लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १९२
← अध्यायः १९१ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः १९२ [[लेखकः :|]] |
अध्यायः १९३ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां भक्तस्य पावनीम् ।
पुरा धनिष्ठकोषाख्यो विप्रोऽभवद् धनादिमान् ।। १ ।।
यज्ञयागकरश्चापि पञ्चायतनपूजकः ।
भक्तिपरोऽतिदानी च गोसहस्रधनस्तथा ।। २ ।।
क्षेत्रवाट्यरण्यपतिर्व्यवसायोद्यमान्वितः ।
लक्षाणि स्वर्णरूप्याणां यत्कोषे सन्ति वै सदा ।। ३ ।।
राजमान्योऽपि बहुधा युद्धपुरेशमानितः ।
राजा मालवसिंहश्च नित्यं ताम्बूलकं शुभम् ।। ४ ।।
ददात्यस्मै महासौधे सभायां गौरवोर्जितम् ।
राज्यातिदुर्वहे कार्येऽस्यैवाऽनुमतिमृच्छति ।। ५ ।।
यथामुख्यप्रधानं वै तथा विप्रं समर्हति ।
उत्सवेषु समस्तेषु विहारेषु प्रपासने ।। ६ ।।
समाजेषु शुभे सर्वविधेये मनुते द्विजम् ।
प्रजानामनुरागश्चाऽभवद्धनिष्ठकोषके ।। ७ ।।
धनानां स प्रदानं वै साहाय्यार्थं प्रजासु ह ।
प्रकरोति विना लेखं वचोमूल्यं हि सत्यता ।। ८ ।।
दीनानां च दरिद्राणामनाथानां च योषिताम् ।
साधूनां भिक्षुकाणां च वस्त्राऽन्नादिसहायकृत् ।। ९ ।।
गृहदानानि बहूनि मन्दिराणि बहून्यपि ।
धर्मशालाः साधुमठानुद्दधार सुजीर्णितान् ।। 3.192.१ ०।।
प्रपास्तथाऽन्नसत्राणि कारयामास राजवत् ।
राजाऽपि तेन सर्वत्र साहाय्यदोऽस्य वर्तते ।। ११ ।।
धनिष्ठकोषो नित्यं मां भजते परमेश्वरम् ।
स्नात्वा सम्पूज्य मां भूपं मिलित्वाऽथ ततः परम् ।। १२।।
पञ्चदेवादिकान्नत्वा भुंक्ते नित्यं न चान्यथा ।
कुटुम्बं तस्य भक्तं मे सदा मां भजते रमे ।। १ ३।।
अथ राज्यमदो लक्ष्मि मदो धनस्य वै तथा ।
यौवनस्य मदश्चापि विपथं नयते जनम् ।। १४।।
इन्द्रियाणां प्रवेगश्च विषयाणामुपस्थितिः ।
मनसश्चापि चाञ्चल्यं भक्तं क्षिपति कल्मषे ।।१५।।
नित्यं नृत्यस्य योगे वा नित्यं वाद्यसमाजके ।
नित्यं शृंगारभावो वा रजोभावो विवर्धते ।। १ ६।।
नित्यं विषययोगाश्च नित्यं पदार्थयोगिता ।
हरते वेगवच्चित्तं निम्नगमनशालि यत् ।। १७।।
तथैवाऽस्य सुभक्तस्य राजसंसदि वर्तनम् ।
वारांगनादिनृत्येषु ह्युपस्थितिर्निशादिषु ।। १८।।
दासीनां सहवासाद्यैर्मनो विकारमाप्तवत् ।
सुरूपा अपि लोभिन्यो धनवाञ्च्छाविमोहिकाः ।। १ ९।।
वारयोषा हावभावैः सेवनैः सहवासनैः ।
चिक्षिपुर्मम भक्तं तं मोहे धनिष्ठकोषकम् ।।3.192.२०।।
विषयेषु सुरम्येषु मग्नं चक्रुः शनैः शनैः ।
धनहार्यो धनं लब्ध्वा भोग्यास्तिष्ठन्ति तत्पुरः ।।२१ ।।
भक्तोऽपि मम भक्तिं च विहाय राजसंगतः ।
राजोद्याने सदाऽऽवासं प्रायशश्चाऽऽचरत्ततः ।।२२।।
