लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०९७

← अध्यायः ०९६ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०९७
[[लेखकः :|]]
अध्यायः ०९८ →

श्रीनारायणीश्रीरुवाच-
किं कर्तव्यं मानवेन लोकव्यायामशालिना ।
देहयात्रां लोकयात्रां किंधर्मः सन् विभावयेत् ।। १ ।।
श्रीपुरुषोत्तम उवाच-
द्रोहं विहाय स्तैन्यं च त्यक्त्वा व्यवायमित्यपि ।
त्यक्त्वा कायेन पापानि श्रेष्ठं सर्वं समाचरेत्। ।। २ ।।
ग्राम्यवार्ता च पारुष्यं पैशून्यं च मृषावचः ।
वाचा चत्वारि सन्त्यज्य सत्यं संव्याहरेत् सदा ।। ३ ।।
परस्वानामनाकांक्षां सर्वदेहिषु मित्रताम् ।
कर्मफलादावास्तिक्यं मनसा धारयेत् सदा ।। ४ ।।
वासना नोद्भावयेच्च तृष्णां त्यजेत् परिग्रहम् ।
भयदं च विहायैवाऽऽत्मना साधुं समाश्रयेत् ।। ५ ।।
सर्वस्वार्पणमासाद्य नवधाभक्तिमाचरेत् ।
प्रेम्णा ध्यानेन मां लब्ध्वा व्रजेत्तु परमं पदम् ।। ६।।
एवं सदाऽऽचरेच्छ्रेष्ठं शुभं हितं च सत्फलम् ।
अशुभं विपरीतं च नाऽऽचरेत्तु कदाचन ।। ७ ।।
मातुः सेवां पितुः सेवां पत्युः सेवां स्त्रियास्तथा ।
गुरोः सेवां गवां सेवां कुर्याद् वृद्धस्य सेवनम् ।। ८ ।।
देवसेवां सतां सेवां सतीसेवां समाचरेत् ।
आतिथ्यं च परोपकारादिकं चाचरेत् सदा ।। ९ ।।
भजनं मे प्रकुर्याच्च दीनसेवां समाचरेत् ।
लोकसेवां राष्ट्रसेवां प्रजासेवां समाचरेत् ।। 3.97.१ ०।।
तीर्थसेवां ब्रह्मसेवां मोक्षसेवां समाचरेत् ।
शृणु लक्ष्मि पुरा तीर्थं प्रसेव्य साधुमण्डलम् ।। ११ ।।
आलम्बायनसंज्ञश्च महर्षिर्मोक्षमाप्तवान् ।
सिंहारण्ये महातीर्थे गोकर्णे ऋषिराट् स्वयम् ।। १ २।।
लक्षवर्षाण्यवसत् सः साधूनां सेवया सुखी ।
दशवर्षोऽभवद् यावत्तावत् सौराष्ट्रदेशजः ।। १ ३।।
केशरिणीं निजां नत्वा प्रसूं प्राह स बालकः ।
मातर्मे जायते चेच्छा सतां समागमे मुहुः ।। १४।।
अनित्यः खलु संसारो मानुष्यं दुर्लभं तथा ।
हरेर्भक्तिर्दुर्लभा च दुर्लभः सत्समागमः ।। १५।।
गृहं च वाटिका पत्नी बान्धवाश्च धनान्यपि ।
गावो भृत्याश्च सुलभाः परं बन्धनकारिणः ।।१६।।
दुर्लभाः साधवो भक्तिर्नारायणाश्रयस्तथा ।
मोक्षोऽपि दुर्लभो मातः साधयेत्तान् पुमान् बुधः ।। १७।।
एवं मे वर्तते बुद्धिर्यथा शाधि करोमि तत् ।
माता प्राह सुतं धन्यो वर्तसे त्वं हि देवता ।। १८।।
आबाल्यात्ते तु संकल्पा विवेकसंभृताः सुत! ।
धन्याऽहं जननी तेऽपि पिता धन्योऽपि ते सुत! ।। १९।।
यत्पुत्रो भगवद्भक्तिं कर्तुमिच्छसि सेवनम् ।
सतां मोक्षमवाप्तुं च मतिस्ते धन्यपात्रिणी ।।3.97.२० ।।
अद्य पुत्र समाकर्ण्य पारमेश्वरमुत्तमम् ।
विवेकं ते बहुपुण्या भवामि मोक्षकांक्षिणः ।।२ १ ।।
