लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १३८

← अध्यायः १३७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १३८
[[लेखकः :|]]
अध्यायः १३९ →

श्रीपुरुषोत्तम उवाच-
रसकल्याणललिताव्रतं लक्ष्मि च ते शृणु ।
द्वादश्यां मण्डपं कुर्यात् सर्वतोभद्रमण्डलम् ।। १ ।।
पूरयेद् बहुधान्यैश्च कलशान् स्थापयेच्छुभान् ।
मध्यमे कलशे स्थाप्या सौवर्णी भूषणान्विता ।। २ ।।
रसकल्याणललितालक्ष्मीः रसप्रदायिनी ।
माघमासे शुक्लपक्षे द्वादश्यां ललितां श्रियम् ।। ३ ।।
स्नापयेन्मधुना चेक्षुरसेन च घृतेन च ।
दध्ना दुग्धेन च तीर्थजलैः संस्नापयेत्ततः ।। ४ ।।
भूषाम्बराणि दद्याच्च चन्दनाक्षतकुंकुमम् ।
शृंगारद्रव्यमेवापि दिशेत् पुष्पादिकानि च ।। ५ ।।
धूपं दीपं च नैवेद्यं नीराजनं तथाऽर्पयेत् ।
प्रार्थयेद् दक्षिणां दद्यात् पुष्पांजलिं समर्पयेत् ।। ६ ।।
एवं सम्पूज्य विधिवत् साधून् विप्रान् प्रपूजयेत्। ।
पूजयेद् द्विजदाम्पत्यं दद्याद् दानं धनादिकम् ।। ७ ।।
भोजयेदन्नपानाद्यैर्मधुरेण रसेन च ।
सुवर्णकमलं वस्त्रयुगलं कलशं दिशेत् ।। ८ ।।
कलशं शर्करापूर्णं रसपूर्णं दिशेच्च वा ।
रसं विद्याद् घृतं क्षीरं दधि मधु च शर्कराम् ।। ९ ।।
लड्डुकान् भोजयेच्चापि संयावमथ पूरिकाः ।
घारिकामप्यपूपाँश्च पिष्टापूपाँश्च मण्डकान् ।।3.138.१ ०।।
क्षीरं शाकं पायसान्नं दध्यन्नं भोजयेत्तथा ।
कमले माधवि लक्ष्मि मातः रमे समुद्रजे ।।१ १ ।।
भद्रे जये कम्भरे श्रि महालक्ष्मि सुखं कुरु ।
पद्मिनि पद्मजे कृष्णे नारायणि नरायणि ।।१२।।
आद्ये श्रीललिते कृष्णप्रिये ब्राह्मि नमोऽस्तु ते ।
वासुदेवि महादेवि हिरण्ये धनरूपिणि ।।१३।।
सर्वरसे सर्वसुखे सर्वकल्याणदायिनि ।
सम्पदं मोदमत्यन्तं देहि मे त्वद्व्रतेन वै ।।१४।।
एवमभ्यर्च्य सौवर्णां लक्ष्मीं रसप्रदायिनीम् ।
रसकल्याणललितां दाने श्रीगुरवे दिशेत् ।।१५।।
पञ्चरत्नादिसहितामङ्गुष्ठमात्रनिर्मिताम् ।
चतुर्भुजां चक्रशंखमालापूजासमन्विताम् ।। १६।।
तथा गोमिथुनं दद्याद् विप्राय तु महात्मने ।
सालंकारं सवस्त्रं च सदोहं दुग्धदं शुभम् ।। १७।।
अनेन विधिना यस्तु रसकल्याणिनीश्रियः ।
व्रतं कुर्यात् स पापेभ्यस्तत् क्षणादेव मुच्यते ।। १८।।
नवाऽर्बुदसहस्राणि समाः स्वर्गे महीयते ।
सुवर्णं कमलं लक्ष्मीं मासि मासि ददन्नृपः ।। १ ९।।
अग्निष्टोमसहस्रस्य फलं स्वर्गे समश्नुते ।
नारी कन्या च कुरुते विधवा वा सती च या ।।3.138.२० ।।
