लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०६०

← अध्यायः ५९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ६०
[[लेखकः :|]]
अध्यायः ६१ →

श्रीनारायणीश्रीरुवाच-
वैष्णवा इति ये प्रोक्ता नारायणपरायणाः ।
भागवताः सात्त्वता ये सर्वस्वात्मनिवेदिनः ।। १ ।।
कानि चिह्नानि तेषां वै तासां च ब्रूहि मे प्रभो ।
तेषां तासां च भगवान् किं करोषि हरे विभो ।। २ ।।
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं मम भक्तस्वरूपिणीम् ।
प्रेमकथां पावनीं मे तादात्म्यभावधारिणीम् ।। ३ ।।
यत्रास्ते मम भक्तस्तु तत्राऽहं सर्वदा स्थितः ।
अहमेव सदा तेषां तासां परमदेवता ।। ४ ।।
कीर्त्यमाने हरौ नित्यं रोमाञ्चो जायते मुहुः ।
कम्पः स्वेदस्तथाऽक्षेषु दृश्यन्ते जलबिन्दवः ।। ५ ।।
मम भक्तिपरान्पुंसो नारीर्वा वीक्ष्य वै द्रुतम् ।
प्रीतिर्भवति चान्तर्गा येषां यासां स वैष्णवः ।। ६ ।।
नान्यदाच्छादयेद् वस्त्रं नान्याधीना भवेत् सती ।
वैष्णवं सात्त्वतं दृष्ट्वा प्रेम्णा सम्मुखसंस्थिता ।। ७ ।।
प्रणामादि करोत्येव श्रीकृष्णे वे यथा मयि ।
भक्तं भक्तां च वा वीक्ष्य भक्तो भक्ता नमेद् द्रुतम् ।। ८ ।।
मदात्मा मम भक्तः स भक्ता च भामिनी मम ।
जयं लभते त्रैलोक्ये सर्वधामसु सृष्टिषु ।। ९ ।।
विना लज्जां भजते मां निराकृत्य दुरीतकान् ।
दत्ते सर्वं मदर्थं वै वैष्णवः सः सा वैष्णवी ।। 3.60.१ ०।।
रूक्षाऽक्षराणि वै शृण्वन् भक्तेरितानि वै क्वचित् ।
प्रमोदं लभते तत्र न रोषं प्रकरोति हि ।।१ १ ।।
प्रणामपूर्वकं क्षान्त्या गृह्णीयाद् गुणमेव तु ।
वैष्णवो वैष्णवी सैव दिव्यदृष्टियुता सती ।। १ २।।
गन्धपुष्पादिकं सर्वं शिरसा या हि धारयेत् ।
हरेः सर्वमितीत्येवं मत्वेयं वैष्णवी हि सा ।। १३।।
मम क्षेत्रे शुभानेव करोति तु दिवानिशम् ।
मां सतो मम भक्ताँश्च सेवते स्नेहसंयुतः ।। १४।।
प्रतिमां पूजयेन्नित्यं मम सर्वोपचारकैः ।
कर्मणा मनसा वाचा स सा भक्तोत्तमा मता ।। १५।।
रोगे कष्टेऽथवाऽऽपत्तौ विघ्ने चोद्वेजने तथा ।
मानतां मम सेवायाः सत्संगस्य तथा सताम् ।। १६ ।।
मन्दिरस्य च साधूनां भक्तानां भक्तयोषिताम् ।
गुरूणां चापि सेवायाः कुर्यात् दहर्निशं च यः ।। १७।।
ब्रह्मप्रियाणां सेवायास्तथा क्षेत्रस्य वै शुभाम् ।
अन्नवस्त्रजलादानवस्त्रक्षालनकात्मिकाम् ।। १८।।
लेपनक्षालनसंस्कारणमार्जनकात्मिकाम् ।
