लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०५२

← अध्यायः ५१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ५२
[[लेखकः :|]]
अध्यायः ५३ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कुञ्जलस्तुर्यपुत्रकम् ।
कपिञ्जलं च पप्रच्छ नूतनं किं विलोकितम् ।। १ । ।
श्रुत्वा कपिञ्जलः प्राह कैलासे धवले गिरौ ।
शिवस्याऽऽस्ते दिव्यमर्थ्यं मन्दिरं स्वर्गसन्निभम् ।। २ ।।
सेवितं पुण्यलोकैश्च गणैर्गणीभिरुत्तमम् ।
तत्राऽहं गतवानद्य गंगाप्रवाहसन्निधौ ।। ३ ।।
गंगाह्रदो महानस्ति तत्र हंसा वसन्त्यपि ।
वारितीरे शिलायां हिं कन्यैका संविलोकिता ।।४।।
आसीना मुक्तकेशा च रूपलावण्यशोभिता ।
दिव्याऽलंकारशृंगाराऽम्बरशोभान्विता शुभा ।। ५ ।।
दुःखाकुला रोदिति साऽश्रूणि मुञ्चति धारया ।
मुक्तामौक्तिकतुल्यानि पतितानि ह्रदोदके ।। ६ ।।
तेभ्यो भवन्ति पद्मानि हृद्यानि सुरभीणि च ।
नेत्राश्रुजानि पद्मानि तरन्त्यसंख्यकानि वै ।। ७ ।।
तानि पद्मानि चादाय कश्चित्पुण्यमयो मुनिः ।
दिग्वासा जटिलो दण्डी तापसो भस्मवान् कृशः ।। ८ ।।
पूजयति हरं रत्नेश्वरं नृत्यति गायति ।
हसति सुस्वरं चापि दृष्टमेतन्मयाऽद्भुतम् ।। ९ ।।
पितः कः स भवेत्तत्र का सा नारी च वा भवेत् ।
नारी प्ररोदिति कस्माद् वद मे सर्वमेव तत् ।। 3.52.१ ०।।
श्रुत्वा स कुञ्जलः पुत्रं कपिञ्जलमुवाच ह ।
पुत्र शृणु महादेवी त्वेकदा प्राह शंकरम् ।। ११ ।।
दर्शयस्व ममैवाऽद्य काननं काननोत्तमम् ।
महादेवस्तथाऽस्त्वाह ततः सज्जो बभूव ह ।। १२।।
वृषभं चारुरोहाऽपि गणैर्देव्या युतो हरः ।
नन्दनाख्यं प्रविवेश वनं दिव्यं मनोहरम् ।। १ ३।।
दर्शयामास देव्यै तद्वनं स्मृद्धं समन्ततः ।
कल्पवृक्षान् कल्पवल्लीर्दर्शयामास शंकरः ।। १४।।
पार्वती चाकरोत्तत्र संकल्पं कन्यकाकृते ।
कल्पवृक्षात् ततस्तूर्णं कन्यैका समजायत ।। १५।।
स्वस्वरूपा स्वसमाना युवती कमलेक्षणा ।
पद्मानना स्वर्णदेहा सप्रभा लम्बमूर्धजा ।। १६।।
सुगन्धदेहा दिव्या च भूषाम्बरविभूषिता ।
दिव्यशृङ्गारशोभाढ्या वनदेवी यथा शुभा ।। १७।।
कन्या ननाम भक्त्या च पादयोः शिवयोस्तदा ।
पार्वती तां तु पुत्रीं स्वां स्वीचकार हि मानसीम् ।। १८।।
अशोकसुन्दरीनाम्नीं प्राह तां पार्वती ततः ।
सोमवंशे नहुषाख्यो नृपस्ते वै पतिः सुते! ।। १९।।
भविष्यतीति तस्यै सा वरं दत्त्वा हि पार्वती ।
वने विसृज्य कैलासं शंभुना सह चाययौ ।।3.52.२०।।
अशोकसुन्दरी रेमे नन्दने वनदेवता ।