कुटुम्बं स्वं क्वचिन्निभालयत्येव चिरेण सः ।
बहुधोद्यानवासं स राज्ञा समं करोति यत् ।।२३।।
राजापि बालमित्रं यत् सदा तं सेवते सह ।
पानभोजनखेलाद्यैर्नृत्यगायनरञ्जनैः ।।२४।।
एवं भक्तस्य संयोगे विषयैर्बाह्यवृत्तिभिः ।
पूजनं पठनं ध्यानं मम सर्वं शनैः शनैः ।।२५।।
क्षतिमाप्तं लयं प्राप्तं भक्तिर्मे खण्डिताऽभवत् ।
स्मरति मां कदाचित् स विशेषेण तु योषितः ।।२६।।
वारांगनाभिः सञ्जुष्टो वर्तते स व्यवायकृत् ।
अथाऽस्य पुत्राः पुत्र्यश्च पत्नी साध्वी सधर्मिणी ।।२७।।
नाम्ना स्नेहलतादेवी शुशोच स्वपतिस्थितिम् ।
महाभागवती पत्नी भजते श्रीहरिं तु माम् ।।२८।।
प्रार्थयत्येव पूजायां पत्युर्धर्मस्य रक्षणम् ।
अधर्मस्य परित्यागं यशः कीर्तिं सुवंशजाम् ।।२९।।
बालकृष्णहरेकृष्ण पुरुषोत्तममाधव ।
तव भक्तस्य चित्ते यच्चाञ्चल्यं तत्प्रशामय ।।3.192.३ ०।।
अनादिश्रीकृष्णनारायणश्रीकान्तकेशव ।
मम पत्युर्व्यवायस्य व्यसनं त्वं प्रमोचय ।।३ १ ।।
राजाऽपि तव भक्तः स्यात्तथा कृष्ण विधेहि च ।
गणिका अपि भक्ताः स्युर्यथा ते परमात्मनः ।।३२।।
प्रजाश्चापि च भक्ताः स्युस्तथा कृष्ण कृपां कुरु ।
व्रतं चाद्यदिनात् तेऽहं वर्षान्तं त्वेकभोजनम् ।।३३।।
करिष्ये च तथा साघुसतीसेवा समाहिता ।
प्रत्यहं पूजनं ते च करिष्ये घटिकावधिम् ।।३४।।
षोडशैरुपचारैश्च कारयिष्ये तु सूतके ।
प्रेंखां स्वर्णमयीं चापि मूर्तिं स्वर्णमयीं च ते ।।३५।।
कारयिष्ये श्रिया युक्तां राधया रमया युताम् ।
पद्मावत्या युतां युक्तां माणिक्यया च शोभनाम् ।।३६।।
लक्ष्म्या युक्तां तथा रम्यां विभूषाढ्यां सुयौवनाम् ।
शय्यापर्यंकमेवापि कारयिष्ये शुभोत्तमाम् ।।३७।।
स्वर्णराजतजन्यं च तवोपकरणान्यपि ।
व्यजने चामरे छत्रं पादुके भूषणानि च ।।३८।।
कारयिष्ये स्वर्णरत्नमयानि तव तुष्टये ।
नित्यं सुगन्धसारैश्च तैलसारैश्च मर्दनम् ।। ३९।।
अभ्यञ्जनं द्रवैश्चापि पूजनं तुलसीदलैः ।
नैवेद्यं घृतमिष्टानैः कारयिष्येऽतितुष्टये ।।3.192.४०।।
तवोत्सवान् कारयिष्ये वार्षिकान् कान्त केशव ।
वणिजं मे पतिं वारांगनाव्यसनान्मोचय ।।४१ ।।
एषा ते शरणं प्राप्ता पतिता तव पादयोः ।
मम पत्युस्तु पापानि प्रज्वालय प्रियं कुरु ।।४२।।
इत्युक्त्वा स्नेहलतिका दीपोत्सवीदिने हरेः ।
कृत्वा मे पूजनं चाप्यासम्वत्सरं व्रतं व्यधात् ।।४३।।
उक्तान् सर्वान्नियमान् सा पालयामास भावुकी ।
पतिसंस्कारकं नाम व्रतं पूर्णं व्यधाद्धि सा ।।४४।।
उद्यापनं व्रतस्याऽपि चक्रेऽन्नकूटवद्दिने ।
प्रतिपद्येव कृष्णस्योत्सवं च व्रतपूर्तये ।।४५।।
मण्डपं कारयामास कदलीस्तम्भशोभितम् ।