पात्रमज्जनरूपां च गोमहिषीप्रसेवनाम् ।। १ ९।।
आगन्त्वतिथिसेवां च सेवां भोजनपानदाम् ।
पादसंवाहनसेवां चांगमर्दनरूपिणीम् ।।3.60.२० ।।
ओषधादिप्रदानां च काष्ठाहरणरूपिणीम् ।
यथाशक्ति यथायोग्यां जात्यवस्थानुरूपिणीम् ।।२१ ।।
सेवां भृत्यक्रियां दासीदासक्रियां सुशोभनाम् ।
मानतां यश्च या कुर्यात् कुर्यात्तथैव भृत्यताम् ।।२२।।
नारायणपरं यस्य यस्याः सर्वस्वमेव तु ।
सतां परायणं यस्य यस्याः सर्वस्वमेव च ।।२३।।
धर्मार्थं चापि मोक्षार्थं ययोः सर्वस्वमेव च ।
नारायणपरावेतौ महाभागवतौ हि तौ ।।२४।।
भोजनाऽऽराधनं सर्वं यथाशक्ति करोति यः ।
विष्णुभक्तस्य वै नित्यं स वै भागवतोत्तमः ।।२५।।
नारायणपरो भक्तोऽश्नाति यदन्नमेव तत् ।
हरेरास्यं समश्नाति तृप्यत्येव हरिः स्वयम् ।। २६।।
विष्णुभक्तान् पूजयेद् यो भक्त्या वै विष्णुवन्नरः ।
नारी वा विष्णुसामीप्यं याति मुक्तिं हि शाश्वतीम् ।।२७।।
अन्यभक्तसहस्रेभ्यो विष्णुभक्तो विशिष्यते ।
विष्णुभक्तसहस्रेभ्यो हरेर्भक्तो विशिष्यते ।। २८।।
हरेर्भक्तो ब्रह्मरूपः परेशधामगो भवेत् ।
अवतारिस्वरूपस्य ममैव भक्तराट् हि सः ।।२९।।
अत्रैव जीवमानाया मुक्तायाः खलु रक्षणम् ।
करोम्यहं सदा लक्ष्मि! शृणु भक्ताकथां पराम् ।। 3.60.३०।।
चिदम्बराऽभवद् राज्ञी सम्राज्ञी जिष्णुभूभृतः ।
सौराष्ट्रे गोदले देशे मम भक्तिपरायणा ।।३ १।।
जिष्णुशक्तिर्हि निधनं प्राप्तो भक्त्या ममालयम् ।
ययावक्षरसंज्ञं च राज्ञी राज्यमकारयत् ।।३२।।
भक्ता ब्रह्मपरा देवीतुल्या शौचसमन्विता ।
प्रातरुत्थाय मां कृष्णनारायणं पुमुत्तमम् ।। ३३ ।।
परमेशं चाऽक्षरेशं श्रीपतिं पुरुषोत्तमम् ।
अर्चयामास सततं वाङ्मनःकायकर्मभिः ।।३४।।
भोजनं पूजनं वारिदानं पुष्पस्रजर्पणम् ।
गन्धादिपेषणं चापि धूपद्रव्यप्रसाधनम् ।।३५।।
भूमेरालेपनं चापि हविषां पाचनं तथा ।
भक्तिकौतुकसर्वस्वा स्वयमेव चकार सा ।।३६।।
शुभा चिदम्बरा नित्यं वाचा नारायणेति च ।
अनादिश्रीकृष्णनारायणेति भाषते मुहुः ।। ३७।।
दशवर्षसहस्राणि तत्परा चान्तरात्मना ।
अर्चयामास मां कृष्णं गन्धपुष्पादिभिः सदा ।।३८।।
विष्णुभक्तानपराँश्च महाभागवतान् शुभान् ।
दानमानार्चनैर्नित्यं धनैः रत्नैरतोषयत् ।। ३९ ।।
ततः कदाचित् सा राज्ञी सुष्वाप पूजनोत्तरम् ।
द्वादश्यां च निशान्ते तां प्रत्यक्षः पुरुषोत्तमः ।।3.60.४०।।
अहमेव स्वयं लक्ष्मि सर्वशोभान्वितोऽभवम् ।
