लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २१०
← अध्यायः २०९ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः २१० [[लेखकः :|]] |
अध्यायः २११ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां भक्तस्य चाऽपराम् ।
पुष्कसो नामतो यज्ञराधो विराधखेटगः ।। १ ।।
आनर्तेष्वभवद्भक्तः समुद्रखाडिकातटे ।
नौकानां वस्तुपूर्णानामागमो विगमस्तथा ।। २ ।।
यत्र प्रजायते नित्यं तत्र मार्जनकर्मणि ।
नियुक्तः स महानौकाध्यक्षेण जीविकाऽवितः ।। २ ।।
नौकानां तटभूमीनां कच्चराणां प्रमार्जनम् ।
करोति नित्यमेवाऽयं पत्न्या साकं स्थले स्थले ।। ४ ।।
नौकाधीशास्तथा चान्ये श्रेष्ठिनः कर्मचारिणः ।
शेषान्नभोजनं चास्मै ददत्यपि कृपालवः ।। ५ ।।
शाकं पत्रादिकं चापि रोटकं च पयोऽपि च ।
भर्जितान्नं च पक्वान्नं वस्त्रादिकं ददत्यपि ।। ६ ।।
एवं प्राप्तेन भक्तोऽयं तथा सद्वेतनेन च ।
निर्वहत्येव नित्यं वै स्वकार्यकुशलः सदा ।। ७ ।।
यद्यत् संप्राप्यते तत्र जलप्रोक्षणमुत्तमम् ।
कृत्वा धृत्वा च तुलसीदलं स्मृत्वा च मां तदा ।। ८ ।।
समर्प्य मह्यं मनसा भुंक्ते पाति न चान्यथा ।
प्रातर्नित्यं पिप्पलस्य वृक्षमूले हरिं च माम् ।। ९ ।।
पूजयत्येव संस्मृत्वा जलान्नफलपत्रकैः ।
मध्याह्नेऽपि तथा सायं मां स्मृत्वा स भुनक्ति ह ।। 3.210.१० ।।
रात्रौ कृत्वा मिलित्वैव कीर्तनं मां स्मरँस्तथा ।
मालामावर्तयन् भक्तो निद्राति स्त्री सुतः सुता ।। ११ ।।
एवंविधस्य भक्तस्य नित्यं वै विघसाशिनः ।
दत्वा शुने गवे काकेभ्यश्च पुष्कसजातये ।। १ २।।
पिपीलिकाभ्यो दत्वा च दत्वाऽम्बरे सुराय च ।
भुंक्तेऽयं विघसाशी वै दत्वा मत्स्येभ्य इत्यपि ।। १३।।
पश्यत्येव हरिं सर्वप्राणिषु पुष्कसोऽपि सः ।
सर्वव्रह्मात्मविज्ञानो भक्तराज्ज्ञानवाँस्तथा ।। १४।।
पुष्कसं तु शरीरं वै सदा मलस्य भाजनम् ।
सर्वदेहास्तथा सन्ति मलपात्राणि सर्वथा ।। १५।।
यदि शुद्धा न मनसि समानाः पुष्कसा यतः ।
मनः शुद्धं यस्य तस्य पुष्कसत्वं विलीयते ।। १ ६।।
गर्भे बालो न शुद्धोऽस्ति चाऽशुद्धद्वारसेवनः ।
अशुद्धाश्च तथा जन्म जन्मोत्तरमशुद्धिमान् ।।१७।।
शौचहीनस्तथा नित्यमशुद्धः कल्मषान्वितः ।
मनोमालिन्ययुक्तश्च कामक्रोधादिकल्मषः ।। १८ ।।
स्वार्थकापट्यभावश्च वासनावासितो मली ।
अशुद्ध एव देहाढ्यो मानेर्ष्यामत्सरान्वितः ।। १९।।
अहन्ताममतायुक्तः प्रमादमोहकर्षितः ।
अशुद्ध एव स्त्रीपुत्रपरिवारनिबन्धनः ।। 3.210.२०।।
अविद्यारागसंसक्त्यभिनिवेशादिकल्मषः ।
अस्मितादिभृतश्चापि भोगविलासपापवान् ।।२१ ।।
रोगव्याधिजरामृत्युमहाकष्टानुयोगवान् ।
