लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०८३

← अध्यायः ०८२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०८३
[[लेखकः :|]]
अध्यायः ०८४ →

श्रीनारायणीश्रीरुवाच-
केन वै हेतुना साधुर्नारायणो निगद्यते ।
यद्यपि बहवस्तत्र हेतवः स्युर्दृढव्रताः ।। १ ।।
तथापि सरलं हेतुं यद्वा श्रेष्ठमनुत्तमम् ।
दुष्करं वाऽवगन्तुं तं समिच्छामि तथा वद ।। २ ।।
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि महतश्च हेतून् बहुविधानपि ।
क्षमा शीलं विरागश्च शान्तिस्तथाऽपरिग्रहः ।। ३ ।।
वैतृष्ण्यं स्वादशून्यत्वं चाऽऽत्मनिष्ठत्वमित्यपि ।
अलोलुपता द्वेषादिराहित्यं सर्वमित्रता ।। ४ ।।
आत्मसाधनकर्तव्यं मयि सर्वसमर्पणम् ।
अस्नेहो बन्धशून्यत्वं मायाकैंकर्यवर्जनम् ।। ५ ।।
देहेन्द्रियादियात्रातन्मात्रनिर्वाहणाऽर्जनम् ।
प्रतीक्षा मोक्षलोकस्य ममाऽहंवर्जनं तथा ।। ६ ।।
नवोन्मेषारम्भहानिः स्थैर्यं चात्मनि नेतरे ।
शीलं मनसो नैर्मल्यं साधुत्वे कारणानि वै ।। ७ ।।
परोपकारो यस्याऽस्ति मोक्षमार्गप्रदर्शनम् ।
व्रतं शीलं च यस्याऽस्ति नारायणार्थमुत्तमम् ।। ८ ।।
तपश्चोग्रं च यस्याऽस्ति मायाबन्धनवर्जितम् ।
वृत्तयश्चापि सर्वा वै यस्य मद्गोचरः सदा ।। ९ ।।
ह्येतच्चतुष्टयं लक्ष्मि साधुत्वे मुख्यकारणम् ।
नहि काषायवस्त्राणि नहि चिह्नानि बाह्यतः ।। 3.83.१०।।
नहि दीक्षा नहि वासः साधुत्वे श्रेष्ठहेतवः ।
आत्ममोक्षविधातारो मायामोक्षाद्यभीप्सवः ।। १ १।।
परब्रह्मणि निष्णातास्तापसाः साधुसत्तमाः ।
साध्व्यश्चापि सतीधर्मपराः शीलपरा मम ।। १२।।
रागशून्या भक्तिमत्यः साध्व्यः साध्वीविभूषणाः ।
शरीरे भोगशून्यत्वं साधुसोपानमादिमम् ।। १ ३।।
इन्द्रियरागशून्यत्वं सोपानं च द्वितीयकम् ।
अन्तःकरणवशता सोपानं च तृतीयकम् ।। १४।।
आत्मनश्चार्पणं कृष्णे सोपानं तच्चतुर्थकम् ।
ज्ञाने मन्मूर्तिवासश्च सोपानं पञ्चमं च तत् ।। १५।।
मोक्षफलप्रयत्नश्च सोपानं षष्ठमेव तत् ।
तुर्यावस्थास्थितिर्नित्यं सोपानं चाऽन्तिमं हि तत् ।। १६।।
सप्तसोपानमारूढः साधुरेव सदुत्तमः ।
अपि साध्व्यस्तथाचाराः साध्व्युत्तमा मता मम ।। १७।।
त एते ह्युच्चकक्षास्थाः सन्तः साध्व्यो मयोदिताः ।
मध्यकक्षागताँश्चापि दर्शयामि निबोध मे ।। १८।।
देहेन्द्रियादिरागस्थास्तज्जन्यसुखलिप्सवः ।
किन्तु सर्वार्पणाः कृष्णे मयि चात्मनिवेदिनः ।। १९।।
मायाया गौणबलिनो मद्बले चोत्तमास्पदाः ।
एवंविधा मध्यमास्ते साधवः साध्विकाः प्रिये ।।3.83.२०।।
