लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६७

← अध्यायः १६६ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १६७
[[लेखकः :|]]
अध्यायः १६८ →

श्रीनारायणीश्रीरुवाच-
आपद्गतस्य भक्तस्य भक्तायास्तव केशव ।
आपन्नाशः कथं स्याच्च पापनाशः कथं भवेत् ।। १ ।।
श्रीपुरुषोत्तम उवाच-
अव्रतस्याऽप्यशक्तस्य ज्ञानहीनस्य देहिनः ।
आपत्पापादिनाशार्थं स्तोत्रं व्यापहनं मतम् ।। २ ।।
एकाग्रमानसो भूत्वा स्तुवीत परमेश्वरम् ।
अवताराँस्तथा मुक्तानीश्वरान् पितृदेवताः ।। ३ ।।
ऋषीन् गुरून् भागवतान् साधून् भक्तान् स्तुवीत च ।
अनन्यशरणो भूत्वा प्रार्थयेत् सुखवान् भवेत् ।। ४ ।।
सर्वसिद्धिप्रदं स्तोत्रं दिव्यं वदामि ते रमे ।
श्रोतुर्वक्तुर्वाचयितुः सर्वेष्टानां द्रुतं प्रदम् ।। ५ ।।
 'नमोऽनादिकृष्णनारायणाय परमात्मने ।
महाभगवते मुक्ताऽक्षरेशाय परात्मने ।। ६ ।।
सृष्टित्रयाधिनाथाय सर्वान्तर्यामिणे नमः ।
परब्रह्मणे पुरुषोत्तमाय चावतारिणे ।। ७ ।।
सर्ववित् सर्ववासः श्रीनिवासः सर्वसंस्थितः ।
पराऽक्षरस्थो मुक्तेशश्चापत्पापं व्यपोहतु ।। ८ ।।
अवतारी परब्रह्म दिव्यात्मा श्रीनरायणः ।
परमेशो हि भगवानापत्पापं व्यपोहतु ।। ९ ।।
अनाद्यनन्तः सर्वेशः सर्वविद्याधरो हरिः ।
सर्वप्रदः सुखदश्च पापाऽऽपदो व्यपोहतु ।। 3.167.१ ०।।
अणोरणीयान्महतो महीयान् विश्वपूजितः ।
अनादिश्रीकृष्णनारायणः पापं व्यपोहतु ।। १ १।।
ब्रह्मप्रियाप्रियः कान्तः शान्तः स्नेहभरः प्रभुः ।
हरिप्रियामनोहारी पायाऽऽपदो व्यपोहतु ।। १२।।
मुक्तमण्डलसंसेव्यो मुक्तानिकाप्रसेवितः ।
कमनीयः परः कान्तः पापाऽऽपदो व्यपोहतु ।। १३।।
अवतारी परिपूर्णः परब्रह्म परात्परः ।
परावरेशः परमः पापाऽऽपदो व्यपोहतु ।। १४।।
श्रीपतिः श्रीधरः श्रीहृत् श्रीमान् श्रीदः श्रियाऽन्वितः ।
श्रीपादः श्रीहरिः कृष्णः पापाऽऽपदो व्यपोहतु ।। १५।।
लक्ष्मीपतिर्लक्ष्मीधरो लक्ष्मीहृत् लक्ष्मदाऽन्वितः ।
लक्ष्मीसेवाऽतिसन्तुष्टः पापाऽऽपदो व्यपोहतु ।। १६।।
राधापतिश्च राधाधृग् राधाहृद्राधिकाऽन्वितः ।
राधात्मा राधिकाकृष्णः पापाऽऽपदो व्यपोहतु ।। १७।।
माणिकीवाहनो माणिकीश्वरो माणिकीप्रभुः ।
माणिक्याऽभिनवहारः पापाऽऽपदो व्यपोहतु ।। १८।।
गोलोकेशो गोपिकेशो गोपीगोपप्रपूजितः ।
गोपालकृष्णो गोधृङ् मे पापाऽऽपदो व्यपोहतु ।। १ ९।।
नृवरो नृपतिर्नाथो नारायणो नरोत्तमः ।
