लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०६७

← अध्यायः ६६ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ६७
[[लेखकः :|]]
अध्यायः ६८ →

श्रीपुरुषोत्तम उवाच-.
शृणु नारायणीश्रि त्वं हृद्यं निवेदयामि ते ।
अहं वै सर्वजीवानां साधारणो महाप्रभुः ।। १ ।।
मामाराध्यैव सर्वेऽत्र सृष्टावैश्वर्यशालिनः ।
भवन्त्येव ततस्तेभ्यो ददाम्यैश्वर्यमर्थितम् ।। २ ।।
यथाकर्मफलं देयं न्यायोऽयं मम सर्वदा ।
प्रसन्नता फलं रिक्तं विशेषोऽयं मम गृहे ।। ३ ।।
परितोषिकरूपा मे प्रसन्नता हि सेवके ।
कार्यकरे यत्नवति प्रसन्नता निसर्गजा ।। ४ ।।
नार्या नरे च वा सृष्टौ करोमि यत्र तत्र वा ।
पार्वत्यां चापि सामुद्र्यां द्वीपिन्यां वाऽन्ययोषिति ।। ५ ।।
हारित्यां वाऽप्यमर्यां वा गौर्यां पर्यां च वा तथा ।
राशियान्यां च वा ब्राह्म्यां रौद्र्यां वनिन्यां योषिति ।। ६ ।।.
मानस्यां वा तथेशान्यां दरिद्रायां तथा च वा ।
अन्त्यजायां पूर्वजायां मध्यजायां तथापि वा ।। ७ ।।
धीवर्यां वा शबर्यां वा यवन्यां वा तथा पुनः ।
पिशंग्यां प्राचीनकायां चाब्रिक्तायामथापि वा ।। ८ ।।
श्वेतायां वापि कृष्णायां चित्रायां वापि योषिति ।
तथाविधे नरे वापि भक्ते देवे तथार्षके ।। ९ ।।
ईश्वरे वापि मुक्ते वा यत्र प्रसन्नता मम ।
तत्र तत्र हि सर्वेषां रत्नानां स्यादसंख्यता ।। 3.67.१ ०।।
ऐश्वर्याणां समस्तानां सिद्धीनां स्यादसंख्यता ।
सम्पदां च समस्तानामृद्धीनां स्यादसंख्यता ।। ११ ।।
आनन्दानां सुखानां च प्रमोदानामसंख्यता ।
उत्सवानां तथोत्साहविलासानामसंख्यता ।। १२।।
लक्ष्मीनां श्रेयसां चापि भोग्यानां स्यादसंख्यता ।
सर्वेषामपि कामानां तृप्तीनां स्यादसंख्यता ।।१३।।
यत्राऽहं च प्रसन्नः स्यां पारितोषिकरूपवान् ।
तत्राऽक्षरं पदं मे च स्वर्गॆ परं वसत्यपि ।। १४।।
वद लक्ष्मि कथंकारं न्यूनत्वं संभवेत्ततः ।
सर्वं दिव्यॆ भवत्येव सर्वॆ सर्वोत्तमं मम ।। १५।।
भक्तगृहं मम गृहं भक्तोऽहं चाऽहमेव सः ।
इत्येवं वर्तते हृद्यं तत्कुटुम्बं ममैव ह ।। १६।।
मम सर्वं च भक्तस्य भेदो मनाङ् न विद्यते ।
का माया कश्च कालो वा प्रभुर्वै मन्निवेशने ।। १७।।
यत्राऽहं संवसाम्येव धामाऽक्षरं परं हि तत् ।
मृत्तिकागृहरूपं वै शाश्वतं तत्परं पदम् ।। १८।।
यत्राऽहं नास्मि तत्सौधं विमानमपि नारकम् ।
यत्राऽहं न वसाम्येषा भूमिः श्मशानरूपिणी ।
