लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १५६
← अध्यायः १५५ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः १५६ [[लेखकः :|]] |
अध्यायः १५७ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं मनुं तु नवमं प्रिये ।
अभूद् राजा धनवर्मा स्वल्पराज्यः सुराष्ट्रके ।। १ ।।
महान्ति चान्यराज्यानि वीक्ष्योद्वेगमनाः सदा ।
नाह भूषाधिभूपोऽस्मि स्वल्पभूपोऽस्मि खर्वटी ।। २ ।।
विना कीर्तिं च साम्राज्यं शान्तिर्मे हृदये न वै ।
तस्माद् यत्नं करोम्येव साम्राज्यस्य कृतेऽनिशम् ।। ३ ।।
विचार्येत्थं निजग्रामात् सपत्नीपुत्रबान्धवः ।
ययावश्वपट्टतीरं यात्रार्थं तपसे तथा ।। ४ ।।
लोमशस्याऽऽश्रमं गत्वा ननाम पादयोः पुरः ।
दत्तासने निषसाद पृष्ठश्च कुशलं प्रति ।। ५ ।।
लोमशं प्रत्युवाचाऽसौ कुशलं कृपया तव ।
ग्रामः पुत्राः सुताः पत्नी गावः क्षेत्राणि कर्षुकाः ।। ६ ।।
सर्वे वै स्वस्तिमन्तोऽत्र भवतः कृपया गुरो ।
हृदयं चाऽप्यतृप्तं मे ग्रामराज्येन क्षुद्रवत् ।। ७ ।।
समीहते महद्राज्यं तत्प्राप्त्यर्थं व्रतं वद ।
श्रुत्वा श्रीलोमशस्तस्मै देहशुद्धिव्रतं तु प्राक् ।। ८ ।।
दत्वाऽनादिकृष्णनारायणमन्त्रं सुपुण्यदम् ।
प्राहाऽत्राऽऽम्रवणे वृक्षतले चाराधय प्रभुम् ।। ९ ।।
सुतपाः सुजपश्चापि सुभक्तिश्चिरधैर्यवान् ।
सपत्नीकः सुपुत्रादिः कुरु श्रेष्ठं तपो नृप! ।। 3.156.१०।।
अनिकेता कन्दमूलफलाहारा अरागिणः ।
भूशयाना ब्रह्मशीला अपरिग्रहवर्तिनः ।। १ १।।
नित्यं त्रिषवणस्नानास्त्रिपूजाकारिणोऽन्वहम् ।
'ओम् अनादिश्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। १२।।
इतिमन्त्रपराः सर्वे वत्सरं प्रतपन्त्विह ।
ततो वर्षाऽपरं लक्ष्मीगायत्रीजापकास्त्विह ।। १ ३।।
'ओं महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयादिति वसन्तु वत्सरम् ।। १४।।
इष्टसिद्धिस्तूर्णमेव श्रीहरिः सम्प्रदास्यति ।
इत्युक्तास्ते गुरुं नत्वा प्रपूज्य शुद्धभावतः ।।१५।।
अश्वपट्टसरोवारौ स्नात्वा चाम्रवणं ययुः ।
मासं वर्षं तथाऽन्यार्धं व्यतीयुस्तपतां वने ।। १६।।
प्रसन्नोऽहं तदा लक्ष्मि त्वया साकं जगाम तान् ।
गोचरश्चाऽभवं चाग्रे धनवर्माऽऽप संमुदम् ।।१७।।
कुटुम्बं यस्य सर्वं च ससंभ्रमं ननाम माम् ।
मयेष्टवरदानार्थं प्रेरितो नृपतिर्द्रुतम् ।। १८।।
प्रपूज्य स्वागतरीत्या ययाचे वरमुत्तमम् ।
सर्वमानवराजानामधिकं राज्यमुत्तमम् ।। १ ९।।
मया तथाऽस्त्विति दत्तं साम्राज्यं मनुविश्रुतम् ।
भविता त्वं धनवर्मन् सकुटुम्बो मनुर्महान् ।।3.156.२०।।
दक्षपुत्रो हि सावर्णो भावी यो नवमो मनुः ।
दक्षसावर्णिनामा वै एकसप्ततिसाधिकः ।।२१।।
तावत्कालं स्वर्गलोके वस स्वतन्त्रमण्डलः ।
इत्युक्तमात्रे तत्रैव विमानं सूर्यसन्निभम् ।।२२।।
देवाऽप्सरोभि राघुष्टं शोभनं त्वाययौ भुवि ।