वैकुण्ठवासी भगवान् पापाऽऽपदो व्यपोहतु ।।3.167.२०।।
वसुदो वासुदेवश्च धर्मार्थकाममोक्षदः ।
अमृतादोऽमृतदो ये पापाऽऽपदो व्यपोहतु ।।२१ ।।
भूमिदो भूस्थितो भूमा भूमतां भाग्यवर्धनः ।
भूसत्ताऽव्याकृतस्वामी पापाऽऽपदो व्यपोहतु ।।२२।
वेदाऽवनो धराधृक्च मन्द्रधृग् ज्ञानधृग् हरिः ।
गोधृग् गोदोहनो हंसः पापाऽऽपदो व्यपोहतु ।।२३।।
तापसो वत्सलः साधुर्भिक्षुः क्रूरोऽध्वरो वनी ।
बालो भिषग्वरः क्लेशी पापाऽऽपदो व्यपोहतु ।।२४।।
सम्राट् शास्त्री कृष्णकान्तः प्राज्ञोऽवतारकारणम् ।
आवेशोंऽशः कला भूतिः पापाऽऽपदो व्यपोहतु ।।२५।।
पूर्णः परो व्यूह ऐशोऽन्तर्याम्यर्चा स्वरूपकृत् ।
विभवश्चैत्यः सुन्यासी पापाऽऽपदो व्यपोहतु ।।२६।।
सर्वधामनिवासो योऽनेकरूपः परेश्वरः ।
जडचेतनशास्ता मे पापाऽऽपदो व्यपोहतु ।।२७।।
नारायणी श्रीपुरेशी माधवी पुरुषोत्तमी ।
कार्णीं श्रीललितालक्ष्मीः पापाऽऽपदो व्यपोहतु ।।२८।।
भार्गवी दुःखहालक्ष्मीः शिवराज्ञी च वैष्णवी ।
पद्मिनिका पद्मजा मे पापाऽऽपदो व्यपोहतु ।।२९।।
कंभराश्रीर्महालक्ष्मीर्वासुदेवी परेश्वरी ।
आक्षरी श्रीर्भगवती पापाऽऽपदो व्यपोहतु ।।3.167.३०।।
पौरुषी प्राकृती देवी मायेशी पार्वती प्रभा ।
पारब्राह्मी रमा माता पापाऽऽपदो व्यपोहतु ।।३ १ ।।
भूम्नी पद्मा च वैराजी गंगा रेवा सरस्वती ।
गायत्री गोमती गोपी पापाऽऽपदो व्यपोहतु ।।।३५।।
सादाशैवी च माहेशी ब्राह्मी ब्रह्मप्रिया सती ।
साध्वी च स्वामिनी चान्द्री पापाऽऽपदो व्यपोहतु ।। ३३।।
हिरण्मयी कानकी च हरिणी स्वर्णरूपिणी ।
वैकुण्ठा तूलसी वृन्दा पापाऽऽपदो व्यपोहतु ।।३४।।
सिद्धा पैत्री सिद्धिरूपा चमत्कृतिः सुधैनवी ।
सुधाऽमृता पाशवती पापाऽऽपदो व्यपोहतु ।।३५।।
प्रभा सौरी पार्षदानी चैश्वरी देवता रतिः ।
प्रीतिर्भक्तिर्व्रतरूपा पापाऽऽपदो व्यपोहतु ।।३६।।
सौम्या पुरातनी दिव्या सन्तुष्टा तृप्तिरब्जिका ।
कमलाऽम्बा शारदा मे पापाऽऽपदो व्यपोहतु ।।३७।।
ऐन्द्री चानन्दमात्रा च चिच्छक्तिर्ज्ञानरूपिणी ।
योगिनी नैष्ठिकी हृत्स्था पापाऽऽपदो व्यपोहतु ।।३८।।
मोहिनी नन्दिनी पद्मेक्षणोर्वशी पतिव्रता ।
जननी स्वर्णवर्णा मे पापाऽऽपदो व्यपोहतु ।।३९।।
पुण्या च पावनी विद्या धनदा वित्तधारिणी ।
आर्त्तिहाऽब्धिसुता शान्ता पापाऽऽपदो व्यपोहतु ।।3.167.४० ।।
भावज्ञा भुक्तिमुक्त्यादिप्रदा भक्ताऽभयंकरी ।
सर्वार्धांगा जीवनी श्रीः पापाऽऽपदो व्यपोहतु ।।४१ ।।
