अनित्यास्तु पदार्था वै नित्यस्त्वेको हरिः प्रभुः ।
अनित्यैः साधनैर्वै च नित्यमेकं समाश्रयेत् ।।५५।।
इहाऽमुत्र च भोगेषु विरक्ता तु सदा भवेत् ।
अविरक्ता हि संसारान्निवर्तते न वै क्वचित् ।।५६।।
शमादिगुणसम्पन्नाऽभ्यस्येन्मोक्षविबोधनम् ।
हरिध्यानपरा स्याच्च विशुद्धमतिका भवेत् ।।५७।।
सर्वत्र भावयेन्मां च श्रीपतिं पुरुषोत्तमम् ।
क्षराऽक्षरात्मकं विश्वं व्याप्य कृष्णोऽहमास्थितः ।।५८।।
इति ज्ञात्वा भजेन्मां च सर्वत्र भक्तिमाश्रिता ।
आत्मा द्वेधा परश्चाप्यपरश्चेति स्वभावतः ।।५९।।
परमात्मा परश्चाऽहं श्रीकृष्णपुरुषोत्तमः ।
ममाऽवतारा बहवो राधाकृष्णादयो मताः ।।3.47.६०।।
मम मूर्तेः शुभं तेजश्चात्माऽक्षरो निगद्यते ।
मुक्ताश्च बहवः सन्ति सर्वेऽपरा भवन्ति ते ।।६ १।।
ईश्वराः शक्तयो देवा देव्यश्च मानवादयः ।
सर्वे चापरजीवास्ते भवन्ति भवदेहिनः ।।६२।।
एवं चेतनविज्ञानं जीवात्मपरमात्मनोः ।
कृत्वा भजेत्परं कृष्णनारायणं सदा सती ।।६३।।
एकः शुद्धोऽक्षरपरः परमात्माऽऽत्मनां पतिः ।
मायाकालाऽक्षरपतिश्चावतारपतिः प्रभुः ।।६४।।
सतां पतिर्मुक्तपतिर्ब्रह्मप्रियापतिर्हरिः ।
सतीपतिर्भक्तपतिर्भक्तापतिः प्रियापतिः ।।६५।।
ब्राह्मीपतिः सर्वपतिः स्वपतिः परमेश्वरः ।
अनादिश्रीकृष्णनारायणश्चेति विभावयेत् ।।६६।।
एकमेवाऽद्वितीयं यत्परं ब्रह्म सनातनम् ।
वेदान्तवेद्यं तद्वै मां विदित्वाऽक्षरमाव्रजेत् ।।६७।।
एक एव परानन्दो निर्गुणः परतः परः ।
दिव्यगुणैर्भृतो नारायणोऽहं परमेश्वरः ।।६८ ।।
ज्ञानिनां परमात्माऽहं हृदि भामि निरन्तरम् ।
अष्टसोपानसंसिद्धा याति मत्परमं पदम् ।।६ ९।।
आहारशुद्धिः प्रथमा देहशुद्धिर्द्वितीयका ।
तृतीयेन्द्रियशुद्धिश्च चतुर्थ्यान्तरशुद्धिका ।।3.47.७ ० । ।
पञ्चमी त्वात्मशुद्धिर्वै षष्ठी परात्मधारणा ।
सप्तमी ध्यानवृत्तिश्चाष्टमी तत्रैव लग्नता । ।७ १ ।।
इति कृत्वाऽष्टकं साध्वी मां समासेन संश्रयेत् ।
मत्प्रसादाशना स्याद्धि चाहारशुद्धिरेव सा ।।७२ ।।
मम दीक्षायुता स्याच्च देहशुद्धिर्मता हि सा ।
इन्द्रियाणि मदर्थं वै तृतीया शुद्धिरेव सा ।।७३ ।।
करणानि मदर्थं चान्तरा शुद्धिर्हि सा मता ।
आत्माऽर्पणं मयि कृष्णे दिव्यसद्गुणशालिता ।। ७४।।
सत्त्वप्रकर्ष एवाऽत्र त्वात्मशुद्धिर्मता हि सा ।
निजात्मानं ब्रह्मरूपं विभावयेत् सदा सती ।।७५ ।।
मुक्तां नित्यां महामुक्तां लक्ष्मीरूपां सनातनीम् ।
आत्मशुद्धिर्हि सा प्रोक्ता मायामायिकवर्जिता ।।७६ ।।
निजं सिंहासनं कृत्वा परेशं मां च वाहयेत् ।
धारयेत् स्थापयेच्चापि मम योगं समाचरेत् ।। ७७ ।।
मम धारणयोग्याया रूपे वसामि चेतने ।
मम वासः स एवाऽस्याः परात्मधारणा मता ।। ७८ ।।
मयि प्रत्ययभावस्य त्वेकतानत्वमेव यत् ।
सर्वानन्दप्रवाहस्य त्वेकतानत्वमेव यत् ।। ७९ ।।
सर्वप्रकाशपूरस्य चैकतानत्वमेव यत् ।
सर्वचैतन्यपूरस्य चैकतानत्वमेव यत् ।।3.47.८० ।।
यावत्प्रज्ञाप्रवाहस्य चैकतानत्वमेव यत् ।
