लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १४०

← अध्यायः १३९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १४०
[[लेखकः :|]]
अध्यायः १४१ →

श्रीनारायणीश्रीरुवाच-
भगवन् पावनान्येव व्रतानि कथितानि मे ।
नवनवानि चान्यानि शिष्टान्यपि निवेदय ।। १ ।।
श्रीपुरुषोत्तम उवाच-
बहूनि सन्ति कमले! व्रतानि मोक्षदान्यपि ।
भुक्तिदान्यपि बहुधा वदामि शृणु तान्यपि ।। २ ।।
फलेच्छया विहितानि भोगदानि भवन्ति वै ।
मम प्रसन्नतार्थं तु कृतानि मोक्षदानि हि ।। ३ ।।
सम्वत्सरं नक्तभोजी नक्तव्रतं समीरितम् ।
कार्तिकाद्वा ह्यषाढाद्वा समारभेत तद्व्रती ।। ४ ।।
एकादशीं समारभ्य वर्षे पूर्णे तु धेनुयुक् ।
चक्रं सुदर्शनं हैमं दद्याच्छ्रीगुरवेऽर्पणे ।। ५ ।।
सुसाधून् भोजयेच्चापि व्रतोद्यापनमाचरेत् ।
वस्त्रदानानि दद्याच्च विष्णुलोके स मोदते ।। ६ ।।
एकभक्तं व्रतं कुर्यान्मध्याह्ने भोजनात्मकम् ।
देवाय सर्वं प्राऽर्प्यैव भुञ्जीत नाऽन्यया क्वचित् ।।७।।
वर्षव्रतं भवेदेतद् वर्षान्ते च महोत्सवम् ।
उद्यापनं कारयेच्च वृषभं कानकं दिशेत् ।।८।।
भोजनानि दिशेच्चापि साधुभ्यो गां दिशेदपि ।
एकान्तरव्रतं चापि वर्षमात्रं प्रपालयेत् ।। ९ ।।
एकान्तरितभोजी स्याद् व्रतान्ते च महोत्सवम् ।
स्वर्णपद्मं दिशेद् दाने ह्युद्यापनं समाचरेत् ।। 3.140.१ ०।।
शर्करापूर्णपात्रं च दद्यात् प्रभोजयेत् सतः ।
व्रती याति महापुण्यं चान्तेऽपि वैष्णवं पदम् ।। ११ ।।
चातुर्मास्ये वर्जयेच्च देहाभ्यंगं सुतैलजम् ।
अभ्यंगवर्जनं त्वेदत् व्रतं प्रोक्तं तपः परम् ।। १२।।
व्रतान्ते तैलदानादि दद्याच्च भोजन्यान्यपि ।
मम प्रीतिकरं त्वेतत्तेन याति हरेः पदम् ।। १ ३।।
रसानां वर्जनं चापि रसव्रतं प्रकीर्तितम् ।
मधुनारिकेलवारिदधिक्षीरघृतैक्षवम् ।।१४।।
वर्जयेद् वत्सरान्ते वा ह्युद्यापनं समाचरेत् ।
रसदानादि दद्याच्च सूक्ष्मवस्त्राणि चार्पयेत् ।। १५।।
कामव्रतं प्रकुर्याच्च सदा शोकविनाशकम् ।
चातुर्मास्ये ब्रह्मचर्यपरायणः सदा भवेत् ।। १ ६।।
पूर्णे व्रते कांचनस्याऽशोकवृक्षं समर्पयेत् ।
इक्षुं समर्पयेच्चापि वस्त्राण्यपि समर्पयेत् ।। १७।।
उद्यापनं चरेद्भुक्त्वा भोगान् विष्णुपदं व्रजेत्। ।
नखानां कर्तनं चातुर्मास्ये व्रती हि वर्जयेत् ।। १८।।
केशानां वपनं चापि चातुर्मास्ये विवर्जयेत् ।
अकर्तनसंज्ञं चैतद् व्रतं कृत्वा महोत्सवम् ।। १ ९।।
कुर्यादुद्यापनं चान्ते भोजयेत् पायसं सतः ।
कानकान्नखकेशाँश्च दाने दद्याद् द्विजातये ।।3.140.२०।।।
