लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १९९
← अध्यायः १९८ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः १९९ [[लेखकः :|]] |
अध्यायः २०० → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कारुण्यात् प्रवदामि यत् ।
सर्वैर्जनैः सदा कार्यं सच्छास्त्राणां प्रसेवनम् ।। १ ।।
लक्ष्मीनारायणसंहितायाश्चास्याः प्रसेवनम् ।
नारीभिश्च नरैश्चापि कर्तव्यं सर्वदेहिभिः ।। २ ।।
मम भक्तिप्रकाराश्च मोक्षस्य साधनान्यपि ।
स्वर्गस्य हेतवश्चापि सृष्टीनां वर्तनानि च ।। ३ ।।
उक्तान्यत्र समस्तानि बहूनि कृपया मया ।
ऐकान्तिका मम भक्ता उदिता हि मया शुभाः । । ४ ।।
देहात्मबुद्धयश्चापि ब्रह्मात्मबुद्धयस्तथा ।
स्वार्थपरास्तथा चोक्ताः परार्था दिव्यधर्मिणः ।। ५ ।।
दिव्यास्तु देहत्रितयाद् भिन्ने चात्मनि निष्ठिताः ।
आत्मन्यतिप्रकाशे ते साक्षान्मां समुपासते ।। ६ ।।
ईक्षन्ते ते चातिप्रकाशाऽऽत्मरूपं सनातनम् ।
आत्मरूपे बालकृष्णमीक्षन्ते मां परेश्वरम् ।। ७ ।।
अतितेजस्विनं साक्षाद् रमन्तं चात्मना सह ।
त एते दिव्यदृग्वन्तश्चात्र लोके स्थिता अपि ।। ८ ।।
ब्रह्मपुरस्थिताः सन्ति यूयं ब्रह्मप्रिया यथा ।
ब्रह्मभावस्तु भक्ताभिः साधनीयोऽतिसौख्यदः ।। ९ ।।
श्रीपतौ मयि यासां वा येषां मनुष्यभावना ।
तेषां तासां विघ्नभयं विरहो मे भवेदिति ।। 3.199.१० ।।
अप्राप्तिर्मम धाम्नश्च क्वचित् स्यान्मदभावतः ।
अतो लोके मम भक्ता नैव कुर्वन्ति वै मयि ।। ११ ।।
मनुष्यभावनां क्वापि कुर्वन्ति दिव्यभावनाम् ।
यथा तु भावना दिव्या मयि तथा निजेऽपि च ।। १२।।
कर्तव्या भावना दिव्या न तु देहात्मभावना ।
देहात्मभावना विघ्नप्रदा भवति देहिनाम् ।। १ ३।।
ब्रह्मा मोहं गतो वीक्ष्य पार्वतीरूपमेव ह ।
स्खलितश्च ततो जाता बालखिल्या महर्षयः ।। १४।।
शंकरो मोहिनीं मां तु दृष्ट्वा मुग्धोऽभवत्तथा ।
नारदो देहभावेन विवाहं समियेष च ।। १५।।
एवमन्येऽपि बहवो मोहं मुक्ता गता अपि ।
मोहात्मकं महद्विघ्नं जायते देहभाविनाम् ।।१ ६।।
दिव्यभावयुतानां तु चात्मनिष्ठानिवासिनाम् ।
शुकवद् ब्रह्मभावो वै जायते सनकादिवत् ।। १७।।
सर्वा लीला मम दिव्या बोद्धव्या रतिरासजा ।
मुक्तिदा सा भवत्येव मयि स्नेहेन योगिनी ।।१८।।
स्नेहो गाढानुरागः श्रीकृष्णनारायणे मयि ।
प्रेमातिरेकः सततं निजात्मनि स्थिरस्तु यः ।। १ ९।।
स्नेहेनाऽऽनेन भक्तानां मायास्नेहो विलीयते ।
मायास्नेह स्थितिं कर्तुं ददात्येव न चान्तरे ।।।3.199.२०।।
ध्यानं स्नेहेन सततं कर्तव्यं मम नित्यदा ।