तामेकदा विप्रचितिदैत्यात्मजस्तु हुण्डकः ।।२१ ।।
दृष्ट्वा कामेन चाविष्टः पत्नीं कर्तुं समादिशत् ।
अशोकसुन्दरी प्राह शिवयोरस्मि कन्यका ।।२२।।
नहुषो मे पतिर्भावी पार्वती मां जगाद ह ।
मा वृथा त्वं प्रयतस्व विपरीतं भविष्यति ।।२३।।
महाशापेन योक्ष्यामि गच्छाऽन्यत्र महासुर! ।
श्रुत्वा हुण्डस्तिरोभूत्वा चिन्तयामास वै पुनः ।।२४।।
कथं भार्या भवेत् सा मे कपटं रचयामि तत् ।
विचार्येत्थं देवकन्यारूपं दधार हुण्डकः ।। २५।।
वने तत्र तया सार्धं मित्रतां कृतवाँस्ततः ।
आश्रमं मेऽत्र गंगायास्तीरेऽस्तीति जगाद ताम् ।।२६।।
अशोकसुन्दरी हुण्डाश्रमं ययौ सुखान्विता ।
हुण्डिकाकन्यया सार्धं न्यवसत्तत्र तापसी ।।२७।।
भोजने शयने चापि विहारे सहगे हि ते ।
वर्तेते ते सखीरूपे स्नाने निद्रास्थलादिषु ।।२८।।
रात्रौ ते त्वेकशय्यायां सुप्ते तत्र तु हुण्डिका ।
हुण्डकं नररूपं च विधायाऽशोकसुन्दरीम् ।।२९।।
कामभावेन पस्पर्श तदा त्वशोकसुन्दरी ।
अप्राप्तनिद्रा तं ज्ञात्वाऽसुरं कपटकन्यकाम् ।। 3.52.३०।।
उवाच मा स्पृशाऽत्र त्वं भस्म तूर्णं भविष्यसि ।
त्रस्तो हुण्डस्तदा तूर्णं पपात पादयोः पुनः ।।३ १ ।।
अशोकसुन्दरी प्राह मम भर्ता नृपो हि सः ।
आगत्याऽत्र वने दुष्ट! तव नाशं विधास्यति ।।३२।।
इत्युक्त्वा प्रययौ तूर्णं गंगातीरे वनान्तरे ।
तापसी वर्तते तत्राऽशोकसुन्दरी भामिनी ।।३३।।
अथ राजा ऐलपुत्र आयुः पुत्रार्थमेव ह ।
दत्तात्रेयात् प्रार्थयच्च सुपुत्रं सद्गुरोर्हरेः ।।३४।।
दत्तात्रेयो वरदानं ददौ हि पुत्रवान् भव ।
सर्वगुणैः समुपेतो वैष्णवांशेन संयुतः ।।३५।।
पुत्रस्ते सार्वभौमश्च महेन्द्राभो भविष्यति ।
इत्याशिषं समासाद्य त्वायुः स्वराज्यमाययौ ।।३६।।
नागाभिधे पुरे राजा चेन्दुमत्या स्त्रिया समम् ।
रेमे लेभे च नहुषं पुत्रं यथोक्तलक्षणम् ।।३७।।
हुण्डश्छिद्रं समासाद्य पुत्रं जहार चाम्बरे ।
निनाय स्वगृहे रात्रौ राक्षस्यै चार्पयत् सुतम् ।।३८।।
मारयित्वा पाचयित्वा भोजनार्थं निवेदितम् ।
राक्षसी विकलानाम्नी दयावती तु बालकम् ।।३९।।
रात्रौ विशिष्टकुट्यां सा निक्षिप्य चागता द्रुतम् ।
हरिणं पाचयित्वा च भोजयामास हुण्डकम् ।।3.52.४०।।
हुण्डस्तु निर्भयो जातो बालो मया हि खादितः ।
अथ वशिष्ठः प्रातश्च ददर्श बालकं शुभम् ।।४१ ।।
वर्धयामास दिव्यं तं विष्णुलक्षणलक्षितम् ।
ज्ञानं शस्त्राणि शास्त्राणि नीतिं कला वृषं तथा ।।४२।।