अथ ततोऽपि निम्नस्थान् शृणु लक्ष्मि मदर्थकान् ।
सर्वथा रागयुक्ताश्च देहेन्द्रियादियोगिनः ।।२१।।
लब्धदीक्षा अपि स्वार्थपरायणा मदाश्रयाः ।
कृत्वोऽग्रे मां प्रदर्श्याऽपि त्यागाश्रमनिवासिनः ।।२२।।
त्यागगन्धस्य मात्रां च स्वल्पां नैव विदन्ति च ।
तथापि कष्टमासाद्य त्यागमार्गे स्थिता इव ।। २३ ।।
वर्तन्ते ये निम्नचित्ता जालावृत्ता हरिध्वजाः ।
त एते नामतः सर्वे साधवो वै भवन्ति हि ।। २४।।
यथा काष्ठकृतो हस्ती यथा व्याघ्रश्च चर्मजः ।
तथाऽम्बरेण यः साधुस्त्रयस्ते व्यर्थशक्तयः ।। २५ ।।
अज्ञानां भयदाश्चैते विज्ञानामुपला इव ।
आश्रितानां नेष्टदास्ते त्रयो विश्वासघातकाः ।। २६ ।।
निश्चितार्थविघातास्ते समुन्नतिविरोधिनः ।
असत्काचसमाश्चैते संगाद् भंगनिरूपकाः ।। २७।।
तपः श्रुतं च शक्तिश्चाऽप्येतत् साधुत्वलक्षणम् ।
क्षमा भक्तिर्विरागश्च साधुत्वे कारणानि वै ।। २८ ।।
एतादृशे तु साधौ वै तृप्ते तृप्ताः सुरादयः ।
यथा हि सुलभे क्षेत्रे फलं विन्दति कर्षुकः ।। २९ ।।
तथा समर्प्य साधौ वै फलं दाता समश्नुते ।
असाधौ दत्तमेवैतन्मोघं स्यान्नात्र संशयः ।। 3.83.३० ।।
अदन्नसाधुर्हन्त्यन्नमद्यमानं च हन्ति तम् ।
तं चाऽन्नं पाति यः साधुरदन्नन्नं च रक्षति ।। ३१ ।।
रक्षणं परलोकेऽपि पात्रेऽर्पितं करोति तत् ।
प्रभुर्ह्यन्नमदन् साधुर्दातारं पोषयत्यपि ।। ३ २।।
पुण्येन कर्मणा तस्मात् सत्पात्रेऽन्नं नियोजयेत् ।
यदेव ददतः पुण्यं तदेवं प्रतिगृह्णतः ।। २३ ।।
यद्युभे साधुरूपे वै पात्रे स्यातां हि निर्मले ।
यत्र वै साधवः सन्ति श्रुतवृत्तोपयोगिनः ।। ३४।।
तत्र दानफलं पुण्यं जायते वै सहस्रधा ।
ये ब्रह्मशुद्धाः सततं शीलशुद्धाश्च साधवः ।। ३५ ।।
तपस्यभिरताश्चापि भक्ताः पूज्यतमा हि ते ।
तैश्च सद्भिः कृतः पन्था दिव्य एव न संशयः । । ३६ ।।
तेन याता न मुह्यन्ति मायायां चैश्वरे स्थले ।
परं पारं प्रगच्छन्ति ब्रह्मवाहा हि साधवः । । ३७ ।।
दुरन्वयं दुःप्रधर्षं दुरापं दुरतिक्रमम् ।
सदाशीर्वादतः सर्वमभ्येति नात्र संशयः ।। ३८ ।।
सुरापो भ्रूणहाः स्तेनौ गुरुतल्पनिषेवणः ।
साधुना तीर्यते सर्वमेनसश्च प्रमुच्यते ।। ३९ ।।
सर्वपूज्याः पूज्यधना विद्यावन्तो हि साधवः ।
तपस्विनो दानरता भक्तिमन्तो हि तारकाः ।।3.83.४ ० ।।
इमं च ब्रह्मलोकं च मोक्षस्थानमनुत्तमम् ।
साधुसेवासुकृतिनः प्रपद्यन्ते तु लौकिकाः ।।४ १ ।।
पूजिताः पूजयन्त्येते मानिता मानयन्त्यपि ।
प्रज्वाल्य पापिपापानि तारयन्ति हि साधवः ।।।४२।।