देहोऽयं पुष्कसः प्रोक्तश्चिदात्माऽहं न पुष्कसः ।।२२।।
सर्वे देहाः पुष्कसा वै नाऽऽत्मा पुष्कसः कर्हिचित् ।
ब्रह्मात्मा निर्मलः शान्तः शुद्धो भक्तः समुज्ज्वलः ।।२३।।।
परमेशप्रतापेन सच्चिदानन्दबोधवान् ।
मुक्तो बन्धनहीनश्च सदाऽहं मोक्षभागिह ।।२४।।।
एवं लक्ष्मि प्रजानाति पुष्कसोऽपि निजं सदा ।
मुक्तवत् वर्तते नित्यं मम ध्यानपरायणः ।।२५।।
भगवन्निष्ठ एवाऽयं तथाऽऽत्मनिष्ठ उत्तमः ।
न स्वार्थोऽस्य न वै व्याधिर्मानसोऽपि मनागपि ।।२६।।
एतादृशस्य भक्तस्य वद लक्ष्मि कथं न वै ।
करोमि रक्षणं चित्ताह्लादनं चेष्टपूरणम् ।।२७।।।
मम लक्ष्मि सदा तुल्या जीवा देवास्तथेश्वराः ।
सर्वे पुत्रा ममैवाऽत्र मायायां सन्ति देहिनः ।।२८।।
विप्रो नृपो दीनजनः पुष्कसः स्त्री नपुंसकः ।
पशुः पक्षी कीट आर्तो वृक्षो वल्ली च वै तृणम् ।।२९।।।
सर्वं पुत्रात्मकं मेऽस्ति यादः पतंग इत्यपि ।
भजन्ते मां तु ये सेवामग्नास्तेषां विशेषतः ।।3.210.३० ।।
पिताऽस्मि रक्षको धाता पाता नेता परं पदम् ।
अन्येषां तु कृतस्यैव फलदः साक्षिरूपवान् ।।३१।।
अथैकदा तु भक्तस्य संकल्पोऽपि व्यजायत ।
नारायणः कथं साक्षाद् भवेन्नेत्रस्य गोचरः ।।३२।।
श्रुतं तेन ततः साधोर्मुखात् साधौ हरिः स्वयम् ।
वर्तते सत्पुरुषस्य सेवया गोचरो भवेत् ।।३३।।
अथाऽयं यज्ञराधो वै मार्गयत्येव सेवनम् ।
यत्र साधुः श्रूयते च तत्स्थले स प्रयाति वै ।।३४।।
चमत्कारपुरे श्रुत्वा साधुँ नागमतीतटे ।
ययौ तीर्थस्य मिषवान् सस्नौ नद्यां तु भावतः ।।३५।।
नागनाथस्य तीर्थे वै साधुं ददर्श तापसम् ।
त्र्यवस्थापारगं दिव्यं ब्रह्मनिष्ठं हरिप्रियम् ।।३६।।
नाम्ना ब्रह्मायनं शान्तं महर्षिं त्यागिनं मुनिम् ।
आसने ध्यानमग्नं च ब्रह्मणि ध्यानिनं तदा ।।३७।।
गत्वा पुरो ननामाऽसौ दण्डवत् प्रचकार ह ।
घटीमात्रं पुरस्तस्थौ कृताञ्जलिश्च निश्चलः ।।३०।।
घटिकाःऽन्ते साधुवर्यो ध्यानाद् बहिरुपाययौ ।
ददर्श पुरतो भक्तं पुष्कसं यज्ञराधकम् ।।३९।।
यज्ञराधः प्रणम्यैव तस्थौ कृताञ्जलिस्तथा ।
साधुना 'कुशलं तेऽस्तु' प्रोच्य निषद्य बोधितः ।।3.210.४०।।
सोऽपि भावेन बहुना निषसाद पुरः सतः ।
पप्रच्छ गुणवृद्ध्यर्थं सत्संगत्यर्थमित्यपि ।।४१ ।।
परमेशस्य लाभार्थं साक्षाद्वै साधनानि हि ।
ब्रह्मायनो मुनिः श्रुत्वा मुमोदात्मपरात्मवान् ।।४२।।
स्मृत्वा नारायणं मां च जगादोपादिदेश तम् ।
शृणु भक्त सतां गुणान् गृह्णन्ति ये जनास्त्विह ।।४३।।
गुणवन्तो भवन्त्येते सन्तो हि गुणसागराः ।
सतां दोषान् प्रगृह्णन्ति दुष्टास्ते तु भवन्ति वै ।।४४।।
सतां समागमे नित्यं गुणा आयान्ति भाविनः ।
सतां गुणानां ग्रहणे माहात्म्यवेदनेऽनिशम् ।।४५।।