अध्यापयामास बालं राज्ययोग्यं चकार ह ।
इन्दुमत्यै प्रातरेव नारदः प्राह तद्दिने ।।४३ ।।
मा शोकं कुरु पुत्रस्ते वशिष्ठस्याऽऽश्रमेऽस्ति वै ।
हुण्डं दैत्यं नाशयित्वा विवाह्याऽशोकसुन्दरीम् ।।४४।।
शिवपुत्रीपतिर्भूत्वा गृहं ते चाऽऽगमिष्यति ।
इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा ।।४५।।
इत्युक्त्वा पूजनं प्राप्य नारदोऽन्तर्दधे तदा ।
अथ पुत्रं च नहुषं वशिष्ठः प्राह पुत्रक! ।।४६।।
फलान्यानय वन्यानि धनुर्धारी प्रयाहि वै ।
राजा त्वाज्ञां समादाय ययौ वन्यार्थमेव ह ।।४७।।
हुण्डस्तत्राऽऽययौ दृष्ट्वा कुमारं देवतोपमम् ।
अपहर्तुं नाशयितुं मनश्चक्रे हि दैत्यराट् ।।४८।।
युयुधे च समागत्य नहुषेण समं बली ।
नहुषाय सहस्राक्षो ददौ शस्त्राणि वै तदा ।।४९।।
देवा दिव्यानि चास्त्राणि ददुस्तदा हि वै क्षणात् ।
इन्द्रो रथं ददौ चापि मातलिसंयुतं शुभम् ।।3.52.५०।।
विष्णुश्चक्रात् समुत्पाद्य चक्रं दीप्तं ददौ तदा ।
शंभुः शूलं ददौ चापि ब्रह्मास्त्रं प्रददावजः ।।५१ ।।
युयुधे नहुषः सोऽयं हुण्डेन मायिना तदा ।
देवा देव्यश्च गन्धर्वा जगुर्जयं तु नाहुषम् ।।५२।।
हुण्डो ज्ञात्वा निजं शत्रुं युयुधे चातिवेगतः ।
तत्र सर्वे दानवाश्च युयुधिरे चकम्पिरे ।।५३।।
सेहिरे दानवा नैव बाणवर्षं हि नाहुषम् ।
मृताः केचिद् द्रुता केचिन्नष्टाः केचिन्महाहवे ।।५४।।
रथस्थेन तु हुण्डेन ताडितो नहुषस्तदा ।
त्रिभिर्ध्वजं प्रचिच्छेद हुण्डस्य सायकैर्बली ।।५५।।
चतुर्भिस्तुरगाँश्चापि छत्रं त्वेकेन वै तथा ।
दशभिः सारथिं पश्चादेकेन च भुजं पुनः ।।५६।।
चिच्छेद नहुषस्तत्र शक्तिं मुमोच तद्धृदि ।
हुण्डस्तु पतितो भूमौ ममार प्राणतस्तदा ।।५७।।
देवाः प्रहर्षं जग्मुश्च पुष्पवृष्टिं जयं व्यधुः ।
अशोकसुन्दरी श्रुत्वा दैत्यवधं प्रहर्षिता ।।५८।।
नहुषं प्राप्य चोवाच धर्मपत्नी भवामि ते ।
समुद्वहस्व मां वीर देवैर्हि निर्मिता तव ।।५९।।
नहुषः प्राह भद्रं ते गुरोर्वाक्योत्तरं प्रिये ।
भद्रे त्वामुद्वहिष्यामि रथे तिष्ठ मया सह ।।3.52.६०।।
इति तां रथमारूढां नीत्वा गुर्वाश्रमं ययौ ।
निवेदयामास सर्वं गुरवे नृपबालकः ।।६ १।
वशिष्ठो हर्षमापन्नस्तिथौ लग्ने शुभे तयोः ।
विवाहं कारयामास वह्निभूसुरसन्निधौ ।।६२।।
आशीर्भिरभिनन्द्यैनं प्रेषयामास तत्पुरम् ।
नागाह्वयं पुरं गुरुर्नहुषोऽपि ययौ ततः ।।६३।।
पितरं मातरं नत्वा जगाद सर्वचेष्टितम् ।
आयुश्चेन्दुमती लब्ध्वा सभार्यपुत्रमुत्तमम् ।।६४।।
