लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ११९

← अध्यायः ११८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ११९
[[लेखकः :|]]
अध्यायः १२० →

श्रीपुरुषोत्तम उवाच-
तथा श्रीललितालक्ष्मीः पूज्यते शक्तिभिः सदा ।
सेव्यते शक्तिशक्ताद्यैर्नित्यं रमे समन्ततः ।। १ ।।
पूजां कुर्वन्ति सततं दासिकाः शिष्यिकाश्च ताः ।
पुत्रिकाः स्वात्मिकाः सर्वा भिन्नरूपव्यवस्थिताः ।। २ ।।
गायत्री च गणेशो च महागणपतिस्तथा ।
सम्पदेशी तथा कालसंकर्षिणी महारमाम् ।। ३ ।।
श्रीमहाशंभुनाथा चोपासते च पराम्बिका ।
अन्नपूर्णा पादुकाश्रीर्महापद्मा वराहिणी ।। ४ ।।
तिरस्करणी श्रीपूर्तिः श्रीपादा समुपासते ।
रश्मिमाला मन्त्रिनाथा दण्डनाथा ह्युपासते ।। ५ ।।
चिन्तामणिगृहे सर्वा ललिताश्रीमुपासते ।
अणिमा महिमा चापि लघिमा गरिमाऽपि च ।। ६ ।।
ईशिता च वशिता च मुक्तिः प्राकामिता तथा ।
इच्छा प्राप्तिः सर्वकामा उपासते महारमाम् ।। ७ ।।
रससिद्धिर्माक्षसिद्धिर्बलसिद्धिस्तथा शुभाः ।
खड्गसिद्धिः पादसिद्धिरञ्जनासिद्धिरित्यपि ।। ८ ।।
वाक्सिद्धिर्लोकसिद्धिश्च देहसिद्धिरुपासते ।
कोटिशस्तास्तथा चान्या निकटस्थाश्च सिद्धयः ।। ९ ।।
ब्राह्मी माहेश्वरी चापि कौमारी वैष्णवी तथा ।
वाराही चापि माहेन्द्री चामुण्डा श्रीरुपासते ।। 3.119.१०।।
क्षोभिणी द्राविणी चाकर्षिणी संवशिनी तथा ।
उन्मादिनी महांकुशा खेचरी बीजिका तथा ।। ११ ।।
त्रिखण्डा च महालक्ष्मीरुपासते सुमुद्रिताः ।
त्रिपुरा नायिका चापि पालिनी क्षोभणा तथा ।। १२।।
कामाकर्षणिका बुद्ध्याकर्षणिका तथाऽपरा ।
रसाकर्षणिका तद्वद् गन्धाकर्षणिकाऽपरा ।। १ ३।।
चित्ताकर्षणिका तद्वद् धैर्याकर्षणिका तथा ।
स्मृत्याकर्षणिका चापि नामाकर्षणिका कला ।। १४।।
बीजाकर्षणिका तद्वच्चार्थाकर्षणिका ह्यपि ।
अमृतावर्षिणी चापि शरीराकर्षिणी तथा ।। १५।।
एतास्तु दिव्ययोगिन्यः सर्वाशापूरिका शुभाः ।
पालिका द्राविका मुद्रा नवतारुण्यगर्विताः ।। १६।।
अत्यन्तसुन्दराकारा दिव्यसम्पत्तिदेवताः ।
उपासते महालक्ष्मीं ललितापरमेश्वरीम् ।।१७।।
कुसुमा मेखला चापि मदना मदनातुरा ।
रेखा वेगिन्यंकुशा च मालिनी सुन्दरी तथा ।।१८।।
ह्लादिनी जृंभिणी वशंकरी रञ्जनकारिणी ।
उन्मादिनी चार्थकरी सम्पत्पूरा च मन्त्रिणी ।। १९।।
सम्प्रदाया रक्षिका च सेवन्ते परमेश्वरीम् ।
सिद्धिदा सम्पत्प्रदा च प्रियंकरी च मंगला ।।3.119.२०।।
कामदा दुःखहा मृत्युहरा विघ्नहरा तथा ।