सौभाग्ययुक्ता शोभाढ्या सर्वाभरणभूषिता ।
सर्वशृंगारदीप्तांगा पापाऽऽपदो व्यपोहतु ।।४२।।
सस्यलक्ष्मीः रत्नलक्ष्मीः सम्पल्लक्ष्मीः कुटुम्बिनी ।
धान्याऽन्नधारिणी गौरी पापाऽऽपदो व्यपोहतु ।।।४३।।
रोहिणी पोषणकर्त्री कन्यका नवयौवना ।
रामयित्री सुरामा मे पापाऽऽपदो व्यपोहतु ।।४४।।
सत्त्वमयी सत्त्वदात्री सत्त्वध्रा सत्त्वयोगिनी ।
सात्त्विकी सच्चिदानन्दा पापाऽऽपदो व्यपोहतु ।।४५।।
मुक्ताश्च पार्षदा भक्ता भक्तान्यः साध्य ईश्वराः ।
ईश्वराण्यो महामुक्ता व्यपोहन्त्वघमापदः ।।४६।।
शंखश्चक्रं गदा पद्मं कौस्तुभो मुकुटो हरेः ।
वनमाला पुष्पमाला व्यपोहन्त्वघमापदः ।।४७।।
यष्टिश्छत्रं चामरं चांगदश्च कटकस्तथा ।
शृंखला रशना कार्ष्णी व्यपोहन्त्वघमापदः ।।४८।।
गुणैश्वर्याणि सर्वाणि चमत्काराश्च सिद्धयः ।
शक्तयः श्रीहरेः सर्वा व्यपोहन्त्वघमापदः ।।४९।।
शालग्रामस्तथा शालंकायनर्षिश्च गण्डकी ।
त्रिवेणी शालवृक्षश्च व्यपोहन्त्वघमापदः ।।3.167.५०।।
बदरी बदरीवासाः ऋषयश्च नरो हरिः ।
गंगा हिमाश्रयो हैमा व्यपोहन्त्वघमापदः ।।।५१ ।।
शेषशायी क्षीरनिधिः क्षीरजा श्वेतभोगिराट् ।
निरन्नमुक्तभक्ताश्च व्यपोहन्त्वघमापदः ।।।५२।।
ब्रह्मा विष्णुः शंकरश्च गणेशश्च प्रभाकरः ।
गणा रुद्राश्च रुद्राण्यो व्यपोहन्त्वघमापदः ।।५३ ।।
सिद्धा यक्षाश्च गन्धर्वाश्चन्द्रस्ताराश्च तैजसाः ।
ग्रहाश्च केतवश्चापि व्यपोहन्त्वघमापदः ।।५४।।
हंसो गरुडो वृषभः सिंहश्च हरिणो गजः ।
शेषः शिखी टिव्यवाहा व्यपोहन्त्वघमापदः ।।।५५।।
कार्तिकेयो महाकालो महावज्रं त्रिशूलकम् ।
कालदण्डो हेतयस्ते व्यपोहन्त्वघमापदः ।।।५६।।
आदित्या वसवो रुद्रा अश्विनावीश्वरेश्वराः ।
दिक्पाला लोकपालाश्च व्यपोहन्त्वघमापदः ।।।५७।।
गगनं स्पर्शनं तेजो रसश्च पृथिवी तथा ।
तन्मात्राणि तथा प्राणा व्यपोहन्त्वघमापदः ।।५८।।
साध्या विश्वे मरुतश्च किन्नरा गुह्यकास्तथा ।
गन्धर्वा किंपुरुषका व्यपोहन्त्वघमापदः ।।५९।।
देवानां मातरश्चापि गणानां मातरस्तथा ।
भूतानां मातरः सर्वा व्यपोहन्त्वघमापदः ।।3.167.६० ।।
अप्सरसस्तथा देव्यो राशयस्तिथयस्तथा ।
पक्षा मासा वत्सराश्च व्यपोहन्त्वघमापदः ।।६१ ।।
ज्वरा रोगाश्च ऋतवः ऋणानि राक्षसास्तथा ।
दैत्याश्च दानवा दुष्टा व्यपोहन्त्वघमापदः ।।६२।।
सागराः सरितः कूपास्तडागानि च दीर्घिकाः ।
वाप्यः सरांसि वरुणो व्यपोहन्त्वघमापदः ।।६३।।