अग्निष्टोमफलं प्राप्य सौभाग्यारोग्यमाप्नुयात् ।
मतिदातापि वै स्वर्गे मोदते देवतागृहे ।।२१ ।।
शृणु लक्ष्मि व्रतं चान्यत् तवैव दशमीदिने ।
आषाढे शुक्लपक्षे वै चातुर्मास्याऽग्रगे दिने ।।२२।।
प्रातरेव समुत्थाय स्नात्वा ध्यायेद्धरिं प्रभुम् ।
ततश्चार्द्रानन्दलक्ष्मीं सौवर्णीं पूजयेद् व्रती ।।२३।।
अंगुष्ठमात्रां सद्वस्त्रां भूषाशृंगारशोभिताम् ।
नारायणीश्रियं दर्भगन्धोदकैः सुचन्दनैः ।।२४।।
स्नापयेच्छुक्लपुष्पैश्च कुंकुमाक्षतभोजनैः ।
नैवेद्यैर्भोजयेच्चापि नीराजयेत् क्षमापयेत् ।।२५।।
अनादिश्रीकृष्णनारायणेन सहितां श्रियम् ।
प्रार्थयेद्भावहृदयैः स्वेष्टदं स्वेष्टदां तदा ।।२६।।
महालक्ष्म्यै नमः पादौ महाविष्णो नमोऽस्तु ते ।
शोकहन्त्र्यै नमो जङ्घे सुखदाय नमोऽस्तु ते ।।२७।।
कमलायै नमश्चोरू आनन्दाय नमो हरे ।
ईश्वरिण्यै नमः कटिं सम्पत्प्रदाय ते नमः ।।२८।।
माधव्यै च नमो नाभौ स्वर्णवर्णाय ते नमः ।
स्तनौ पोषणकारिण्यै नमो विश्वंभराय ते ।।२९।।
कण्ठे नमः सरस्वत्यै नीलकण्ठाय ते नमः ।
करौ कमलधारिण्यै नारायणाय ते नमः ।।3.138.३० ।।
बाहू नमो रक्षयित्र्यै सुदर्शनधराय च ।
चान्द्र्यै चन्द्रानने नौमि हरिं वह्निमुखाय च ।।३ १ ।।
नेत्रे कृपाप्रवर्षिण्यै करुणानिलयाय च ।
भ्रुवौ नमः क्षेमदायै कुशलकारिणे नमः ।।३२।।।
ललाटे धनरूपायै स्वर्णवर्णाय ते नमः ।
मुकुटे सर्वरत्नायै सकौस्तुभाय ते नमः ।।३३।।
सर्वकायौ सर्ववासौ सर्वैश्वर्यसमन्वितौ ।
सर्वकामप्रदौ वन्दे आर्द्राश्र्यानन्दमाधवौ ।।३४।।
सम्पदा चोपकरणैर्धनैर्धान्यै रसादिभिः ।
भूषाम्बरादिभिश्चापि गृहमार्द्रं प्रपूरितम् ।।३५।।
कुरुतं स्त्रीदासदासीभृत्यापत्यसुशोभितम् ।
दिव्यसाधनशोभं च धेनुवाजिगजान्वितम् ।।३६।।
उद्यानवाटीक्षेत्राढ्यं यशोमानप्रवर्धितम् ।
यानविमानवाहाढ्यं शिष्यप्रशिष्यसत्प्रजम् ।।३७।।
मोदप्रमोदसौख्याढ्यं समुत्साहोत्सवान्वितम् ।
वाद्यगीतिमहासत्रदानपानसमन्वितम् ।।३८।।
धर्मकर्माऽध्वरयुक्तं नित्यं च बहुदक्षिणम् ।
विघ्नशून्यं पञ्चयज्ञपरं कुरुतं मद्गृहम् ।।३९।।
स्नुषाभिः परितो रम्यां साधुसाध्वीविराजितम् ।
परमेशमहाभक्तिप्रवाहितं निरन्तरम् ।।3.138.४०।।
अन्ते दिव्यरसाढ्ये वामक्षरे वसतिं च मे ।
एवमभ्यर्थ्य च पुष्पाञ्जलिं दत्वा विसर्जयेत् ।।४१ ।।
लक्ष्मीं नारायणं चार्द्रानन्दौ श्रीगुरवे दिशेत् ।