सौभाग्यदा च सर्वज्ञा शक्तिनी ज्ञानरूपिणी ।।२१ ।।
ऐश्वर्यदा व्याधिहा च महाधारा च पापहा ।
आनन्दिनी रक्षिणी चेप्सितदा गर्वहा तथा ।।२२।।
मालिनी चेति सर्वास्ताः सेवन्ते ललितेश्वरीम् ।
वशिनी कामिनीशा च मोदिनी विमला तथा ।।२३।।
वाग्धारा जयिनी चापि कौलिनी च तथैश्वरी ।
एताः सर्वाः सरस्वत्य उपासते परेश्वरीम् ।।२४।।
सिद्धा च खेचरी कामेश्वरी बाणेश्वरी तथा ।
वज्रिका च शतघ्नी च भूशुण्डी मुशली तथा ।।२५।।।
कृपाणिका पट्टिशा च मुद्गरी भिन्दिपालिका ।
एता आयुधिका देव्य उपासते परेश्वरीम् ।।२६।।।
कामेशी चापि वज्रेशी भगमाला च मित्रिका ।
षोडशिका च गोचर्या सेवन्ते परमेश्वरीम् ।।२७।।
भेरुण्डा वह्निवासा च वज्रीशा कुलसुन्दरी ।
विजया नीलपताका ज्वालामाला सुमंगला ।।२८।।
सेवते जगतामृद्ध्यै ललितां चित्स्वरूपिणीम् ।
हृद्देवी च शिरोदेवी शिखादेवी तथैव च ।।२९।।।
वर्मदेवी वृष्टिदेवी शस्त्रदेवी सुमूर्तयः ।
ललिताज्ञाप्रवर्तिन्यः सेवन्ते बिन्दुनादजाः ।।3.119.३०।।
अथ श्रीललितादेव्याः पञ्चब्रह्ममये शये ।
मञ्चे पादास्तु चत्वारो व्यूहरूपा भवन्ति हि ।।३ १ ।।
महालक्ष्म्याः कृपया ते देवतात्वमुपागताः ।
ब्रह्मविष्णुमहेशानेश्वररूपत्वयोगिनः ।। ३२।।
एते पादा मूर्तरूपाः पूरुषा हेतिधारिणः ।
श्रीध्यानमिलिताक्षाश्च श्रीध्याननिश्चलांगिनः ।।३३।।
तत्र शेते महालक्ष्मीर्ब्रह्मेशी ललितेश्वरी ।
सोपानानि भवन्त्यस्य मञ्चस्य मूर्तिमन्ति वै ।।३४।।
भूमिरापोऽनलो वायुराकाशो गन्ध इत्यपि ।
रसो रूपं स्पर्शशब्दोपस्थापायुपदानि च ।।३५।।
पाणिवाग्घ्राणजिह्वाश्च त्वक् चक्षुः श्रोत्रमित्यपि ।
अहंकारश्च बुद्धिश्च मनः प्रकृतिपूरुषौ ।।३६।।
नियतिः कालरागौ च कला विद्या च मायिनी ।
पूषा चेति प्रसेवन्ते ललितां परमेश्वरीम् ।।३७।।
अथ मञ्चे वर्तते वै हंसतुलिकतल्पिका ।
परमहंसमूर्द्धोपधानयुक्ता शुभाश्रया ।।३८।।
सेवापादोपधानाढ्या प्रमोत्तरच्छदान्विता ।
सर्ववेदांगरज्ज्वाढ्या शान्तिपार्श्वोपधानिका ।।३९।।
एतस्यां श्रीमहालक्ष्मीर्महाविष्णुसमन्विता ।
विराजते पतिं नैजं सेवते ललितेश्वरी ।।3.119.४०।।
दयालुं षोडशवर्षं शृंगारवेषशोभितम् ।
उद्यद्भास्करतुल्याभं गन्धसारातिगन्धितम् ।।४१।।
हारकेयूरमुकुटकटकाद्यैरलंकृतम् ।
कमनीयस्मितं ज्योत्स्नापूर्णाननं सुशोभनम् ।।४२।।
सेवमाना महालक्ष्मीस्तरुण्यादित्यभासुरा ।
सदा चतुर्दशाब्दा च नवयौवनदर्पिता ।।४३।।
अमृष्टपद्मरागाभा चन्दनाब्जनखच्छरा ।
यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी ।।४४।।
कलनिःस्वानमञ्जीरपतत्कंकणमोहिनी ।
अनंगवरतूणीरदर्पोन्मथनजंघिका ।।४५।।
करिशुण्ढदोःकदलीकान्तितुल्योरुशोभना ।
रशनाकटिशोभाढ्या जघनाभोगभासुरा ।।४६।।
रत्नकाञ्चीयुता निम्ननाभित्रिवलिशोभिता ।
स्तनकुड्मलमौक्तिकपीवरोरःस्थलान्विता ।।४७।।
अलक्तकामचतुर्दोःशोभमानाऽतिभासुरा ।
केयूरकंकणांऽगुलीयकोर्मिकादिशोभिता ।।४८।।
मुखदर्पणवृत्ताभचिबुका लाटपाधरा ।
कुन्दकुड्मललक्ष्मीकैर्दन्तैर्दर्शितविद्यिका ।।४९।।
पद्मायतप्रान्तभागरक्तपद्माभनेत्रिका । ।
तन्तिकाललिते भाले सम्यक्क्लृप्ताऽलकच्छटा ।।3.119.५० ।।
फुल्लाऽवतंसमाणिक्यकुण्डलाऽऽमण्डितश्रुतिः ।
नवकर्पूरकस्तूरीसदामोदितवीटिका ।।५१ ।।
शरच्चञ्चन्निशानाथमण्डलीमधुरानना ।
चिन्तामणीनां सारैश्च क्लृप्तचारुकिरीटिका ।।५२।।
स्फुरत्तिलकमध्यस्थभालचन्द्रविराजिता ।
वक्रचञ्चत्सुनिबिडक्षामकुन्तलसंहतिः ।।।५२।।
सीमन्तरेखाविन्यस्तसिन्दूरश्रेणिशोभिता ।
सर्वशृंगारवेषाढ्या सर्वाभरणभूषिता ।।५४।।
दिव्यातिदिव्यावयवा हर्यानन्दविवर्धिनी ।
समस्तलोकमाता सा महालक्ष्मीः परेश्वरी ।।५५।।
सेवते स्वपतिं मञ्चे सेव्यते सर्वशक्तिभिः ।
यस्याः सेवनमात्रेण सर्वदेवार्हणं भवेत् ।।५६।।
तस्या वै ललितादेव्या गुणानुवर्णनं रमे! ।
कल्पकोटिसहस्रैश्च कर्तुं नैव हि शक्यते ।।५७।।
एतादृशं ललितायाः श्रीपुरं वर्तते रमे! ।
शृण्वन्ति तत् कथयन्ति तेऽपि यान्ति परां गतिम् ।।५८।।
कृत्वा शिल्पिजनैर्दिव्यं महालक्ष्म्याः सुमन्दिरम् ।
सर्वशक्तियुतं भक्तो याति तत्परमं पदम् ।।५९।।
एवमन्यनगराणि यत्र देव्यश्च देवताः ।
वसन्ति चापि सेवन्ते ललितां परमेश्वरीम् ।।3.119.६०।।
अनादिश्रीमहालक्ष्मीं कम्भराश्रीपरेश्वरीम् ।
श्रीमद्गोपालकृष्णस्य महाविष्णोः प्रियां सतीम् ।।६१ ।।
मातरं मे तव श्वश्रूं प्रेमर्षेः शुभपुत्रिकाम् ।
सर्वकल्याणकर्त्री श्रीकुंकुमवापिकेश्वरीम् ।।६२।।
भज त्वं शिवराज्ञीश्रि! नारायणि! प्रसूं मम ।
पारमेशीं दिव्यवाञ्च्छां परब्रह्मगतां शुभाम् ।।६३।।
अमूर्ता तां समूर्तो वै जप तन्मन्त्रमुत्तमम् ।
यन्त्रं पूजय कृष्णेशि भुक्तिसम्पत्प्रमोक्षदम् ।।६४।।
श्रीनारायणीश्रीरुवाच-
कस्य मन्त्रस्य तस्यास्तु जपो विधिश्च कीदृशः ।
वद मे भगवन्नेतत् सर्वलोकाभिकांक्षितम् ।।६५।।
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं पदार्थाः शब्दबोधिताः ।
नित्यशब्दात्मको वेदो मन्त्रास्तत्रोत्तमा मताः ।।६६।।
