लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६५

← अध्यायः १६४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १६५
[[लेखकः :|]]
अध्यायः १६६ →

श्रीनारायणीश्रीरुवाच-
जीवता तु जनेनाऽत्र सत्कार्यं कीदृशं शुभम् ।
कर्तव्यं येन सर्वत्र परत्र स सुखी भवेत् ।। १ ।।
श्रीपुरुषोत्तम उवाच-
मम पूजा प्रकर्तव्या परत्र परसौख्यदा ।
पितृपूजा प्रकर्तव्या देवपूजा तया शुभा ।। २ ।।
दानं श्रेष्ठं प्रकर्तव्यं जीवच्छ्राद्धं तथा शुभम् ।
यत्कृतेनेह हस्तेन लभ्यतेऽमुत्र तत्फलम् ।। ३ ।।
श्रीनारायणीश्रीरुवाच-
जीवच्छ्राद्धं कथं कीदृक् कर्तव्यं तद्विधिं वद ।
तत्र यद्यत्प्रदातव्यं तत्सर्वं मे प्रभो वद ।। ४ ।।
श्रीपुक्षोत्तम उवाच-
देवालये सतां वासे मठे चेश्वरसन्निधौ ।
विद्यालये यज्ञभूमौ पर्वते च नदीतटे ।। ५ ।।
वने तीर्थे चैत्यदेशे पावने च स्थलेऽपि वा ।
स्वगृहे नूतने कुर्याज्जीवच्छ्राद्धं सुखप्रदम् ।। ६ ।।
यदा तु चिन्तयेद्धर्मं श्राद्धं कर्तव्यमादरात् ।
श्रद्धया स्वकरेणैव हृदा भावनयाऽर्प्यते ।। ७ ।।
श्राद्धं तत् सर्वथा बोध्यं पञ्चधा तत्प्रकीर्त्यते ।
पारब्राह्मिकं च पैत्र्यं दैवमैश्वरं भौतिकम् ।। ८ ।।
बाल्ये वा यौवने वापि वार्धक्ये मृतिसन्निधौ ।
यदाकदाचित्कर्तव्यं पञ्चधाऽपि शुभैर्जनैः ।। ९ ।।
जीवच्छ्राद्धे कृते जीवो जीवन्नेव विमुच्यते ।
कर्म कुर्वन्नकुर्वन् वा ह्यज्ञानी ज्ञानवानपि ।। 3.165.१० ।।
श्रोत्रियश्चाप्यश्रोत्रियश्चातुर्वर्ण्यो हि मानवः ।
आश्रमस्थोऽपि वा त्यागी कुर्याच्छ्राद्धं हि पञ्चधा ।। ११ ।।
परंब्रह्म हरिं स्मृत्वा मन्दिरेषु महत्सु तु ।
हरये नित्यनैवेद्यं दद्याज्जीवन् जनो भुवि ।। १ २।।।
श्रीकृष्णाय महानैवेद्यकं दद्यान्नवं नवम् ।
षटपञ्चाशद्भोगरूपं जीवन्मोक्षे फलाय तत् ।। १ ३।।
नित्यं प्रातर्भगवते कृष्णनारायणाय ह ।
मुद्गलडुकदुग्धादि शर्करां चार्पयेत्तथा ।। १४।।
नागवल्लीदलं ताम्बूलकं दद्यात्तु तृप्तये ।
तत्फलं परलोके स्यात् स्वस्मै दात्रेऽक्षयं सुखम् ।। १५।।
मध्याह्नेऽपि प्रदद्याच्च मिष्टान्नानि शुभानि च ।
घृताऽऽज्यशर्कराक्तानि पक्वान्नानि समर्पयेत् ।। १६।।
शाकानि द्विदलाः सूपं भक्तं विविधपाचितम् ।
पोलिकाः पूरिकाः दुग्धपाकं क्षीरादि चार्पयेत् ।।१७।।
आरनालानि रम्याणि वेषवारयुतानि च ।
भक्ष्यभोज्यानि लेह्यानि चोष्याण्यपि फलानि च ।। १८।।
कन्दपुष्पदलपत्रग्रन्थीन् दद्यात्तु भोजने ।
देवदेवाय कृष्णाय सर्वश्रीसहिताय वै ।। १ ९।।
नित्यमेवं राजभोगान् दद्यात् स्वर्णादिनिर्मिते ।