संकल्पास्ते भवन्त्येव पूर्णा भक्तौ हरेः शुभाः ।
सेवायां च सतां पुत्र नैर्विघ्न्यं ते सदाऽस्तु च ।। २२।।
बाल्यक्रीडादिकं त्यक्त्वा त्यक्त्वा युवत्वकल्पनाम् ।
रागादिकमनादृत्य मोक्षे बुद्धिस्तवाऽस्ति यत् ।।२३।।
प्रसन्नाऽहं मम पुत्र तारकोऽसि कुटुम्बिनाम् ।
मानुषं जन्म मोक्षार्थं तदन्यानि भवाब्धये ।।२४।।
भवाब्धिदानि सन्त्यज्य सफलीकुरु मानवम् ।
विनिवेद्य जनकाय लब्ध्वाऽऽज्ञां पारगामिनीम् ।।२५।।
याहि चाऽपुनरावृत्तिलाभाय सत्पदालयम् ।
यत्र ते साधवो धीरा श्रूयन्ते ब्रह्मपारगाः ।।२६ ।।
निर्गुणा ब्रह्मगुणका मोक्षदा याहि तत्र वै ।
स्मर मा मां प्रसूं क्वापि पितरं बान्धवान् गृहम् ।।२७।।
बन्धनानि विचित्राणि जन्मभुवं सखींस्तथा ।
मा स्मर विषयान् पुत्र मा ध्यानं देहि लौकिके ।।२८।।
मा प्रवाहे रसानां चाऽऽस्वादानां पत कर्हिचित् ।
मा प्रसंगं विषयाणां क्वापि ते पुत्र जायताम् ।।२९।।
मोक्षमार्गश्च ते पुत्र निर्विघ्नोऽन्तं प्रवर्तताम् ।
मानवस्य तु देहस्य सत्सेवायां समर्पणम् ।।3.97.३०।।
सदैव कुरु पुत्र त्वं निःश्रेयः शुभमाप्नुयाः ।
अन्ते नारायणप्राप्तिस्तेऽस्तु धाम्नि निवासिता ।।३ १ ।।
पितरं ब्रह्मतारं ते पृष्ट्वा याहि शुभं कुरु ।
इत्युक्त्वा पुत्रमूर्धानमजिघ्रद् धन्यमानसा ।।३२।।
भोजनं कारयामास धैर्यं चोग्रं ददौ प्रसूः ।
त्यागाश्रमार्थं पुत्रायाऽप्रेषयत् पितरं प्रति ।।३३।।
पुत्रो ययौ तु पितरं सुखासीनं ननाम च ।
सर्वं निवेदयामास ब्रह्मताराय योगिने ।।३४।।
ब्रह्मतारोऽपि विप्रो वै प्राह पुत्रं शुभात्मकम् ।
अहो धन्योऽस्मि सततं यद्गृहे पुत्र ईदृशः ।।३५।।
भगवद्भक्तितानश्च साधुसत्संगमानसः ।
अभोगो भोगकामादिरहितो बाल्यतः शुभः ।।३६।।
पूर्वपुण्येन वै पुत्रो जायते भक्तिमान् व्रती ।
साधुर्विरागवाँश्चापि नैष्ठिकश्चौर्ध्वशीलवान् ।।३७।।
भज पुत्र हरिं नित्यं प्रसेवय सतोजनान् ।
गोकर्णे तीर्थके गत्वाऽऽत्मानं मोक्षे निवेशय ।।३८।।
सफलं श्रेष्ठफलकं मानवं वर्ष्म संकुरु ।
पुत्रवानस्मि पुत्रेण त्वादृशेन सुयोगिना ।।३९।।
शतजन्मकृतं पुण्यं यदोदेति तदा भवेत् ।
जिज्ञासा मोक्षमार्गे वै साधुसेवापथेऽपि च ।।3.97.४०।।
बन्धनं तु दृढं सेवात्मकं कुटुम्बिबन्धुषु ।
छित्वा शूरो भवेत् कश्चिन्मोक्षसंगरसंप्लुतः ।।४१ ।।
कीटे पतंगके देवे दानवे मानवे खगे ।
सरीसृपे पशौ सिद्धे ऋषौ भोगाः समाः खलु ।।४२।।
त एव वारिजाः क्लेदा भौतिकास्ते प्रभोजनाः ।
इन्द्रियाणि समानानि प्राणास्तुल्याश्च वायुजाः ।।४३।।
दिवसाश्च समाना वै प्रयान्ति देहिनां तथा ।
निद्रालवो यतन्ते न मोक्षार्थं दैववर्जिताः ।।४४।।