रत्नहीरकधान्यानि द्विजातिभ्यो दिशेत्तथा ।।४२।।
भोजयेद् बालबालाद्या दिशेच्च दक्षिणाः शुभाः ।
शंखचक्रे सकटके स्वस्तिकांऽकुशचामरान् ।।४३।।
दद्यात् सत्पुरुषायाऽपि मिष्टान्नाम्बरकाणि च ।
घृतपात्राणि पात्राणि सहिरण्यकानि सन्दिशेत् ।।४४।।
शर्करासक्तुपात्राणि चतुर्मासं दिशेत्तथा ।
तिलपात्राणि पूर्णानि रसपात्राणि यानि च ।।४५।।
गन्धोदकं पुष्पवारि चन्दनं कुंकुमोदकम् ।
अपक्वं दधि दुग्धं च गोशृंगोदकमित्यपि ।।४६।।
तुलसीं कमलं दद्याच्चातुर्मास्ये सदार्चने ।
दाने सर्वं प्रदद्याच्च वदेच्चापि श्रियाः पुरः ।।४७।।
लक्ष्मि मे प्रीयतां नित्यं पापनाशाय माधवी ।
सौभाग्याय प्रसन्नाऽस्तु ललिते मे सुखाय च ।।४८।।
एवमुक्त्वा दिशेत् सर्वं कार्तिके दशमीदिने ।
हिरण्यकमलं दत्वा चैकादश्यां प्रगे पुनः ।।४९।।
पूजयित्वा व्रतं पूर्णं कुर्याद् दिशेद् द्विजातये ।
सतूलावरणां शय्यां लक्ष्मीर्मे प्रीयतामिति ।।3.138.५० ।।
आर्द्राननरमानारायणव्रतं त्विदं महत् ।
तेनेहाऽमुत्र च सदानन्दमाप्नोति सम्पदः ।।५१ ।।
भुक्त्वा स्वर्गान् चिरस्थाँश्च परं पदमवाप्नुयात् ।
श्रोतुर्वक्तुश्च संस्मर्तुश्चाप्यानन्दो भवेद् ध्रुवः ।।५२।।
गृहे स्वे महदानन्दशतानि चानुभूय च ।
भूयो लक्ष्मीपदं याति श्रीपुरं धाम चैश्वरम् ।।५३।।
शृणु लक्ष्मि व्रतं तेऽन्यच्छारदेयव्रतोत्तमम् ।
बृहस्पतेस्तु दिवसे कर्तव्यं पूजनं तव ।।५४।।
मण्डपं सुभगं कृत्वा तोरणादिसमन्वितम् ।
सौवर्णकलशैर्धान्यैश्चासनादिभिरूर्जितम् ।।५५।।
तन्मध्ये कारयेद् रम्यं गजासनं सुवर्णजम् ।
तत्र पीठे स्थापयेच्च शारदाख्यां रमां सतीम् ।।५६।।
द्विभुजां ललितालक्ष्मीं सर्वाभरणभूषिताम् ।
वीणाकमलहस्तां च मुकुटादिसुशोभनाम् ।।५७।।
अथ पार्श्वे स्थापयेच्च गायत्रीं च सरस्वतीम् ।
वाद्ययुक्तां दिव्यरूपां वेदपुस्तकधारिणीम् ।।५८।।
एवं देवीत्रयं तत्र पूजयेद् गन्धकुंकुमैः ।
अक्षतैः श्वेतपुष्पाद्यैर्धूपदीपाऽऽदिवस्तुभिः ।।।५९।।
क्षीरं च पायसं सिद्धान्नं मिष्टं भोजयेत्तथा ।
मिष्टवारि सुगन्धाढ्यं पाययेच्छीतलं तथा ।।3.138.६०।।
ताम्बूलकं प्रदद्याच्च नीराजनं ततश्चरेत् ।
प्रार्थयेच्छारदालक्ष्मीं वाणी मे प्रीयतामिति ।।६१ ।।
कृपया ते भविष्यामि विद्यावारिनिधिः परः ।
रसनाग्रे मम नित्यं सरस्वती वसत्वपि ।।६२।।
इह लोके सदानन्दमवाप्नुयां तथा कुरु ।
वेदाः शास्त्राणि शस्त्राणि गीतनृत्यादिकं च यत् ।।६३।।
न विहीनं त्वया वाणि तथा मे सन्तु सिद्धयः ।