तया स्वप्नकृतां पूजामङ्गीचकार सर्वशः ।।४१ ।।
मया दत्तानि चिह्नानि मालां कण्ठे हि तौलसीम् ।
भाले सतिलकश्चन्द्रः कौंकुमः शोभनस्तथा ।।४२।।
नेत्रयोः कज्जलं चापि कर्णयोः कुण्डले तथा ।
कण्ठे कमलमालां च बाह्वोरायुधलेखिकाः ।।४३ ।।
शंखचक्रगदापद्मरेखाः सतिलकास्तथा ।
अहं ततोऽभवं लक्ष्मि चाऽदृश्यस्तत्क्षणाद्धि सा ।।४४।।
उन्निद्रा ह्यभवत्तूर्ण ददर्शाऽङ्कितविग्रहाम् ।
आश्चर्यं महदापन्नाऽभवत् प्रमोदसंभृता । ।४५ ।।
महाभागवती जाता महासात्त्वतिका तथा ।
मदर्थकृतसर्वस्वा मदर्थराज्यवैभवा ।।४६ ।।
मदर्थाऽर्पणसर्वस्वा भेजे ततो हि मां सती ।
महावैराग्यमूर्तिः सा परमेशपरायणा ।। ४७।।
ब्रह्मचर्यपरा नित्यं सत्संगतिपरायणा ।
त्यक्तविषयरागा च साध्वीवद् वर्तते सदा ।।४८ ।।
आत्मनिवेदिनी दासी किंकरीव हि वर्तते ।
अथ कालान्तरे चाऽहं परीक्षितुमुपाययौ । ।४९ ।।
ऐरावतमिवाऽचिन्त्यं कृत्वा वै गरुडं निजम् ।
स्वयं शक्रोऽभवं चापि राज्ञीसौधमुपागतः ।। 3.60.५० ।।
इन्द्रोऽहमस्मि भद्रं ते किं ददामि वरं च ते ।
सर्वस्वर्गेश्वरश्चाऽहं दातुं त्वां स्वर्गमागतः । ।५ १ ।।
गृहाण नाकं श्रेष्ठं वा माहेन्द्रं पदमुत्तमम् ।
ते दासी भवतु द्यौश्च भूश्च दासी सदा तव ।।५२ ।।
गृहाण राज्यं सुभगे वैधव्यं विप्रवासय ।
गृहाण श्रेष्ठं सौभाग्यं मन्वन्तरसमं शुभम् ।।५३ ।।
मा देहं क्षपयेर्दिव्यं भोगयोग्यं सुकोमलम् ।
यदृच्छयाऽऽगतं प्राप्य सुखिनी भव भामिनी ।।५४।।
विना कान्तं सदा रूक्षं जगद् दग्धं हि योषिताम् ।
तस्मात् कान्तं सुकान्तं मां गृहाण पुण्यशालिनी ।।५५ ।।
श्रुत्वा चिदम्बरोवाच नमस्यामीन्द्रयोगिने ।
देवतायै नमो मेऽस्तु मा दोषं पश्य देवते ।।५६ ।।
देहोऽयं मानवश्चास्ते देवता तैजसी सदा ।
ऐन्द्रपदस्य हन्त्री च मानवीयोनिरुल्बणा ।।५७ । ।
मा मनुष्ये पुण्यहारे मनः कृथाः सुरोत्तम ।
मा तथा मच्छापदग्धो भव क्षमां विधेहि माम् ।।।५८ ।।
पूजां प्राप्य नमो लब्ध्वा प्रयाहि त्वं सुरेश्वर ।
राजस्यो देवता पूयं स्त्रीवन्तो वै स्वभावजाः ।।५९ । ।
स्त्रीकामास्तत्र नाश्चर्यं किन्तु मे तन्न रोचते ।
नाऽहं त्वामभिसन्धाय राज्यं करोमि भूतले ।। 3.60.६ ०।।
त्वया दत्तं च नेष्यमि याहि चेन्द्र निजालयम् ।
मम नारायणो नाथस्तं कान्तं प्रभजामि हि ।। ६१ ।।
गच्छेन्द्र! मा कृथास्त्वत्र मम बुद्धिविलोपनम् ।
