लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९२

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं ब्राह्मण्यं वचनादपि ।
अन्यजातेः पुरा जातं तथा लोके भविष्यति ।। १ ।।
दिवोदासो महाभक्तोऽभवद् वाराणसीनृपः ।
हैहयैरेकदा युद्धे जितो ययौ प्रयागकम् ।। २ ।।
भरद्वाजं बृहस्पतेः पुत्रमृषिं ननाम सः ।
दुःखं निवेदयामास ततः ऋषिः प्रतापतः ।। ३ ।।
पुत्रेष्ट्या च सुतो जातो दिवोदासस्य योषिति ।
प्रतर्दनः स गत्वा च युवा वाराणसीं पुरीम् ।। ४ ।।
युयुधे हैहयैः साकं पराजितास्तु हैहयाः ।
पलायनपरा भृगोः शरणं चाश्रमे गताः ।। ५ ।।
प्रतर्दनो ययौ पृष्ठे प्राह भृगुं प्रणम्य च ।
देहि मे शत्रुभूपालान् वीतहव्यादिहैहयान् ।। ६ ।।
तेषां वधाद् भविष्याम्यनृणः पितुः कृपां कुरु ।
भृगुः प्राह कृपाविष्टः क्षत्रिया नात्र सन्ति वै ।। ७ ।।
प्रतर्दनः प्रत्युवाच कृतकृत्योऽस्मि वै भृगो ।
राजानोऽपि च वीर्येण स्वजातिं त्याजिता मया ।। ८ ।।
प्रतर्दनो भृगुं नत्वा वीतहव्यं नृपं द्विजम् ।
विप्रं भृगोर्वचनेन प्राणरक्षणहेतवे ।। ९ ।।
त्यक्त्वा ययौ निजां राजधानीं वाराणसीं ततः ।
भृगोर्वचनमात्रेण वीतहव्योऽपि हैहयः ।। 3.92.१० ।।
भयेन क्षत्रभावं संत्यक्त्वा ब्रह्मर्षितां गतः ।
तस्य पुत्रो गृत्समदो विप्रर्षिर्वैदिकोऽभवत् ।। ११ ।।
तस्य द्विजः सुतेजाश्च विहविस्तस्य वै द्विजः ।
तस्य वितत्यस्तस्य तु सत्यस्तस्य श्रवाद्विजः ।। १ २।।
तस्य ऋषिस्तस्य पुत्रः प्रकाशस्तस्य वाचिकः ।
तस्य प्रमितिर्विप्रश्च तस्य रुरुः सुविप्रकः ।। १३ ।।
तस्य शुनकस्तस्यैव शौनको विप्रसत्तमः ।
एवं साधोर्महर्षेश्च वचनाद् विप्रता तथा ।। १४।।
ब्रह्मण्यता भवत्येव दीक्षयाऽपि भवेत्तथा ।
दीक्षया त्रिवर्णजाता भवन्ति ब्राह्मणोत्तमाः ।। १५ ।।
साधवो वैष्णवाः सर्वे विप्रा अच्युतगोत्रजाः ।
एवं गुणैर्वचसा च दीक्षया विप्रता भवेत् ।। १६ ।।
ब्राह्मणस्य गृहे तिष्ठन्नाबाल्याद् यदि संस्कृतः ।
ब्राह्मणो जायते सोऽपि गृहीतोंऽके द्विजेन सः ।। १७।।
स्तन्यपो बालको येन वर्धितोऽन्नजलादिभिः ।
तज्जातिं समवाप्नोति ब्राह्मणे ब्राह्मणो भवेत् ।। १८।।
तपसा च चमत्कारैराशीर्वादैश्च वै द्विजाः ।
जायन्ते ब्राह्मणाश्चापि धर्मकर्मादिशोभनाः ।। १ ९।।
शृणु लक्ष्मि तथाऽन्यच्च समर्थो व्याकरोति हि ।
शंकरेण कृतो नन्दी मानवोऽपि गणो निजः ।।3.92.२० ।।
