लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९५

← अध्यायः ०९४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०९५
[[लेखकः :|]]
अध्यायः ०९६ →

श्रीनारायणीश्रीरुवाच-
किं जप्यं सर्वदा कान्त! भामिनीभिः स्वमुक्तये ।
कः पूज्यः को नमस्कार्यो वद मे स्त्रीकृपावशः ।। १ ।।
श्रीपुरुषोत्तम उवाच-
भामिनीभिः सदा जप्यं श्रीकान्तेति सुखप्रदम् ।
मम नामोत्तमं नाम मुक्तिं ददामि तेन वै ।। २ ।।
विधवाभिर्हरे कृष्णनारायण प्रभो पते ।
इतिजप्यं मम नाम पुनः पुनः स्वमुक्तये ।। ३ ।।
कन्यकाभिः सदा जप्यं राधावरेतिनाम मे ।
वृद्धाभिः सर्वदा जप्यं लक्ष्मीनारायणेति वै ।। ४ ।।
अनादिश्रीकृष्णनारायणेति जप उत्तमः ।
सर्वाभिः प्रमदाभिश्च कर्तव्यः सर्वसिद्धये ।। ५ ।।
अहं पूज्यो नमस्कार्यः श्रीकृष्णोवल्लभः पतिः ।
स्वर्णादिप्रतिमायां च पत्यावहं परेश्वर ।। ६ ।।
श्रीनारायणीश्रीरुवाच-
सर्वदा मानवैर्यत्र व्रते महोत्सवे गृहे ।
मन्दिरे देवपूजायां श्राद्धे प्रवासने तथा ।। ७ ।।
प्रस्थाने वा प्रवेशे वा विवाहे शुभकर्मणि ।
गृहारंभे कृषिकार्ये ह्युद्यमे विजयार्थिनि ।। ८ ।।
अभ्युदये तथा स्वास्थ्ये वैमनस्ये ह्यनिष्टके ।
शुभाऽशुभादौ किं जाप्यं स्वेष्टफलादिलब्धये ।। ९ ।।
श्रीपुरुषोत्तम उवाच-
सर्वत्र लाभदं शान्तिपुष्टिदं भयनाशनम् ।
रक्षाकरं शत्रुविघ्ननाशकं साधुसम्मतम् ।। 3.95.१ ०।।
ब्रह्मशरं प्रवक्ष्यामि सर्वपापविनाशकम् ।
यत्र क्वचिज्जपन् देही सर्वपापैः प्रमुच्यते ।। ११ ।।
आयुष्मान् भवते चैनं श्रीः समुपैति चोत्तमा ।
अक्षरब्रह्मणा साम्यं धाम्नि यन्ममतुष्टये ।। १२।।
मुक्तानां मण्डलैः साकं विहितं वाङ्मयं तदा ।
यदाऽहमगमं सृष्टौ त्वया साकं तु पद्मजे ।। १ ३।।
नमः श्रीपरमेशाय नमोऽक्षराधिपाय च ।
नमो मुक्ताधिनाथाय नमो ब्रह्मप्रियाजुषे ।। १४।।
हरिप्रियादिपतये नमो नमोऽवतारिणे ।
नमोऽनादिकृष्णनारायणाय परमात्मने ।।१५।।
नम ईश्वरनाथायेश्वरीणीस्वामिने नमः ।
नमो व्यूहाधिनाथाय वैष्णवीस्वामिने नमः ।। १६।।
नमो नारायणीशाय श्रीलक्ष्मीशाय ते नमः ।
नमोऽन्तर्यामिणे वेदनिधये ते नमो नमः ।। १७।।
नमः सहस्रशीर्षायाऽसंख्यनाम्ने च ते नमः ।
विष्णवे शंभवेऽजाय त्रिरूपाय च ते नमः ।।१८।।
आदित्येभ्यो नमश्चापि वसुभ्यश्च नमो नमः ।
अश्विभ्यां च नमः सर्वसुरेभ्यश्च नमो नमः ।। १ ९।।
यज्ञदेवेभ्य एवाऽपि कालाय मृत्यवे नमः ।
विश्वदेवेभ्य एवापि पितृभ्यश्च नमो नमः ।।3.95.२० ।।
सिद्धेभ्यश्च मुनिभ्यश्च साधुभ्यश्च नमो मुहुः ।
गणेश्वरेभ्यः सर्वेभ्यः पार्षदेभ्यो नमो नमः ।।२१ ।।
साध्वीभ्यश्च सतीभ्यश्च देवीभ्यश्च नमो नमः ।