निरयार्थास्त एवाऽत्र परत्र सन्ति निर्मिताः ।
मोक्षः पुमर्थ आत्मार्थोऽन्ये देहार्था न मुक्तये ।।४५।।
त्रिराशीन् यः समुत्तीर्योत्तरे तूर्ये विशेत्तु वै ।
स एव देव एवाऽत्र चेश्वरः सोऽपि मुक्तराट् ।।४६।।
स एव कृतकृत्योऽस्ति साधुरेवाऽस्ति सोऽपि च ।
नारायणः स एवाऽस्ति तारको गुरुरेव सः ।।४७।।
दुर्जयं कामसंकल्पं दुर्जेयं स्त्रीधनादिकम् ।
दुर्जेयं मानसं स्वस्य दुर्जया वासना तथा ।।४८।।
तृष्णा चापि च दुर्जेया जिता त्वया कृतात्मना ।
जितं येनाऽत्र शिश्नं च रसना येन सञ्जिता ।।४९।।
मनोराजो जितो येन सर्वं जितं जितात्मना ।
प्राप्नुहि विजयं पुत्राऽसारे मायामये द्रुतम् ।।3.97.५०।।
प्राप्नुहि विजयं परे ब्रह्मण्यपि सनातने ।
श्रेयस्तेऽस्तु शुभं तेऽस्तु प्रमोदस्तेऽस्तु सूत्सवः ।।५१ ।।
शाश्वतानन्दमग्नश्च भव मुक्तो हरेः पदे ।
त्वां दृक्ष्याम्यक्षरे धाम्नि युक्तमण्डलमध्यगः ।।५२।।।
पत्नीयुतो हि त्वां पुत्र नारायणस्वरूपिणम् ।
इत्युक्तः कृततिलकः कृतस्नेहः सुतोऽपि च ।।५३।।
नत्वा पित्रोः पादजलं पीत्वा कृत्वा च मंगलम् ।
भ्रातृशतं तथा नत्वा ययौ गोकर्णतीर्थकम् ।।५४।।
हरे कृष्ण हरे विष्णो हरे कृष्णनरायण ।
हरे राधापते लक्ष्मीपते हरे हरे प्रभो ।।५५।।
इत्येवं भजनं कुर्वन् करतालेन वै ततः ।
पद्भ्यां ययौ जालिकातः सोमनाथं सुतीर्थकम् ।।५६।।
भवनाथं शरभं च सतीतीर्थं ततो ययौ ।
ततस्तीर्थं च गोकर्णं विष्णुं पुपूज सादरम् ।।५७।।
दिव्यकर्णाभिधं नारायणं नत्वा ततो ययौ ।
स्वर्गलक्ष्मीमहातीर्थं ततो ब्राह्मीं महानदीम् ।।५८।।
ततो गोकर्णशंभुं च ऋषिवासाँस्ततो ययौ ।
नारिकेलद्रुमाणां स वने वासं ततोऽकरोत् ।।५९।।
आराधनां हरेश्चक्रे साधुसेवां चकार सः ।
जपं चकार मे नाम्नां कृष्णनारायणप्रभो ।।3.97.६० ।।
भजनं प्रचकारैवं सततं मां स्मरँस्तथा ।
सतां भिक्षान्नलाभेन देहयात्रां न्यवर्तयत् ।।६१ ।।
नवाऽयुतसमाश्चासीद्भिक्षान्नपरिपोषकः ।
ततः सहस्रवर्षाणि कन्दमूलाऽशनोऽभवत् ।।६२।।
पञ्चसाहस्रवर्षाणि ततः शुष्कदलाशनः ।
अथाऽभवत्ततो वाय्वाहारोऽतिष्ठत् समाधिगः ।।६३।।
आत्मानमात्मनि ध्यायन् युयुजे परमात्मना ।
लक्षवर्षे प्रयाते तु सम्पूर्णे चाम्बरात्ततः ।।६४।।
विष्णोर्विमानमायातं पार्षदैर्दिव्यशोभनैः ।
सहितं तद्विलोक्याऽयमालम्बायनसाधुराट् ।।६५।।
विहाय भौतिकं तूर्णं दिव्यदेहोऽभवत्तदा ।
चतुर्भुजः शंखचक्रगदापद्मादिचिह्नकः ।।६६ ।।
विष्णोः पार्षदवर्यश्च नत्वा ऋषिगणान् मुनिः ।
ययौ धाम हरेकृष्ण वदन् विस्मापयन् जनान् ।।६७।।
अथ प्रयाणे ऋषयश्चाऽस्तुवन् तं मुनीश्वरम् ।
अस्मान्नय महाभक्त धाम वैकुण्ठमुत्तमम् ।।६८।।