स्थाले पात्रे च पात्रेषु प्रत्यक्षं श्राद्धमेव तत् ।। 3.165.२० ।।
जीवता जीविका दत्ता वृत्तिरूपा तु शार्ङ्गिणे ।
फलत्येवाऽक्षरे धाम्नि गोलोके श्रीपुरेऽपि सा ।।२१ ।।
परमेशाय दत्तं तत् सर्वं भवति चाक्षयम् ।
प्राप्यते मुक्तभावेऽपि प्रत्यर्पितं तु शार्ङ्गिणा ।।२२।।
गोलोके वापि वैकुण्ठेऽव्याकृतेऽप्यमृतेऽपि च ।
दत्तमत्र तदीशायाऽनन्तगुणमवाप्यते ।।२३।।
एवं जलानि मिष्टानि शीतानि मधुराणि च ।
दातव्यानि श्रीहरये सर्वर्तुवाञ्च्छितानि च ।। २४।।।
वृत्त्यात्मकानि दत्तानि प्राप्यन्ते तानि तृप्तये ।
एवं लक्ष्मि प्रदेयानि मुखवासानि शुद्धये ।।।२५।।
तान्यपि त्वङलवंगैलाकपूर्रवीटिकास्तथा ।
पूगीचूर्णखदिरादिचूर्णमिष्टफलानि च ।।२६।।
अथोत्थानसमयेऽपि जलं फलं दलं तथा ।
भोजनार्थं प्रदेयानि चोष्णशीतानि यानि च ।।रे७।।
घृतपक्वानि सर्वाणि तैलपक्वानि यानि च ।
वह्निपक्वानि सर्वाणि सूर्यपक्वानि यानि च ।।२८।।
ऋतुपक्वानि भक्ष्याणि सुगन्धिरसवन्ति च ।
प्रदेयानि श्रीहरये तृतीयप्रहरे सदा ।।२९।।
सायं भोजनपानार्थं पूरिकाः पोलिकास्तथा ।
दुग्धं शाकं चारनालं दद्याच्छ्रीहरये जलम् ।।3.165.३०।।
नित्यमेव प्रदद्याद्वै वृत्त्यर्थं वाटिकां दिशेत् ।
क्षेत्राणि चाऽर्पयेत् सौधं भवनानि तथाऽर्पयेत् ।।३ १ ।।
ग्रामान् गृहं च पृथिवीं दद्याज्जीवनवृत्तिदाम् ।
अनादिश्रीकृष्णनारायणाय परमात्मने ।।३।।
जीविकां बन्धयेत् पूजाप्रवाहार्थं धनैरपि ।
एवं यः श्रद्धया कुर्याज्जीवच्छ्राद्धं तदुच्यते ।।३३।।
वर्षे वर्षे त्वेकवारं भोजनं जलसंयुतम् ।
यद्वा भवेत्तथा दद्यात् स्थालनैवेद्यनाणकम् ।।३४।।
प्रतिमासं च वा दद्यात् प्रत्युत्सवं तथाऽर्पयेत् ।
प्रतिपक्षं दिशेद्वापि प्रतिपर्व दिशेदपि ।।३५।।
एवं श्रीहरये दत्ता जीविका वृत्तिरुत्तमा ।
अक्षयाय फलायैषा नित्यतृप्तिप्रदा भवेत् ।।२६।।
पारब्राह्मं श्राद्धमेतल्लक्ष्मि प्रोक्तं मया तु तै ।
ऐश्वरं चापि वै श्राद्धं कथयामि तु तच्छृणु ।।३७।।
यत्र यत्र मेऽवतारप्रतिमाः सन्ति मन्दिरे ।
वासुदेवादयो व्यूहाः कपिलाद्याश्च साधवः ।।३८।।
श्रियो लक्ष्म्यः पार्षदाश्च पार्षदान्यश्च याः शुभाः ।
वैराजाद्या ईश्वराश्च तेभ्यो दद्यान्निवेद्यकम् ।।३९।।
मिष्टान्नं च जलं पेयं फलं कन्दं दलादिकम् ।
ताम्चूलकादिकं क्षीरं दद्याज्जीवन्मधु त्विह ।।3.165.४०।।
तत्सर्वमैश्वरं प्रोक्तं दत्तं प्रतिफलाय तत् ।
पैत्र्यं वदामि ते लक्ष्मि पितृभ्यः प्रतिपादितम् ।।४१ ।।
जले वा दर्भमूले वा वृक्षमूलेऽथ भूतले ।
विप्रहस्ते विप्रमुखे जीवन् दद्यात्तु तृप्तये ।।४२।।
