लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ११४
← अध्यायः ११३ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः ११४ [[लेखकः :|]] |
अध्यायः ११५ → |
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि! साध्वाश्रयेण मोक्षणम् ।
साध्वाश्रयेण वै रक्षां जीवनं च तथा शुभम् ।। १ ।।
आसीद् रोमपदो नाम पशुपालो वनोत्तमे ।
ओजस्वत्यास्तटे देशे सौराष्ट्रे सिंहसेविते ।। २ ।।
रोमपादः पशुवद्वै वर्तते धर्मवर्जितः ।
न स्नानं भजनं दानं करोति गृहधर्म्यपि ।। ३ ।।
दुग्धदध्यन्नवन्याद्यैः प्राणयात्रां करोति च ।
वन्यपशून् मारयित्वा मांसादनं करोत्यपि ।। ४ ।।
अन्यसत्ताकमन्नादि दूरं गत्वा निशामुखे ।
क्षेत्रादिभ्यश्चानयति चौर्यं करोति वै मुहुः ।। ५ ।।
एवमधर्ममार्गस्य पुत्रोऽभवद् वृषंगमः ।
ववृधे स युवा जातो महिषीपालकोऽभवत् ।। ६ ।।
पित्रा साकं कदाचित् स ययौ वने पशुव्रतः ।
पित्रा त्वासादितस्तत्र हरिणः सञ्चरन् वने ।। ७ ।।
श्वभिः पित्रा कृष्णमृगो निपातितो वनेऽन्तिके ।
वृषगमोऽपि पित्रा युक् तूर्णं ययौ मृगं प्रति ।। ८ ।।
मृगस्य म्रियमाणस्य श्वभिर्विपाटितस्य ह ।
क्रन्दमानस्य दुःखं च पादानां भूमिघातनम् ।। ९ ।।
वीक्ष्य दयापरो भूत्वा त्रासं परं जगाम सः ।
कम्पं चाति जगामापि तत्याज तं मृगं हि सः ।।3.114.१ ०।।
जगृहे न मृगं तत्र निसर्गदययाऽर्दितः ।
नाऽहं मांसं भक्षयिष्ये मारयिष्यामि न क्वचित् ।। १ १।।
पापं चेदृक् प्रसह्यैव प्राणानां त्याजनात्मकम् ।
कः कुर्यादुदरस्याऽर्थे मानवो निर्दयो यथा ।। १ २।।
इत्येवं दयया युक्तस्तत्याज प्राणिहिंसनम् ।
वृषंगमस्ततो यातः क्वचिद्वै कार्तिके स्वयम् ।। १ ३।।
सोमनाथस्य तीर्थार्थं सस्नौ ददर्श शंकरम् ।
आत्मकृतं च तत्पापं हराय सन्न्यवेदयत् ।।१४।।
पापं तस्य विनष्टं च शुद्धिर्जाता हृदोऽस्य च ।
साधवस्तत्र चायाता दृष्टास्तेन नतास्ततः ।। १५।।
पूजिताः सेविताश्चैषां सत्संगश्च कृतस्तथा ।
प्राप्तो मन्त्र 'ओं श्रीकृष्णनारायणो गतिर्मम' ।। १६।।
तुलस्या मालिका प्राप्ता भक्तिः प्राप्ता शुभाश्रया ।
अनिवेद्य श्रीहरये भोक्तव्यं न कदाचन ।।१७।।
साधुसतीभ्यो दातव्यं दुग्धं दधि घृतं तथा ।
सेवनीयाः साधवश्च भजनीयो जनार्दनः ।। १८।।
एवं लब्ध्वा स नियमान् निजगृहमुपाययौ ।
वर्तते सा तथैवापि भजते श्रीनरायणम् ।। १९।।
साधवस्तत्र चायान्ति वर्षे सकृद् वनान्तरे ।
सेवां लब्ध्वा प्रयान्त्येव ग्रामान्तरं वनान्तरम् ।।3.114.२०।।
वृषंगमोऽपि चान्नस्य रोटकस्य प्रदानकम् ।
पयसाश्चापि दध्नश्च दानं करोति वै तदा ।।२१ ।।
एवं दानफलं पुण्यं बह्वस्यातिव्यजायत ।
अथैवं प्राप्तकालोऽस्य पिता मृत्युमुपागतः ।।२२।।