यत्राऽहं सेवितो नैव रमणी साऽपि राक्षसी ।। १९।।
नाऽऽश्लिष्टोऽहं यया लक्ष्मि सा भूती च पिशाचिनी ।
येनाऽहं वन्दितो नैव समाश्लिष्टो न माधवः ।।3.67.२०।।
स चात्र विद्यते भूतो राक्षसो जन्मखादकः ।
मामाश्रित्य पिशाचाश्च भवन्ति देवतोत्तमाः ।। २ १।।
पिशाचिन्योऽपि मां प्राप्य जायन्ते ब्रह्मयोषितः ।
दोषाः पिशाचास्तद्वत्यः पिशाचिन्यो भवन्ति वै ।।२२।।
गुणा मुक्ता हि तद्वत्यो मुक्तान्यस्ता भवन्ति वै ।
अहंब्रह्मेतिज्ञानिन्यो ब्रह्मपत्न्यो भवन्ति वै ।।२३।।
परब्रह्मश्रिताः सर्वा हरिपत्न्यो भवन्ति वै ।
हरिं मां वै परित्यज्य तपो दुःखं कथं चरेत् ।।२४।।
परेशेन विना काचिन्नैव सिद्धिमवाप्नुयात् ।
ब्रह्मणा निर्मिता देहा देहधर्मा ह्यनन्तकाः ।।२५।।
ब्रह्मधर्मा देहधर्मा मनो धर्मास्तथाऽऽन्तराः ।
लोकधर्मास्तथा तेन निर्मिताः सर्वसौख्यदाः ।।२६।।
मम धर्मास्तु नित्या वै ब्रह्मापि निर्मितो मया ।
मम नित्यान् परान् धर्मानाश्रित्य मां प्रयाति सः ।।२७।।
मम प्रसन्नता ह्येव धर्मो मे दिव्यताप्रदः ।
ब्रह्मधर्मान् सुसत्कृत्य मम धर्मान् समाचरेत् ।।२८।।
कर्तव्यं विद्यते नाऽस्या मम धर्मार्थयोषितः ।
स्वधर्मोऽयं मम धर्मः शुक्लश्च निर्गुणश्च सः ।। २९।।
शुक्लधर्मेण वै स्थेयं शुक्लं देयं न मे सदा ।
स्वल्पं शुक्लं च मे दत्तमानन्त्याय प्रजायते ।।3.67.३०।।
शुक्लं मदर्थमेवाऽत्र लीलयाऽपि कृतं च वा ।
इन्द्रियाद्यैः कृतं वापि शुक्लं धामनि चाप्यते ।।३ १।।
पुण्यं शुक्लं मम कार्यं तद्वतोऽघं न जायते ।
दुःखं नैव तथा माया नैव जन्म कुतो मृतिः ।।३२।।
तस्मात् स्थेयं सदानन्दपूर्णतया मदाश्रितैः ।
मामनाश्रित्य बन्धेन कर्मणाऽत्र वहन्ति ये ।।३३।।
भारं वै वासनाजन्यं ते भवन्ति पुनः पुनः ।
शाखामृगो यथा याति प्रतिवृक्षं तथा हि सः ।।३४।।
नीयते कर्मणा जीवः संसारवनयोनिषु ।
क्रीडार्थं कन्दुको यद्वत् क्षिप्यते रंगबालकैः ।।३५।।
तथाऽयं कर्मभिः क्षेत्रे क्षिप्यते मायिके स्तरे ।
बद्धोऽश्वो न स्वतन्त्रोऽस्ति विहर्तुं यातुमेव वा ।।३६।।
कर्मबद्धो न स्वतन्त्रः सुरर्षिपितृमानुषे ।
मनुष्या भूतले श्रेष्ठाः किन्तु ते पक्षवर्जिताः ।।३७।।
पक्षिणो व्योमगाश्चापि हस्तसाधनवर्जिताः ।
देवा दिव्यस्वरूपाश्च क्षितिस्थौल्यादिवर्जिताः ।।३८।।
नार्यो रूपगुणाढ्याश्च नियाम्यास्तास्तथाकृताः ।
वृद्धाः पूज्या निर्मिताश्च किन्त्वधिकारवर्जिताः ।।३९।।