सौम्यां मूर्तिं मम लक्ष्मि तव प्रतिदिनं दिशेत् ।
मासपर्यन्तमेवैतत् सौम्यव्रतं प्रकीर्तितम् ।।२१ ।।
वैकुण्ठे सौम्यमुक्तः स्यादत्र वै चन्द्रमा भवेत् ।
बहुदानानि रत्नानां दद्यात्तु श्रावणाऽन्तके ।।२२।।
कार्तिके कानकीं मूर्तिं गृहोपस्करशोभिताम् ।
दद्यात् सम्पूज्य गुरवे सौभाग्यव्रतमुच्यते ।।२३ ।।
विष्णोर्मूर्तिं श्रिया मूर्तिं दद्याच्छ्रीगुरवे तदा ।
अन्यदानानि कुर्वीत श्रीहरिः प्रीयतामिति ।। २४।।
सारस्वतं व्रतं कुर्यात् सन्ध्यायां मौनमेव तु ।
सम्वत्सरं व्रतं कृत्वा घृतकुंभं तिलान् घटम् ।।२५।।
वस्त्रयुग्मं च पात्रं च घण्टां दद्याद् द्विजायते ।
गोदानं गुरवे दद्यात् पुस्तकानां प्रदानकम् ।।२६।।
सारस्वतव्रतं चेदं विद्यारूपादिदायकम् ।
अथ सम्पद्व्रतं कुर्यात् पञ्चम्यां माधवीं सतीम् ।।२७।।
लक्ष्मीं नित्यं पूजयेच्च वर्षान्ते हेमपद्मकम् ।
कमलं गुरवे दद्याद्धेनुं दोग्ध्रीं सवत्सिकाम् ।।२८।।
स वैष्णवं पदं याति लक्ष्मीवान् जन्मजन्मसु ।
नित्यं वै मार्जयेत् सर्वं मन्दिरं श्रीपते प्रभोः ।।२९।।
वर्षान्ते प्रदिशेद्धेनुं दोग्ध्रीं जलघटं तथा ।
जन्मायुतं स राजा स्यात्ततो विष्णुपुरं व्रजेत् ।।3.140.३० ।।
एतदायुर्व्रतं नाम पापमार्जनकारकम् ।
अथ कीर्तिर्व्रतं कुर्यादेकभुक्तं सदाऽऽचरेत् ।।३ १ ।।
वर्षान्ते धेनुदशकं दद्याद् वृक्षं हिरण्मयम् ।
अश्वमेधफलं स्याच्च भूतिकीर्तिफलं भवेत् ।।३२।।
अथ सामव्रतं प्रोक्तं नित्यं स्तोत्रं प्रकीर्तयेत् ।
हरेरग्रे त्रिकालं वै तिलदानं च नित्यदा ।।३३।।
पुष्पाऽक्षतप्रदानं च हरये पूजनार्थकम् ।
सम्वत्सरान्ते पूर्णे च हेमपद्मं दिशेन्महत् ।।३४।।
अष्टांगुलं तिलधेनुं दद्याद्याति परं पदम् ।
अथ वीरव्रतं कुर्यान्नवम्यामेकभुक्तकः ।।३५।।
कन्यका भोजयेद् वर्षं वर्षान्ते हेमकञ्चुकीः ।
शाटीर्हैमं केशरिणं दद्याच्छ्रीगुरवे तथा ।।३६।।
कन्यकाभ्यो यथायोग्यभूषाम्बरादि चार्पयेत् ।
जन्मार्बुदं सुरूपः स्याच्चाऽन्ते धाम हरेर्व्रजेत् ।।३७।।
सम्वत्सरं पूर्णिमायां पयोव्रती भवेत्तथा ।
समान्ते पञ्चधेनूश्च दोग्ध्रीर्दद्यात् सवत्सिकाः ।।३८।।
वासांसि च पिशंगानि जलकुंभयुतानि च ।
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम् ।।३९।।
पितृश्राद्धं कारयेच्च पितृव्रतमिदं मतम् ।
अथ चैत्रादिमासेषु चतुर्षु शीतलं जलम् ।।3.140.४०।।
पाययेत् सर्वलोकांश्च व्रतान्ते मणिकं दिशेत् ।
अन्नवस्त्राणि दद्याच्च तिलपात्रं सुवर्णकम् ।।४१ ।।
जलानन्दव्रतं त्वेतत् कल्पान्तो भूपतिर्भवेत् ।