यमदूताः शस्त्रहस्ता आययुर्वै भयंकराः ।
चुक्रोश बहुधा त्रस्तो मारयन्तीति वै मुहुः ।। २३।।
मोचयन्तु च मां केऽपि याम्येभ्यो बान्धवा मम ।
मम नाडीस्त्रोटयन्ति प्रहरन्ति च मुद्गरैः ।।२४।।
रक्षयन्तु जना मां वै मां गृहिणि! प्ररक्षय ।
पुत्र! मां रक्षय दीनं ताड्यमानं यमानुगैः ।। २५।।
इत्येवं क्रोशमानं तं पुत्र उवाच रे पितः ।
नारायणं प्रभुं कृष्णं स्मर रक्षां करिष्यति ।।२६।।।
जप मन्त्रं 'ओं श्रीकृष्णनारायणो गतिर्मम' ।
इत्येवं प्रददौ मन्त्रं पित्रे लक्ष्मि स पुत्रकः ।।२७।।
'हरेकृष्ण हरेकृष्ण कृष्णनारायण प्रभो ।
हरे विष्णो हरे स्वामिन् श्रीपते पुरुषोत्तम' ।।२८।।
एवं संकीर्तनं चक्रे तावद् दूता भयं गताः ।
विसृज्य पितरं तस्थुर्दूरे च जगदुर्मिथः ।।२९।।
अस्मद्भागो ह्ययं गोपः पुत्रेण विप्रमोचितः ।
मन्त्र दत्वा हरेरस्मै भजनेन च पावितः ।।3.114.३०।।
इत्येवं प्रवदन्त्येव यमदूता यदा तदा ।
साधूनां मण्डलं तत्र यदृच्छया समागतम् ।।३ १ ।।
पुत्रः स्वागतसम्मानं प्रचकार च सत्वरम् ।
साधवो वीक्ष्य कालान्तं ददौ वारि प्रसादजम् ।।३२।।
पिता पपौ हरिस्तावत् समायातो गजस्थितः ।
अनादिश्रीकृष्णनारायणोऽहं स्वयमेव ह ।।३३।।
रोमपादं विनिष्कास्य देहान्निन्ये परं पदम् ।
पुत्रयोगेन साधूनां दर्शनं चान्तकालिकम् ।।३४।।
पितुर्जातं मोक्षणं च दानफलं सुभक्तियुक् ।
एवं लक्ष्मि भक्तियोगाद् भक्तयोगात् क्षणान्तरे ।।३५।।
पापिनामपि मोक्षः स्यात् कार्योऽतः सत्समागमः ।
वृषंगमोऽपि देहान्ते मम धाम गतो ह्यनु ।।३६।।
शृणु त्वन्यां कथां लक्ष्मि रक्षणं साधुसंगतः ।
आसीदेको महान् चौरो नग्रभंगोऽतिदारुणः ।।३७।।
विंशतिचौरयुग् रात्रौ सहेतिलुण्टति गृहान् ।
येषां श्रुतं महाद्रव्यं तच्छिद्रं चिन्तयत्यथ ।।३८।।
प्राप्तेऽनुकूलसमये चौर्यं करोति दारुणम् ।
मारयित्वा ताडयित्वा मर्दयित्वा जनान् धनम् ।।३९।।
स्वर्णरूप्यमयं रत्नमयं हरति मोदते ।
एवं वै वर्तमानस्यैकदा कार्यवशाद् दिने ।।3.114.४०।।
राजसौधे स्वर्णभूषानिर्माता स्वर्णकारकः ।
चिरमित्रं दृष्टिपथं राजपथे तदा ।।४१।।
नग्रभंगोऽपि तं दृष्ट्वा सहर्षो मिलितः पथि ।
कुशलं चापि पप्रच्छोद्योगं पप्रच्छ वै ततः ।।४२।।
स्वर्णकारः समस्तं स्वं वृत्तान्तं प्राह तं निजम् ।
अद्य मासे तु नृपतेर्भूषारचनकार्यकृत् ।।४३।।
गच्छामि राजसौधं च यत्राऽऽस्ते स्वर्णकोटिकम् ।
मौक्तिकानां सहस्राणि रत्नानामयुतान्यपि ।।४४।।
यत्र कोशे भवन्त्येव तत्पार्श्वे शुभमन्दिरे ।
स्वर्णशिल्पाः स्वर्णकाराः कुर्मस्त्वाभरणानि वै ।।४५।।
नग्रभंगस्ततः प्राह यदि ते रोचते वचः ।
कथयाऽन्तःप्रवेशस्य रात्रिमार्गं तु निर्जनम् ।।४६।।