साधिकारा युवानश्च दीर्घानुभववर्जिताः ।
गजो हि बलवानास्ते किन्तु साधनवर्जितः ।।3.67.४०।।
सिंहो वै बलवान् राजा पशुस्तामससत्तमः ।
हरिणः पावनश्चास्ते किन्तु वन्यः पशुः कृतः ।।४१ ।।
विप्रा विद्यानिधयोऽपि दारिद्र्यरोषपीडिताः ।
काकाः शकुनचतुराः किन्तु मलिनयोनिजाः ।।४२।।
मणयो मौक्तिकाः श्रेष्ठाः किन्तु ते दुर्लभाः कृताः ।
कटुतृणानि बहूनि मिष्टानि दुर्लभानि वै ।।४३।।
सुलभा वै कापुरुषा दुर्लभाः साधवः प्रिये ।
सत्यः साध्व्यो दुर्लभाश्च सुलभा वारयोषितः ।।४४।।
पत्राणि सन्ति बहूनि फलानि दुर्लभानि वै ।
भोगिनः सन्ति सुलभा दुर्लभास्तु विरागिणः ।।४५।।
कीटकाः सन्ति सर्वत्र फणाध्रा दुर्लभाः प्रिये! ।
मरणं सुलभं लक्ष्मि! चामृतं दुर्लभं बहु ।।४६।।
कलहः सुलभो लक्ष्मि! मेलनं दुर्लभं बहु ।
स्वार्थः सर्वत्र सुलभः परार्थो दुर्लभः सदा ।।४७।।
भोगस्तु सुलभो लक्ष्मि! मोक्षोऽस्ति दुर्लभः सदा ।
पुमांसः सुलभा लक्ष्मि! पुमुत्तमस्तु दुर्लभः ।।४८।।
पुरुषः सुलभश्चास्ते दुर्लभः पुरुषोत्तमः ।
नार्यः सर्वत्र लभ्यन्ते नारायणी तु दुर्लभा ।।४९।।
उद्योगः सर्वथा प्राप्यः सेवा तु दुर्लभा प्रिये! ।
देहस्तु बहुधा लभ्यश्चाऽऽत्मा वै दुर्लभः प्रिये! ।।3.67.५०।।
गृहं तु सुलभं लभ्यं धामाऽक्षरं तु दुर्लभम् ।
गर्भस्तु सुलभो लक्ष्मि! हिरण्यगर्भो हि दुर्लभः ।।५१ ।।
खनयः सुलभा लक्ष्मि! ब्रह्मशृंगं हि दुर्लभम् ।
वासनाः सुलभा लक्ष्मि! वासुदेवो हि दुर्लभः ।।५२।।
पतयः सुलभा लक्ष्मि! दुर्लभः शाश्वतः पतिः ।
स्वामिनः सुलभा लोके परस्वामी हि दुर्लभः ।।१३।।
सर्वं वै सुलभं लक्ष्मि! कृष्णोऽहं दुर्लभः सदा ।
माया वै सुलभा लोके मायेशोऽहं तु दुर्लभः ।।५४।।
समर्थस्वामिना लक्ष्मि! कर्मयोनिर्निरस्यते ।
कर्मबद्धं जगत्सर्वं कृष्णोऽहं तारयामि वै ।।५५।।
तोयं सर्वत्र सुलभं विष्णुपद्वारि दुर्लभम् ।
दुर्लभेषु समस्तेषु विष्णुपदं हि दुर्लभम् ।।।५६।।
दुर्लभं सुलभं भक्तिमतां करोमि सर्वथा ।
एवं कृत्वा सेविनां मे कर्म सर्वं हि मुक्तिदम् ।।५७।।
वद लक्ष्मि! कृपा मेऽत्र कारणं पारितोषिकम् ।
तल्लब्ध्वा पुण्यमुत्कृष्टं ममाऽऽनन्दपदं व्रजेत् ।।५८।।
मयि त्यागो दुर्लभो वै तदन्यः सुलभः खलु ।
मयि न्यासो दुर्लभो वै तदन्यः सुलभः सदा ।।५९।।
अन्यार्पणं तु सुलभं मय्यर्पणं हि दुर्लभम् ।