तोरणादियुतं रम्यं कुण्डवेदीसमन्वितम् ।।४६।।
सिंहासनान्वितं विप्रदेवतादिविराजितम् ।
हव्यकव्यादिसामग्रीदानसामग्रिकायुतम् ।।४७।।
समिद्वह्नियज्ञकर्मवेदमन्त्रध्वनिश्रुतम् ।
साधुसाध्वीविष्णुभक्तकृतपाठादिघोषितम् ।।४८।।
वाद्यकीर्तनगीत्याद्यैर्घोषितं दानवर्धितम् ।
सत्यस्वरादिलोकानां वासिभिः समधिष्ठितम् ।।४९।।
तोर्थागमैर्दिव्यभावं कृष्णपार्षदराजितम् ।
ब्रह्मप्रियाविलसितं ध्वजपताकिकाऽन्वितम् ।।3.192.५०।।
सर्वतोभद्रनामार्थश्रेष्ठमण्डलशोभितम् ।
स्थालीकलशपात्राद्यैः शय्यादानादिभिर्युतम् ।।५१।।
पूजासामग्रिकाभिश्च पूज्यते यत्र माधवः ।
हूयते यत्र वह्नौ च हव्यं विविधजातिकम् ।।।५२।।
उच्चार्यन्ते वेदघोषा मन्त्रा यत्र च भूसुरैः ।
दीयन्ते यत्र दानानि स्वर्णरूप्यमयानि च ।।९३।।
भुज्यन्ते भोजनानीष्टमिष्टान्नानि च भूसुरैः ।
दीयन्ते तृप्तचित्तैश्चाशीर्वादाः श्रेयसांप्रदाः ।।५४।।
पूर्णाहुतिर्घृतानां च धाराभिर्दीयते तदा ।
आययौ मण्डपे तत्र वृद्धो नारायणो नरः ।।५५।।
विप्ररूपोऽतितेजस्वी लक्ष्मि योऽहं स एव सः ।
स्वागतं चार्हणं चक्रुर्देवा मे ऋषयोऽपि च ।।५६।।
आसनं मे ददुः श्रेष्ठं वह्निर्मां चाप्यपूजयत् ।
उपाविवेश तत्राऽहं सर्वसम्मानितो द्विजः ।।५७।।
कस्य यज्ञ इत्यहं वै चापृच्छं वेधसं द्विजम् ।
सोमायनो द्विजः सोप्युवाच मां चांगुलिदृशा ।।५८।।
अस्याः स्नेहलतिकाया व्रतोद्यापनजोऽध्वरः ।
विद्यतेऽद्येष्टसिद्ध्यर्थमस्या इष्टं भवत्विह ।।५९।।
भवत्विष्टमिति द्राक् चाऽवदं तत्राऽध्वरेऽप्यहम् ।
शृणु लक्ष्मि महाश्चर्यं तदोद्याने व्यजायत ।।3.192.६०।।
यत्र सौधे महान् श्रेष्ठी राजा भृत्या वसन्ति च ।
सौधः स कम्पितो जातो यथा भूकम्पकम्पितः ।।६१ ।।
उद्यानसहितः सौधो नान्यत् किञ्चित्तदा रमे ।
मदिच्छयैव जातः स कम्पो भयावहस्तदा ।।६२।।
सौधस्तु पतितस्तेन वारांगनाः प्रचूर्णिताः ।
राजा श्रेष्ठी सौधपाते मध्यावकाशके स्तरे ।।६३।।
पतितौ तत्र भग्नांगौ किन्तु प्रजीवितौ दरे ।
सहैव पतितौ मूर्छाविगमे भानसंयुतौ ।।६४।।
परस्परं चाह्वयतः का दशा ते धनिन नृप ।
धनी प्राह मम पादो भग्नो जानुप्रदेशतः ।।६५।।
नृपः प्राह मम हस्तो भग्नः कफोणिकास्थलात् ।
नान्यद् दुःखं वर्ततेऽत्र प्राणास्तिष्ठन्ति चावयोः ।।६६।।
मरणं नैव जातं वै परमेशकृता त्वियम् ।
आवाभ्यां श्रीहरेर्मार्गस्त्यक्त्वा वारांगनागतिः ।।६७।।
गृहीता पापदा तस्याः फलं त्विदं विनाशकृत् ।
तथापि पूर्वपुण्येन यद्वा सम्बन्धिपुण्यतः ।।६८।।
जीवावो दरमध्येऽत्र कृष्णदत्तावकाशके ।
अद्यप्रभृति वेश्यानां संगं त्यक्ष्याव एव ह ।।६९।।