तावन्मे कृपया राजा सकुटुम्बो मृतिं ययौ ।।२३।।
देवदेहो ययौ स्वर्गं स्वतन्त्रतारकाधिपः ।
भविता दक्षसावर्णिः प्राप्ते काले मनुर्हि सः ।।२४।।
इति ते कथितो लक्ष्मि मनुर्वै नवमोऽप्यथ ।
कथयामि दशमं ते मनुं ब्रह्मसवर्णकम् ।।२५।।
ब्रह्मसावर्णिनामानं पूर्वं तु जडविप्रकम् ।
बालकृष्णसरःप्रान्ते वसन्तं मतिरास ह ।।२६।।
तपः करोमि विपुलं किं विप्रत्वे सुखं त्विह ।
राज्ये सुखं परं चास्ते सर्वभोगप्रपूरितम् ।।२७।।
विचार्येत्थं जडविप्रो नाम्ना बलीश्वरः स्वयम् ।
दशवर्षाणि सततं जलवासाः सरोवरे ।।२८।।
अभवद् ध्यायमानो मां श्रीपतिं वल्लभं प्रभुम् ।
सोऽहं समाधिसंस्थं तं मत्स्यभक्षितनाडिकम् ।।।२९।।।
शैवालावृतसर्वाऽस्थिपञ्जरं मम भक्तकम् ।
उद्धर्तुं च त्वया साकं ह्यगमं तस्य सन्निधौ ।।3.156.३०।।
मया चान्तःप्रविश्यैवोत्थापितः स बलीश्वरः ।
न तस्य विद्यते चर्म नाडीव्रातेन्द्रियाणि च ।।३१ ।।
कथं पश्येच्छृणुयाच्च स्पृशेद् वदेत् कथं हि सः ।
कथं तिष्ठेत् प्रचलेच्च प्राणसञ्चरणं कुतः ।।३।।
रक्तं नास्ति न च मज्जोदरं सन्ति न कुक्षयः ।
एवंभूतं तु मां भक्तं ब्रह्मरन्ध्रे मयि स्थितम् ।। ३३।।
प्रविश्य चास्य देहे तत्पञ्जरे धातवः कृताः ।
मया पुष्टिं गमिताश्च स्नायूमज्जादयोऽभवन् ।।३४।।
नाड्यश्चापि मया सर्वास्तत्रैव नूतनीकृताः ।
रक्तं प्रपूरितं तत्र केशाः प्ररोहितास्तटः ।।३५।।
चर्मावनद्धो देहोऽस्येन्द्रियप्राणमनोऽन्वितः ।
सम्पन्नः स समाधेस्तु हृद्यागत्य बहिर्ययौ ।।३६।।
उत्थितः स जलाद् यावन्मां ददर्श पुरःस्थितम् ।
श्रीयुतं परमात्मानं योजयन्तं वराय तम् ।।३७।।
सोऽपि वीक्ष्य हरिं मां तु तपःफलमयाचत ।
पुपूज जलमात्रेण हृदयेन च वै मुहुः ।।३८।।
हरेकृष्ण बालकृष्ण सिद्धिपते जगत्पते ।
मायापते पतीनां च पते राजपते प्रभो ।।३९।।
महाराज्यं देहि मेऽत्र ब्राह्मण्यं चापि सर्वदा ।
तथाऽस्त्विति मया दत्तो वरस्तस्मै महात्मने ।।3.156.४०।।
पतितः पादयोनश्च कमलानि शुभानि च ।
आर्पयत् पादयोर्नश्च पपौ पादामृतं च नः ।।४१ ।।
आवाभ्यामर्पितं भोज्यं क्षीरात्मकं हि कल्पितम् ।
बुभुजे जलपानं च कृत्वा तूर्णं विदेहवत् ।।४२।।
त्यक्त्वा देहं विमानेन मया साकं त्वया तथा ।
अम्बरं चाजगामैव दिव्यदेहो हि भक्तराट् ।।४३।।
मयाऽर्पितः स देवेभ्यो देवलोके वसत्यपि ।
अथ कालान्तरे प्राप्य पुत्रतां वेधसः स च ।।४४।।
ब्रह्मसावर्णिसंज्ञः स मनुः स्वयं भविष्यति ।
मम पूजाप्रतापेन तपसा मनुतां पराम् ।।४५।।
अवाप्स्यति स वै लक्ष्मि ब्राह्मण्यनृपतान्वितः ।
अथैकादशकं वक्ष्ये मनुं लक्ष्मि निशामय ।।४६।।
धर्मसावर्णिनामानं देवानीककुटुम्बिनम् ।
आसीत् पूर्वे वैश्यवर्णं कर्षुको धर्मतत्परः ।।४७।।
आनन्दवर्णीतिनाम्ना ख्यातः सुराष्ट्रदेशजः ।
करोति भगवद्भक्तिं यतते ब्रह्मचर्यके ।।४८।।