महोत्सवं प्रचक्राते पुत्रस्याऽऽगमनं प्रति ।
नहुषोऽपि धनुर्धृत्वा महेन्द्रस्य रथेन वै ।।६५।।
जिगाय पृथिवीं सर्वां सप्तद्विपां सपत्तनाम् ।
पितरं याजयामास राजसूयादिभिस्ततः ।।६६।।
अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् ।
अभ्यषिञ्चन्महात्मानं नहुषं वै नराधिपम् ।।६७।।
अर्धेन्द्रपदभाग् जातो नहुषो वैष्णवांशवान् ।
शिवपुत्रीपतिः श्रीमान् गुरोर्बलात् प्रतापवान् ।।६८।।
वशिष्ठस्य प्रतापेन महेन्द्रो मानवोऽभवत् ।
शिवागुर्वीप्रतापेन कन्या चाशोकसुन्दरी ।।६९।।
अर्धेन्द्राण्यभवत् तत्र देवी या वनदेवता ।
इन्दुमतीं निजश्वश्रूं सिषेवे किंकरी यथा ।।3.52.७० ।।
अथ गंगातटे या तु रोदिति तां शृणु स्त्रियम् ।
हुण्डे मृते तु तत्पुत्रो विहुण्डस्तप आचरत् ।।७१ ।।
देवान् हन्तुं कृतमतिस्त्रैलोक्यं हन्तुमुद्यतः ।
पितुर्वैरं हरिष्यामि हनिष्यामि नरान् सुरान् ।।७२।।
इति निश्चित्य गंगायास्तटे स नन्दने वने ।
ययौ यदा तदा विष्णुर्नारीरूपो बभूव ह ।।७३।।
मोहयितुं विहुण्डं तं नाशयितुं तु युक्तितः ।
तां मायां वैष्णवीं दृष्ट्वा मुमोह तु विहुण्डकः ।।७४।।
उवाच तां वरारोहे संगमं देहि मेऽनघे ।
मायोवाच यदि मां त्वं भोक्तुमिच्छसि चेत्तदा ।।७५।।
सप्तकोटिमितैः पुष्पैः प्रसंपूजय शंकरम् ।
कामोदासंभवैर्दिव्यैः सुगन्धैर्देवदुर्लभैः ।।७६।।
तत्पुष्पाणां कृतां मालां मम कण्ठे समर्पय ।
तदाऽहं सुप्रिया भार्या भविष्यामि तवाऽनघ ।।७७।।
इत्युक्तश्चाऽसुरश्चापि मार्गयामास तद्द्रुमम् ।
अप्राप्य तां ययौ नारीं पप्रच्छ तद्द्रुमं पुनः ।।७८।।
नारी प्राह द्रुमो वै न तादृशो विद्यते क्वचित् ।
कामोदा विद्यते कन्या गंगाह्रदे प्रतिष्ठति ।।७९।।
कामोदाख्या तु सा साध्वी यदा हसति वै तदा ।
उत्पद्यन्ते हि पुष्पाणि तस्या हासाच्छुभानि वै ।।3.52.८०।।
कामोदानि सुगन्धानि पीतानि शोभनानि वै ।
तेनाऽप्येकेन पुष्पेण यः पूजयति शंकरम् ।।८१।।
तस्येप्सितं महाकामं सम्पूरयति शंकरः ।
तस्यास्तु रोदनाच्चापि लोहितानि सुमानि वै ।।८२।।
प्रभवन्ति न वै तेषां स्पर्शं कुर्यात् कदाचन ।
रोदनोत्थकुसुमानां स्पर्शेऽनिष्टं यतो भवेत् ।।८३।।
गंगाह्रदे गच्छ तत्र प्रहासय च तां स्त्रियम् ।
यद्वा तद्धास्यजातानि पुष्पाणि तु बहून्यपि ।।८४।।
गंगाप्रवाहे चायान्ति पतितानि गृहाण च ।
इत्युक्तो दानवो गंगाप्रवाहे समलोकयत् ।।८५।।
प्रवाहितानि कामोदारोदनोत्थसुमानि वै ।
जग्राह तानि सारल्यादपूजयच्च शंकरम् ।।८६।।