यो भर्ता सेवकैस्तुष्टो भर्तुस्तुष्टाश्च सेवकाः ।
यत्रैवं साधुभावोऽस्ति तत्र कल्याणकोटयः ।।४३।।
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।
साधोश्च सेवया तद्वत् सर्वपापमपोहति ।।४४।।
स्वस्ति करोति सर्वस्य पावयत्यपि देहिनः ।
एतत्क्रियापरः साधुः श्रेयःकर्ता जगत्त्रये ।।४५।।
जीवानां मुक्तये लक्ष्मि मया साम विनिर्मितम् ।
साधवः साम गायन्ति बोधयन्ति जनानिह ।।४६।।
उपदिशन्ति मन्त्रादीन् कीर्तयन्ति च मां मुहुः ।
वर्णयन्ति कथां मे च चरित्राणि बहूनि च ।।४७।।
गुणान्मे मम कार्याणि निरूपयन्ति सर्वथा ।
एवं साम्ना गीतिकाभिर्वाचयन्ति हि साधवः ।।४८।।
विद्वांसो मां शास्त्रमुखैः प्रसंगायन्ति नित्यदा ।
कवयन्ति च कवयः स्तुवन्ति चार्थसाधकाः ।।४९।।
एवं साम्ना हि बहुधा मामर्जयन्ति मानवाः ।
साम्ना गुरोर्मुखात्प्राप्य मां च दानेन साधयेत् ।।3.83.५० ।।
दानं समस्तभावेन समर्पणं निवेदिता ।
आत्मसमर्पणं दानं तेनाऽर्जयेच्च मां सदा ।।५१ ।।
साधवो दानयोगेन चार्जयन्ति ददत्यपि ।
ज्ञानदानं मन्त्रदानं नामदानं हरेस्तथा ।।५२।।
प्रसाददानं मालादिप्रदानं शिक्षणार्पणम् ।
लाभदानं सुखदानं मोक्षदानं परात्परम् ।।५३।।
ददत्यभयं दानं तत् तपोदानं शुभास्पदम् ।
पुण्यदानं प्रकुर्वन्ति साधवः साधुभूषणः ।।।५४।।
कृपादानं तथा रम्याशीर्वादानां प्रदानकम् ।
दर्शनस्य प्रदानं च सेवादानं शुभावहम् ।।५५।।
सद्गुणानां प्रदानं च तेन तेन हि साधवाः ।
मां हरिं चार्जयन्त्येव भक्तेभ्यश्च ददत्यपि ।।५६।।
दीक्षादानं चात्मदानं कृत्वाऽपि तारयन्ति ते ।
भक्तिदानं शुभं कृत्वा तारयन्ति जनान् भवात् ।।५७।।
अन्ततश्चाश्रयदानं चरणामृतदानकम् ।
वाग्दानं साक्षितादानं कृत्वाऽपि तारयन्ति ते ।।५८।।
मनोदानं स्नेहदानं पावित्र्यादिप्रदानकम् ।
सदाचारक्रियाशिक्षादानं स्मृतिप्रदानकम् ।।५९।।
कण्ठीदानं चिह्नदानं कृत्वाऽपि तारयन्ति ते ।
मूर्तिदानं पात्रदानं कृत्वाऽपि तारयन्ति ते ।।3.83.६०।।
अथ भेदं योजयन्ति दानं साम च यत्र न ।
देहोऽयं मलसंयुक्तो मलिनः क्षणभङ्गुरः ।।६ १।।
आत्मा शुद्धो हरेर्भक्तो मुक्तियोग्यो हि शाश्वतः ।
एवं भेदं विवेकं वै योजयन्ति च साधवः ।।६२।।
अथ दण्डं वर्तयन्ति प्रायश्चित्तं विधर्मिणि ।
अमार्गगं जनं सन्तो नियमयन्ति सद्व्रतैः ।।६३।।
प्रायश्चित्तैः कृच्छ्रचान्द्रायणादिभिः क्रियात्मकैः ।
द्रव्यव्ययात्मकैर्यज्ञमहोत्सवैः सुखोत्सवैः ।।६४।।
अन्नसत्रैर्भोजनाद्यैः पूजादानार्पणादिभिः ।
