लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २२९

← अध्यायः २२८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २२९
[[लेखकः :|]]
अध्यायः २३० →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां भक्तानिकोद्भवाम् ।
आभीरी मम भक्ताऽऽसीदार्द्रशृंगपुरे स्थिता ।। १ ।।
व्याघ्रारण्ये सिंहव्याघ्रहिंस्रप्राणिमये स्थले ।
नाम्ना रूटाणकीदेवी पूर्वसंस्कारपावनी ।। २ ।।
शृणु लक्ष्मि महाश्चर्यं भक्तायाः प्रवदामि ते ।
पूर्वजन्मनि सा शूद्रा धीवरी सरितस्तटे ।। ३ ।।
धीवरस्य तु नौकायां वर्तमानाऽभवत् सती ।
शत्रुंजयाऽब्धिसंगस्थभूमौ वासवती सदा ।। ४ ।।
गोपनाथमहातीर्थगामिनः सा तु मानवान् ।
प्रतितीरं नयत्येव नौकया कृष्णमानसा ।। ५ ।।
साधवो ये समायान्ति तान् वै भावेन सा सती ।
विना द्रव्यग्रहणं वै परं तीरं नयत्यपि ।। ६ ।।
अन्याँस्तु द्रव्यमादाय परं तीरं नयत्यथ ।
एकदा श्रीहरिचैतन्याऽऽख्यः साधुस्तु योगिराट् ।। ७ ।।
परं पारं प्रगन्तुं तु सरित्तीरमुपाययौ ।
सिद्धः स साधुवर्यो वै पादुकाभ्यां जलोपरि ।। ८ ।।
याति स्वसिद्धतपसा क्वचिद् व्योम्ना प्रयात्यपि ।
तथापि स्वेच्छया भूमौ विहरन् सरितस्तटे ।। ९ ।।
यदृच्छयाऽऽययौ तं च दृष्ट्वा तु धीवरी हि सा ।
नमस्कृत्य स्वनौकायामागन्तुमार्थयद् हुदा ।। 3.229.१ ०।।।
योगिवर्यस्तु धीवर्याः श्रेयसे नावि मां भजन् ।
आरुरोह तत्र चोपादिदेश भक्तितोषितः ।।१ १ ।।
भज कृष्णं भज नारायणं श्रीपुरुषोत्तमम् ।
भज साधून् सतीः साध्वीः सद्गतिं त्व प्रयास्यसि ।। १ २।।
देहस्ते धीवरीरूप आत्मा ते चित्स्वरूपवान् ।
देहोऽयं च वशे जीवात्मनः सदा हि वर्तते ।। १ ३।।
यथा नौका वशे तेऽस्ति तथा देहो वशे तव ।
यथा नौका दृश्यरूपा द्रष्ट्री त्व प्रेरिकाऽसि च ।। १४।।
तथा देहो दृश्यरूपो द्रष्टाऽऽत्मा प्रेरकोऽति च ।
देहो दुःखादिना व्याप्तो द्रष्टा दुःखादिवर्जितः ।। १५।
तत्र द्रष्टरि सर्वज्ञः कश्चिदन्यो विराजते ।
यः सत्कार्ये प्रेरयति दुष्टकार्ये निषेधति ।। १ ६।
अन्तरात्मा साक्षिरूपः स एव भगवान् हरिः ।
अनादिश्रीकृष्णनारायणार्यकृष्णवल्लभः ।। १७।
तमेव भज योगीन्द्रसाधुसाध्वीप्रपूजितम् ।
भक्त्या ह्यनन्यया स्नेहमय्या तं संप्रसेवय ।। १८ ।
हृदये तं प्रभुं कान्तं कृष्णं सदा निभालय ।
ध्यानं गोपीपतेर्नित्यं कुरु स्वरूपशालिनः ।।१९।।
बाह्यविषयान् सन्त्यज्य हृदये पश्य माधवम् ।
इन्द्रियाणि समस्तानि तस्मिन् कृष्णे समर्पय ।।3.229.२०।।
परावृत्त्येन्द्रियवृत्तीस्तस्मिन् कृष्णे नियोजय ।
सच्चिदानन्दसन्दोहान् महानन्दं समर्जय ।।२१ ।।
कृष्णानन्दस्य संभोक्त्री भव नित्यं रमासमा ।
कृष्णभोगस्य सम्प्राप्त्या भोगाश्चान्ये विषं यथा ।।२२।।
तथा ते वै भविष्यन्ति भुंक्ष्व कृष्णं पतिं प्रभुम् ।