ऊर्ध्वरेताः सदा चास्ते व्याघ्रारण्ये वसत्यपि ।
सोढुभारासरित्तीरे शिंशपाद्रुमसेवनः ।।४९।।
वैराग्येण स महता कुरुते श्रीहरेर्जपम् ।
शर्कराकन्दमात्रादोऽभवत्तत्र समा दश ।।3.156.५०।।
ततस्तपोभिरुग्रैश्चाऽऽराधयत्यच्युतं हि माम् ।
निद्रां न लभते मायां मोहिनीं च त्यजत्यपि ।।५१ ।।
'कृष्णकृष्ण हरेकृष्ण बालकृष्ण जगत्प्रभो ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम' ।।५२।।।
एवं रटति नित्यं स जपति श्रीनरायणम् ।
विंशतिर्हि समास्तस्य जपतो निर्ययुः सुखाः ।।५३।।
ततः स कर्षुको देवानीको ध्यानपरोऽभवत् ।
शारद्यां पूर्णिमायां वै चान्द्रतेजोऽतिशोभिते ।।५४।।
वने सुभूतले तत्र शिशपावृक्षसन्निधौ ।
पूर्णचन्द्राननं दिव्यं मां स ददर्श चागतम् ।।५५।।
उत्थाय सहसा वैश्यः पपात मम पादयोः ।
पुपूज शुभपुष्पाद्यैः शार्करकन्दमूलकैः ।।५६।।
मया प्रवर्तितः सोऽपि वरार्थं सोऽप्ययाचत ।
ब्राह्मण्यं चापि देवत्वं महैश्वर्यं च सम्पदः ।।५७।।
तथाऽस्त्विति मया चोक्तो निवारितः तपःश्रमात् ।
अश्वपट्टमहाक्षेत्रं ययौ श्रीलोमशाश्रमम् ।।५८।।
अहं चाऽदृश्यभावश्च स्वधाम प्रजगाम ह ।
देवानीकोऽभजन्मां च वसन् ऋषिकुले ततः ।।५९।।
कालेन देहमुत्सृज्य ययौ सत्यंशुभं पदम्।
ब्रह्मणो लोकमेवाऽसौ धर्मगृहे सुपुण्यवान् ।।3.156.६०।।
धर्मपुत्रोऽभवद् विप्रो मानसो धर्मसंगृही ।
कुंकुमवापिकाक्षेत्रे यद्वंशे मम पूर्वजाः ।।६ १ ।।
तव पूज्या वसन्त्येव सौराष्ट्रे बहुविस्तरे ।
जालायने तु सौवीरे सारकटे तु गैरिके ।।६२।।
गोक्षुरे क्षारपाटे च पूर्वजा मे वसन्ति वै ।
धर्मपुत्रः स देवानीकः स्वयं पुण्यपुञ्जकैः ।।६३।।
मदिच्छया हि विप्रत्वं धर्मसावर्णितामपि ।
प्राप्यैव भविता चैकादशो मनुर्नृपेश्वरः ।।६४।।
तावत्कालं सत्यलोके धर्मगृहे विराजते ।
अथ लक्ष्मि द्वादशं च मनुं वच्मि शृणु प्रिये ।।६५।।
अब्रिक्ते भूतले नारायण्यास्तीरेऽवसद् घृणी ।
घृणेषिकाख्यः शूद्रश्च धर्मकर्मविवर्जितः ।।६६।।
कुटुम्बपोषणपरो मत्स्यवृत्तिर्विशेषतः ।
तस्यैकदाऽभवद् वृष्टिरुद्वेलानि जलानि तु ।।६७।।
नारायण्या महानद्याश्चाब्धिवत् प्रसृतानिह ।
गृहं ग्रामं प्रवाह्यैव निन्युः पूरेऽस्य वै तदा ।।६८।।
स्त्रीपुत्रसहितः शूद्रः प्रोह्यमाणो गृहान्वितः ।
जलमध्येऽभवत्तत्र नौकायामिव वै तदा ।।६९।।
गृहं काष्ठकृतं स्वल्पं समूलं तरति जले ।
मानतां स तदा चक्रे रुद्रस्य स्वाऽवनार्थिकाम् ।।3.156.७०।।
यद्यहं जीवमासाद्य लभेयं स्वगृहस्थलीम् ।
साऽन्वयो रुद्रपूजा वै करिष्ये सर्वदा शुभाम् ।।७१ ।।
मत्स्यान् विवर्जयिष्ये च करिष्ये नाऽपि हिंसनम् ।
वर्तयिष्ये रुद्रभक्त्या वन्यमूलफलादिभिः ।।७२।।
धर्ममात्रं करिष्ये च रक्षतु मां सतीपतिः ।
इत्येवं मानतां कृत्वा सकुटुम्बो गृहे जले ।।७३।।
भजनं प्रचकाराऽसौ रुद्रस्य मत्स्वरूपिणः ।