अनादिश्रीकृष्णनारायणदासी भवाम्यहम् ।।६२।
श्रुत्वैवं भगवानिन्द्रो विवृत्य चेन्द्ररूपताम् ।
शार्ङ्गचक्रगदापद्मपाणिरूपोऽभवत् स्वयम् ।।६३ ।।
गरुडोपरि लक्ष्मीश्रीसहितोऽहं हरिः प्रभुः ।
प्रत्यक्षतां गतस्तस्याः सा तुष्टाव ननाम माम् ।।६४।।
प्रसीद देवदेवेशेश्वरेश्वरेश्वरेश्वर ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।।६५।।
त्वमनादिः पतिर्नाथः स्वामी कान्तः श्रियः पतिः ।
अप्रमेयो विभुर्विष्णुर्गोविन्दः कमलेक्षणः ।।६६ ।।
ब्रह्मप्रियापतिर्हरिप्रियापतिः परमेश्वरः ।
त्वां प्रपन्नाऽस्मि गोविन्द गोदलेश प्रिय प्रभो ।।६७।।
त्वां विना कांक्षये नैव राज्यं स्वर्गं सुखं परम् ।
नान्या गतिस्त्वदन्या मे त्वमेव शरणं मम ।।६८।।
सत्येन्द्रस्त्वं महेन्द्रत्वं चात्मेन्द्रस्त्वं परेश्वर ।
मम सर्वेन्द्रियाणां त्वां ययार्थेन्द्रं भजामि हि ।।६९।।
नमामि प्राणनाथं त्वां नमामि चान्तरस्थितम् ।
नमामि सुखशय्यास्थं तुर्यपदसुयोगिनम् ।।3.60.७०।।
श्रुत्वा स्तुतिमवोचं तां किं ते हृदि चिकीर्षितम् ।
तत्सर्वं ते प्रदास्यामि वद भक्ताऽसि मे परा ।।७१ ।।
भक्तिप्रियोऽहं सततं यदिच्छसि ददामि तत् ।
श्रुत्वा चिदम्बरा प्राह नित्यं मे मानसं च हृत् ।।७२।।।
अनादिश्रीकृष्णनारायणकान्तपरायणम् ।
वर्ततां मयि नाथस्त्वं कान्ताकान्तो हृदि स्थितः ।।७३।।
यथा हरे भवानास्ते सर्वान्तरात्मवित् प्रभुः ।
तथा भवाम्यहं कृष्ण त्वदान्तरात्मभूयसी ।।७४।।
कृपया ते यावदस्ति पालयिष्यामि मेदिनीम् ।
वैष्णवं च क्रतुं कृत्वा तर्पयिष्यामि देवताः ।।७५।।
वैष्णवान् पालयिष्यामि भवान् वसतु मे गृहे ।
मम कान्तो भवानास्ते सदा रक्षाकरो भव ।।७६।।
यद्वा धाम निजं नीत्वा मां लक्ष्मीमपरां कुरु ।
यथेष्टं चर गोपाल रमापाल चिदं प्रति ।।७७।।
चिदम्बरोक्तं श्रुत्वैव मया लक्ष्मि गदा मम ।
सर्वसंहारतेजोभिर्युक्ता तस्यै समर्पिता ।।७८।।
राज्यरक्षाकरी शत्रुनाशिनी पार्श्वयायिनी ।
सहस्राणां सहस्राणि गदानां यत्स्वरूपतः ।।७९।।
जायन्ते रणकाले वै शापरोगारिनाशिकाः ।
तां दत्वाऽहं मम स्थानं समाययौ कृपामयः ।।3.60.८०।
साऽपि प्रमुदिता राष्ट्रं गोदलं पालयत्यपि ।
सर्ववर्णान् धर्ममार्गे स्वस्वकर्मस्वयोजयत् ।।८ १।।
गृहे गृहेऽकारयच्च भक्तिं श्रीपौरुषोत्तमीम् ।
गृहे गृहे हरिस्तस्थौ वेदघोषो गृहे गृहे ।।८२।।
नामघोषो हरेश्चैव यज्ञघोषः पुरे पुरे ।