श्रेष्ठास्तत्र हरेर्मन्त्रा लक्ष्मीमन्त्रा सदोत्तमा ।
दुर्गायाश्च गणेशस्य रवेः शंभोर्विभावसोः ।।६७।।
मन्त्राणां चोत्तमा मन्त्रा महालक्ष्म्या भवन्ति हि ।
श्यामायाः कम्भराया वै वदामि ते निबोध माम् ।।६८।।
प्रातरुत्थाय मां नत्वा स्नात्वा शुभासनस्थिता ।
स्मर स्वमस्तके लक्ष्मि दिव्यं कमलमुज्ज्वलम् ।।६९।।
सहस्रपत्रशोभाड्य सकेशरसकर्णिकम् ।
तत्र श्रीसद्गरु ध्यात्वा प्रसन्नं करुणामयम् ।।3.119.७०।।
श्रीमद्गोपालकृष्णाख्यं पितरं सद्गुरुं परम् ।
आचम्य चोर्ध्वपुण्डंर सचन्द्रं कृत्वा ततः परम् ।।७१।।
स्कन्धे कृत्वा पट्टके च हृदि धृत्वा परेश्वरीम् ।
अन्तःशुद्धिमती भूत्वा सन्ध्यावन्दनमाचर ।।७२।।
अश्वत्थपत्राकारेण पात्रेण सकुशाक्षतम् ।
सपुष्पचन्दनं चार्घ्यं महालक्ष्म्यै प्रदेहि तत् ।।७३।।
त्रिरर्घ्यं सम्प्रदायाऽथ तर्पयित्वा जलेन च ।
होमभूमिं प्रगत्वैव सर्वशृङ्गारशोभिता ।।७४।।
सर्वपूजादिसामग्रीसहिता चासनस्थिता ।
अंगन्यासान् कुरु लक्ष्मि तान्निबोध मयोदितान् ।।७५।।
'ओमनादिपरब्रह्मेश्वर्यै शिरसि मे नमः ।
ओमनादिकृष्णनारायण्यै भाले च मे नमः ।।७६।।
ओमनादिवासुदेवीलक्ष्म्यै मे नेत्रयोर्नमः ।
ओमनादिब्रह्मलक्ष्म्यै मुखे मे ते नमो नमः ।।७७।।
ओमनादिकंभरालक्ष्म्यै च कण्ठेऽस्तु मे नमः ।
ओमनादिमहालक्ष्म्यै हृदये मे च ते नमः ।।७८।।
ओमनादिश्रीनरायण्यै नमस्ते ममोदरे ।
ओमनादिवैष्णव्यै ते नाभौ मम नमो नमः ।।७९।।
ओमनादिललितायै जघने ते च मे नमः ।
ओमनादिश्रियै चाऽस्तु नमः सक्थ्नोश्च मे सदा ।।3.119.८०।।
ओमनादिकमलायै नमो जान्वोश्च मेऽस्तु ते ।
ओमनादिरमायै ते नमोऽस्तु पादयोर्मम ।।८१ ।।
ओमनादिहरिण्यै ते करयोर्मे नमोऽस्तु ते ।
ओमनादिमहामात्रे सर्वतस्ते नमो नमः ।।८२।।
ओमनादिपद्मायै द्विहस्ततलयोस्ते नमः ।
ओमनादिरक्षित्र्यै ते पृष्ठदेशे नमो नमः ।।८३।।
ओमनादिहिरण्यायै रम्यांगेषु च ते नमः ।
ओमनादिसुवर्णायै भाग्यरेखासु ते नमः ।।८४।।
ओमनादिकुमार्यै ते शीलधर्मे नमो नमः ।
ओमनादिजनन्यै ते सर्वांगेषु नमो नमः ।।८५।।
एवं न्यासान् विनिर्वर्त्य ध्यायस्व श्रीपुराधिपाम् ।
ध्यायस्व श्रीपुरं चापि श्रीपुरेशीश्वरं च माम् ।।८६।।
सुवर्णनिर्मितां मूर्तिमावाहय ततः परम् ।
आसनं सम्प्रदेहि त्वं पाद्यमर्घ्यं ततः परम् ।।८७।।
आचमनं जलं पञ्चामृतस्नानं प्रकारय ।
सुगन्धितैलसाराद्यैः प्रमर्दय परेश्वरीम् ।।८८।।
आभिषेकं कारयित्वा वस्त्रभूषार्पणं कुरु ।