ध्यानवृत्तिः स्थिरा स्याच्च महासमाधिकारणम् ।।२१ ।।
वृत्तिस्थैर्ये भवेदेकान्तिकता मयि केशवे ।
शाश्वतानन्दसन्दोहे महासुखप्रदे प्रभौ ।।२२।।
सर्वक्रियासु सततं मयि स्थैर्यं विधापयेत् ।
एवमभ्यसने जाते चात्मा निरुद्ध्यते मयि ।।२३ ।।
सेन्द्रियाऽन्तःकरणः संप्रलग्नो जायते मयि ।
एवं चित्तनिरोधेन सर्वरोधे भवेन्मयि ।।।२४।।।
प्रेमाऽतिरेकस्तत्राऽस्ति कारणं नेतरद् रमे ।
भक्तानां मानसं स्नेहात् स्थिरं स्यान्मयि तत्तथा ।।२५।।
तेषामात्मसु सहसा वासो मे च भवेद् रमे ।
प्रेम्णा वासस्तु मूर्तेर्मे साक्षाद्वत् स्मारको भवेत् ।।२६।।
महात्म्यज्ञानमेवापि प्रेम्णा नित्यं प्रवर्धते ।
माहात्म्यज्ञानयुक्प्रेमा ब्रह्मात्मस्थितिमृच्छति ।।२७।।
न स मायां प्रपश्येत् संपश्येन्मां ब्रह्म शाश्वतम् ।
अक्षरं दिव्यरूपं च सच्चिदानन्दसंभृतम् ।।२८ ।।
तत्र निजात्मरूपे वै चाक्षरे ब्रह्मशाश्वते ।
सदैकरसचैतन्यप्रकाशे व्यापकेऽभितः ।।२९।।
अनादिश्रीकृष्णनारायणं मां परमेश्वरम् ।
दिव्यं कान्तं समीक्षेत नान्यमाकारमीक्षते ।।3.199.३ ०।।
एषा ब्राह्मी स्थितिर्दिव्या पराविद्यास्थितिस्तथा ।
दिव्यज्ञानस्थितिश्चापि ज्ञानप्रलयसंज्ञिका ।।३ १।।
साक्षात्कृष्णे परे देवे शाश्वतस्थिरतात्मिका ।
अस्या नित्यं समारम्भं यः करोति तु देहभाक् ।।३२। ।
स याति परमां श्रेष्ठां स्थितिं लक्ष्मि यथा तव ।
प्रत्यक्षस्य महिमा मे यावज् ज्ञातोऽस्ति येन वै ।।३३ ।।
तस्य तावान् प्रकाशोऽपि हृदये कृपया भवेत् ।
चिन्मयं तं प्रकाशं च वर्धमानवेक्षते ।।३४।।
महिमानं वर्धमानं यावन्तं विन्दते तथा ।
तावन्तं प्रणवं चापि तावद्रूपं च मे तथा ।।३५।।
वर्धमानं ब्रह्मरूपे विन्दते कृपया मम ।
क्रमात् सर्वत्र सम्पूर्णं प्रकाशं परिपश्यति ।।३६।।
शृणोति मम नाम्नां वै नादानां मधुरान् ध्वनीन् ।
ब्रह्मनादेषु मग्नस्य मग्नस्य स्वात्मनि ध्रुवे ।।३७।।
अमायिकस्य मुक्तस्य ब्रह्मीभूतत्वमेव तत् ।
मम माहात्म्यानुभवो यस्याऽऽधिक्येन यावता ।।३८।।।
तावता ब्रह्मभावस्य परात्मनो ममेक्षणम् ।
परां काष्ठां प्रपन्नस्य मम माहात्म्यवेदिनः ।।३९।।
कालमायानियन्तृत्वाद्यैश्वर्यं समजायते ।
अनादिश्रीकृष्णनारायणोऽहं मत्समोऽपि सः ।।3.199.४०।।
सर्वावतारधर्ताऽहं कालमायानियामकः ।
गुणातीतो निर्विकारः सर्वेश्वरेश्वरेश्वरः ।।४१ ।।
श्रेयोऽर्थं देहिनामत्र स्वेच्छया भामि मर्त्यवत्.।
मर्त्यवच्च क्रियाः सर्वाः करोमि भक्तहेतवे ।।४२।।
तत्र विमूढमतयश्चाल्पज्ञाश्चर्मचक्षुषः ।