वाणी मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा मतिः ।।६४।।
एताभिः पाहि चाष्टाभिस्तनूभिर्मां नरायणि ।
एवं सम्प्रार्थ्य दानानि दद्यात् पुष्पाञ्जलिं तथा ।।६५।।
भोजयेद् बालबालाश्च साधुसाध्वीश्च योषितः ।
धनवस्त्राणि दद्याच्च कमण्डलुं च पुस्तकम् ।।६६।।
वाद्यदानं प्रकुर्वीत शृंगाराभरणार्पणम् ।
परिहारं प्रकुर्वीत गुरवे श्रियमर्पयेत् ।।६७।।
मौनव्रतेन भुञ्जीत सायं प्रातश्च च वै व्रती ।
गुरुवारे प्रतिमासं मासास्त्रयोदश व्रतम् ।।६८।।
सन्ध्यायां च तथा मौनं रक्षन् व्रती समाचरेत् ।
नाऽन्तरा भोजनं कुर्यात् समाप्ते च व्रते ततः ।।६९।।
उद्यापनं परं कुर्यान्महोत्सवसमन्वितम् ।
वस्त्रयुग्मं स्त्रियै दद्याद् विप्रायै भोजनान्वितम् ।।3.138.७०।।
गोदानं गृहदानं च कुर्याद् यथाधनं व्रती ।
अनेन विधिना कृत्वा पायसादि प्रभोजनम् ।।७१ ।।
विद्यावान् धनवान् मिष्टकण्ठो व्रती प्रजायते ।
शारदायाः प्रसादेन ब्रह्मलोके महीयते ।।७२।।
नरो नारी कुमारी वा कुरुते शारदाव्रतम् ।
ब्रह्मलोके वसेद् ब्राह्मी यावत्कल्पायुतत्रयम् ।।७३ ।।
विद्यादानं प्रकुर्याद् यो व्रतं कृत्वा धनार्पणैः ।
विद्वान् विद्यां प्रदद्याच्च शारदाव्रतवांश्च यः ।।७४।।
विद्याधरपुरे सोऽपि वसेत् कल्पाऽयुतत्रयम् ।
अन्ते लक्ष्मीपुरं याति ब्रह्माऽक्षरं व्रजेत्ततः ।।७५।।
अथाऽन्यत्ते शुभं लक्ष्मि कल्याणीकमलाव्रतम् ।
अशेषयज्ञफलदमशेषाघविनाशनम् ।।७६।।
अशेषदुष्टशमनमशेषसुरपूजितम् ।
पवित्राणां पवित्रं च मंगलानां सुमंगलम् ।।७७।।
दैवतं दैवतानां च पुराणानां पुरातनम् ।
माघशुक्लैकादशिकाव्रतं कल्याणदं शुभम् ।।७८।।
घृतेनाऽभ्यञ्जनं कृत्वा दशम्यां च तिलैर्जलैः ।
स्नात्वा प्रातर्हरिकृष्णं पूजयेत् सर्ववस्तुभिः ।।७९।।
नमोऽनादिकृष्णनारायणाय पादयोर्नमः ।
सर्वात्मने नमः के च वैकुण्ठाय नमो मुखे ।।3.138.८०।।
श्रीवत्सधारिणे वक्षःस्थले नमो मुहुर्मुहुः ।
शंखचक्रगदापद्मवरदानप्रधारिणे ।।८ १ ।।
नमो बाहुषु सर्वेषूदरे दामोदराय च ।
मेढ्रे नमः सुखदाय ऊर्वोः सौभाग्यदाय च ।।८२।।
जान्वोर्नमो भूतध्राय जंघयोर्मोक्षदाय च ।
पादयोः पापनाशाय श्रीकृष्णाय नमो नमः ।।८३।।
नमः कल्याणकारिण्यै कमलायै नमो नमः ।
नमः श्रीललितालक्ष्म्यै जयालक्ष्म्यै नमो नमः ।।८४।।
नमः श्रीमाणिकीलक्ष्म्यै नारायणीश्रियै नमः ।
नमः श्रीसुखदालक्ष्म्यै शिवराज्ञीश्रियै नमः ।।।८५।।