वर्धन्ते स्वगुणा रम्याः सिद्धदशाप्रदाः शुभाः ।
नैव ग्राह्याः सतां देहदोषाः क्वाचित्कसंभवाः ।।४६।।
दोषाग्राहा भवन्त्येव गुणिनोऽपि तु दोषिणः ।
अचिरेण महापापाद् गुणा नश्यन्ति मूलतः ।।४७।।
अतः सतां सद्गुणा वै ग्राह्या न त्वगुणाः क्वचित् ।
स्वल्पदुर्गुणग्रहणे विनष्टिर्महती भवेत् ।।४८।।
सतां समागमेनैव वर्धन्ते गुणकोटयः ।
भागवतास्तथा धर्मा वर्धन्ते सत्समागमात् ।।४९।।
सतामेकान्तिकानां वै सेवनाद् दिव्यता भवेत् ।
सतां संगतिः स्नेहेन जायते देहिनामिह ।।3.210.५०।।
साधवो मोक्षदाः सन्ति सर्वपापविनाशकाः ।
इष्टदाः सन्ति सन्तश्चेत्यवगत्य सतां पुरः ।।५ १ ।।
दासवद् वर्तते नित्यं तस्य सत्संगतिर्भवेत् ।
ऐकान्तिकाः सर्वधर्माः पुष्यन्ति सत्समागमात् ।।५२।।
वैराग्यं जायते चात्मपरात्मनोश्च वेदनम् ।
माहात्म्यज्ञानसहिता भक्तिर्हरौ भवेत्ततः ।।५३।।
आश्रयोऽपि दृढः स्याच्च कृष्णार्थाः सकलक्रियाः ।
बाह्यान्तःकरणानां च व्यापारा भगवन्मयाः ।।५४।।
भवन्त्येव हि भक्तस्य मोक्षद्वारमपावृतम् ।
जायते धामदं श्रेष्ठं महामार्गगतिप्रदम् ।।५५।।
स्त्रीधनादौ महासंगो देहिनो दुर्जरोऽस्ति यः ।
सत्सु तथैव च कृतो मोक्षं ददाति देहिने ।।५६।।
स्नेहः सत्सु सदा कार्यः स्त्रीपुत्राद्यधिकः खलु ।
स्नेहेन सत्सु लग्नानां मुक्तिर्भवति शाश्वती ।।५७।।
सत्सेवायां महाश्रद्धा कार्या नार्या नरेण च ।
सर्वात्मना कृता सेवा तारयत्येव मायिनम् ।।५८।।
सर्वार्पणकृता सेवा कृतार्थं कुरुते जनम् ।
सन्तः प्रसन्ना दद्युर्वै धामाऽक्षरं च दिव्यताम् ।।५९।।
देशः कालः शुभौ सेव्यौ संगः सेव्यः शुभस्तथा ।
क्रिया कार्या शुभा नित्यं मन्त्रो धार्यः शुभोत्तमः ।।3.210.६०।।
ध्यानं कार्यं हरेर्नित्यं सन्तो धार्या सदा हृदि ।
दीक्षा ग्राह्या भागवती शरणं च हरेः सदा ।।६१ ।।
एवं वै वर्तमानस्य साक्षान्नारायणो भवेत् ।
असद्देशादिसंयोगे नष्टा भ्रष्टा मतिर्भवेत् ।।६२।।
सद्देशादिसमायोगे श्रेष्ठा शुद्धा मतिर्भवेत् ।
बलिष्ठपुण्ययोगेन सद्देशादि लभेज्जनः ।।६३।।
सत्संगो जायते तस्य दिव्यता जायते ततः ।
निर्मला यस्य बुद्धिर्न देशाद्या दोषिणस्तथा ।।६४।।
यस्य भवन्ति तस्याऽत्र पापं पूर्वकृतं महत् ।
उपस्थितं हि मन्तव्यं येन पापे प्रवर्तते ।।६५।।
यद्वाऽत्र महतां तेन सतां द्रोहः कृतोऽस्ति यत् ।
तत्फलं पापबुद्धिर्वै जाता पातकदायिनी ।।६६।।
तां विनाशयितुं सेवां कुर्यान्निश्छद्मभावतः ।
सतां प्रसन्नतां चापि प्राप्नुयात् सेवनं हरेः ।।६७।।
अथ यः पापवानस्ति स तु द्रोहं करोति हि ।
वदत्येव च नास्तिक्यभावेन निम्नगं वचः ।।६८।।
साधूनां किं भवेदत्र समागमेन वै भुवि ।