चोरयामि सुवर्णादि भागं दास्यामि तेऽपि च ।
इत्युक्तः स्वर्णकारो वै दर्शयामास तत्पथम् ।।४७।।
स्थानं च निःसृतिं चापि गुप्तद्वाराणि यानि च ।
उपयुक्तानि शस्त्राणि दृढहेतीनदर्शयत् ।।४८।।
युक्तगुप्तहारिकां चाऽदर्शयन्निर्गमं तथा ।
ततो रात्रौ स्वसार्थेन नग्रभंगो विवेश तम् ।।४९।।
सौधं धनं स्वर्णरूप्यरत्नमौक्तिकमुत्तमम् ।
चोरयित्वा चाति गुप्तो दुद्रावाऽलक्षितो जनैः ।।3.114.५०।।
दत्वा सर्वं सहायेभ्योऽप्रेषयत्तान् वनान्तरे ।
भूगर्ते तद् विनिक्षेप्तुं समादिशद् द्रुतं निजान् ।।५१।।
स तु श्रमापनोदार्थं गञ्जापानार्थमुत्सुकः ।
शनैर्ब्राह्मे मुहूर्ते वै ययौ श्रीनगराद् बहिः ।।५२।।
यत्राऽऽसन् साधवः शैवा गञ्जापानाऽग्नितापसाः। ।
तत्र गत्वा ययाचे वै पानं तामालगाञ्जिकम् ।।५३।।
नेमे भक्त्या कृत्रिमया चकार दण्डवत्तथा ।
निषसाद समीपे च मुद्रामुपायनं ददौ ।।५४।।
साधवोऽपि यथा भक्तं तथा मत्वाऽनुसेवकम् ।
लब्ध्वा मुद्रां च पूजायां ददुस्तस्मै तमालकम् ।।५५।।
पपौ निद्रां कृतवाँश्च प्रातः सूर्योदयं प्रति ।
जजागार ततस्तत्र तस्थौ माध्यन्दिनावधि ।।५६।।
भोजनादि चकारैव श्रमं चापनुदत्तथा ।
सार्थचौराः समस्तास्ते गर्ते निक्षिप्य तद्धनम् ।।५७।।
ययुस्ते वनमार्गेण निजग्रामं हि योजनम् ।
तावन्नृपगृहे व्यक्तं जातं चौर्यं धनस्य तत् ।।५८।।
पादचिकित्सकान् कृत्वा चाग्रे राज्ञस्तु सैनिकाः ।
चौरान् मार्गयितुं प्रातर्निर्गताः शस्त्रधारिणः ।।५९।।
श्रीनगरादश्ववाराः सह पादचिकित्सकैः ।
वने गत्वा जगृहुस्तान् गच्छतः खेटकं निजम् ।।3.114.६० ।।
ताडयामासुरत्यर्थं चानयामासुरेव तान् ।
नृपं प्रति तथा कारागारे रुरुधुरुल्बणान् ।।६१ ।।
अथ साधुप्रसंगेन नग्रभंगस्तु रक्षितः ।
राजैकगारिकश्चापि राजभटैर्न लक्षितः ।।६२।।
अन्ये चौरा निगडेषु निक्षिप्ता दण्डिता हताः ।
श्रुत्वाऽयं नग्रभंगस्तु जीवनं साधुसंगतः ।।६३।।
निर्बाधं वै निजं मत्वा साधूनप्रार्थयन्मुदा ।
साधुधर्मो मया पाल्यो दीक्षा ग्राह्या च साधवी ।।६४।।
साधुसेवा प्रकर्तव्या साधुर्भवामि चाऽद्यतः ।
वच्म्यहं निष्कपटं मे कृत्यं साधुजनाग्रतः ।।६५।।
चौर्ये बहुविधं चाहं कृतवानस्मि वै मुहुः ।
तद्दोषैश्च यथा मुक्तो भवामि कुरुतोऽनघाः ।।६६।।
शरणागतरक्षार्थमुद्यताः साधवः सदा ।
तेषां प्रसंगतश्चाऽहं जीवाम्यन्ये मृताः किल ।।६७।।
तस्माद्वैराग्यमासाद्य भजामि परमेश्वरम् ।
साधुसेवां करिष्येऽपि साधुर्भूत्वा निरन्तरम् ।।६८।।
इत्यर्थिताः साधवस्ते चिदम्बरायनादयः ।
प्रायश्चित्तं कारयित्वा क्षालयित्वाऽघसञ्चयान् ।।६९।।
पावयित्वा नग्रभंगं दीक्षां भागवतीं व्यधुः ।
सोऽपि पापविनिर्मुक्तो नाम्ना भागवतायनः ।।3.114.७०।।