परमेशं भजिष्यावो करिष्यावो व्रतानि च ।
यद्येतस्माद् दुर्गमाद्वै दुर्विभाव्यावकाशकात् । ।3.192.७०।।
निर्गमिष्याम एवाऽऽवां सप्राणौ भग्नमध्यतः ।
नारायणं भजावोऽत्र स नौ रक्षां करिष्यति ।।७१ ।।
एवं तौ निर्णयं कृत्वा हरेकृष्णेति जेपतुः ।
लक्ष्मि तौ स्नेहलतिकाध्वरपुण्येन रक्षितौ ।।७२।।
अथ युद्धपुरे तूर्णं यज्ञपूर्णाहुतेः परम् ।
राजप्रासादपतनं चाश्रूयत प्रजामुखात् ।।७३।।
नास्तिक्यस्तु प्रजाः प्राहुर्यज्ञे व्युत्क्रमजं फलम् ।
वास्तविकं न तत्तत्र व्युत्क्रमो नाऽभवन्मखे ।।७४।।
मदिच्छया हि तज्जातं पापेन श्रेष्ठिनोऽपि च ।
वारांगना मम भक्तपातनेन सकल्मषाः ।।७५।।
मृता एव स्वपापेन भक्तस्तु रक्षितो मया ।
राजाऽपि भक्तयोगेन भक्त्यर्थं रक्षितो मया ।।७६।।
आस्तिकास्तु तदा प्राहुः पापा मृताः स्वपातकैः ।
अथापि यज्ञपुण्येन न मृतौ श्रेष्ठिभूभृतौ ।।७७।।
मनुष्याश्च द्रुतं गत्वा काटमालं समस्तकम् ।
शनैः कृत्वा दूरमेवोत्सार्य पाषाणमृत्तिकाः ।।७८।।
काष्ठाऽधोभागसंवासौ सजीवौ श्रेष्ठिभूभतौ ।
शनैर्निस्सारयामासुर्भग्नांगौषधमाचरन् ।।७९।।
गणिकास्तु समस्तास्ताः शवात्मिकाः प्रकूर्चिताः ।
मृता एवोपलब्धास्ता याम्यपुरं सिषेविरे ।।3.192.८०।।
वृद्धस्पृष्टौ वणिग् राजा स्वस्थपादकरौ द्रुतम् ।
सम्पन्नौ चाध्वरवार्तां श्रुत्वा प्रहर्षितौ ह्यति ।।८१ ।।
अनादिश्रीकृष्णनारायणो वृद्धस्वरूपधृक् ।
हस्ताभ्यां तौ सुपस्पर्श मूढमारो व्यलीयत ।।८२।।
पीडापि विगता सर्वा मण्डपे तौ समागतौ ।
दृष्टवन्तौ पुण्यकार्यं श्रुतवन्तौ स्त्रिया व्रतम् ।।८३।।
पतिदेवस्य शुद्ध्यर्थं राज्ञः शुद्ध्यर्थमित्यपि ।
प्रजायाश्चापि शुद्ध्यर्थं व्रतं ज्ञात्वा स्त्रियास्तदा ।।८४।।
प्रजा राजा धनी सर्वे प्रशशंसुः पतिव्रताम् ।
धन्या नारी हरेर्भक्ता मोक्षार्थिनी च पावनी ।।८५।।
श्रेयसोऽर्थे प्रजादीनां यया व्रतं चिरं धृतम् ।
यया द्रव्याणि नैजानि दैवकार्ये कृतानि च ।।८६।।
अस्याः पुण्येन भूपोऽयं श्रेष्ठी चेति प्ररक्षितौ ।
वयं सर्वे भजिष्यामो नारायणं श्रियः पतिम् ।।८७।।
राजाऽपि मण्डपे तत्र प्रकाशं व्याजहार तत् ।
श्रेष्ठी तथा प्रजाश्चापि व्याजह्रुर्मण्डपे यथा ।।८८।।
व्यसनानि समस्तानि त्यक्ष्याम पापकानि च ।
भजिष्यामो हरिं कृष्णं बालकृष्णं सनातनम् ।।८९।।
प्रायश्चित्तं करिष्यामः कृतानां पापकर्मणाम् ।
भविष्यामो वैष्णवाश्च यास्यामोऽन्ते हरेर्गृहम् ।।3.192.९०।।
इत्येवं लक्षशस्तत्रायाता ये दर्शका अपि ।
यज्ञार्थं चाप्यकस्मातार्थं च तेऽपि नराः स्त्रियः ।।९१ ।।
राष्ट्रजा मानवाः सर्वे परिवर्तितमानसाः ।