स चाह ऋषयः सर्वे सज्जा भवन्तु सत्वरम् ।
गत्वा वैकुण्ठमेवाऽहं चागच्छामि विमानकैः ।।६९।।
सहितो भवतो नेतुं पृष्ट्वा विष्णुं नरायणम् ।
ओमित्युक्तश्च ऋषिभिर्ययौ तूर्णं हरेर्गृहम् ।।3.97.७०।।
पार्षदैः सत्कृतश्चाऽयं विमानादवतारितः ।
वैकुण्ठे दिव्यसौधाग्र्ये न्याविशत् सौधमुत्तमम् ।।७१ ।।
अदृष्ट्वा श्रीहरिं सौधे तूर्णं विनिर्ययौ बहिः ।
मार्गयामास तं सौधं यत्राऽऽस्ते श्रीनरायणः ।।७२।।
गत्वा कृत्वा दण्डवच्च पूजां चकार वै हृदा ।
जय नारायणकृष्णेत्युवाचाऽपि पुनःपुनः ।।७३।।
नेत्राश्रूणि मुमोचाऽपि गद्गदश्चाऽभवत्क्षणम् ।
पपात पादयोर्विष्णोः पपौ पादाऽमृतं ततः ।।७४।।
स्वागतेन हरिणाऽसौ पृष्टो जगाद हृद्गतम् ।
कृपया ते प्रभो प्राप्तश्चरणौ शाश्वतौ मुदा ।।७५।।
गोकर्णे निवसन्तश्च मुनयो ये तपोधनाः ।
प्रयाणकाले मामाहुः सहयानाय धाम ते ।।७६।।
मया त्वभिहितं चास्ते गत्वा त्वायामि सर्वथा ।
आज्ञां हरेः समादाय सज्जा भवन्तु सर्वशः ।।७७।।
इत्युक्तास्ते प्रतीक्षन्ते वैकुण्ठागमनं प्रति ।
यद्याज्ञा ते भवेद् यामि चानयामि तवाऽन्तिकम् ।।७८।।
नारायणस्तदा प्राह योग्यं भक्त त्वया कृतम् ।
परं निबोध मे किञ्चित् सारात् सारतरं परम् ।।७९।।
मम भक्तिं विना स्यान्न वासो वैकुण्ठके मम ।
गोकर्णे सन्ति ऋषयस्तपोद्रव्यास्तपःप्रियाः ।।3.97.८०।।
मनोनिग्रहवन्तश्चेन्द्रियनिग्रहिणस्तथा ।
आत्ममात्ररता नित्यं ज्ञानमात्रपरायणाः ।।८१ ।।
व्रतमात्रपराश्चाति बहवो रागवर्जिताः ।
योगक्रियापराश्चापि शुष्कतपसिवर्तिनः ।।८२।।
मम भक्तिविहीनास्ते विना वै मदुपासनम् ।
कथमर्हा भवेयुश्चागमार्थं मम धाम ते ।।८३।।
अभक्तानां न वैकुण्ठं यद्यपि तपतां सदा ।
कर्मठानां न वैकुण्ठं ह्यनाराधनवेदिनाम् ।।८४।।
मम धामाऽऽगमे हेतुः स्नेहभक्तिः सदा मम ।
मम भक्तस्य वै सेवा मयि चात्मनिवेदिता ।।८५।।
ध्यानं मे भजनं चापि कीर्तनं सततं मम ।
तपसां च व्रतानां च दानानां मयि चाऽर्पणम् ।।८६।।
सर्वकर्मार्पणं चापि दीक्षाया ग्रहणं मम ।
मम मन्त्रस्य दिव्यस्य ग्रहणं कारणं तथा ।।८७।।
ममाऽऽराधनमेवापि वैकुण्ठागमने यतः ।
अपक्वा ये योगिनस्ते तपन्ति चिरकालिनः ।।८८।।
दशलक्षसमाः केचित् केचिल्लक्षसमास्तथा ।
अन्ये बहुयुगाः सन्ति सहस्रशश्चिरायुषः ।।८९।।
याहि तेभ्यः प्रदेह्येनं मन्त्रं मोक्षप्रदं मम ।
दीक्षां दत्वा नामसत्रं प्रवर्तय महामखम् ।।3.97.९०।।
'अनादिश्रीकृष्णनारायणो मे शरणं पतिः' ।
मन्त्रमेतं प्रदत्वाऽथ दीक्षां देहि प्रसात्त्विकीम् ।। ९१ ।।
कण्ठे तु तौलसीं कण्ठीं मालां च जपमालिकाम् ।
तिलकं चन्द्रकं चापि चक्राद्यंकनमित्यपि ।।९२।।
'अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।