धूर्ता हि साधवः सन्ति मा कुर्वन्तु समागमम् ।।६९।।
एवं वदन्ति दुष्टा वै त्याज्यास्ते दूरतः सदा ।
तस्मात् संगः सतां कार्यः सतां संगो हि भेषजम् ।।3.210.७०।।
पापिसंगो न वै कार्यः पापिसंगो विषं परम् ।
दुःखी भजते श्रीनाथं दुःखहान्यर्थमेव तु ।।७१ ।।
अर्थार्थी त्वर्थसिद्ध्यर्थं ह्यैश्वर्यार्थी स वै भवेत् ।
आप्मनिष्ठोऽपि भजते कैवल्यार्थं हरिं सदा ।।७२।।
ज्ञानी तु भगवन्निष्ठः सेवते परमेश्वरम् ।
आत्मनिवेदी भगवन्निष्ठो हरेः प्रियो भवेत् ।।७३ ।।
साक्षात्कारो भवेत्तस्य हरिनिष्ठस्य भूतले ।
अस्य माहात्म्यविज्ञानं हरेर्भवति सर्वथा ।।७४।।
हरेः स्नेहोऽस्य बहुधा सर्वथा वर्ततेऽनिशम् ।
कृष्णेतराः समस्ता वासना नष्टा हि तस्य वै ।।७५।।
एकान्तिकानां सेवाभिर्नष्टाः समस्तवासनाः ।
भवन्त्येव ततो ज्ञानी भूत्वा सत्संगमाचरेत् ।।७६।।
अक्षराधिपतेः कृष्णनारायणस्य वेदनम् ।
माहात्म्यसहितं कुर्यात् सतां प्रसंगतः सदा ।।७७।।
मानं निर्मूलनीयं च सतां समागमात् सदा ।
मानिनो न प्रवर्धन्ते दिव्या गुणाः कदाचन ।।७८।।
मानी सेवां न कुरुते सतां वै निम्नकोटिगाम् ।
सदग्रे प्राञ्जलिर्न स्यान्न प्रशंसेद्गिरा सतः ।।७९।।
रंकवद्वर्तमानं च सन्तं न मानवान्नमेत् ।
मानो दोषो महानस्ति मानस्तम्भो हि नाशकृत् ।।3.210.८ ०।।
भक्तिज्ञानविरागाद्या वर्धन्ते नैव मानिनः ।
भक्तो गलितमानस्तु वर्धमानमहागुणः ।।८ १ ।।
जायते तस्य हृदये साक्षान्नारायणो वसेत् ।
सतां हरेश्च नित्यं वै सेवया परिचर्यया ।।८२।।
मानो विलीयते तीव्रवैराग्याढ्यस्य वै द्रुतम् ।
ब्रह्मात्मभावनाभक्त्या हरिस्तस्मै प्रसीदति ।।८३।।
प्रसन्नस्य हरेर्मूर्तिः प्रसन्नाऽस्य हि दृश्यते ।
मधुरा हृदये मूर्तिर्बहिश्चापि हि दृश्यते ।।८४।।
निर्मानो भक्तराट् श्रेष्ठो भगवद्बलवान् मतः ।
भजते श्रीहरिं मानं हित्वाऽऽत्मब्रह्मनिष्ठितः ।।८५।।
आत्मनिष्ठा च भगवन्निष्ठा पक्वाऽस्ति यस्य वै ।
मायिकः सकलो व्याधिस्तस्याऽत्रैव विलीयते ।।८६।।
कथायाः श्रवणेनापि सतां प्रसेवया तथा ।
भक्त्या नारायणस्यापि तथोपासनया हरेः ।।८७।।
सिद्धदशामाप्नुवन्ति सार्वज्ञ्यं चेशतां तथा ।
उपासनाबलं स्वेष्टदेवस्य यस्य यादृशम्।।८८।।
तादृशं जायते तस्य महद्दिव्यं सुखं परम् ।
मायिकं दुःखमत्यन्तं नाशमेति न संशयः ।।८९।।
व्रजांगनासमा प्रीतिर्येषां स्वामिनि माधवे ।
जायते सीमवज्यैंषां कर्तव्यं नाऽवशिष्यते ।।3.210.९०।।
सतां प्रसेवया कृष्णमाहात्म्यदृढता भवेत् ।
उपासनायाः सिद्धिश्च दृढा द्रागभितो भवेत् ।।९१ ।।
अक्षरे परमे धाम्नि योऽस्ति गोलोकधामनि ।
वैकुण्ठे श्रीपुरे चाऽव्याकृतेऽमृते च धामनि ।।९२।।