रमाऽब्धिजा तु हरिणा कृता नारायणी निजा ।
विश्वामित्रेण नरपः त्रिशंकुर्देवताकृतः ।।२ १।।
कृता हराद्याः कृष्णेन गोलोके गोपिकाः स्त्रियः ।
मासि मासि च सुद्युम्नोऽभवन्नरोऽबला तथा ।।२२।।
अर्धनारीश्वरः शंभुर्विष्णुश्च मोहिनी तथा ।
नरबीजं सर्वसृष्टौ सुता सुतोऽपि जायते ।। २३।।
देवपुत्रा मानवाश्च काश्यप्यः सर्वशः प्रजाः ।
एवं बीजेऽपि वैवर्त्त्यं जायते जातिरोधकम् ।। २४।।
स्वेदजाश्चापि जायन्ते सर्वे विजातयः खलु ।
जडेभ्यश्च जडाश्चापि विजातयो भवन्त्यपि ।।।२५।।
तस्माज्जातिर्न नियता सापेक्षा गुणकर्मभिः ।
साधुत्वं सर्वतः श्रेष्ठं प्राप्तव्यं शुभकर्मभिः ।। २६।।
शृणु लक्ष्मि नहुषोऽभूत् सर्पस्तेनैव वर्ष्मणा ।
अगस्त्यस्य प्रशापेन वहमानस्य तं नृपम् ।।२७।।
कल्पाषपादः सहसा वशिष्ठशापतोऽभवत् ।
राक्षसो द्वादशवर्षाण्यचरत् स वनान्तरे ।।।२८।।
अहल्या चाऽभवत् पत्युः शापाच्छिला पुनश्च सा ।
वृन्दाऽभवत्तूलसी सा वृक्षरूपा क्षणान्तरे ।।२९।।
हरिः शालग्रामरूपः काली गौरी तथाऽभवत् ।
शनैश्चरः पन्नतित्वं प्राप्तश्चेन्द्रो बिडालताम् ।।3.92.३ ०।।
हरिर्मत्स्यादिरूपश्च वह्निः सुवर्णरूपधृक् ।
भंगास्वनस्तथा राजा वने स्नात्वा सरोवरे ।।३ १ ।।
शतपुत्रजनकोऽपि स्त्रीत्वमाप्तो यथार्थतः ।
पुनः सा ऋषिभार्याऽभूच्छतपुत्रप्रसूर्वने ।। ३२।।
श्रीनारायणीश्रीरुवाच-
कथं भंगास्वनो राजा नरो नारी तथाऽभवत् ।
श्रोतुमिच्छामि कान्ताऽत्र कथां तां वद मे हरे ।। ३३ ।।
श्रीपुरुषोत्तम उवाच-
पुरा भंगास्वनो नाम राजर्षिर्धर्मवान् शुचिः ।
अनपत्यः स पुत्रेष्टिं समाचरत् क्रतुं शुभम् ।।३४।।
इन्द्रप्रधानभावस्याऽसत्त्वादिन्द्रो रुषा ज्वलन् ।
विघ्नं कर्तुमियेषाऽपि रन्ध्रं नाऽवाप वै ततः ।। ३५।।
यज्ञान्ते तु क्वचिद्राजा मृगयार्थं वनं ययौ ।
इन्द्रश्छिद्रं परं लब्ध्वाऽऽगत्याऽऽविवेश भूभृति ।।३६।।
अश्वत्थं तं नृपं दूरेऽरण्ये निनाय भ्रान्तिगम् ।
राजा च तृषितस्तत्राऽपश्यच्छ्रेष्ठं सरोवरम् ।।३७।।
सोऽश्वं संपाययामास जलं बबन्ध पादपे।
स्वयं पीत्वा जलं पश्चात् स्नानं चक्रे सरोवरे ।।३८।।
अवगाहनमात्रेण द्रुतं स्त्रीत्वमवाप्तवान् ।
दृष्ट्वाऽऽत्मानं स्त्रीकृतं च व्रीडितोऽभवदेव च ।।३ ९।।
व्यचिन्तयन्मुखं कीदृग् दर्शयिष्ये पुरे मम ।
शतपुत्रा मम सन्ति तान्प्रवक्ष्यामि किन्त्विदम् ।।3.92.४०।।