सर्वं शृंगारं सौभाग्योत्तमं धूपं प्रदीपकम् ।।८९।।
नमस्कारं दण्डवच्चाऽरार्त्रिकं च प्रदक्षिणम् ।
नैवेद्यं विविधं भोज्यं भक्ष्यं चोष्यं च लेह्यकम् ।।3.119.९०।।
जलं शाकादि वै पेयं दुग्धसारं च पायसम् ।
जलपानं नागवल्लीदलताम्बूलकं फलम् ।।९१।।
प्रदेहि श्रीमहालक्ष्म्यै क्षमापराधनं वृणु ।
पुष्पाञ्जलिं परिहारं कृत्वा स्वोद्यममाचर ।।९२।।
ततश्च तुलसीमालां धृत्वा मन्त्रं जप प्रिये ।
महालक्ष्म्या महामन्त्रं जप लक्ष्मि मम प्रियम् ।।९३।।
सर्वार्थसाधकं सर्वानर्थानां नाशकं प्रभुम् ।
उदङ्मुखा प्राङ्मुखा वा जपश्रीसन्निधौ सदा ।। ९४।।
ओं महालक्ष्म्यै विद्महै महाविष्णुपत्न्यै धीमहि ।
तन्नो महालक्ष्मीः प्रचोदयात् ।
ओं श्रीं महालक्ष्म्यै नमः ओं ह्रीं क्लीं श्रीं फट् स्वाहा ।।९५।।
षट्त्रिंशल्लक्षसंख्यास्तु जपन् सिद्धिर्भविष्यति ।
तद्दशांशस्तु होमः स्यात् तद्दशांशं तु तर्पणम् ।।९६।।
तद्दशांशं तु भक्तानां भोजनं समुपाचर ।
एवं मन्त्रो भवेत् सिद्धः काम्यजपाँस्ततः कुरु ।। ९७।।
लक्षमात्रं जपित्वा तु मनुष्यान् वशमानयेत् ।
नारीर्द्विलक्षजाप्येन त्रिलक्षैस्तु नृपाँस्तथा ।।९८।।
चतुर्लक्षैर्नागकन्याः पातालस्त्रीस्तु पञ्चभिः ।
षडूलक्षैर्भूसुन्दरीश्च सुराणीः सप्तलक्षकैः ।।९९।।
अष्टलक्षैर्देवताश्च गीर्वाणान्नवलक्षकैः ।
दशलक्षैश्च वै पितॄन्नेकादशैः सुरेश्वरान् ।। 3.119.१००।।
द्वादशलक्षजापैश्च सिद्धीर्वशा नयेत्तथा ।
लक्ष्मीवान् धनवान् स्याच्च स्मृद्धिमान् स भवेत्तथा ।। १०१ ।।
यथेष्टं लभते सर्वमैश्वर्यं दैवतं तथा ।
ध्यायन्तस्तां जपन्तस्तां लभन्ते महतीं श्रियम् ।। १ ०२।।
सम्प्राप्यते सिद्धिरेषा नाऽसद्भिस्तु कदाचन ।
यैस्तु तप्तं तपस्तीव्रं तैरियं प्राप्यते जनैः ।। १०३ ।।
वंशोऽपि यस्य कस्य स्यान्मनुज्ञो जापको जनः ।
तद्वंश्याः सर्व एव स्युर्मुक्तास्तृप्ताश्च योगिनः ।। १ ०४।।
परमात्मेयमेवाऽस्ति समन्त्रा ललिता रमे ।
इयमेव महत्तीर्थं सन्तो ध्यायन्ति तां सदा ।। १ ०५।।
कुचारित्रैर्निन्दकैश्च भावहीनैर्न लभ्यते ।
कामाक्षी वैष्णवी महालक्ष्मीः श्रीललितेश्वरी ।। १ ०६।।
परब्रह्मलालनाद्वै ललिता सुविलासिनी ।
महाविष्णोर्लालिनी सा जयत्येव प्रसूर्मम ।। १०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने चिन्तामणिगृहस्थितदिव्यब्राह्मीसेविकादिकृतसेवनं, महालक्ष्मीमन्त्रस्तज्जपादिफलं चेत्यादिनिरूपणनामा नवदशाऽधिकशततमोऽध्यायः ।। ११९ ।।