अन्ययत्नोऽपि सुलभो मदर्थः स तु दुर्लभः ।।3.67.६० ।।
अन्यार्थता हि सुलभा मदर्थता हि दुर्लभा ।
अन्यवधूत्वं सुलभं वधूत्वं मम दुर्लभम् ।।६१ ।।
मायिकं सुलभं सर्वं मदीयं दुर्लभं प्रिये! ।
कृतश्रया विजानाति ह्यश्रमाया न वेदनम् ।।६२।।
कियद्यत्नेन लभ्योऽहं जानाति श्रीर्नरायणी ।
सती हैमी विजानाति कथं लभ्यो हि शंकरः ।।६३।।
माणिक्याऽश्वी विजानाति कथं धार्मिर्हि लभ्यते ।
राधा कृष्णा च कमला विजानन्ति परिश्रमम् ।।।६४।।
गायत्री नैव जानाति नैव जानाति चाब्धिजा ।
पद्मावती विजानाति कथं लभ्यः परेश्वरः ।।६५।
लब्धकृपांशवनिता न जानाति तपःश्रमम् ।
जानन्ति योगिनो युक्ताः साध्व्यो जानन्ति तच्छ्रमम् ।।६६।।
योगिन्यश्च विजानन्ति तापस्यो देहशोषिकाः ।
त्वं लक्ष्मि! किं विजानासि हनूमत्पर्वते तपः ।।६७।।
कृत्वा श्रमेण लब्धवत्यसि मां पुरुषोत्तमम् ।
मृत्योर्विनिमये लभ्यो भवामि नाऽन्यथा प्रिये! ।।६८।।
बाह्यं च मानसं सर्वं मदर्थं यस्य जीवितम् ।
मदर्थं त्यजनं सर्वं स मां प्राप्नोति वै श्रमात् ।।६९।।
मदर्थं यस्य सर्वस्वं यस्या मदर्थिनी कृतिः ।
यस्यास्त्यागा मदर्थाश्च सा मां प्राप्नोति वै श्रमात् ।।3.67.७०।।
शुद्धगेहाऽऽप्तकाया च योगिनी योगिपुत्रिका ।
मदर्थकृतसर्वस्वा मां प्राप्नोतीव भार्गवी ।।७१।।
योगे मां योगिनं वेत्ति ध्यानं मां च स्मरत्यपि ।
मदर्थकृतसर्वस्वा पद्मेवाऽऽप्नोति सा हि माम् ।।७२।।
स्वल्पयत्नाऽपि कल्याणी मदर्थविरहातुरा ।
चिदानन्दमयं मां सा ह्यवाप्नोतीव माधवी ।।७३।।
सर्वकामकृता यज्ञा मय्येव सर्वसौख्यदाः ।
नित्यं सौख्यं लभन्ते ता भक्तिमत्यो मयि स्थिताः ।।७४।।
सर्वाक्षरपदं राज्यं सर्वेश्वरगतं सुखम् ।
सर्वावतारानन्दादि लभते मम भामिनी ।।७५।।
यस्या मतिर्न भिद्येत मदन्यकामनादिभिः ।
सा मां तु दुर्लभं कान्तं कृत्वा सुलभमेति वै ।।७६।।
कृष्णसेवापरां नारीं कालो यमश्च मुञ्चतः ।
अपराधसहस्रां वा करोमि दोषवर्जिताम् ।।७७।।
रक्षकोऽहं हृदयस्थो बहिस्तिष्ठामि सत्वरम् ।
दुर्लभोऽपि भवाम्येव सुलभो गोपवेश्मवत् ।।७८।।
दुर्लभोऽपि भवाम्येव सुलभो वामनो यथा ।
सुदूरोऽपि भवाम्येव निकटस्थो गजार्थवत् ।।७९।।
अदृश्योऽपि भवामीव दृश्यो प्रह्लादकाष्ठगः ।
अगम्योऽपि भवाम्येव गम्यः स्वपतिरीशवत् ।।3.67.८०।।
सर्वं स्नेहार्पणाल्लक्ष्मि! ददामि वितरामि च ।
दुर्लभं सुलभं सर्वं सेविकार्थं करोमि च ।।८१।।