आमपिण्डान् पक्वमिष्टान्नानि दद्यात्तु भोजने ।
शाकपत्रफलकन्दान् क्षीरं दद्यात्तु तृप्तये ।।४३।।
दैवं चापि प्रदद्याच्च श्राद्धं देवेभ्य आदरात् ।
आदित्येभ्यश्च रुद्रेभ्योऽश्विभ्यां वसुभ्य इत्यपि ।।४४।।
तथाऽन्यदेवताभ्यश्च दद्याद् यथेष्टकं शुभम् ।
दैवं श्राद्धं हि तत्प्रोक्तं विधिं वदामि संशृणु ।।४५ ।।
परीक्ष्य भूमिं विधिवद् गन्धपर्णरसादिभिः ।
अशल्यायां प्रकुर्याद्वै स्थण्डिलं सैकतं शुभम् ।।४६।।
मध्यतो हस्तमात्रं वा कुण्डं सुशोभनं परम् ।
उपलिप्य विधानेन चाऽऽलिप्याऽग्निं विधाय च ।।४७।।
अन्वाधाय यथाशास्त्रं परिगृह्य च सर्वतः ।
परिस्तीर्य यथाशास्त्रं पारम्पर्यक्रमागतम् ।।४८।।
समाप्याऽग्निमुखं सर्वं सम्पूज्य स्थण्डिलेऽनलम् ।
जुहुयात् समिदाद्यैश्च चरुणा च पृथक् पृथक् ।।४९।।
घृतेनाऽपि जुहुयाच्चोद्धृत्यात्मना सुरादिषु ।
सर्वतस्तत्त्वभूतानि जुहुयात् तृप्तये तदा ।।3.165.५०।।
ओं भूर्नमोऽनादिकृष्णनारायणाय शार्ङ्गिणे ।
ओं भूरनादिश्रीकृष्णनारायणाय च स्वाहा ।।५१ ।।
ओं भुवश्चाऽवतारेभ्यो नम ईश्वरेभ्यस्तथा ।
ओं भुवश्चावतारेभ्यः स्वाहा ईश्वरेभ्यस्तथा ।।५२।।
ओं स्वर्नमो जीवसृष्टिभ्यः पितृदेवतादिभ्यः ।
ओं स्वः स्वाहा जीवसृष्टिभ्यः पितृदेवतादिभ्यः ।।५३।।
ओं भूर्वेधसेऽस्तु नमः ओं भूर्वेधसे स्वाहा ।
ओं भुवर्विष्णवे नमः ओं भुवर्विष्णवे स्वाहा ।।५४।।
ओं स्वः शंकराय नमः ओं स्वः शंकराय स्वाहा ।
ओं महः सुरेशाय नमः ओं महः सुरेशाय स्वाहा ।।५५।।
ओं जनः पितृभ्यो नमः ओं जनः पितृभ्यः स्वाहा ।
ओं तपः प्रकृतये नमः ओं तपः प्रकृतये स्वाहा ।।२६।।
ओं सत्यं हरये नमः ओं सत्यं हरये स्वाहा ।
ओं कृष्णधरां मे गोपाय घ्राणे गन्धं देवाय कृष्णाय भूर्नमः ।।५७।।
ओं कृष्णधरां मे गोपाय
घ्राणे गन्धं कृष्णाय भू स्वाहा ।
ओं कृष्णधरां मे गोपाय
घ्राणे गन्धं कृष्णस्य पत्न्यै भूर्नमः स्वाहा ।।५८।।
ओं कृष्णधरां मे गोपाय घ्राणे गन्धं कृष्णपत्न्यै भूः स्वाहा ।
ओं हरे जलं मे गोपाय जिह्वायां रसं हरये भुवो नमः ।।५९।।
ओं हरे जलं मे गोपाय जिह्वायां रसं हरये भुवः स्वाहा ।
ओं हरे जलं मे गोपाय जिह्वायां रसं हरेः पत्न्यै भुवो नमः ।।3.165.६०।।
ओं हरे जलं मे गोपाय जिह्वायां रसं हरेः पत्न्यै भुवः स्वाहा ।
ओं परेशाऽग्निं मे गोपाय नेत्रे रूपं परेशाय स्वरो नमः ।।६१ ।।
ओं परेशाऽग्नि मे गोपाय नेत्रे रूपं परेशायस्वः स्वाहा ।
ओं परेशाऽग्नि मे गोपाय नेत्रे रूपपरेशपत्न्यै स्वरों नमः ।।६२।।
ओं परेशाऽग्निं मे गोपाय नेत्रेरूपं परेशपत्न्यै स्वः स्वाहा ।