गावो याः कामवर्षिण्यः कल्पपूराश्च वल्लिकाः ।
तथा च कल्पतरवो व्यपोहन्त्वघमापदः ।।६४।।
यज्ञा यज्ञक्रियाश्चापि विधयः श्रतयोऽपि च ।
ऋचः सामानि छन्दांसि व्यपोहन्त्वघमापदः ।।६५९।।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः सर्वज्ञो व्यपोहन्त्वघमापदः ।।६६।।
पावकः पावनो वह्निः सप्तार्चिः सप्तजिह्विकः ।
स्वर्णपिता ब्रह्ममुखं पापाऽऽपदो व्यपोहतु ।।६७।।
दानं दमो दया दैवं देवा देव्यश्च साधवः ।
सन्तः सत्पुरुषाः पुण्या व्यपोहन्त्वघमापदः ।।६८।।
वृद्धा वन्द्या भागवता भक्ताश्चैकान्तिनो हरेः ।
दैवज्ञा देवपुरुषा व्यपोहन्त्वघमापदः ।।६९।।
व्रतानि पुण्यकर्माणि सुकृतानि प्रसेवनम् ।
सेवा श्रद्धा भावना च व्यपोहन्त्वघमापदः ।।3.167.७० ।।
योगा ज्ञानानि सर्वाणि सत्यं वैराग्यमीशिता ।
उपासना हरेराज्ञा व्यपोहन्त्वघमापदः ।।७१ ।।
गृहदेवा ग्रामदेवाः क्षेत्रदेवाश्च सीमगाः ।
द्वारदेवा बहिर्देवा व्यपोहन्त्वघमापदः ।।७२।।
वास्तुदेवाः श्राद्धदेवा मखदेवा महोत्सवाः ।
तीर्थानि देववासाश्च व्यपोहन्त्वघमापदः ।।७३ ।।
देवालया मन्दिराणि मठाः कथास्थलानि च ।
मुक्तिक्षेत्राणि सर्वाणि व्यपोहन्त्वघमापदः ।।७४।।
मातरः पितरः श्रेष्ठा बान्धवाश्च सतीश्रियः ।
भक्ता बाला बालिकाश्च व्यपोहन्त्वघमापदः ।।७५।।
प्रायश्चित्तानि सर्वाणि दर्भाश्च देवहेतयः ।
हव्यकव्यानि दैवानि व्यपोहन्त्वघमापदः ।।७६।।
देवरथा देवयाना देवमार्गाश्च देवताः ।
आतिवाहिकदेवाश्च व्यपोहन्त्वघमापदः ।।७७।।
विद्युतश्च घना मेघा भूकम्पा ईतयस्तथा ।
बलिहाराश्च ये देवा व्यपोहन्त्वघमापदः ।।७८।।
निधयश्च दिशाश्चापि मनवश्च कलास्तथा ।
चतुर्दशभवनानि व्यपोहन्त्वघमापदः ।।७९।।
व्याहृतयः प्राणयमा याम्याश्च धर्मवंशजाः ।
धर्मदेवश्च तत्पत्न्यो व्यपोहन्त्वघमापदः ।।3.167.८०।।
कुण्डमण्डपदेवाश्च ध्वजशाखानिवासिनः ।
समित्पात्रादिदेवाश्च व्यपोहन्त्वघमापदः ।।८ १।।
सद्गुरोश्चरणौ लक्ष्मि चरणामृतवारि च ।
गुरुभुक्तप्रसादश्च व्यपोहन्त्वघमापदः ।।८२।।
सतीपतिपादवारि साधुचरणवारि च ।
विष्णुपादोदकं पुण्यं व्यपोहन्त्वघमापदः ।।८३।।
सतां समागमः सेवाऽऽश्रयश्चाऽऽज्ञावचांसि च ।
प्रसन्नताऽऽशीर्वादाश्च व्यपोहन्त्वघमापदः ।।८४।।
मातृतीर्थं पितृतीर्थं गुरुतीर्थं तथोत्तमम् ।
पतितीर्थं सतीतीर्थं व्यपोहन्त्वघमापदः ।।८५।।
गोतीर्थं चाऽवभृथतीर्थं पंक्तितीर्थं च दक्षिणम् ।