अनिष्टं तत्प्रजातं वै तेन क्रुद्धो हि शंकरः ।
हुंकारमकरोत् तेन दानवो वै मृतोऽभवत् ।।८७।।
देवकार्यं कृतं त्वेवं विष्णुना प्रभविष्णुना ।
विष्णुर्नारीस्वरूपः स तिरोभावं ययौ तदा ।।८८।।
देवताः सुप्रसन्नाश्च जाता हुण्डस्य नाशनात् ।
अथाऽब्धिमथने जाता चतस्रः कन्यकाः पुरा ।।८९।।
अलक्ष्मीर्वारुणी कामोदा च लक्ष्मीश्चतुर्थिका ।
उद्दालकाय चाऽलक्ष्मीर्दत्ता तदाऽब्धिना ततः ।।3.52.९०।।
वरुणाय च वै देवी वारुणी त्वब्धिनाऽर्पिता ।
कामोदा विष्णवे दत्ता तूलसी या भविष्यति ।।९ १।।
लक्ष्मीश्च विष्णवे दत्ता वैकुण्ठसहवासिनी ।
कामोदा सा त्वब्धिपुत्री सुधोत्था नारदात् खलु ।।९२।।
शुश्राव विष्णोर्मानुष्ये जन्म भावि पुनः पुनः ।
कामोदा चाऽसहमाना विष्णोर्वियोगमेव सा ।।९३।।
रुरोद वै मुहुर्गंगामूले गत्वा तदैकला ।
रोदनात् खलु जातानि रक्तपुष्पाणि तानि वै ।।९४।।
तत्पूजोत्थफलं दैत्यमरणं समजायत ।
कामोदाया हास्यहेतुं शृणु तत्कथयामि वै ।।९५।।।
यदा सा तुलसीरूपा तदा विष्णोः प्रपूजने ।
निजपत्राणि दत्त्वैव चोपयुक्ता भविष्यति ।। ९६ ।।
तया सह जगन्नाथो रमिष्यति सदैव हि ।
स्मृत्वैवं हसति कन्या कामोदा वै क्वचित् क्वचित् ।।९७।।
मञ्जरी हास्यजन्या च बोद्धव्या तुलसीभवे ।
तुलस्याः पत्रमेकं वा मञ्जरीं विष्णवेऽर्पयेत् ।।९८।।
ब्रह्मणे शंकरायाऽपि तदेष्टफलभाग् भवेत् ।
इतीत्थं पुष्पपूजोत्थफलं बोध्यं शुभावहम् ।।९९।।
कपिञ्जल तथा नारी कामोदा रोदनान्विता ।
हास्यान्विता च पुष्पाणामुत्पादिका प्रदर्शिता ।। 3.52.१० ०।।
विहुण्डः पुण्यहर्ताऽपि तुभ्यं मया प्रदर्शितः ।
एवं विष्णुरूपगुरोस्तीर्थयोगेन तूलसी ।। १०१ ।।
सदा पूज्या च कामोदा तत्पुण्यं पूज्यतेऽपि च ।
पुष्पैश्च पूज्यते देवमण्डलं सर्वदा सुत ।। १ ०२।।
गुरुतीर्थं महत्प्रोक्तं भुक्तिमुक्तिप्रदं सदा ।
विहुण्डो नाशमापन्नो ययौ कैलासमेव सः ।। १ ०३।।
शंभुतीर्थस्य योगेन हुण्डोपि नृपयोगतः ।
स्वर्गं गतो हि तस्माद्वै गुरुतीर्थं विशिष्यते ।। १ ०४।।
कुञ्जलः कथयित्वैवं विरराम निजान् सुतान् ।
च्यवनस्तु तदा लक्ष्मि श्रुत्वा पप्रच्छ पक्षिणम् ।। १ ०५।।
को भवान् वर्तते चात्र दिव्यज्ञानी विहंगम! ।
पक्षी प्राह पुरा चाऽहं कश्यपस्य कुलस्य वै ।। १०६।।
विद्याधरस्य वै पुत्रो धर्मशर्मा हि नामतः ।
मूर्खोऽहमभवं पूर्णः कदाचिन्मद्गृहं प्रति ।। १ ०७।।
सिद्धायनो महर्षिश्च साधुस्तत्र समागतः ।