'हर कष्टं हर दुःखं रक्ष प्राणान् सतीपते ।।७४।।
महादेव महाकाल ब्रह्मविष्णुस्वरूपवन् ।
जय शंभो जय रुद्र जय श्रीपार्वतीपते ।।७५।।
जयाऽन्तकाल रक्ष त्वं त्वदीयोऽस्मि प्रजीवय ।
इत्येवं भजनं चक्रे तल्लीनः सकुटुम्बकः ।।७६।।
रुद्रेच्छयाऽस्य वारिस्थं तरद्गृहं तटं ययौ ।
पूराणां विगमे सोऽपि गृहान्निर्गत्य भूतलम् ।।७७।।
अवतीर्य ययौ दूरं यत्रास्ते श्रीवनं पुरम् ।
भिक्षयोदरयात्रां च तदा शाकादिभिर्व्यधात् ।।७८।।
ततः पार्श्वेऽरण्यभागे ययौ कुटुम्बशोभितः ।
रुद्रमाराधयामास वर्जयित्वा स्वदुर्गुणान् ।।७९।।
पञ्चसम्वत्सरः कालश्चैवं त्वस्य जगाम ह ।
फलमूलाशनस्यैव तावद्रुद्रः समाययौ ।।3.156.८०।।
सतीयुतोऽतिसौम्यश्च वनी योगी यथा महान् ।
प्राह घृणिन् कथं चास्ते वने किं ते समीहितम् ।।८१ ।।
रुद्रोऽहं वद चेष्टं ते ददामि तोषितस्त्वया ।
घृणेषिकस्तदा वव्रे पुत्रत्वं राज्यमित्यपि ।।८२।।
तथाऽस्त्विति हरः प्राह पूजां लब्ध्वा तिरोऽभवत् ।
घृणेषिकश्च वर्षान्ते ज्वरेण सकुटुम्बकः ।।८३।।
देहं त्यक्त्वा ययौ दिव्यगणो भूत्वा किलासकम् ।
यत्र रुद्रो महादेवो विराजते सतीपतिः ।।८४।।
रुद्रपुत्रोऽभवत्तत्र रुद्रगृहेऽवसत् सदा ।
भविता रुद्रसावर्णिर्मनुः साम्राज्यभोगवान् ।।८५।।
इत्येवं ते कथितोऽयं मनुर्द्वादशसंख्यकः ।
त्रयोदशं मनुं देवसावर्णिं शृणु पद्मजे ।।८६।।
ब्राह्मणोऽभूत् पुरा केतुमाले दीनानदीतटे ।
वैष्णवो यज्ञभागादितत्परो देवपूजकः ।।८७।।
षोडशाद्युपचारै सः सूर्यं विष्णुं सतीं हरम् ।
गणेशं पूजयत्येव तर्पयत्येव वै पितॄन् ।।८८।।
यज्ञे देवान् घृताद्यैश्च तर्पयत्येव नित्यदा ।
तस्य चाहं प्रसन्नश्च यज्ञे तद्गोचरोऽभवम् ।।८९।।
वरार्थं रोधयामास ययाचे स वरोत्तमम् ।
साम्राज्यं तव पूजार्थं देवपूजार्थमित्यपि ।।3.156.९०।।
अन्ते ब्रह्मपदं चापि प्रदेहि मेऽध्वरायण ।
तथाऽस्त्विति मया दत्तो वरस्तस्मै महात्मने ।।९१ ।।
सुधर्मनाम्ने तस्मै वै वरं दत्वा तिरोऽभवम् ।
सोऽपि देहं परित्यज्य रुचेः प्रजापतेर्गृहे ।।९२।।
मालिन्यां पुत्र एवाऽसौ जातो देवाऽभिधः खलु ।
रौच्यः स भविता लक्ष्मि देवसावर्णिनामकः ।।९३।।
देवताश्च मिलित्वैव मनुत्वे स्थापनं तदा ।
करिष्यन्त्यस्य देवस्य त्रयोदशस्य वै मनोः ।।९४।।
रुचिर्वै ब्रह्मणः पुत्रो ब्रह्मचर्यमुवास ह ।
पितरस्तं तदा प्राहुर्गार्हस्थ्यं कुरु पुत्रक ।।९५।।
पुत्रेण पितॄणां स्याद्वै प्रोद्धारस्तृप्तिरित्यपि ।
ततः श्राद्धं चकाराऽसौ गार्हस्थ्यं प्रचकार ह ।।९६।।
मालिन्यां च सुतं रौच्यं जनयामास वै मनुम् ।
त्रयोदशो मनुः सोऽयं भविष्यति महाबलः ।।९७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नवमादित्रयोदशमनूनां प्राग्जन्मजन्मचरित्राणां निरूपणं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ।। १५६ ।।