मातृभ्यश्च जनकेभ्यो वृद्धेभ्यश्च नमो नमः ।।२२।।
विप्रेभ्यः पूज्यवर्गेभ्यस्तीर्थेभ्यश्च नमो नमः ।
कम्भरायै महालक्ष्म्यै सन्तुष्टायै नमो नमः ।।२३।।
माणिक्यायै प्रभावत्यै प्रज्ञायै च नमो नमः ।
लक्ष्म्यै श्रियै राधिकायै कमलायै नमो नमः ।।२४।।
श्रीमद्गोपालकृष्णाय ते महाविष्णवे नमः ।
सप्तर्षिभ्यो मानवेभ्यो ब्राह्मणेभ्यो नमो नमः ।।२५।।
चमत्कारिपुरुषेभ्यः सद्गुरुभ्यो नमो नमः ।
धर्माय भक्त्यै कृष्णाय हरये च नमो नमः ।।२६।।
नराय तत्पूर्वजाय वृषजेभ्यो नमो नमः ।
दिक्पालेभ्यः समस्तेभ्यो लोकपालेभ्य आनमः ।। २७।।
गुरुभ्यो मोक्षदेभ्यश्च शान्तिदेभ्यो नमो नमः ।
पालकेभ्यः पवित्रेभ्यः पावनेभ्यो नमो नमः ।।२८।।
पावकेभ्यश्च तत्त्वेभ्यश्चैश्वर्येभ्यो नमो नमः ।
सर्वाभ्यो ब्रह्मविद्याभ्यो मुक्तिदाभ्यो नमो नमः ।।२९।।
गुर्वीभ्यः कामधेनुभ्यः सद्भ्यो मुहुर्नमो नमः ।
तापसेभ्यः शीलधर्मिभ्यो योगिभ्यो नमो नमः ।।3.95.३० ।।
सर्वात्मनेऽनादिकृष्णनारायणाय ते नमः ।
स्वतःप्रकाशरूपाय मन्त्राणां निधये नमः ।।३ १ ।।
एते ब्रह्मस्वरूपास्तान् कीर्तयेत् कीर्तिवर्धनान् ।
अवताराँस्तथा मुक्तानीश्वरान् कीर्तयेत् सुरान् ।।३ २।।
श्रीकृष्णं परमं ब्रह्म सर्वशास्त्रप्रबोधितम् ।
मंगलं सर्वभूतानां पवित्रं कीर्तयेद्धि माम् ।।३३।।
व्याधिप्रशमनं सिद्धिप्रदं च पुष्टिदं तथा ।
कल्पं सायं सदा रात्रौ कीर्तयेन्मां दिनेऽनिशम् ।।३४।।
त एते देवताः सर्वकार्यसिद्धिप्रदा नृणाम् ।
रक्षन्ति चाभिवर्षन्ति कामान् पुष्णन्ति कीर्तिताः ।।३५५।।
एते तु नायकाः सर्वे साक्षिणः कर्मणामपि ।
कीर्तितास्ते ततस्तुष्टा व्यपोहन्त्यशुभं नृणाम् ।।३६।।
एवं कल्पं समुत्थाय नमस्कारान् मुहुश्चरेत् ।
नाग्निचौरभयं तस्य न मार्गप्रतिरोधनम् ।।३७।।
अशुभं न भवेत्तस्य शुभं स्याद्वै पदे पदे ।
दुःस्वप्नो न भवेत्तस्य स्वस्तिमान् स्यात्क्षणे क्षणे ।।३८।।
नश्यन्ति सर्वपापानि सुपुण्यान्युद्भवन्ति च ।
नश्यन्ति व्याधयो रोगाः कुले स्वस्त्ययनं चरेत् ।। ३९।।
आत्मनश्च सुतानां च दाराणां च कुटुम्बिनाम् ।
धनानामोषधीनां च रक्षां ब्रह्मशरः क्रियात् ।।3.95.४०।।
रणे नश्यन्ति रिपवो विजयः स्यात् प्रपाठिनः ।
दैवे पैत्र्ये पठनीयं तृप्यन्ति पितरः सुराः ।।४१।।
कष्मलं दूरमेव स्यान्नैर्मल्यं च भवेत् सदा ।
प्रवासे शुभकार्ये च ब्रह्मशरस्य पाठनात् ।।४२।।
परा सिद्धिर्भवेत् स्वेष्टकार्याणां नाऽत्र संशयः ।
न च राजभयं तस्य श्वापदानां भयं न च ।।४३।।
न भयं शत्रुतस्तस्य पिशाचोरगरक्षसाम् ।
नाऽग्न्यम्बुपवनाकाशाद् भूकम्पाद् ग्रहतो भयम् ।।४४।।