राधालक्ष्मीपते कृष्णनारायण विभो प्रभो' ।।९३।।
एवं सततं साधूनां कीर्तनं सम्प्रकारय ।
दिवानिशं महायज्ञं तत्र तिष्ठन्तु दीक्षिताः ।।९४।।
येषामाराधना पूर्णा भक्तिः पूर्णा भविष्यति ।
तानहं नित्यदा नैजविमानेन सुवर्चसा ।। ९५।।
समानेष्ये हि वैकुण्ठं याहि सत्रं प्रवर्तय ।
इत्युक्तो भक्तराट् नत्वाऽऽलम्बायनो हि पार्षदः ।।९६।।
आययौ दिव्यदेहेन विमानेन पुरालयम् ।
गोकर्णं तेजसा तूर्णं प्रकाशितं तदाऽभवत् ।।९७।।
दुद्रुवुः संभ्रमयुक्ताः ऋषयस्तं तु पार्षदम् ।
सज्जीभूतान् सतो नत्वाऽऽदिदेश विष्णुभाषितम् ।।९८।।
नामसंकीर्तनसत्रं कुर्वन्त्वत्र सुदीक्षिताः ।
ऋषयोऽपि तथा चक्रुर्वैकुण्ठलब्धये शुभाः ।।९९।।
विविदुस्ते च माहात्म्यं भक्तेः श्रेष्ठं तपोबलात् ।
भक्ता भूत्वा दीक्षिताश्च लब्ध्वा ते जपमालिकाम् ।। 3.97.१ ००।।
सवाद्यकीर्तनं चक्रुर्दिवानिशं हि मुक्तये ।
लक्षशो मुनयश्चापि प्रजालोकास्तथाऽपरे ।। १० १।।
श्रुत्वा तत्कीर्तनं तत्र मिलित्वा भजनं व्यधुः ।
तत्तीर्थं वैकुण्ठसत्रनाम्ना ख्यातिं गतं ततः ।।१ ० २।।
मासान्ते ये भक्तिपक्वा जातास्तेषां कृते हरिः ।
आययौ स्वविमानेन लक्ष्मीश्रीसहितः प्रभुः ।। १ ०३।।
निन्ये सहस्रसाधूँश्च वैकुण्ठे परमेश्वरः ।
एवं मासान्तरान्ते च त्रिमासान्तेऽपि काँश्चन ।। १ ०४।।
चतुष्पंचादिमासान्ते निन्ये लक्षजनान् हरिः ।
पक्वाः पक्वाः प्रभूत्वा च ऋषयो यान्ति धाम ते ।। १०५।।
गोकर्णस्थाः साधवस्ते वर्षान्ते सर्वशो गताः ।
वैकुण्ठं परमं धाम महाश्चर्यमभूद्धि तत् ।। १ ०६।।
नामसत्रं समारभ्य देवाद्या मानवास्ततः ।
गोकर्णे तीर्थके यान्ति वैकुण्ठं परमेश्वरम् ।। १ ०७।।
इत्येवं कथितं लक्ष्मि भक्तिमाहात्म्यमुत्तमम् ।
साधोः संगेन भगवान् कारयित्वा तु कीर्तनम् ।। १ ०८।।
पावयित्वा तापसाँश्च निन्ये धामोत्तमं निजम् ।
वर्षान्ते साधुरेवाऽयं नामसत्रं समाप्य च ।। १० ९।।
ययौ धाम हरेर्दिव्यदेहो दिव्यविमानगः ।
कोटिशः साधवस्तत्र सिंहाऽरण्ये ततोऽभवन् ।। 3.97.११० ।।
विष्णुधामसमं धाम गोकर्णं तदभून्महत् ।
एवं लक्ष्मि सतां सेवा फलत्येव चिरेण ह ।। १११ ।।
सत्संगोऽपि फलत्येव चिरेणाऽपि नृजन्मनाम् ।
तस्मात् सतां सुसत्संगः कर्तव्यः फलदो भवेत् ।। ११ २।।
पठनाच्छ्रवणादस्य स्मरणान्मुक्तिदोऽपि च ।
सत्संगयोगो भवति लक्ष्मि शाश्वतमोक्षदः ।। ११ ३।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लोकव्यायामशालिभिरपि सत्संगेन मुक्तिर्लभ्यते तापसैरपि तथेत्यर्थे आलम्बायनसाधोः संगेन लक्षाधिलक्षमानवानां गोकर्णे मुक्तिप्राप्तिरित्यादिनिरूपणनामा सप्तनवतितमोऽध्यायः ।। ९७ ।।