निजदृष्टान्तमासाद्य दोषान् प्रकल्पयन्ति ते ।।४३।।
निर्दोषोऽहं सदा लक्ष्मि चिन्तामणिसमः सदा ।
कल्पकेषु कल्प्यदोषाः प्रविशन्ति हि तेऽखिलाः ।।४४।।
मन्यन्ते कामिनं मां ये कामिनस्ते भवन्ति वै ।
क्रोधिनं मां कल्पयन्ति क्रोधिनस्ते भवन्ति च ।।४५।।
मन्यन्ते मां लम्पटं ये भवन्ति लम्पटास्तु ते ।
मायाविनं तु जानन्ति मायाविनो भवन्ति ते ।।४६ ।।
अदिव्यं मां विजानन्ति ह्यासुराः क्षुद्रबुद्धयः ।
दिव्यं चापि मनुष्यं मां दिव्यं जानन्ति ये तु वै ।।४७।।
ते तु भवन्ति दिव्याश्च ह्यदिव्या अपि देवताः ।
अपि न्राकृतिमीशं मां निर्दोषं मां विदन्ति ये ।।४८।।
सदोषा अपि जायन्ते निर्दोषास्ते बलान्मम ।
वशे यस्य समस्तानीन्द्रियाणि चान्तराणि च ।।४९।।
संकल्पोऽपि वशे यस्य प्रत्यक्षकृष्णनिश्चयः ।
स एव पूर्णो धन्यश्च कृतार्थश्च मतः सदा ।।3.199.५० ।।
यथा मुक्तस्तथा सोऽपि यथाऽक्षरे तथाऽत्र सः ।
यथा दिव्यस्तथा चात्र सर्वैश्वर्यान्वितो भवेत् ।।५१ ।।
मन्येत स निजं भाग्यं भाग्येन श्रीहरेः सह ।
मिश्रितं न पृथक् लक्ष्मि धन्यं मन्येत वै निजम् ।।५२।
कामादिदावदग्धेऽत्र लोके धन्योऽस्मि यन्मम ।
अनादिश्रीकृष्णनारायणः साक्षान्मिमेल ह ।।५३।।
सन्तस्तस्य तु मिलिता मोक्षदा दोषनाशकाः ।
यत्प्रसादेन जेष्यामि कामादीनान्तरानरीन् ।।५४।।
ब्रह्मरूपेण च कृष्णोपासनां मोक्षदायिनीम् ।
करिष्यामि भाग्ययोगैः कृपया श्रीहरेस्तथा ।।५५।।
एतादृशा मम भक्ता भाग्यवन्तो रमे मताः ।
प्राप्तपूर्णगुणास्ते वै चिन्तामणिप्रयोगिणः ।।५६।।
नहि तेष्वस्त्यपूर्णत्वं परिपूर्णा ममाश्रयात् ।
प्रत्यक्षोऽहं यदेतेषां मिलितो राधिकापतिः ।।९७।।
पूर्वजन्मोत्थसुकृतं त्वेतेषां बहुलं यतः ।
सत्संगस्य महायोगो जातोऽस्य मोक्षदो यतः ।।५८।।
प्रपन्नस्य तु भक्तस्याऽपूर्णता चेद् भवेद् यदि ।
अपनेयाऽऽत्मनिष्ठाऽऽढ्यमाहात्म्यज्ञानतस्तु सा ।।५९।।
आत्मनिष्ठा निर्बला चेत् समाधावपि दुःखदा ।
श्रूयन्ते तु यदा नादा ब्रह्माण्डभेदका इव ।।3.199.६० ।।
समाधौ तु तदा चात्मनिष्ठाहीनो बिभेति ह ।
आत्मसत्तो निर्भयो वै ब्रह्मतादात्म्यमेति च ।।६ १ ।।
ब्रह्माण्डदाहकं तेजस्तत्रेक्षते समाधिमान् ।
तदा बिभेत्यसावात्मनिष्ठाहीनो विनाऽऽश्रयम् ।।६२ ।।
हरिर्वा तस्य तन्मार्गे सहायः प्रेमभावितः ।
आत्मविद्वा भयं नैति हरेः सहायवाँश्च वा ।।६३।।
आत्मविदः प्रत्रुट्यन्ति सर्वा विषयवासनाः ।
निरोधं त्वेकवृत्तित्वाच्चित्तं कृष्णेऽस्य विन्दति ।।६४।।
सर्वेन्द्रियप्रवाहाणां कृष्णे मयि विसर्जनम् ।