ओं ब्रह्म वायु मे गोपाय त्वचि स्पर्शं ब्रह्मणे देवाय महर्नमः ।।६३ ।।
ओं ब्रह्म वायुं मे गोपाय
त्वचि स्पर्शं ब्रह्मणे देवाय महः स्वाहा ।
ओं ब्रह्म वायुं मे गोपाय
त्वचि स्पर्शं ब्रह्मपत्न्यै महरों नमः ।। ६४।।
ओं ब्रह्म वायुं मे गोपाय
त्वचि स्पर्शं ब्रह्मपत्न्यै महः स्वाहा ।
ओं परव्योम सुषिरं मे गोपाय
श्रोत्रे शब्दं परव्योम्ने जनो नमः ।। ६५।।
ओं परव्योम सुषिरं मे गोपाय
श्रोत्रे शब्दं परव्योम्ने जनः स्वाहा ।
ओं परव्योम सुषिरं मे गोपाय
श्रोत्रे शब्दं परव्योमपत्न्यै जनो नमः ।। ६६।।
ओं परव्योम सुषिरं मे गोपाय
श्रोत्रे शब्दं परव्योमपत्न्यै जनः स्वाहा ।
ओं मुक्तेशरजो मे गोपाय
द्रव्ये तृष्णां मुक्तेशाय तपो नमः ।। ६७। ।
ओं मुक्तेशरजौ मे गोपाय
द्रव्ये तृष्णां मुचोशाय तपः स्वाहा ।
ओं मुक्तेशरजो मे गोपाय
द्रव्ये तृष्णां मुक्तेशपत्न्यै तपो नमः । । ६८ । ।
ओं मुक्तेशरजो मे गोपाय
द्रव्ये तृष्णां मुक्तेशपत्न्यै तपः स्वाहा ।
ओं बालकृष्ण सत्यं मे गोपाय
श्रद्धां धर्मे बालकृष्णाय सत्यं नमः ।। ६९।।
ओं बालकृष्ण सत्यं मे गोपाय
श्रद्धां धर्मे बालकृष्णाय सत्यं स्वाहा ।
ओं बालकृष्ण सत्यं मे गोपाय
श्रद्धां धर्मे बालकृष्णपत्न्यै सत्यं नमः ।।3.165.७० ।।
ओं बालकृष्ण सत्यं मे गोपाय
श्रद्धां धर्मे बालकृष्णपत्न्यै सत्यं स्वाहा ।
ओं जीवपते जीवनं मे गोपाय
चेष्टं परत्र जीवपतये जीवनं नमः । ।७१ ।।
ओं जीवपते जीवनं मे गोपाय
चेष्टं परत्र जीवपतये जीवनं स्वाहा ।
ओं जीवपते जीवनं मे गोपाय
चेष्टं परत्र जीवपतेपत्न्यै नमः स्वाहा । ।७२।।
ओं जीवपते जीवनं मे गोपाय
चेष्टं परत्र जीवपतिपत्न्यै जीवनं स्वाहा ।
ओ परब्रह्मणे नमः श्रीपुरुषोत्तमाय स्वाहा ।।७३।।
ओं पित्रे नमः पित्रे स्वाहा प्रपित्रे नमः प्रपित्रे स्वाहा ।
ओं प्रपितामहाय नमः प्रपितामहाय स्वाहा ।।७४।।
ओं भूतेभ्यो नमो भूतेभ्यः स्वाहा ।
ओं सूक्ष्मेभ्यो नमो मात्राभ्यः स्वाहा ।।७५।।
ओमिन्द्रियेभ्यो नम इन्द्रियेभ्यः स्वाहा ।
ओं प्राणेभ्यो नमः प्राणेभ्यः स्वाहा ।।७६।।
ओमन्तःकरणेभ्यो नमोऽन्तःकरणेभ्यः स्वाहा ।
ओमात्मने नम आत्मने स्वाहा ।।७७।।
ओं कृष्ण धरां ये छिन्धि घ्राणे गन्धं
छिन्धि मेऽघं भूः स्वाहा भुवः स्वाहा स्वः स्वाहा ।।७८।।
एवं पृथक् पृथक् हुत्वा केवलेन घृतेन वै
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।।७९।।
महालक्ष्मीं घृतेनैव शतमष्टोत्तरं पृथक् ।
प्राणादिभिश्च जुहुयाद् घृतेनैव च केवलम् ।।3.165.८० ।।
ओं प्राणे निविष्टोऽमृतं जुहोमि ।