यत्र ब्रह्मशरः स्तोत्रं दुःखं ततो विलीयते ।
न तत्र म्रियते बालः सम्पन्नाशो न जायते ।।४५।।
धनं शेवधिः पठतो गावोऽस्य बहुवत्सिकाः ।
एतादृशं ब्रह्मशरस्तोत्रं शरवद् रक्षकम् ।।४६।।
तुभ्यं लक्ष्मि समाख्यातं तथ्यं ब्रह्म सनातनम् ।
हृदयं सर्वभूतानां श्रुतिर्मे वाक् सनातनी ।।४७।।
दिवं यान्ति सुरान् जप्त्वा महाविष्णुं तथैश्वरान् ।
लोकान् यान्ति प्रकीर्त्याऽत्राऽवतारान् यान्ति धाम च ।।४८।।
मामनादिं हरिंकृष्णं नारायणं प्रकीर्त्य तु ।
ममाऽक्षरपदं यान्ति लक्ष्मीं प्रकीर्त्य सम्पदः ।।४९।।
जप्त्वा राधां तथाऽश्विनौ रूपं यान्ति परोत्तमम् ।
धर्मं स्मृत्वा वृषं यान्ति ब्रह्म स्मृत्वाऽक्षयं सुखम् ।।3.95.५ ० ।।
साधून् स्मृत्वा परं पुण्यं नैर्विघ्न्यं यान्ति सर्वदा ।
जप्यं ब्रह्मशरस्तोत्रं सर्वकार्यार्थसिद्धये ।।५ १ ।।
पूजनीयाः साधवश्च सर्वपापोपशान्तये ।
साधूनां तु परिभवः साधयेदपि चेश्वरान् ।।५२।।
साधुजनान् सम्प्रसाद्य कदाचन न रिष्यति ।
सन्तः पूज्या नमस्कार्याः सेवनीयाः परेशवत् ।।५३ ।।
साधुजनेषु सततं वर्तितव्यं तु दीनवत् ।
सन्तो लोकानिमान् सर्वान् धारयन्ति दयालवः ।।५४।।
भक्तियुक्ता भजनेन रक्षन्ति शरणागतान् ।
सन्तो वै भगवद्योगान्महान्तो धर्मसेतवः ।।५५।।
स्त्रीधनत्यागिनः सन्तो वाणीसंयमयोगिनः ।
दर्शनीयाश्च भूतानां शीलयुक्ता धृतव्रताः ।।५६ ।।
प्रमोक्षकाश्च लोकानां शास्त्राणां पालकास्तथा ।
लेखका दर्शकाश्चापि धर्मोद्यमपरायणाः ।।५७।।
तपो भक्तिर्धनं येषां श्रीहरिर्विपुलं बलम् ।
आश्रयाः सर्वधर्माणां साधवो दिव्यदर्शिनः ।।५८।।
मोक्षकामाः स्थिता भक्तौ धर्मे च धर्मसेतुषु ।
यान् समाश्रित्य जीवन्ति प्रजाः सर्वाश्च देहिनः ।।५९।।
साधवो ब्रह्मसोपानाः पन्थानो मुक्तिगामिनाम् ।
यज्ञपुण्यप्रदातारो भोजनार्थं सनातनाः ।।3.95.६ ० ।।
पितृदेवोद्धारकाश्च हव्यकव्याग्रभोजिनः ।
आशीर्वादेन लोकाँर्स्त्रीस्त्रायन्ते मायिकाद् भयात् ।।६ १ ।।
सूर्याः सर्वप्रलोकानां नेत्राणि नेत्रिणां तथा ।
सर्वकथाश्रूतिधना निपुणा मोक्षदायिनः ।।६२।।
गतिज्ञाः सर्वसत्त्वानामध्यात्मगतिचिन्तकाः ।
आरम्भान्तादिबोद्धारो गन्तारः परमां गतिम् ।।६३ ।।
परावरादिविज्ञाना आत्मबोधादिशोभनाः ।
विमुक्ताः पापरहिता धूतपापाश्रितालयाः ।।६४।।
निर्द्वन्द्वा बन्धनहीना अराग्रा निष्परिग्रहाः ।
मानार्हा मानिताः सद्भिर्महात्मभिः प्रवैष्णवैः ।।६५।।
पंके लेपे चन्दने च समामिष्टे कटौ रसे ।
क्षौमेऽजिने दुकूले च समा अनशने रताः ।।६६।।
शोषयेयुश्च गात्राणि तपोभिर्विद्यया व्रतैः ।
अदैवतं प्रकुर्युस्ते सदैवतं धनान्वितम् ।।६७।।