कृत्वा स्थेयं मम भक्तैर्विघ्नं नाऽस्य प्रजायते ।।६५।।
एकबलं चैकवृत्ति चित्तं भक्तस्य सुस्थिरम् ।
मय्येव तु यदा जातं तदाक्रष्टुं न शक्यते ।।६६।।
रम्यैश्चापि पदार्थैर्वै यतो निर्वासनं हि तत् ।
निरुद्धं मम मूर्तौ तन्मदन्यचिन्तनोज्झितम् ।।६७।।
एवं सतां मानसं वै मयि रुद्धं प्रजायते ।
हित्वाऽन्यत् कृष्णपूर्णार्थाः कुर्वते मदुपासनम् ।।६८।।
एवं लक्ष्मि कृपासाध्यो भवामि पूर्णकामदः ।
महाभागवताः सन्तो भजन्ते नवधा हि माम् ।।६९।।
ब्रह्मनिष्ठा आत्मविदो मम माहात्म्यवेदिनः ।
भक्तिनिष्ठः सदा सेवानिष्ठस्तेषां प्रवर्धते ।।3.199.७०।।
तथा तादात्म्यनिष्ठश्च सम्पद्यते मया सह ।
सद्भिस्तथापि नोद्रिच्यं ह्युद्रेके दग्धबीजता ।।७१ ।।
हरेः कृपा तादृशाच्च निवर्तते हि निष्फला ।
तस्मान्मय्येव संस्थाप्यं सर्वं चाभ्युदयादिकम् ।।७२।।
बुद्धिर्मनोऽप्यहंकारश्चित्तं चेन्द्रियवृत्तयः ।
देहो देहगुणाश्चापि स्थापनीया मयीश्वरे ।।।७३।।
रसिकत्वं हरावेव बालकृष्णे मयि प्रभौ ।
समर्पणीयं सततं श्रीलक्ष्मीराधिकापतौ ।।७४।।
गायनस्य रसश्चापि समर्पणीय ईश्वरे ।
कीर्तनं हावभावाश्चार्पणीया परमे मयि ।।७५।।
मय्यर्पणं विना भावो रसोऽन्यत्र भवेद् यदि ।।
तत्र स्यालग्नता तेन भ्रंशः स्याच्छ्रेयसां पथः ।।७६।।
एकान्तिकस्य भक्तस्य रसिकस्य न संभवेत् ।
रसः क्वापि मदन्येषु पदार्थेषु जगत्सु वै ।।७७।।
मम लीलागुणभाजि शब्दे यस्य रसो मतः ।
नाऽन्यत्र स एव मेऽस्ति शाब्दिको रसिकः प्रियः ।।७८।।
ममांगयोगिसंस्पर्शे यद् भक्तस्य रतो मतः ।
नाऽन्यत्र स्पार्शने क्वापि स्पर्शीयरसिकः स मे ।।७९।।
ममैवेक्षा मामकानामीक्षा यस्य रसान्विता ।
नान्या यस्याऽस्ति दिदृक्षा रूपीयरसिकः स मे ।।3.199.८ ०।।
मदर्पितान्नताम्बूलप्रभृतिस्वादसद्रसः ।
यस्याऽस्ति न त्वितरत्र रसीयरसिकः स मे ।।८ १ ।
मदर्पितसुगन्धादेर्घ्राणने यस्य सद्रसः ।
नान्यत्र सौरभादौ स गन्धीयरसिको मम ।।८२।।
ग्रहणं मम दिव्यानां पदार्थानां तु हस्तयोः ।
गमनं मन्दिराणां मे प्रदक्षिणं च पादयोः ।।८३ ।।
कथनं मत्कथादीनां वाचो यस्य रसात्मकम् ।
आनन्दाद्यं मम योगान्मद्रतौ यस्य सद्रसः ।।८४।।
एवमाद्यानि सर्वाणि मदर्थे रसभाञ्जि वै ।
मनो बुद्धिस्तथा चित्तमहंकारोऽपि मारुतः ।।८५।।
सर्वे मद्रसभावा वै यस्य भक्तस्य सन्ति हि ।
प्रमोदो यस्य मन्मूर्तौ मूर्तेश्च विषयेष्वपि ।।८६।।
भागवतेषु दिव्येषु रसोत्कर्षो हि सर्वथा ।
आत्यन्तिकी रुचिश्चापि मय्येव यस्य वर्तते ।।८७।।
जाग्रतः स्वपतो वापि मूर्छितस्यापि सर्वथा!