एवं स दुःखितो राजा चाश्वमारुह्य कृच्छ्रतः ।
लज्जां विहाय नगरीं ययावश्वेन वै च तम् ।।४१ ।।
पुत्रा दाराश्च भृत्याश्च पौरा जानपदास्तदा ।
दृष्ट्वा किं त्विदमेवेत्याश्चर्यं च विस्मयं गताः ।।४२।।
स उवाच मृगयार्थं वनान्तरसरोवरे ।
गतः स्नातस्तावताऽहं स्त्रीत्वमापन्न एव ह ।।४३।।
पुत्रेभ्यो मम राज्यं सम्प्रददामि वनं ततः ।
प्रयामीत्यभिधायैव दत्त्वा राज्यं ययौ वनम् ।।४४।।
स्त्रीरूपा सा ऋषेः पत्नी ह्यभवत् स्वर्वहस्य तु ।
स्वर्वहर्षेः शत पुत्रा राज्ञ्यां तस्यां ततोऽभवत् ।।४५।।
सा तानादाय राज्यं स्वं ययौ पूर्वसुतान् प्रति ।
प्राह यूयं पुरुषत्वे सुताः स्त्रीत्वे सुतास्त्विमे ।।४६।।
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ।
पितृमातृवचो मत्वा राज्यं बुभुजिरे सह ।।४७।।
अथेन्द्रस्तत्र चागत्य भेदयामास पूर्वजान् ।
पितृपुत्रा राज्ययोग्याः स्त्रीपुत्रा न कदाचन ।।४८।।
स्त्रीपुत्राः सन्ति विप्रा वै न तेऽर्हन्ति नृपास्पदम् ।
तत उत्तरजानाह भवन्तश्चोत्तमाः खलु ।।४९।।
पूर्वजाः क्षत्रियाः सन्ति भवद्दासा हि ते मताः ।
मा राज्यं ते प्रकुर्वन्तु राज्ययोग्या हि भूसुराः ।। 3.92.५० ।।
इत्यन्योन्यं कारयित्वा वैरं युद्धेन नाशिताः ।
श्रुत्वा तु तापसी माता रुरोद शोकसंप्लुता ।।५१ ।।
इन्द्रस्त्वागत्य तामाह केन दुःखेन रोदिषि ।
विप्ररूपं तु तं प्राह मम पुत्रशतद्वयम् ।।५२।।
युद्धेन नष्टं विप्रेन्द्र! शोचामि ताँश्च रोदिमि ।
इन्द्रः प्राह पुरा राज्ञा त्वया यज्ञः सुतेष्टिकः ।।५३।।
विहितो मामनादृत्य मम दुःखं त्वया कृतम् ।
वैरं निर्यापितं राज्ञि मया मा रोदनं कुरु ।।५४।।
श्रुत्वा राज्ञी निपपात पादयोः क्षम चाह वै ।
इन्द्रो वरं ददौ तस्यै जीवन्तु के सुतास्तव ।।५५।।
सा प्राह स्त्रीसमुत्पन्ना जीवन्तु मम पुत्रकाः ।
इन्द्रः प्राह कथं पूर्वे न जीवन्तु वदाऽत्र मे ।।५६।।
-म'- साऽऽह स्त्रियाः परः स्नेहोऽपत्येषु न नरस्य वै ।
तस्मादुत्तरजाता मे सर्वे जीवन्तु पुत्रकाः ।।।५७।।
इन्द्रः प्राह शते द्वे वै सर्वे जीवन्तु ते सुताः ।
कृपया जीवयाम्येतान् राज्यं कुर्वन्तु ते मिथः ।।५८ ।।
इत्युक्ता जीविताः सर्वे सत्यवक्त्र्या सुपुत्रकाः ।
अथेन्द्रो वरदानार्थं पुनः प्राह स्त्रियं प्रति ।।५९।।
वरं वृणु नरत्वं नारीत्वं वा यत् प्रकांक्षसे ।