भक्तोऽभवत् सदा साधुश्चाऽभजन्मां परेश्वरम् ।
साधुसेवां परां कृत्वा तीर्थार्थं चाक्षरस्थलीम् ।।७१ ।।
आययौ कुंकुमवापीं मोक्षं ययौ सरस्तटे ।
इत्येवं कथितं लक्ष्मि साधुसंगेन रक्षणम् ।।७२।।
स्वात्मार्पणेन मोक्षश्च मया तस्य कृतोऽत्र वै ।
अथाऽन्यत्ते कथयामि कथानकं पुराभवम् ।।७३।।
आसीत् पुरा महासाधुः शुकायनोऽतिधार्मिकः ।
भजते मां सदा रात्रिदिनं श्रोपरमेश्वरम् ।।७४।।
अपरिग्रहसर्वस्वो दिग्वासा मत्परायणः ।
आम्रवृक्षतले वासं कुरुते भोजनं फलैः ।।७५।।
वन्यैः पत्रैर्दलैः कन्दैः कुसुमैर्वहतेऽदनम् ।
कुंकुमवापिकापूर्वे वने वसति सर्वदा ।।७६।।
शैत्यं तापं च सहते वृष्टिं सहते क्षुत्तृषाम् ।
नित्यं प्रदक्षिणं प्रातः स्नात्वा च कुरुते सरः ।।७७।।
एवं मध्याह्नके भिक्षामेकभुक्तां करोति च ।
सायं मे कीर्तनं दिव्यं कृत्वा स्वापं करोति च ।।७८।।
मूर्तिं मे त्वाम्रवृक्षस्य स्तम्बे चित्रमयीं सदा ।
संरक्षति प्रपूज्यैनां ध्यायति हृदयेऽन्वहम् ।।७९।।
आम्रवणं परं श्रेष्ठं प्रियं चाऽस्य सदाऽभवत् ।
सोऽपि चाम्रफलान्येव निवेदयति मे मुहुः ।।3.114.८०।।
एवं वै वर्तमानस्य चाम्रवृक्षप्रपोषिणः ।
एकदा दैवयोगेन वने वह्निर्व्यजायत ।।८१।।
तृणपुञ्जाः स्तम्बपुञ्जाः पत्रपुञ्जास्तथौषधिः ।
ज्वलिता ज्वालया सर्वा वृक्षाश्च ज्वलितास्तदा ।।८२।।
निजस्थानस्य नियतश्चाम्रोऽपि ज्वलितस्तदा ।
ततो वह्निः समन्ताद्वै प्रजज्वालाऽतिवेगतः ।।८३।।
वायुना प्रेरितस्तीक्ष्णो भयंकरोऽतिदारुणः ।
साधुश्चाऽयं स्थितो ध्यानेऽचिन्तयन्मां हरिं तदा ।।८४।।
मया त्वाकाशवाण्या वै बोधितः स मुहुर्मुहुः ।
याहि दूरं 'विहायैतान् वृक्षान् दग्धोऽत्र मा भव ।।८५।।
स चाह वाणीं नैवाऽहं त्यक्त्वा यास्यामि चाश्रयान् ।
यत्राऽहं सर्वथा नैजं स्थानं च जीवनं गृहम् ।।८६।।
आश्रयं च सुखं भक्ष्यं प्राप्नोमि ताँस्त्यजामि न ।
इमे मे बान्धवाः सर्वे पितरो वापि बालकाः ।।८७।।
मातरो वल्लिकाः सर्वास्ताः कथं चोत्सृजामि वै ।
नाऽहं कृतघ्नः स्वार्थश्च नाहं पापो भवामि च ।।८८।।
येषां फलैः सुजीवामि यच्छायायां वसामि च ।
यद्रसैः पोषणं यामि ताँस्त्यक्त्वा क्व प्रयाम्यहम् ।।८९।।
नेमे बन्धनकर्तारो जडा विजातयस्त्विमे ।
न मे कुटुम्बिनः किन्तु कृतसेवा इमे मम ।।3.114.९०।।
तादृशान् सेवकान् नित्यं परोपकारशालिनः ।
दिवानिशं सहायाँश्च मदाश्रयानिव स्थितान् ।।९ १ ।।
सद्गुणशालिनो वन्यान् कथं दग्ध्वा प्रयाम्यहम् ।
दग्धो भवामि चात्रैव नाहं यास्यामि चापरम् ।।९२।।
साधुश्चाऽहं तितिक्षुश्च तितिक्षवो द्रुमा इमे ।
साधवः साधुभूषाश्च ताँस्त्यक्त्वा न व्रजाम्यतः ।।९३।।