वृद्धविप्रप्रतापेनाऽध्वसे वैष्णवदीक्षणम् ।।९२।।
जगृहुर्वृद्धविप्रात्ते व्यसनानि च तत्यजुः ।
दध्रुश्च तौलसीं कण्ठीं बालकृष्णेति नाम मे ।।९३।।
'ओ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इतिमन्त्रं जगृहुश्चाऽभवँस्ते वैष्णवोत्तमाः ।।९४।।
व्रतं चक्रुः कार्तिकस्य शुक्लस्य सर्व एव ते ।
एकभुक्तस्त्वमेवापि प्रत्यहं पूजनं मम ।।९५।।
दानं नित्यं तथाऽन्नानां भजनं घटिकावधिम्
अथाऽहं मण्डपे तत्र दर्शनं स्वं ददौ शुभम् ।। १६।।
चतुर्भुजं दिव्यरूपं राधालक्ष्मीरमायुतम् ।
पद्मावतीमाणिकीश्रीसहितं सुमनोहरम् ।।९७।।
शंखचक्रगदापद्मकौस्तुभहारशोभितम् ।
दिव्यतेजोपरिध्याढ्यमुखं केयूरमण्डितम् ।।९८।।
दिव्यमुक्तैः पार्षदैश्च महर्षिभिः प्रसेवितम् ।
यज्ञानलैर्देवताभिर्देवैश्चाभिप्रपूजितम् ।।९९।।
स्नेहलतेष्टपूर्त्यर्थं चागतं परमेश्वरम् ।
वीक्ष्य मां पूजयांचक्रुः पादजलं पपुश्च मे ।। 3.192.१ ००।।
यज्ञप्रसादं जगृहुर्बुभुजुर्महीमानकाः ।
सर्वे समाप्तिं यज्ञस्य चक्रुश्चावभृथं ततः ।। १०१ ।।
लुणीनद्यां प्रसस्नुश्च नृपस्य श्रेष्ठिनस्तथा ।
प्रजानां यानि पापानि प्रजज्वलुस्तदा रमे ।। १० २।
अवभृथं महास्नानं सर्वपापविनाशकृत् ।
तत्र स्नाता हि शुद्ध्यन्ति महापापाऽपराधिनः ।। १ ०३।।
राजा श्रेष्ठी सस्मरतुर्मोक्षार्थं वारयोषिताम् ।
द्रागेव मद्बलात् तत्रावभृथस्नानपुण्यतः ।। १०४ ।।
राज्ञा च श्रेष्ठिना दत्तात् सर्वा याम्यालयाद् द्रुतम् ।
आययुर्मोचिता दूतैस्तत्र लुण्यास्तटे स्त्रियः ।। १ ०५।।
पपुर्वारि प्रसस्नुश्च मया च प्रोक्षिता जलैः ।
दिव्यदेहास्तूर्णमेव जातास्ता पापवर्जिताः ।। १ ०६।।
विमानैः प्रययुः सर्वाः स्वर्गं चिरं ततश्च ताः ।
प्रयास्यन्ति स्थिरं धाम वैकुण्ठं परमात्मनः ।। १०७।।
एवं ता मोक्षिताश्चापि प्रजाश्च वैष्णवीकृताः ।
राजा श्रेष्ठी निर्व्यसनौ कृतौ भक्तियुतौ स्त्रिया ।। १०८।।
ततोऽहं पूजनं प्राप्य तिरोभावं द्रुतं ततः ।
आयुष्यान्ते स्नेहलतां द्विजं सोमायनं तथा ।। १ ०९।।
धनिष्ठकोषं वणिजं मालवसिंहभूपतिम् ।
प्रजाश्च वैष्णवीः सर्वा यथाकालं ममाऽक्षरम् ।। 3.192.१ १०।।
अनयं भक्तियुक्ताँश्चेत्येवं वै पारदारिकम् ।
भक्तं शुद्धं विधायाऽहं लक्ष्मि मुक्तिं नयामि तम् ।। १११ ।।
पठनाच्छ्रवणादस्य स्मरणान्मननादपि ।
अपि पापसमाचारः शुद्धो यास्यति मत्पदम् ।। १ १२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने युद्धपुराधिपेन सह धनिष्ठकोषस्य श्रेष्ठिनो वारांगनाव्यसनिनः स्वस्त्रीकृतभक्तिव्रताराधनादिना श्रीहरिणा मोक्षः कृत इत्यादिनिरूपणनामा द्वानवत्यधिकशततमोऽध्यायः ।। १९२।।