श्रेयस्करैस्तथाऽऽयासैर्योजयन्ति विशुद्धये ।।६५।।।
धर्मकर्मादिभिश्चापि योजयन्ति - प्रसह्य तान् ।
यद्वा प्रबलदण्डेन नियमयन्ति साधवः ।।६६ ।।
यथा पापानि नश्येयुर्मोक्षं विन्देयुरेव च ।
एवं हितात्मदण्डेन योजयन्ति हि साधवः ।।६७।।
गर्विष्ठानां तु वै क्रूरं दण्डं कुर्वन्ति वै क्वचित् ।
तेषां निष्कल्मषतार्थं मुक्त्यर्थं चापि साधवः ।।६८।।
दैविकं वा शुभं दण्डं प्रेरयन्ति जपादिकम् ।
येन निष्कल्मषत्वं च प्राप्य यान्ति परं पदम् ।।६९।।
पापी वा पुण्यशाली वा मिश्रितो वोभयादिभिः ।
भक्तिमान् वा ह्यभक्तो वा नास्तिको वाऽऽस्तिकोऽपि वा ।।3.83.७०।।
यः कश्चिद्वा भवेद् देही नयन्ति शरणं पुरः ।
संस्कृत्योपायभेदैश्च पावयन्ति पुनः पुनः ।।७१।।
प्रसादयित्वा सततं कृत्वा शुद्धं सनातनम् ।
निजतुल्यं ततः सन्तो नयन्ति धाम चाऽक्षरम् ।।७२।।
एवं सतां सदा लक्ष्मि परोपकारशालिता ।
अप्रतिदानलभ्या वै तया शुद्ध्यन्ति देहिनः ।।७३।।
यथा चाऽहं तथा ते वै गुरवो लोकतारकाः ।
आनखशिखं सन्तस्तु पवित्रा मम मूर्तयः ।।७४।।
यथा वै शर्कराखण्डः सर्वथा मिष्टसद्रसः ।
भागत्यागो न तत्राऽस्ति तथा ते साधवो मम ।।७५।।
यथा वा नवनीतस्य पिण्डः स्नेहात्मकोऽखिलः ।
भागत्यागो न तत्राऽस्ति तथा ते साधवो मम ।।७६।।
यथा वा मौक्तिकः शुद्धः स्वच्छो वा स्फटिकस्तथा ।
कौस्तुभो वा मणिर्यद्वत् तथा ते साधवो मम ।।७७।।
यथा वा कामधेनुर्गौर्यथा दुग्धं च निर्जलम् ।
यथा वा कनकं शुद्धं तथा ते साधवो मम ।।७८।।
यथा चिन्तामणिः श्रेष्ठो यथा कल्पतरुश्च वा ।
कल्पवल्ली यथा श्रेष्ठा तथा ते साधवो मम ।।७९।।
यथा मे हृदयं श्रेष्ठं यथा मूर्तिश्च मे परा ।
यथाऽक्षरं परं धाम तथा ते साधवो मम ।।3.83.८०।।
यथा विष्णुः सदा शुद्धः यथा शीलं व्रतोत्तमम् ।
यथा शान्तिर्महद्द्रव्यं तथा ते साधवो मम ।।८१।।
यथा क्षेत्रं कणिसस्यान्वितं गौः प्रसवोन्मुखी ।
यथा यज्ञो दक्षिणान्तस्तथा ते साधवो मम ।।८२।।
यथा वृक्षाः फलाढ्याश्च पुष्पाढ्या वल्लयो यथा ।
चमत्कारी यथा त्यागी तथा ते साधवो मम ।।८३।।
यथा रत्नमयी पृथ्वी माया गुणमयी यथा ।
आत्मा चाऽशत्रयाढ्यश्च तथा ते साधवो मम ।।८४।।
यथाऽहं सर्वसामर्थ्यो यथा लक्ष्मीर्हि सम्पदः ।
यथा कृष्णात्मकं सर्वं तथा ते साधवो मम ।।८५।।
यथा सुदर्शनं चक्रं यथा दण्डो यमस्य च ।
यथा प्रसन्नता विष्णोस्तथा ते साधवो मम ।।८६।।
यथा शंभुकृता भक्तिर्यथा सेवा सतीकृता ।
यथा स्नेहः कामकृतस्तथा ते साधवो मम ।।८७।।
यथा क्षमा साधुनिष्ठा यथा भक्तगतं वचः ।