स्त्री प्राह मे सदा स्त्रीत्वं चास्तु नैव नरत्वकम् ।।3.92.६ ० ।।
इन्द्रः प्राह कथं स्त्रीत्वे विशेषाभिनिवेशनम् ।
साऽऽह स्त्रिया नरयोगे प्रीतिरभ्यधिका सदा ।। ६१ ।।
कामसुखं च दशधा तुष्यामि स्त्रीस्वरूपिणी ।
तथाऽस्त्विन्द्रो वरं दत्वा ययौ दिवं च सा सती ।।६२ ।।
स्त्रीरूपा स्वर्वहं कान्तं भङ्गास्वनाऽप्यसेवत ।
पप्रच्छ स्त्रीस्वभावाँश्च कान्तं कान्तो जगाद ताम् ।।६३ ।।
स्त्रियो मूलं हि दोषाणां लघुचित्ता विनाशिकाः ।
पञ्चचूडाऽप्सरोवरा नारदायाऽऽह पृच्छते ।।६४।।
नारद! स्त्रीस्वभावोऽस्ति चंचलः पुरुषाश्रयः ।
अबला चेहते कान्तं रामकं रमणोत्सुकम् ।।६५ ।।
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः ।
मर्यादासु न वर्तन्ते दोषोऽयं प्रमदाजने ।।६६ ।।
स्त्रीत्वं सदाऽभिवाञ्च्छन्ति पुरुषाऽधीनताकरम् ।
गृहराज्यं स्त्र्यधीनं वै पुमान् स्त्र्यधीन एव च ।।६७ ।।
अप्रयत्नाः सदा भोग्यजातानि भुञ्जते स्त्रियः ।
पूज्यन्ते मानमर्हन्ति मोहगर्वं विदन्ति च ।।६८।।
आयोद्यमादिनिश्चिन्ताः सदा चेच्छन्ति भोग्यताम् ।
स्त्रीत्वमिच्छन्ति सौभाग्यं दार्ढ्यमेतत् स्त्रियाः सदा ।।६९।।
अनुकूलानृद्धिमतः सुरूपान् स्ववशे स्थितान् ।
परानन्तरमासाद्य भुंजते स्वान् विहाय च ।।3.92.७ ० ।।
अयं दोषो हि नारीणां महानास्ते ह्यगोचरः ।
स्त्रियं हि यः प्रार्थयते ददातीष्टं पुनः पुन ।।७ १ ।।
इषञ्च कुरुते सेवां निर्लज्जास्तं हि भुञ्जते ।
नैव मिलति यावद्वै विमार्गवाहको नरः ।।७२।।
भयं नैव कुटुम्बस्य मर्यादा नेतरस्य च ।
राजदण्डभयं चेन्न व्यवायं यान्ति तास्तदा ।।७३ ।।
नाऽगम्योऽस्ति नरः कोऽपि नाऽऽसां वयसि गोरवम् ।
न रूपादौ दार्ढ्यभावः पुमानित्येव भुञ्जते ।।७४।।
या रक्ष्यन्ते सर्वदानैः सर्वमानसपूरणैः ।
तथापि सम्प्रसज्जन्ते कुब्जाऽन्धजडवामनैः ।।७५ ।।
 कामदोषो महानासां प्रवर्तन्ते मिथः स्त्रियः ।
चलस्वभावा दुष्पूर्या दुर्नियम्याः स्वभर्तृभिः ।।७६।।
कामानामपि दातारं मनसां प्रियकारिणम् ।
पालकं न गणयन्ति कान्तं नार्यो ह्यनर्गलाः ।।७७।।
रत्यनुग्रह एवाऽऽसां मुख्यः पुमर्थ इष्टकृत् ।
धर्मार्थमोक्षास्तमनु मताः स्त्रीणां तु यौवने ।।७८।।
साहसं कपटं मौढ्यं लोभो गुप्तिर्हठोऽनृतम् ।
अशौचं क्रूरता चापि दोषा भवन्ति योषिति ।।७९।।
आश्रयः स्वीयता सेवा तितिक्षा प्राणदायिता ।