त्वदर्थं क्रियते सर्वं भक्तार्थं क्रियते तथा ।
ब्रह्मप्रियार्थं क्रियते सर्वं भक्त्या वशेन ह ।।८२।।
इत्येवं मां विदित्वैव या जन्मान्तं करोति सा ।
दिव्यश्रीरिव सम्पन्ना मदीया जायतेऽक्षरे ।।८३।।
स्वपन्ति मोहनिद्रायां शरीरसुखमोहिताः ।
उपदेशेन मे चेद्वै जागृतिं यान्ति बोधिताः ।।८४।।
तदा लभ्यं पतिं कान्तं मां प्रयान्ति पुमुत्तमम् ।
नरा नार्यः सदा मुक्ता भवन्ति दिव्यविग्रहाः ।।८५।।
दिव्यानन्दभरा नित्यं न्यूनसौख्यं न विद्यते ।
परिपूर्णं सुखं सर्वं तत्र लोके प्रविद्यते ।।८६।।
मन्मूर्ताविव साक्षाच्च मय्येवानन्दशेवधिः ।
आनन्दानां प्रवाहा वै स्रवन्ते मम मूर्तितः ।।८७।।
मद्भक्तानानन्दयित्वा प्रविशन्ति च ते मयि ।
मन्मूर्तितो हि निर्यान्ति प्रकृष्टानन्दवार्धयः ।।८८।।
मद्भक्तासु चिरं स्थित्वा पुनश्चायान्ति वै मयि ।
एते सर्वे महानन्दा ह्रासं व्रजन्ति नैव ह ।।८९।।
न्यूना भवन्ति नैवापि सान्ता भवन्ति नैव च ।
प्रवाहाणां प्रवाहाश्च स्वेच्छाजन्या भवन्ति वै ।।3.67.९०।।
अक्षया वर्धमानाश्च मम मूर्तिसुयोगजाः ।
ब्रह्मानन्दः स एवास्ते मुक्तानां मम धामनि ।।९१।।
भुंक्ष्व तं परमानन्दं सर्वाभिः सह पद्मजे ।
एतास्त्वत्करगा आल्यः सख्यस्ते स्वसृसंज्ञिताः ।।।९२।।
सपत्न्यः कोट्यब्जलक्षार्बुदा मन्मयमूर्तयः ।
त्वदभिन्ना हि ताः सर्वा मदभिन्ना भवन्त्यपि ।।९३ ।।
ततो भिन्ना हि मे मूर्तेर्मदात्मिका गुणात्मिकाः ।
मच्छक्तयश्च ताः सर्वा मयाऽऽज्ञप्ताः स्त्रियोऽभवन् ।।९४।।
मां च प्राप्य मया नैजस्वरूपात्मत्वमापिताः ।
मया सर्वपृथिव्यां वै गत्वा स्वयं हि मार्गिताः ।।९५।।
अन्विष्य निजकान्तात्वं प्रापिता मम शक्तयः ।
वधूधर्मान् पुरस्कृत्य भुञ्जन्तां नन्दितं हि माम् ।।९६।।
अक्षरं चाऽक्षयं चाऽप्यव्ययं शाश्वतमुत्तमम् ।
सर्वानन्दनिधानं मां भुञ्जन्तां परमेश्वरम् ।।९७।।
या काचिन्मां पुरस्कृत्य कृत्वा मां हृदि सर्वथा ।
वधूगीतां मदुक्तां च श्रुत्वा कान्तं सनातनम् ।।९८।।
इच्छिष्यन्ति निजानन्दं श्रीपतिं पुरुषोत्तमम् ।
तासां प्राप्तो भविष्यामि ग्रहीष्यामि च तत्करम् ।।९९।।
नेष्यामि परमं धाम करिष्ये स्वामिनीं हि ताम् ।
मुक्तानिकां ब्रह्मप्रियां करिष्ये तां हरिप्रियाम् ।। 3.67.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां हरेः कृपासर्वस्वफलनिरूपणनामा सप्तषष्टितमोऽध्यायः ।। ६७ ।।