तुर्यास्थितस्य मय्येव यस्य सर्वो रसो मतः ।।८८।।
तस्य भक्तस्य दिव्यस्य सत्या रसिकता मता ।
एवंविधस्य भक्तस्य रसिकस्य सदा हृदि ।।८९।।
भासेऽनादिकृष्णनारायणोऽहं दिव्यमूर्तिमान् ।
पश्यतो मम मूर्तिं च हृदये द्रागलौकिकीम् ।।3.199.९० ।।
प्रकाशते ब्रह्मतेजो भासे तस्मिन्नहं प्रभुः ।
तस्माद् भक्तैः प्रधार्यं मे रूपं गायनकीर्तनैः ।।९१ ।।
मानसं च मम रूपे सात्म श्रद्धासमन्वितम् ।
यत्र क्वापि प्रवेष्टुं न शक्येताऽन्येन वस्तुना ।।९२।।
यतः समर्थो भगवान् मायिकानि समस्ततः ।
दूरीकरोति विघ्नानि सर्वेश्वरेश्वरो हि सः ।।९३ ।।
विधृता येन भूगोलास्तारा व्योम्नि तथा धृताः ।
सूर्याचन्द्रमसोर्येनोदयास्तमने वै कृते ।।९४।।
मेघाश्च निर्मिता येन वारिवाहा जलप्रदाः ।
ऋतवो निर्मिता येन वृक्षवल्लीफलप्रदाः ।।९५।।
अब्धयो निजवेला न जहत्यपि यदाज्ञया ।
धातुबिन्दोः प्रजायन्ते साकाराऽपत्यमूर्तयः ।।।९६।।
जीवो येनेच्छया चात्मा ह्यगोचरः समर्थितः ।
सोऽहं श्रीमान् कृष्णनारायणो मनुष्यविग्रहः ।।९७।।
बहिश्च हृदये स्वामी धाम्नि चापि भवामि ह ।
मिलितश्चेह भक्तानां परनिःश्रेयसे प्रभुः ।।९८।।
एतादृशं मां विज्ञाय माहात्म्यज्ञानगोचरम् ।
मम भक्तेन भक्तिर्मे कार्या भीतिविवर्जिता ।।९९।।
एवंविधस्य विज्ञस्य ब्रह्मस्थितिर्भवेदिह ।
हृदि तस्य प्रवेशं न कुर्वन्ति मायिकानि वै ।। 3.199.१०० ।।
दिव्या स्थितिर्भवत्येव सुखदुःखसमाऽस्य वै ।
पूजने ताडने हस्त्यारोहणे खरवाहने ।। १०१ ।।
शत्रौ मित्रे तथा स्वर्णे लौहे रूपे कुरूपके ।
अवमाने च माने च समताऽस्य हि वर्तते ।। १०२ ।।
एतादृशस्य हृदये वासो मे सर्वदाऽस्ति वै ।
अस्य प्रपूजनं देवा ईश्वरा विदधत्यपि ।। १० ३।।
संसारिणां समुद्धर्ता भवत्ययं भवार्णवात् ।
आधारो जगतां चायं सामर्थ्यवान् भवत्यपि ।। १ ०४।।
असंख्यगुणकल्याणैर्युक्तो मोक्षं ददात्यपि ।
अस्य मूर्तौ मम मूर्तिर्वसत्येव सदा रमे ।। १ ०५।।
अस्येन्द्रियेषु सर्वाणीन्द्रियाणि मे वसन्त्यपि ।
अस्याऽन्तःकरणे सर्वं मदन्तःकरणं रमे ।। १०६ ।।
अतः स सर्वलोकानां नेत्रादीनां प्रकाशने ।
समर्थो वर्तते मद्वन्मम तादात्म्ययोगतः ।। १ ०७।।
तथापि साधुतास्थित्या सहते चावमानकम् ।
क्षुद्रजीवकृतं चापि क्षमाधर्मो हि साधुता ।। १ ०८।।
स एव तु महानात्मा क्षमा सामर्थ्यमुत्तमम् ।
एतादृशस्य मे साधोः संगमाद् यावदर्पणात् ।। १ ०९।।
सर्वाः सिद्ध्यन्ति वाञ्च्छाश्च स्वर्गं मोक्षं लभेत च ।
पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं लभेद् रमे ।। 3.199.११० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने श्रीहरिणा स्वैकान्तिकभक्तानां ब्रह्मनिष्ठतैश्वर्यादीनि कथितानीत्यादिनिरूपणनामा नवनवत्यधिक-
शततमोऽध्यायः ।। १९९ ।।