मार्दवं स्निग्धता वश्यं गुणा ह्येते तु योषिति ।।3.92.८ ० ।।
दुःखे दुःखं सुखे सौख्यं हृदयैक्यं धनैकता ।
आत्मनिवेदिता दास्यं नारीषु प्रायशो गुणाः ।।८ १ ।।
धर्मवृत्तिर्व्रतवृत्तिश्चास्तिक्यं पूजनं हरेः ।
आतिथ्यं स्वजनकीर्तिर्गुणाः श्रेष्ठा हि योषिति ।।८२।।
दानं श्रैष्ठ्यं कुटुम्बस्य कान्तनिन्दाश्रुतिर्न च ।
क्षमा पालनशक्तिश्च गुणाः सन्ति हि योषिति ।।८३ ।।
गृहकार्यकारिणीत्वं चोपार्जनमतिस्तथा ।
व्ययभीरुत्वमेवाऽपि गुणाः सन्ति हि योषिति ।।८४।।
रासनं च सुखं स्वादश्चांगमर्दनमित्यपि ।
समुद्विग्नमनःशान्तिर्गुणाः सन्ति हि योषिति ।।८५।।
वंशविस्तारकारित्वं बालरक्षा गृहाऽवनम् ।
परोपकारशीलत्वं गुणाः सन्ति हि योषिति ।।८६।।
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ।
उद्विग्नं प्रियवाक्यैश्च सन्तोषयन्ति मायया ।।८७।।
वानरीणां तु चाञ्चल्यं मार्जारीणां तु गुप्तता ।
कलहश्चक्रवाकीनां मूषिकाणां चरित्रता ।।८८।।
पिपीलिकानां चयनं मार्गणं गृध्रपक्षिणाम् ।
सूर्योदयस्य प्राकट्यं ह्यानन्दस्य तु मूर्छना ।।८९।।
शोको मृतैकपुत्रस्य मौर्ख्यमुष्ट्रस्य वै तथा ।
मार्दवं चोरणस्यापि तैक्ष्ण्यं क्षुरस्य वै तथा ।।3.92.९०।।
एते धर्माः प्रमदासु वर्तन्ते वै विशेषतः ।
पूर्वे सर्गे तदा नार्यः साध्व्यः सत्य इहाऽभवन् ।। ९१ ।।
स्वयं प्रजा देवसमा आसन् यान्ति दिवं हि ताः ।
ततो मानवमोहार्थमसाध्वीर्विश्वमोहिनीः ।।९२।।
ब्रह्माऽसृजत् क्रियाहीनाः कामक्रोधपरायणाः ।
शय्यासनमलंकारमन्नपानमनार्यताम् ।।९३।।
दुर्वाग्भावं चोग्ररतिं ददौ स्त्रीभ्यः प्रजापतिः ।
तैर्धर्मैः रक्षितुं शक्या नैव नार्यः कथंचन । ।९४।।
तथापि लक्ष्मि जायन्ते तपोव्रतोपवासनैः ।
सतां सेवादिभिर्नार्यः पवित्रा लोकपावनाः ।। ९६।।
कृष्णपातिव्रत्यपराः साध्व्यो भवन्ति योगतः ।
दोषान् दग्ध्वा हृषीकावन्मुक्ता जायन्त एव ताः ।।९६ ।।
यत्र क्वापि कुले जाता विप्राश्रिता द्विजास्तु ताः ।
साध्वीदीक्षान्वितास्तास्तु साध्व्यः सत्यो द्विजाश्च ताः ।। ९७। ।
योगदीक्षान्विता विप्रा योगिन्यस्ता हि देवताः ।
सांख्ययोगान्वितास्तास्तु मुक्तान्यो ब्रह्मयोषितः ।।९८।।
हरेः पत्नीत्वमापन्ना ब्राह्मण्यस्ता हरिप्रियाः ।
त्यागिन्यस्त्यागमापन्ना ब्रह्मप्रियाः सदा मताः ।।९९।।
गोपालकन्या ब्रह्माणं प्राप्य गायत्रिकाऽभवत् ।