अथ कुर्याद् धृतिव्रतं प्रत्यहं श्रीहरिं तु माम् ।।४२।।
पञ्चामृतेन सुभगं स्नपनं कारयेत्ततः ।
वर्षान्ते शंखदानं च कुर्याद् याति हरेः पदम् ।।४३।।
मा हिंस्यात् सर्वभूतानि वर्षान्ते व्रतकृज्जनः ।
गोदानं हेमहरिणप्रदानं चाचरेत् त्विदम् ।।४४।।
अहिंसाव्रतमेतेन कल्पान्तो भूपतिर्भवेत् ।
अथ माघस्नानमेव कुर्याच्छीतेन वारिणा ।।४५।।
सूर्यं नित्यं पूजयेच्च दद्याद् दानं द्विजातये ।
धान्यवस्त्रविभूषादि सूर्यव्रतं तदुच्यते ।।४६ ।।
चातुर्मास्ये महाविष्णुं महालक्ष्मीं च पूजयेत् ।
गोदानं भोजनं चापि यथाशक्ति दिशेद् व्रती ।।४७।।
स वैष्णवपदं याति विष्णुव्रतमिदं शुभम् ।
अथ व्रतं शीलनाम शीलाऽऽरोग्यफलप्रदम् ।।४८।।
वर्षं पूर्णं ब्रह्मचर्यं पालयेत् स्त्रीः नरोऽपि वा ।
घृतधेनुः प्रदद्याच्च पुष्पमालाः सदाऽर्पयेत् ।।४९।।
सुसाधून् घृतमुत्कृष्टं पायसं भोजयेत्तथा ।
उद्यापनं वत्सरान्ते कुर्याद् धान्यधनं दिशेत् ।।3.140.५० ।।
अनादिश्रीकृष्णनारायणाऽक्षरं प्रयाति सः ।
अथ वर्षं न भुञ्जीत तैलं यच्छेत्प्रदीपकम् ।।५१ ।।
स्वर्णं दीपं काञ्चनं च चक्रं दद्याद् द्विजातये ।
वस्त्रयुग्मं प्रददेत याति ब्रह्मपदं हि सः ।।५२।।
दीपव्रतमिदं प्रोक्तं दीप्तिदं रूपदं तथा ।
अथ कार्तिकमारभ्य नक्तं भुञ्जीत पायसम् ।।५३।।
वर्षान्ते गां प्रदद्याच्च पायसाख्यव्रतं त्विदम् ।
कल्याणकारकं पृथ्व्या राज्यप्रदं प्रमोक्षदम् ।।५४।।
अथ गन्धानुलेपादि वर्जयेद् वत्सरं सदा ।
निर्गन्धाख्यं व्रतं प्रोक्तं वर्षान्ते गन्धदानकम् ।।५५।।
अथ कान्तिव्रतं कुर्याद् गोदानं प्रत्यहं दिशेत् ।
लवणं नैव भुञ्जीत सम्वत्सरं ततः परम् ।।५६।।
उद्यापनं प्रकुर्याच्च कान्तिकीर्तिफलप्रदम् ।
राजा भूत्वा कल्पपूर्णं विष्णुलोके वसेद् ध्रुवे ।।५७।।
ब्रह्मव्रतं ततः कुर्याद् ब्रह्माण्डं काञ्चनं शुभम् ।
स्वल्पं तिलसमायुक्तं पुण्ये दिने द्विजायते ।।५८।।
दद्यात् त्रिदिवसान् तिलाशनो भवेद् व्रती तथा ।
माल्यवस्त्रविभूषाणां दानं कुर्याद् व्रती परम् ।।५९।।
ब्रह्मलोकं प्रयात्येषो निर्वाणपदमाप्नुयात् ।
शक्तितस्त्रिपलादूर्ध्वं ब्रह्माण्डं परिकीर्तितम् ।।3.140.६०।।
अथ धेनुव्रतं कुर्यात् त्र्यहं पयोव्रती भवेत् ।
काञ्चनं च वृषं धेनुं ददेतोभयतोमुखीम् ।।६१ ।।
तण्डुलान् सम्प्रयच्छेच्च पलोर्ध्वं कानकं वृषम् ।
दत्वा ब्रह्मपदं याति गोलोकं धेनुसद्व्रतात् ।। ६२।।
अथ कल्पव्रतं कुर्यात् पलोर्ध्वं कल्पपादपम् ।
कृत्वा दद्यात् साधवे च तण्डुलान् द्विदलान्वितान् ।।६३।।
कल्पदानेन कल्पान्ते स्वर्गाद् गच्छति मत्पदम् ।