अविच्छिन्नप्रवाहस्य मयि लग्नत्वमेव यत् । ।८ १ ।।
सप्तमीध्यानवृत्तिः सा प्रोक्ता सोपानिका वरा ।
वृत्तीनां श्रीहरौ जाते वलयात्मलयेऽधिके ।।८ २।।
आकृष्टस्य चेतनस्याऽर्पणं चाभिन्नयोगिता ।
समाधिः परमः सोऽत्र शाश्वतानन्ददोहनः ।।८ ३ ।।
परमेशस्वरूपस्य निर्भासो यत्र विद्यते ।
स्वनिर्भासो न वै चास्तेऽष्टमी सा परमा स्थितिः ।।८४ ।।
ब्रह्मानन्दमयी मूर्तिर्निजा परेशरूपिणी ।
यदा विभासतेऽश्नुते सर्वान् कामान् मया सह ।।८५ ।।
सुखं तृप्तिश्च सन्तोषस्तुष्टिश्चानन्द उत्सवः ।
रतिः प्रसन्नता मोदः प्रमोदो रञ्जनं च चित् ।।८६ ।।
लहरी तानता भोगः सत्त्वं चैश्वर्यमुत्तमम् ।
प्रफुल्लता च पुलकः स्नेहः प्रीतिर्विरामिता ।।८७।।
आकर्षणं च विश्रान्तिर्महासुषुप्तिरित्यपि ।
तुर्यावस्था निजानन्दश्चेत्येवं बहुनामभिः ।।८८।।
फलं प्रवर्ण्यते तज्ज्ञैस्तद्वत्ता चाष्टमी स्थितिः ।
तां प्राप्य पुनरावृत्तिर्विद्यते नैव नैव न ।।८९।।
एवमष्टांगयोगेन मयोक्तेन नरायणि ।
अनादिश्रीकृष्णनारायणं मां वै विवाहयेत् ।।3.47.९०।।
हरिभक्तिर्दृढा यस्या हरिपूजा तथोत्तमा ।,
तस्या विशुद्धियोगिन्या मोक्षो हस्तगतोऽस्ति वै ।।९१ ।।
हरौ मयि स्थिरा स्याच्च समासीत मयि प्रभौ ।
श्रेष्ठासनं हि तद्बोध्यं प्राणं मां च समाश्रयेत् ।।९२।।
प्रत्याहरणमेवापि मय्येव च समाचरेत् ।
प्रयाता स्यात्परब्रह्म पुनरावृत्तिवर्जितम् ।।९३।।
निजात्मनि प्रवेशयेत् परमेशं श्रियःपतिम् ।
अनादिश्रीकृष्णनारायणं मां स्थापयेत् सती ।।९४।।
सर्वात्मानं निजात्मानं सर्वलोकैककारणम् ।
सुरूपं कान्तिकान्तं च तेजःपरिधिराजितम् ।।९५।।
मनोगम्यं युवानं च सर्वकामप्रपूरकम् ।
विकसत्पद्मपत्राऽक्षं चारुकुण्डलभूषितम् ।।९६।।
दीर्घबाहुमुदारांगं सर्वालंकारभूषितम् ।
पीताम्बरधरं कान्तं पतिं योग्यं सुसंगिनम् ।।९७।।
हेमयज्ञोपवीतं च बिभ्रत्सत्तुलसीस्रजम् ।
श्रीवत्सवक्षसं हारमणिकौस्तुभशोभितम् ।।९८।।
ध्यायेन्मां परमात्मानं परं मोक्षं लभेत्ततः ।
ध्यानात्पापानि नश्यन्ति ध्यानान्मोक्षो भवेदपि ।।९९।।
हरिः प्रसीदति ध्यानाद् ध्यानेऽहं समवस्थितः ।
ध्यानं ध्येयं ध्यातृभावं त्रयमेकीभवेद् यदा ।। 3.47.१०० ।।
तदाऽमृतत्वं भवति ज्ञानामृतं निषेवते ।
महानन्दं प्रभुंक्ते च भुंक्ते ब्रह्मामृतं सदा ।। १० १।।
शब्दब्रह्माऽक्षरब्रह्मकरणब्रह्म चेत्यपि ।
आत्मब्रह्म परब्रह्म चैकीभवन्ति तानि वै ।। १ ०२।।
महानन्दसमुद्रे वै मुक्तिः समाधिजा हि सा ।
आनन्दो वै परब्रह्म परब्रह्म हरिः प्रभुः ।। १०३।।
ओमित्येव परब्रह्म सच्चिदानन्द एव सः ।
एतदभ्याससंयुक्ता परं मोक्षं व्रजत्यपि ।। १ ०४।।
या त्वेतच्छृणुयाच्चापि पठेद्वापि समाहिता ।
सा मदैक्यं समापन्ना हरिप्रिया भवेद् ध्रुवम् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां साक्षात्परब्रह्मयोगनिरूपणनामा सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।