यद्वा तद्वा भवत्वत्र भस्म वा जीवनं च वा ।
सहयोगेन भाव्यं वै सहपोष्येण साधुना ।।९४।।
इत्युक्त्वा नोच्चचालापि नोत्तस्थौ धैर्यशेवधिः ।
ब्रह्मध्याता निषसाद यथा तथैव चास्थितः ।।९५।।
दया स्नेहश्च साधूनां महान् धर्मो भवेत् सदा ।
समर्थमुपजीव्येमं त्यजेयं कक्षमद्य वै ।।९६।।
'नारायण हरे कृष्ण श्रीपते पुरुषोत्तम ।
अनादिश्रीकृष्णनारायण रक्ष द्रुमानिमान् ।।९७।।
इत्येवं श्रावयन् वाणीं साधुर्जजाप मानसे ।
मां ध्यात्वा च तदा प्रत्ययैकतानेन भावतः ।।९८।।
अथाऽग्निर्दाहयामास पार्श्वभागं हि योगिनः ।
पादौ हस्तौ जटां स्कन्धौ रोमाणि चर्म सर्वतः ।।९९।।
तथापि मां भजँस्तस्मात् स्थानाच्चचाल नैव ह ।
अथाऽहं तं सत्यसाधुं शरणागतरक्षकम् ।। 3.114.१० ०।।
देहाद्यनादरधर्मं चात्मनिष्ठापरायणम् ।
भक्तं मे च विदेहं तं ज्ञात्वाऽवोचं वरं वृणु ।।१. १ ।।
प्रसन्नोऽस्मि विरागात्ते साधुधर्मसमन्वितान् ।
दयाधर्मस्य बाहुल्याद् भक्तेर्मे मानसे स्थितेः ।। १ ०२।।
वरं वृणु समर्थोऽस्मि सोऽहं साक्षान्नरायणः ।
यं त्वं विद्वन् ध्यायसि वै यदर्थं त्वं निवेदितः ।।१ ०३।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
आनृशंस्यं तव वृत्तान्तकं दृष्ट्वा प्रतोषितः ।। १ ०४।।
वरं वृणीष्व साधो त्वं ददामि सर्वमिष्टकम् ।
साधुश्च मनसा वव्रे वृक्षस्य च वनस्य च ।। १ ०५।।
संभवं रससम्पन्नं यथर्द्धं प्राक् तथैव ह ।
अहं ज्ञात्वा दृढां भक्तिं तत्साधौ परसौख्यदाम् ।। १ ०६।।
प्रीतोऽहं चाऽमृतदृष्ट्या सिक्तवान् चाम्रमुत्तमम् ।
सर्वान् द्रुमान् वल्लिकाश्च क्षेत्रं वनं समस्तकम् ।। १ ०७।।
सिक्तवान् पीयूषदृष्ट्योज्जीवयं वनमुत्तमम् ।
ततः फलानि पत्राणि शाखाः पुष्पाणि सर्वशः ।। १ ०८।।
वने पूर्वस्थितेश्चापि स्मृद्धानि चाऽभवन् पुनः ।
वह्निः शान्तिं गतः सर्वो भस्मापि तत्र नास्ति च ।। १ ०९।।
सर्वं वह्निकृतं कर्म लीनं मत्कृतिरुद्गता ।
एवं दिव्यं वनं चाम्रवणं जातं सरोऽन्तिके ।। 3.114.१ १०।।
भागवतायनं साधुं भक्तिमन्तं समाश्रितम् ।
सर्वार्थसिद्धिमापत् तद्वनं तथा सतस्तु यः ।। ११ १।।
आश्रितः स लभेत् सिद्धिं साधुना कल्पितां शुभाम् ।
साधुः सोऽयं भागवतायनो मे धाम्नि राजते ।। ११ २।।
मुक्तिं गतो हि कालेन कृपया भजनेन मे ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत्तथा ।। १ १३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साध्वाश्रयेण रोमपादपशुपालस्य मोक्षणं, नग्रभंगाख्यचौरस्य साधुसमागमेन राजभयाद् रक्षणम् ,आम्रवणवृक्षादिनाम् वह्निदग्धानां भागवतायनसाधुसहवासेन पुनरुज्जीवनमित्यादिनिरूपणनामा चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।