हरिर्माऽऽविश प्रदाहाय प्राणाय स्वाहा ।
प्राणाऽधिपतये श्रीहरये परब्रह्मणे कृष्णाय स्वाहा ।।८१ ।।
ओं भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहा ।
एवं क्रमेण जुहूयात् श्राद्धोक्तं च यथायथम् ।।८२।।
पूर्णाहुतिं ततो दद्यात् तृप्तये परमात्मनः ।
परमात्मपत्न्याश्चापि तृप्तये चार्पयेत्ततः ।।८३।।
समाप्यैवं सुरान् पितॄन् स्वं नाम्ना चापि वै दिशेत् ।
भूतादीन् सम्प्रदद्याच्च ऋणवद्भ्यस्तथाऽर्पयेत् ।।८४।।
अनृणी च ततो भूत्वा योगीन्द्रान् भोजयेद् बहून् ।
साधून् सतः सतीः साध्वीर्भोजयेद् बालबालिकाः ।।८५।।
बान्धवान् भोजयेच्चापि दिव्यान् गुरून् प्रभोजयेत् ।
वैष्णवानां च पात्राणां वस्त्राभरणकम्बलान् ।।८६।।
वाहनं शयनं यानं कांस्यताम्रादिभाजनम् ।
हैमं च राजतं धेनुं तिलान् क्षेत्रं च वैभवान् ।।८७।।
दासीदासगणाँश्चापि दद्याच्च दक्षिणामपि ।
पिण्डं च सुरसं दद्यात् पृथगष्टप्रकारतः ।।८८।।
त्र्यहं श्रीविष्णवे दद्याच्चरुं च क्षीरभोजनम् ।
मृते कुर्यान्न कुर्याद्वा जीवन् कुर्यान्मृतो लभेत् ।।८९।।
एवं कृत्वा मृतस्याऽत्र शौचाशौचं न विद्यते ।
जीवन्मुक्तो यतः सोऽस्ति तस्य वै सूतकं नहि ।।3.165.९०।।
दाहकानां स्नानमात्रं सूतकं नाऽधिकं ततः ।
तद्वंशे कन्यका पुत्रो यः कोऽपि वंशवर्धनः ।।९१ ।।
सोऽपि मुक्तो भवत्येव पित्रुद्धारकरो भवेत् ।
मुच्यन्ते जीवतः श्राद्धात् पितरो नरकादपि ।।९२।।
मुच्यते कर्मणाऽनेन मातापितृऋणादयम् ।
कालं प्राप्ते गर्तवासो दहनं जलवाहनम् ।।९३।।
यद्भवेत् सर्वमेवाऽस्य मोक्षार्थं दोषवर्जितम् ।
स्वेनैव स्वकृतं कार्यं तस्मादृणं विलीयते ।।९४।।
भौतिकं गोपशुभ्यश्च दद्याच्छुकादिपक्षिणे ।
कीटपतंगप्राणिभ्यो मत्स्यादिभ्यो दिशेदपि ।।९५।।
वृक्षादिभ्यो ददेद्वारि कणान् देहिभ्य इत्यपि ।
भिक्षुकेभ्योऽर्पयेदन्नं वस्त्रं पात्रं समर्पयेत् ।।९६।।
यथाशक्ति दिशेद् यस्तु स्वेन हस्तेन सर्वथा ।
मृतस्याऽस्य द्वादशाहप्रतीक्षा नैव विद्यते ।।९७।।
याति शीघ्रं विमानेन पुण्यलोके वृषेस्थितः ।
आतिवाहिकदेवास्तं यद्वा नयन्ति चोर्ध्वगाः ।।९८।।
एवं लक्ष्मि प्रकर्तव्यं श्राद्धं जीवत्प्रदानकम् ।
भुक्तिमुक्तिप्रदं स्यात्तत् स्वकरोपार्जिताऽर्पणम् ।।९९।।
स्वेनहस्तेन पचनं स्वेन हस्तेन भक्षणम् ।
स्वेन हस्तेनाऽर्जनं च स्वेन हस्तेन दानकम् ।।3.165.१ ००।।
यः करोति जयत्यत्र परत्राऽपि जयत्यपि ।
एतच्छ्रवणतश्चापि तथापुण्ययुतो भवेत् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने जीवच्छ्राद्धविधिनिरूपणनामा पञ्चषष्ट्यधिकशततमोऽध्यायः ।। १६५ ।।