लोकानन्यान् सृजेयुश्च तपोबलाद्धि साधवः ।
विप्राणामपि ये विप्रा देवानामपि देवताः ।।६८।।
प्रमाणानां प्रमाणानि साधवः शास्त्रभूषणाः ।
येषां वृद्धश्च बालश्च निर्धनोऽपि धनान्वितः ।।६९।।
नारी वापि नरो वापि समं मानं समर्हति ।
तपोविद्याविशेषात्तु परं मानं समर्हति ।।3.95.७०।।
अविद्वान् ब्रह्मविद्वान् वै साधुः पात्रं महत्परम् ।
विद्वान् साधुः परब्रह्म पावनं पात्रमुत्तमम् ।। ७१ ।।
अविद्वाँश्चैव विद्वाँश्च साधुर्वै दैवतं महत् ।
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ।।७२।।
तथा संसारचक्रे वै साधुः क्वापि न दुष्यति ।
यज्ञे हविर्लिहन् वह्निर्यथा साधुः प्रशोभते ।।।७३ ।।
विप्राणां तु सहस्रेषु संभुजत्सु महाध्वरे ।
साधोरसत्त्वे व्यर्थं स्यात् साधुर्नारायणो यतः ।।७४।।
साधवः सोमसूर्यादिप्रपूज्या ईश्वरेश्वराः ।
साधूनां वै प्रपूजायामायुः कीर्तिर्यशो बलम् ।।७५।।
भक्तिर्मुक्तिर्दैवतं च वर्धन्तेऽहर्निशं सदा ।
लोकालोकेश्वराः साधुपूजकाः संभवन्ति ह ।।७६।।
धर्मार्थकाममोक्षेषु यशःश्रीरोगशान्तिषु ।
देवतापितृपूजासु सन्तोष्याः साधवोऽमलाः ।।७७।।
साधवो हि माधवास्ते लोके चात्र परत्र च ।
तारयेयुर्जगत् सर्वं सन्तुष्टाः श्रीपतिर्यथा ।।७८।।
कश्यपस्य गृहे साधुर्वैष्णवस्तापसो यतिः ।
प्रणद्ब्रह्माभिधश्चासीन्मानसो वेधसः सुतः ।।७९।।
शीलव्रतो जटी कृशो महैश्वर्यादिसिद्धिमान् ।
मालाजपेऽतिमग्नश्च प्रायो मौनपरायणः ।।3.95.८०।।
मारीचः कश्यपस्तं तु प्रातः प्रसेवते सदा ।
पादसंवाहनाद्यैश्च भोज्यपानादिकार्पणैः ।।८१ ।।
साधुश्चाऽयं भजन् कृष्णनारायणं हरिं च माम् ।
ध्याने प्रायो वर्तते वै मम भक्तिपरायणः ।।८२।।
स स्वैरं चरते लोकान् दिव्यान् नागांश्च मानुषान् ।
पुनश्चायात्यालयं च कश्यपस्य महात्मनः ।।८३।।
प्रणद्ब्रह्मैकदा प्राह कश्यपं मां प्रभोजय ।
दुग्धपाकं ह्यपूपाँश्च कश्यपस्तमभोजयत् ।।८४।।
प्रणद्ब्रह्म ततः प्राह कश्यपं सेवकं मुनिम् ।
ममांगानि प्रलिम्पस्व पायसेन मुहुर्मुहुः ।।८५।।
कश्यपः कृतवान् सर्वं पायसेन विलेपनम् ।
अस्नापयत् पायसेन प्रणद्ब्रह्ममहामुनिम् ।।८६।।
अथोत्थाय प्रणद्ब्रह्मोच्छिष्टेन पायसेन तु ।
कश्यपस्याऽऽननं मूर्धानं चाऽलेपयदित्यपि ।।८७।।
अथाऽन्तिके स्थितां दृष्ट्वा युवतीमदितिं तथा ।
हस्तेन सम्परिगृह्याऽलिम्पत पायसेन ताम् ।।८८।।।
मुखे वक्षसि कट्यां च सक्थ्नोः पृष्ठे नितम्बयोः ।
व्यसृजच्च ततस्तां स प्रणद्ब्रह्म मुनीश्वरः ।।८९।।
अथाऽदितिं पुनः प्राह पायसान्वितविग्रहाम् ।
वह स्कन्धे निधायैव मां बहिः सर्वसन्निधौ ।।3.95.९०।।