ब्रह्मपतिर्हरी राधापतिश्च कमलापतिः ।
ललिताश्रीपतिः रमापतिः श्रीपतिरीश्वरः ।।९३।।।
अन्तर्यामी वल्लभश्च स एव भगवान् स्वयम् ।
समाधौ दृश्यते भक्त्या ततो बहिस्तु सेवया ।।९४।।
मिलत्येव हरिर्नारायणो मानवविग्रहः ।
प्राकृतेन जनेनापि समो भवति मानवे ।।९५।।
यत्तेजसाऽक्षरं ब्रह्म मुक्ता ईश्वरकोटयः ।
सूर्यचन्द्रादयस्तेजस्विनो भान्ति स एव सः ।।९६।।
धृतमानवरूपो वै प्रदीपेन विलोक्यते ।
सूर्यचन्द्रप्रभायां स दृश्यो भवति मानवैः ।।९७।।
देहान्तेऽपि महापापी यन्नामस्मरणाद् द्रुतम् ।
शुद्धो भवति निष्पापो मोक्षमार्गाय कल्पते ।।९८।।
स एव निश्छद्मभक्तभक्त्या भवति गोचरः ।
भज तं परमात्मानं श्रीशं कृष्णनरायणम् ।।९९।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
जप मन्त्रं तथा ध्याहि हृदये बालकृष्णकम् ।। 3.210.१० ०।।
जलं प्रासादिकं नित्यं पिब खाद निवेदितम् ।
स्मर ब्रह्मप्रियानाथं प्रभुं मोक्षमवाप्स्यसि ।। १०१ ।।
इत्युक्तः कमले तेन ब्रह्मायनेन पुष्कसः ।
ज्ञानं लब्ध्वा प्रपूज्यैनं गृहं निजं ययौ ततः ।। १ ०२।।
यथोक्तरीत्या भजते ध्यायति सेवते तथा ।
सतां सेवां करोत्येव पश्यति स्मरति प्रभुम् ।। १० ३।।
यज्ञराधस्त्वेकदा तु पिप्पलस्य समीपतः ।
ददर्श साधुं रूपाढ्यं ब्रह्मायनसमं शुभम् ।।१ ०४।।
सहसा तं वीक्ष्य चक्रे दण्डवत् स्वागतादिकम् ।
कुशलं चापि पप्रच्छ साधुस्तं स्नेहमावहन् ।। १ ०५।।
भक्तः प्राह कुशलोऽस्मि साधुलाभाद् विशेषतः ।
आज्ञां कुरु यथा साधो सेवेऽहं सकुटुम्बकः ।।१०६।।
साधुः प्राह मया चाऽस्मात्स्थलाद् गन्तव्यमस्ति हि ।
अश्वपट्टसरस्तीर्थं यत्र कृष्णनरायणः ।।१०७।।
सहसार्थो भवान् भूत्वा समागच्छतु वै मया ।
तथाऽस्त्विति पुष्कसः स स्वीकृत्य निर्ययौ सह ।।१ ०८।।
कुटुम्बेन समस्तेन सहितोऽपत्यबालकैः ।
तावत्तूर्णं विमानं चागतं दिव्यं तदाम्बरात् ।। १ ०९।।
अहं लक्ष्मि स्वयं चाऽऽसं मोक्षदोऽस्मै कृपावशः ।
आदाय तान् विमाने वै दिव्यान् कृत्वा हि पार्षदान् ।।3.210.१ १ ०।।
भौतिकदेहान् त्याजयित्वाऽहं निन्ये निजाऽक्षरम् ।
शाश्वतं ते पदं प्राप्ता भक्ता मे दिव्यमूर्तयः ।।१ १ १।।
इत्येवं कृतवाँस्तेषां कल्याणं सत्समागमात् ।
सर्वे जीवा भजन्ते मां ये ते भवन्ति तादृशाः ।। १ १२।।
पठनाच्छ्रवणादस्य स्मरणाच्छ्रावणादपि ।
भुक्तिर्मुक्तिर्भवत्येव दिव्यगतिश्च सम्पदः ।। ११ ३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने यज्ञराधनामकपुष्कसस्य सकुटुम्बस्य ब्रह्मायनर्षिसाधोः समागमेन श्रीहरिभक्त्या मोक्षप्राप्तिरित्यादिनिरूपणनामा दशाधिकद्विशततमोऽध्यायः ।। २१० ।।