अथ मासोपवासी स्यात् प्रयच्छेन्महिषीं शुभाम् ।।६४।।
दोग्ध्रीं श्रीगुरवे चैतन्माहिषं व्रतमुच्यते ।
दद्याद् विंशतिपलोर्ध्वं पृथिवीं काञ्चनीं शुभाम् ।।६५।।
धराव्रतमिदं प्रोक्तं त्वैकभोजी दिने भवेत् ।
सप्तकल्पशतान्येव वसति श्रीशमन्दिरे ।।६६।।
ततो यात्यक्षरं धाम धराव्रतकरः पुमान् ।
मद्भक्तो मां प्रयात्येव पार्षदः सन् प्रसेवते ।।६७।।
माघे चैत्रे गुडं दद्याद् गुडव्रतपरायणः ।
गुडभोजी गुडपायी तिलैर्गुडैः प्रपूजयेत् ।।६८।।
मां. लक्ष्मीं च गुडदाने दद्याद् गुडमयीं गुडम् ।
गुडव्रतमिदं प्रोक्तं मुक्तिदं मोक्षदं तथा ।।६९।।
अथ पक्षोपवासी स्यात् कपिलायुगलं दिशेत् ।
उद्यापनं प्रकुर्याच्च परमानन्दकारकम् ।।3.140.७०।।
कल्पान्ते राजराजः स्यात् कपिलाव्रतमेव तत् ।
अथ वर्षं चैकभोजी नित्यभोज्यजलप्रदः ।।७१ ।।
विष्णुलोके वसेदन्ते प्राप्तिव्रतमिदं मतम् ।
नक्ताशी चाष्टमीषु स्याद् वत्सरान्ते च धेनुदः ।।७२।।।
स्वर्गं याति ततश्चान्ते ब्रह्मपदं प्रयाति सः ।
सुगतिव्रतमेवेदं प्रोच्यते सद्गतिप्रदम् ।।७३।।
विप्रायेन्धनदो यस्तु वत्सरं धेनुदस्तथा ।
वैश्वानरव्रतं चेदं तत्कर्ता ब्रह्म गच्छति ।।७४।।
एकादश्यां व्रतकर्ता द्वादश्यां काञ्चनीं शुभाम् ।
अनादिश्रीकृष्णनारायणमूर्तिं ददाति च ।।७५।।
समान्ते वैष्णवं हैमं चक्रं ददाति यो व्रती ।
एतत्कृष्णव्रतं कृत्वा कल्पान्ते राज्यभाग् भवेत् ।।७६।।
वर्षान्ते मां प्रदायैव मम धाम ह्यवाप्नुयात् ।
पायसाशी समान्ते तु दद्याद् विप्राय गोयुगम् ।।७७।।
लक्ष्मीलोकमवाप्नोति श्रीव्रतं चैतदुच्यते ।
सप्तम्यां यः प्रदद्याच्च धेनुं पयस्विनीं शुभाम् ।।७८ ।।
सूर्यलोकं प्रयात्येव भानुव्रतं तदुच्यते ।
चतुर्थ्यां नक्तभुक् दद्यादब्दान्ते हेमहस्तिनम् ।।७९।।
व्रतं वैनायकं नाम भुक्तिमुक्तिफलप्रदम् ।
चातुर्मास्ये स्वर्णरूप्यफलानि चार्पयेद् व्रती ।।3.140.८० ।।
फलव्रतं विष्णुलोकप्रदं त्वेतन्महाबलम् ।
यश्चोपवासी सप्तम्यां समान्ते हैमपंकजम् ।।८ १ ।।
गाश्च दद्यात् स्वर्णघटे सौरव्रतं प्रकीर्तितम् ।
सूर्यलोकप्रदं चैतत् सूर्यदानं दिशेदपि ।।८२।।
द्वादश द्वादशीर्यस्तु समाप्योपोषणेन ह ।
गोवस्त्रकांचनभूषा दद्याच्छ्रीगुरवे व्रती ।।८३।।
परं पदमवाप्नोति विष्णुव्रतमिदं रमे ।
कार्तिक्यां तु वृषोत्सर्गं कृत्वा नक्तं समाचरेत् ।।८४।।
शैवपदं समाप्नोति वार्षव्रतमिदं मतम् ।
गोपदानि सुवर्णानि दद्याद् दाने पदव्रतम् ।।८५।।
सप्तरात्रोषितो दद्याद् घृतकुंभं तु साधवे ।