दास्यं साध्वीगतं यद्वत् तथा ते साधवो मताः ।।८८।।
व्रतं पत्नीगतं यद्वत् तृप्तिर्निस्तृष्णगा यथा ।
गंगाम्भः पावनं यद्वत् तथा ते साधवो मम ।।८९।।
यथा वंशः पुत्रगतो दानं कन्यागतं यथा ।
पूजा गणेशगा यद्वत् तथा ते साधवो मम ।।3.83.९०।।
यथाऽहं साधुरेवाऽस्मि साध्वी त्वं च विराजसे ।
यथा योगश्चावयोर्वै तथा ते साधवो मम ।।९ १।।
किम्वधिकं वेदयामि प्रशंसा नाऽत्रलभ्यते ।
भगवन्तः साधवो मे भक्तोऽहं सर्वथा सताम् ।।।९२।।।
अनर्प्य मम सद्भ्यो यो भुंक्ते स्वोदरसंभरः ।
जायते स कृशे देशे कृशो वै ब्रह्मराक्षसः ।।९३।।
साधूचितं पूजनं चाऽकृत्वा यो मोदते गृहे ।
स्वगर्वात् सोऽपि देहान्ते जायते ब्रह्मराक्षसः ।।९४।।
धनैश्वर्ययुतश्चापि सेवते न सतो जनान् ।
निन्दति चाऽवजानाति स भवेद् ब्रह्मराक्षसः ।।९५।।
गुणाभिमानसन्दृब्धो प्राऽज्ञान् पश्यति वै सतः ।
दरिद्राँश्चाऽवजानाति स भवेद् ब्रह्मराक्षसः ।।९६।।
अजेयानपि साधूँश्च तिरस्कारान् करोति यः ।
मिथ्यादोषान् प्राहिणोति स भवेद् ब्रह्मराक्षसः ।।९७।।
अजातशत्रून् साधून् यः क्लेशे योजयतीश्वरः ।
सम्पन्नोऽपि मृतः पश्चाज्जायते ब्रह्मराक्षसः ।।९८।।
विद्वानपि सतः शान्तानवमत्य जुगुप्सति ।
हीयमानोऽपि दुर्वृत्तैः स भवेद् ब्रह्मराक्षसः ।। ९९।।
यस्तु मित्रमुखः शत्रुर्भवति श्वासघातकः ।
अनार्यश्चार्यविद्वेष्टा जायते ब्रह्मराक्षसः ।। 3.83.१०० ।।
अयत्सु वर्तमानश्च सतो भावं विडम्बते ।
प्रशंसति दुष्टभावान् जायते ब्रह्मराक्षसः ।। १०१ ।।
महद्गुणैस्तु यो हीनो महत् प्रार्थयतेऽखिलम् ।
सतोऽवमन्ता तद्योगे जायते ब्रह्मराक्षसः ।। १ ०२।।
तपस्विनं क्षमायुक्तं गुरुं विज्ञानिनं प्रभुम् ।
प्रसह्य चाऽवमन्ता यो जायते ब्रह्मराक्षसः ।। १०३ ।।
साधून् वनेचरान् वीक्ष्य नोत्तिष्ठते पुरस्तु यः ।
नात्महितं चरेद् यस्तु जीवन् वै राक्षसो हि सः ।। १ ०४।।
राक्षसोऽपि हरेर्भक्तान् साधून्नत्वा प्रसेवते ।
प्रसादयति सेवाभिश्चाशीर्वादान् सुविन्दति ।। १ ०५।।
सद्गुणान् सुखदान् लक्ष्मि यो गृह्णाति सतो जनात् ।
स एव जायते लोके साधुर्वै साधुवर्तनः ।। १०६ ।।
न जन्म नापि यत्नश्च न वेषः साधुताऽर्जकः ।
साधुसत्संगसेवादि कारणं साधुताग्रहे ।। १ ०७।।
त एव तारका लक्ष्मि दर्शनात् स्पर्शनादपि ।
सेवनात् परिचरणात् तरन्ति देहिनो भवात् ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुत्वे विविधप्रयोजककारणादि साधुस्तवनाऽस्तवनफलादि चेतिकथननामा त्र्यशीतितमोऽध्यायः ।। ८३ ।।