अदितिस्तं निधायैव स्कन्धे ययौ बहिस्तदा ।
पल्लताभिस्ताडयति मुनिस्तां बालयौवनाम् ।।९१ ।।
साऽपि साधुजनं स्कन्धे कृत्वा चचार सर्वतः ।
पश्यतां सर्वलोकानां चाययौ स्वगृहं प्रतिं ।।९२।।
मुनिः स राजमार्गेण स्कन्धस्थश्चाययौ गृहम् ।
कश्यपस्य स्तोकमपि दुःखं नासीन्न चादितेः ।।९३।।
गृहे त्वागत्य मुनिराट् पतितो भूतले द्रुतम् ।
स्कन्धात्तदा कश्यपश्चादितिस्तथाऽन्ययोषितः ।।९४।।
परिचर्या प्रचक्रुश्च प्रसीद भगवन्निति ।
ततः स मुनिराट् स्वस्थो विलोक्य कश्यपं तथा ।।९५।।
अदितिं प्राह तुष्टात्मा देवमाता भविष्यसि ।
जितक्रोधो भवान् यस्मात् कश्यपोऽस्ति ततस्त्विह ।।९६।।
पिता सर्वप्रजानां त्वं भविष्यसि न संशयः ।
तव वंशे साधवश्च कोट्यर्बुदा हि मादृशाः ।।९७।।
वंशोद्धारकराः सर्वे ब्रह्मध्यानपरायणाः ।
भविष्यन्ति तथा दारयुजो गृहादिमेधिनः ।।९८।।
सर्वविधान्यपत्यानि भविष्यन्ति तवैव ह ।
पुण्या कीर्तिस्तव नित्या भविष्यति न संशयः ।।९९।।
तव वंशो हरेश्चापि प्राकट्यानि पुनः पुनः ।
भविष्यन्ति हि लोकानामुद्धारार्थं हि कश्यप ।। 3.95.१० ०।।
न त्वां जरां वा रोगो वाऽदितिं चापि लगिष्यति ।
सर्वस्त्रीणां प्रधाना त्वमदिते संभविष्यसि ।। १० १।।
एषैव ते बुद्धिरस्तु साधून् प्रति सदा तव ।
इत्युक्त्वा विररामाऽसौ स्नात्वा शुद्धो बभूव ह ।। १ ०२।।
प्राहाऽमृतप्रभोक्तारः पुत्रास्ते देवताः शुभाः ।
भविष्यन्ति पायसान्नफलभाजः सदाऽदिते ।। १ ०३।।
अन्यासां दैवयोगेन प्रसादभागिनः क्वचित् ।
भविष्यन्ति तव स्त्रीणां कश्यपत्वं सुखी भव ।। १ ०४।।
सर्वस्मृद्धिभृतान्येव गृहाणि कश्यपस्य वै ।
भवन्त्विति मुनिः प्राह तत्तथा तानि चाऽभवन् ।। १ ०५।।
एवं लक्ष्मि प्रणद्ब्रह्मसाधोश्चाशीर्वचांसि वै ।
सेवाश्च संशयशून्याः फलिताः कश्यपस्य ह ।। १ ०६।।
अदितेः फलिताश्चापि साधोः सेवा हरिप्रसूः ।
देवप्रसूरदितिर्वै जायते नाऽपरा मुहुः ।। १ ०७।।
साधोः सेवाफलं लक्ष्मि भोगमोक्षप्रदं भवेत् ।
सर्वसम्पत्प्रदं चापि कामनापूरकं भवेत् ।। १ ०८।।
पूज्यन्ते सततं सर्वैः साधवो देवतादिभिः ।
मानवैश्चापि लोकेशैर्दिक्पालैश्चेश्वरादिभिः ।। १ ०९।।
एकतः सर्वभूतानां सेवनं चैकतः सताम् ।
सतां सेवाफलस्याऽग्रेऽन्यानि नार्हन्ति षोडशीम् ।। 3.95.११०।।
पठनाच्छ्रवणाच्चास्य सतां सेवाफलं लभेत् ।
भुक्तिं मुक्तिं लभेच्चापि शाश्वताऽऽनन्दभाग् भवेत् ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पूजनीयनमस्करणीयसाधुजनमाहात्म्ये प्रणद्ब्रह्मसाधोराशीर्वादेन सेवया च कश्यपस्याऽदितेश्च देवता-
मात्रपितृत्वादिलब्धिरितिनिरूपणनामा पञ्चनवतितमोऽध्यायः ।। ९५ ।।