सन्यासतीर्थं मन्त्रश्च व्यपोहन्त्वघमापदः ।।८६।।
यज्ञोपवीतकं कण्ठी तौलसेयी समर्पणम् ।
आत्मनिवेदिताख्यं च व्यपोहन्त्वघमापदः ।।८७।।
योगित्वं साधुता नैष्ठिकता श्रोत्रियता तथा ।
ब्रह्मसत्ता भक्तता च पावयन्तु हि मां सदा ।।८८ ।।
पावनी कुंकुमवापी पावनः श्रीनरायणः ।
पावनीश्रीः पावयन्तु मां सदा शरणागतम् ।।८९।।
धर्मो विष्णुः श्रीश्च भक्तिः सेवा मां पावयन्त्विह ।
एषः समर्पितश्चाऽस्मि तं मां भक्तं पुनन्त्विह ।।।3.167.९० ।।
एवं स्तुवन् नमेद् भूमौ लक्ष्मि पावनवृत्तिमान् ।
आपदस्तस्य नश्यन्ति निवर्तन्ते ह्यघानि च ।।९१।।
व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि ।
पत्रं पुष्पाद्यर्पयेश्च शुद्धो भवति तत्क्षणात् ।।९२।।
कन्यार्थी लभते कन्यां जयकामो जयं लभेत् ।
अर्थकामो लभेदर्थं पुत्रकामः सुतान् लभेत् ।।९३।।
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् ।
सम्पदर्थी सम्पदश्च राज्यार्थी राज्यमाप्नुयात् ।।९४।।
स्वर्गार्थी स्वर्गमादद्यान्मोक्षार्थी मोक्षमाप्नुयात् ।
दुःखनाशाभिलाषी च दुःखनाशमवाप्नुयात् ।।९५।।
पत्यर्थिनी पतिं रम्यं धनार्थिनी धनं लभेत् ।
सुखार्थिनी सुखं चापि सौभाग्यं लभते तथा ।।९६।।
यशोऽर्थिनी यशश्चापि प्राधान्यं लभते तथा ।
यान् यानर्थयते कामान् सर्वानवाप्नुयात् स्तवी ।।९७।।
पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते ।
तस्य रोगा न बाधन्ते वातपित्तादिसंभवाः ।।९८।।
नाऽमृत्युर्भवेत्तस्य न दंष्ट्राविषसंगमः ।
नाऽकालदुःखवाँश्चापि भवेद् व्यपोहनस्तवी ।।९९।।
सर्वतीर्थप्रपुण्यानि यज्ञपुण्यानि यानि च ।
दानव्रतानां पुण्यानि लभेद् व्यपोहनस्तवी ।। 3.167.१० ०।।
गोघ्नः कृतघ्नो वीरहा ब्रह्महा बालहा तथा ।
शरणागतहा मित्रविश्वासघातकोऽपि च ।। १०१ ।।
मातृहा पितृहा नारीहा तथा पशुघातकः ।
व्यपोह्य सर्वपापानि शुद्धो भवति संस्तवी ।। १ ०२।।
भक्तिं कृत्वा सर्वपुण्यो याति मोक्षप्रदं ततः ।
अगतिकस्य गतिदं स्तोत्रं व्यपोहनं त्विदम् ।। १ ०३।।
लक्ष्मि स्तुत्वाऽनेन मां तु नमेत् प्रप्रार्थयेत्ततः ।
ध्यात्वा ब्रह्ममयो भूत्वा मुच्यते बन्धनादितः ।। १ ०४।।
एतदुच्चार्य भावेन स्तोतव्यं नावशिष्यते ।
तस्मादापत्प्रदे काले व्यपोहनं समुच्चरेत् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वाऽऽपत्पापबन्धनादिनाशार्थकं व्यपोहनस्तवनमुक्तमिति सप्तषष्ट्यधिकशततमोऽध्यायः ।। १६७ ।।