घृतव्रतमिदं प्रोक्तं ब्रह्मलोकफलप्रदम् ।।८६।।
आकाशशायी वर्षासु चान्ते धेनुं पयस्विनीम् ।
दद्यादाकाशसंज्ञं च व्रतमिन्द्रपदप्रदम् ।।८७।।
अनग्निपक्वभोजी च तृतीयायां ततः परम् ।
गोदानं तु प्रकुर्याद्वै मासान्ते यः पयस्विनीम् ।।८८।।
श्रेयोव्रतमिदं प्रोक्तं गोलोकदं सुखप्रदम् ।
हैमं पलद्वयादूर्ध्वे रथं चाश्वयुजं शुभम् ।।८९।।
ददानो द्राग् वसेत् स्वर्गे कल्पशतं रथव्रती ।
कल्पान्ते राजराजः स्यात्ततो याति परं पदम् ।।3.140.९०।।
षष्मासानुपवासान् यः कुर्यादेकान्तरं दिनम् ।
समान्ते गोप्रदः स्याच्च वारुणं व्रतमुच्यते ।।९१ ।।
वारुणं राज्यमासाद्य ततो याति परं पदम् ।
चान्द्रायणं व्रतं कुर्याद्धेमचन्द्रं दिशेत् सते ।।९२।।
चन्द्रव्रतमिदं श्रेष्ठं चन्द्रलोकफलप्रदम् ।
ज्येष्ठे पञ्चतपा नित्यं हेमधेनुप्रदो भवेत् ।।९३।।
तपोव्रतमिदं प्रोक्तं साम्राज्यं लभते ततः ।
वैकुण्ठं चापि गोलोकं चाऽक्षरं लभते ततः ।।९४।।
देवालये वितानं तु दद्यात् पटादिभिः कृतम् ।
वितानदो दिवं याति वितानव्रतसत्फलात् ।।९५।।
माघे निन्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत् ।
राजा भवेद् दिवं याति चार्द्रव्रती प्रमुक्तिगः ।।९६।।
श्रेष्ठं तु भवनं धाम ददाति फाल्गुने तु यः ।
धामव्रती प्रयात्येव परमेश्वरमन्दिरम् ।।९७।।
साधुं साध्वीं प्रपूज्यैव भोजयेद्मिष्टमुत्तमम् ।
स्वयं प्रसादं भुञ्ज्याच्च प्रसादाख्यव्रतं त्विदम् ।।९८।।
सर्वपापहरं पुण्यप्रदं मोक्षप्रदं तथा ।
पावनं सर्वश्रेष्ठं वै पंक्तिपावनमुत्तमम् ।।९९।।
प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः ।
नित्यं वैश्वानरपूजाकर्ता याति विभावसुम् ।। 3.140.१० ०।।
वैश्वानरव्रतं चेदं दिव्यतादं सुखप्रदम् ।
दशम्यानेकभक्ताशीं समान्ते दशधेनुदः ।।१ ०१ ।।
सुवर्णपत्रिकां दद्याद् ब्रह्माण्डाधिपतिर्भवेत् ।
विश्वव्रतं प्रोच्यते वै लक्ष्मि पुण्यस्य सागरः ।। १ ०२।।
कीर्तनं सर्वदा कुर्यात् कीर्तनाख्यं व्रतं त्विदम् ।
कथां च सर्वदा कुर्यात् कथाख्यं तु व्रतं त्विदम् ।। १० ३।।
भजनं सर्वदा कुर्याद् भजनाख्यं व्रतं त्विदम् ।
एकषष्टिव्रतान्येवं लक्ष्मि ते कथितानि वै ।। १ ०४।।
लोकानामुपकारार्थं यतो लोकस्त्रिरंगवान् ।
पठनाच्छ्रवणाच्चास्य स्मरणात् करणादपि ।।१ ०५।।
अनुमोदनदानाच्च सहाय्यकरणादपि ।
व्रतपुण्यं लभेतैव भुक्तिं मुक्तिमवाप्नुयात् ।। १०६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने प्रकीर्णकानामेकषष्टिव्रतानां संक्षेपतो निरूपणनामा चत्वारिंशदधिकशततमोऽध्यायः ।। १४० ।।