पूज्या वन्द्या ब्राह्मणी सा ब्रह्माणी लोकमातृका ।। 3.92.१०० ।।
श्वपचस्य सुता प्राप्य वसिष्ठं ब्राह्मणी शुभा ।
आर्षी चाऽरुन्धतीनाम्नी पूज्या पतिव्रताऽभवत् ।। १०१ ।।
कन्यास्तु बहुवर्णानां कृष्णं प्राप्य च गोपिकाः ।
कार्ष्ण्यो जाताः कृष्णरूपा स्त्रियः शुद्ध्यन्ति योगतः ।। १ ०२।।
राक्षस्यो देवमासाद्य देव्यो भवन्ति सर्वथा ।
पौलोमी वै महेन्द्रं तु समासाद्य हि देवता ।। १ ०३।।
देव्यपि देवयानी च क्षत्रमासाद्य मानवम् ।
ययातेर्गृहिणी भूत्वा मानवी सा व्यजायत ।। १ ०४।।
दक्षपुत्र्यश्च काश्चित्तु चान्द्र्यो देव्योऽभवन् दिवि ।
धर्मपत्न्यो देवताश्च ब्राह्मण्यः ऋषियोषितः ।। १ ०५।।
मनुपत्न्यस्तु मानव्यः काश्यप्यो बहुजातयः ।
जातास्तस्मान्न वै स्त्रीणां जातित्वं नियतं क्वचित् ।। १ ०६।।
किमत्र बहुनोक्तेन मम पत्न्योऽर्वुदाऽर्बुदाः ।
सर्वभूस्वःसत्यमद्वर्जनपातालदेहिजाः ।।१०७।।
सर्वजातिसमुत्पन्ना मद्योगाद् विप्रजातयः ।
यज्ञोपवीतधारिण्यो ब्रह्मप्रिया रमा इव ।। १ ०८।।
भवत्य सन्ति चात्रैवाऽक्षरक्षेत्रे मया सह ।
ब्राह्मण्यः सर्वपूज्या वै दिव्या मद्रूपधारिकाः ।। १ ०९।।
सर्वा वै पारमेश्वर्यः पौरुषोत्तम्य ईशिकाः ।
पावन्यः सर्वसृष्टीनां श्रीभूगंगा इव प्रियाः ।। 3.92.११ ०।।
तस्माल्लक्ष्मि! मम योगान्नारायणी यथा भवेत् ।
देवयोगाच्च देवी वै साधवी साधुयोगतः ।। १११ ।।
विप्रयोगाच्च विप्राणी ब्राह्मणी ब्रह्मयोगिनी ।
मुक्तयोगाच्च मुक्तानी सिद्धिः सिद्धप्रयोगिणी ।। १ १२।।
गणयोगाच्च गणिका योगियोगाच्च योगिनी ।
ईशयोगादीश्वराणि मनोर्योगात्तु मानवी ।। ११३ ।।
नार्यश्चैवं प्रजायन्ते सत्ययोगात् सती सदा।
तत्र सर्वत्र श्रेष्ठोऽहं श्रीपतिः पुरुषोत्तमः ।। १ १४।।
मम योगेन च पौरुषोत्तमीत्वं परात्परम् ।
प्राप्तव्यं मां भजित्वैव साध्वीत्वं साधुसेवया ।। १ १५।।
मोक्ष एव भवेद् यस्मात् तद्गृहं शाश्वतं सदा ।
अशाश्वतं विहायैव शाश्वतं समुपाश्रयेत् ।। १ १६।।
पठनाच्छ्रवणादस्य ब्राह्मीत्वं चेह जायते ।
भुक्तिर्मुक्तिर्भवेच्चापि नारायणीत्वमीयते ।। १ १७।।

इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽन्यजातीनामपि गुणव्रताचारदीक्षावरशापलग्नादियोगेन तत्तज्जातिपरिवर्तनं ब्राह्मण्यं च जायतेऽत्रार्थेऽनेकनिदर्शनानि भङ्गास्वननृपस्य नारीत्वे निदर्शनमित्यादिनिरूपणनामा द्वानवतितमोऽध्यायः ।। ९२ ।।