कारयामास यज्ञाँश्च वैष्णवान् नृपनन्दिनी ।।८३।।
चिदम्बरायां शास्त्र्यां च भूमिरासीद् रसप्रदा ।
सतृणा रोगहीनाश्च प्रजाश्च निरुपद्रवाः ।।८४।।
दुर्भिक्षादिरहिताश्च महोत्सवोत्सवाः शुभाः ।
अकालमृत्युर्नास्त्येव व्याधिराधिर्न विद्यते ।।८८६।।
एवं लक्ष्मि तया राज्ञ्या कृतं राज्यं हि वैष्णवम् ।
साधवो रक्षिताश्चापि मन्दिरेषु स्थले स्थले ।।८६।।
सन्तः सम्पूजिताश्चापि वार्यम्बराऽन्नभोजनैः ।
सत्यः साध्व्यो रक्षिताश्च सेविताः सततं तया ।।८७।।
गावश्च रक्षिताः साध्व्याः अनाथाः पालितास्तथा ।
नित्यं प्रातस्तथा सायं कारितं भजनं मम ।।८८।।
मण्डल्यः स्थापिताश्चापि भक्तनारीजनान्विताः ।
हरे कृष्ण हरे नारायण श्रीपुरुषोत्तम ।।८९।।
हरे लक्ष्मीपते राधापते ब्रह्मप्रियापते ।
एवं तया कारितं च कीर्तनं मम सर्वतः ।।3.60.९०।।
अन्नसत्राणि रम्याणि कारितानि तया तथा ।
जलप्रपाः कारिताश्च वृक्षच्छायाः प्रकारिताः ।।९ १ ।।
धर्मशालाः कारिताश्च गोशाला कारितास्तथा ।
विद्यालयाः कारिताश्च ब्रह्मविद्यालयास्तथा ।।९२।।
कृषिकार्योदयाश्चापि नदाश्च कारितास्तया ।
कुंकुमवापिकाक्षेत्रे चिदम्बरासतीकृतम् ।।९३।।
मन्दिरं मे शोभतेऽत्र पश्य गगनशृंगवत् ।
नित्यं प्रातर्हि सा राज्ञी स्नात्वा सम्पूज्य मां ततः ।।९४।।
सभायां ब्रह्मविज्ञानां समायाति हि नित्यशः ।
ब्रह्मकथां सदा तत्र करोति गोदलायनः ।।९५।।
लक्ष्मीनारायणसंहितायाः करोति वाचनम् ।
कीर्तनं जायते पश्चात् ततश्चापि विसर्जनम् ।।९६।।
साधूनां च सतीनां च सत्संगो जायते शुभः ।
ब्रह्मशीलपराणां वै सेवा हृद्या प्रजायते ।।९७।।
नित्यं भवन्ति पञ्चापि यज्ञास्तस्या हि राष्ट्रके ।
इत्येवं ध्यायमाना मां करोति राज्यनिर्वहम् ।।९८।।
दिव्या दिव्यरमातुल्या चिदम्बरा हरिप्रिया ।
हरिं पतिं प्रभुं प्राप्य वैराग्यवृत्तिमाश्रिता ।।९९।।
'भजन्तां भगवन्तं तं प्राणेशं परमेश्वरम् ।
प्रयान्तु शाश्वतं धाम लभन्तां मुदमुत्तमम् ।। 3.60.१० ०।।
इत्येवं सा प्रजाः सर्वाः शिक्षां श्रावयति ध्रुवाम् ।
ध्रुवपुण्यफलां साध्वी दिव्यदेहवती ह्यभूत् ।। १० १।।
एतादृशीनां भक्तानां रक्षां करोमि सर्वदा ।
ददामि पार्श्ववासं च सेवां चरणयोस्तथा ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां महाभागवतभक्तचिह्नानि चिदम्बराराज्ञ्याः परीक्षणं भक्तिश्चेत्यादिनिरूपणनामा षष्टितमोऽध्यायः ।। ६० ।।