मया प्रसेवितः सोऽपि ज्ञानं मह्यं ददौ शुभम् ।। १ ०८।।
आशीर्वादं प्रददौ मे सिद्धायनः स वै ऋषिः ।
निःसंगो निःस्पृहो भूत्वा चैकान्तस्थानसंश्रयः ।।१०९।।
सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि ।
एकस्थानस्थितश्चापि वेत्स्यसि त्वं त्रिलोकजम् ।। 3.52.११ ०।।
एवं गुरोः प्रसादेन वेद्मि सर्वं त्रिलोकजम् ।
भवन्तं च्यवनं वेद्मि सद्गुरुं मोक्षदं परम् ।। ११ १।।
कीरभावे कारणं च मम वच्मि निशामय ।
संसर्गाज्जायते पापं संसर्गात् पुण्यमित्यपि ।। १ १२।।
मया क्रीतः शुकशिशुस्तस्य मुग्धोऽभवं सदा ।
मामेवं वदति सोऽपि तात मामेहि चाऽऽस्यताम् ।। ११३ ।।
स्नानं गच्छ महाभाग देवानर्चय चेत्यपि ।
तस्य वाक्यविनोदेन विस्मृतं धर्मकर्म मे ।। १ १४।।
अथ वाटीं गतश्चाऽहं शाकाद्यर्थं तदा गृहे ।
बिडालेन हतः पक्षी मयाऽऽगत्य विलोकितः ।। १ १५।।
अतिदुःखेन तत्पश्चान्मृतोऽहं शुकभावनः ।
मरणे शुकभावोऽहं शुकजन्मगतोऽभवम् ।। १ १६।।
जातिस्मरो भवाम्यत्र सिद्धायनप्रतापतः ।
नास्ति तीर्थं गुरुसमं ज्ञाने मोक्षे हि सर्वथा ।। १ १७।।
स्थलजादुदकाद् बाह्यं मलं नश्यति नाऽन्तरम् ।
गुरुतीर्थात् पूर्वजन्मकृतं मलं विनश्यति ।। १ १८।।
संसारे तारणायैव जंगमं तीर्थमुत्तममम् ।
अथाऽहं तर्तुमिच्छामि गुरो च्यवन तारय ।। ११ ९।।
इत्युक्त्वा पक्षिराट् पुत्रसहितो भार्यया युतः ।
पादयोरागतश्चापि च्यवनस्य महात्मनः ।। 3.52.१ २०।।
च्यवनो भगवन्नाममन्त्रं ददौ शुकाय वै ।
जलं च पाययामास कृष्णनाम्नाऽभिमन्त्रितम् ।। १ २१।।
पक्षिणस्ते गुरुं नत्वा स्मृत्वा नारायणं च माम् ।
देहाँस्त्यक्त्वा पार्षदा मे भूत्वा वैकुण्ठमाययुः ।। १ २२।।
दिव्यं तं सद्गुरुं तीर्थं लब्ध्वा मोक्षं ययुर्यतः ।
सर्वतीर्थोत्तमं तीर्थं गुरुतीर्थं भवत्यपि ।। १२३ ।।
नरो नारी मोक्षदात्री गुर्वी तीर्थस्वरूपिणी ।
वधूर्वा चाऽधवा चापि भक्ता वै मोक्षदायिनी ।। १२४।।
तां समाश्रित्य मुक्तिं वै प्रापणीया हि शाश्वती ।
साध्वी देवी सेवनीया वधूभिः पापनाशिनी ।। १२५।।
ब्राह्मी ब्रह्मप्रिया चापि हरिप्रिया पतिव्रता ।
साधुः सत्पुरुषश्चापि सद्गुरुश्च हरिप्रियः ।। १ २६।।
भुक्तिमुक्तिप्रदश्चापि सेवनीयः सदा जनैः ।
पठनाच्छ्रवणाल्लक्ष्मि चास्य मोक्षो भवेद् ध्रुवः ।। १ २७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे नहुषकथानकं कुञ्जलशुककथानकं कामोदाकथानकं च्यवनकथानकं चेत्यादिनिरूपणनामा द्वापञ्चाशत्तमोऽध्यायः ।। ५२ ।।