नमः श्रीपार्वतीलक्ष्म्यै कान्ताप्रमाश्रियै नमः ।
नमः श्रीकम्भरालक्ष्म्यै महालक्ष्मीश्रियै नमः ।।८६।।
नमः श्रीसन्तुष्टिलक्ष्म्यै कार्ष्णीश्रियै नमो नमः ।
नमः श्रीराधिकालक्ष्म्यै रमालक्ष्म्यै नमो नमः ।।८७।।
एवं नत्वा च गोविन्दं श्रियं नत्वा पुनः पुनः ।
सर्वोपचारकैश्चोभौ कल्याणदौ प्रपूजयेत् ।।८८।।
गन्धैर्माल्यैर्धूपदीपैर्भक्ष्यैर्नानाविधैरपि ।
जलैस्ताम्बूलकैश्चारार्त्रिकैः पुष्पार्पणैस्तथा ।।८९।।
प्रीयतां मम गोपालः श्रीपतिः पुरुषोत्तमः ।
प्रीयतां मम कल्याणीमहालक्ष्मीनरायणी ।।3.138.९०।।
एवमुच्चार्य शयने स्थापयेत् परमेश्वरी ।
मध्याह्ने पूजयेच्चापि भोजयेच्च निशामुखे ।।९१ ।।
सोत्सवं पूजयेच्चापि भोजयेत् पायसादिकम् ।
सुप्त्वा चैकादशीप्रातरुत्थाय स्नानमाचरेत् ।।९२।।
पूजयेद् विधिना लक्ष्मीं कल्याणीं मण्डपे शुभे ।
सर्वतोभद्रके रम्ये मण्डले विष्णुना सह ।।९३ ।।
पूजयित्वा च गोदाने शय्यादानं घटार्पणम् ।
लक्ष्म्यर्पणं रत्नभूषाम्बरपात्रधनार्पणम् ।।९४।।
धान्यभोजनभोग्याद्यर्पणं कुर्याद् व्रती प्रगे ।
भोजयेछ्रीमहालक्ष्मीं दुग्धं फलादिकं शुभम् ।।९५।।
मध्याह्ने पूजयेच्चापि भोजयेत् पायसादिकम् ।
सायं सम्पूजयेच्चापि रात्रौ जागरणं चरेत् ।।९६।।
द्वादश्यां प्रातरेवाऽपि प्रपूज्य विधिना दिशेत् ।
गुरवे साधवे साध्व्यै दानानि च द्विजातये ।।९७।।
भोजयेत् सुमृष्टमिष्टान्नानि विप्रान् सतस्तथा ।
बालकान् बालिका नारीः साधून् संभोजयेत्तथा ।।९८।।
दद्याद् दानानि बहूनि परिहारं ततश्चरेत् ।
लक्ष्मीनारायणसंहितायाः कथामिमां वदेत् ।।९९।।
पठनाच्छ्रवणादस्य स्मरणाच्चानुमोदनात् ।
भुक्तिर्मुक्तिर्भवेच्चापि कल्याणानि बहूनि च ।। 3.138.१ ००।।
पुराजन्मनि चाभीरीकन्या कल्याणिनीव्रतम् ।
कृत्वा नारायणपुत्री ऊर्वशी समजायत ।। १०१ ।।
पुरा वैश्यकुटुम्बोत्था पुलोमकन्यका त्विदम् ।
व्रतं कृत्वा महेन्द्राणी व्यजायत दिवेश्वरी ।। १० २।।
पुरा कृत्वा व्रतं चैतत् सुरपुत्रो द्विजस्ततः ।
सूर्यो बभूव स्वर्गेशः सहस्ररश्मिवान् प्रभुः ।।१ ०३।।
तस्मात् कल्याणिकालक्ष्मीव्रतं स्वेष्टोत्तमप्रदम् ।
माघे दिनत्रयं कार्यं सर्वकल्याणसम्प्रदम् ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने रसकल्याणललिताव्रतस्य, आर्द्रानन्दरमानारायणव्रतस्य, शारदेयव्रतस्य, कल्याणीकमलाव्रतस्य च निरूपण-
नामा अष्टत्रिंशदधिकशततमोऽध्यायः ।। १ ३८।।