श्रीकृष्णस्य चरित्राणि दिव्यानि मानुषाणि च ।।२३।।
संकीर्तय सदा भक्त्या स्वर्गमोक्षप्रदानि वै ।
अद्भुतानि समस्तानि चरित्राणि रमापतेः ।।२४।।
कामचेष्टाचरित्राणि युद्धायोजनकानि च ।
उत्सवाद्यानि सर्वाणि स्मर नित्यं श्रियः पतेः ।। २५।।
लौकिकाऽलौकिकान्येव निकृष्टान्युत्तमानि च ।
तानि सर्वाणि दिव्यानि चरित्राणि रमापतेः ।। २६।।
जडं कुर्याश्चेतनं तु चेतनं तु जडं हरिः ।
एवंविधसमर्थस्य हरेः संगं सदा कुरु ।।२७।।
प्रमादं च महालस्यं महामोहं मदं त्यज ।
अहन्तां ममतां त्यक्त्वा चात्मरूपा सदा भव ।। २८।।
संसारसागरं तर्तुं सत्सु नौषु स्थिरा भव ।
पतिव्रता हरौ भूत्वा हरिं पतिं सदा भज ।।२९।।
देहदशां विहायैव ब्रह्मदशां समाश्रय ।
भोगान् सर्वान् हरौ कृष्णे स्थूलान् सूक्ष्मान् समर्पय ।।3.229.३०।।
आत्माऽहं न तु देह्रोस्मीत्येवं वै मननं कुरु ।
दास्यसि श्रीपतेश्चाहमिप्येवं दिव्यतां वह ।।३१।।
एवंविवेकमासाद्य निर्बन्धा कर्मभिर्भव ।
देहाभिमानजं पापं त्यज याम्यगतिं त्यज ।।३२।।
भजित्वा श्रीपतिं चान्ते दृष्ट्वा दिव्यं रमापतिम् ।
तेन साकं विमानेन दिव्याक्षरपदं व्रज ।।३३।।
धीवरीत्वं विहायैव बुद्धिवरीत्वमावह ।
मम साधोः प्रसंगेन वैष्णवी परमा भव ।।३४।।
अनेन जन्मना यद्वा द्वितीयेनाऽक्षरं व्रज ।
एवं लक्ष्मि तदा नावि तूपदिष्टा हि साधुना ।।३५।।
परं बोधं प्राप्तवती धीवरी धीमती ह्यभूत् ।
परतीरं समायातं चावतीर्य तु साधुराट् ।।३६।।
ययौ तीर्थं च धीवर्यै दत्वा ज्ञानमनुत्तमम् ।
अथ सा श्रीकृष्णनाम जपत्यहर्निशं ततः ।।३७।।
मत्स्यादा धीवरी भाग्यवशेन कालयोगतः ।
मृता सा मानवी जाता ह्याभीरी महिषीवती ।।३८।।
पुनरेव स्त्रीस्वरूपा महाभागवती सती ।
साधूनां सेविका बाल्याद् ब्रह्मचर्यपरायणा ।।३९।।
विवाहेच्छा यया नैव कृता दग्धा तु कामना ।
यौवने विद्यमानेऽपि वार्धक्ये इव संस्थिता ।।3.229.४० ।।
पूर्वसंस्कारवशतो जातिस्मरा तु योगिनी ।
स्वभावतश्चात्मनिष्ठापरायणाऽभवद्धि सा ।।४१।।
नाम्ना रुटाणकीदेवी दिव्यज्ञानपरायणा ।
साधुसेवापरा साध्वी सांख्ययोगिनिका सदा ।।।४२।।
आत्मनिवेदिनी त्यागवती वैराग्यशालिनी ।
मालाऽऽवर्तनमनिशं करोति कीर्तनं हरेः ।।४३।।
महिषाणां तु दुग्धानि साधून् मिष्टानि नित्यशः ।
कृत्वा पायसरूपाणि भोजयत्येव भक्तितः ।।४४।।
स्नात्वा प्रातर्हरिकृष्णं प्रपूज्याऽर्घ्यं प्रदाय च ।
सूर्यायाऽर्घ्यं च पितृभ्यो दत्वा कृत्वा समर्पणम् ।।४५।।
श्राद्धं पायससिद्धान्नैः फलैर्जलैः प्रदाय च ।
ततः सा भोजनं साधून् कारयित्वा सतीस्तथा ।।४६।।
भुंक्ते प्रासादिकं नित्यं वर्तते पंक्तिपावनी ।
यथा लक्ष्मीर्यथा गंगा यथा देवी सरस्वती ।।४७।।
तथा सा ब्रह्मपरमा रुटाणकी हि दीव्यति ।
यस्य गृहे नित्यमेव समायान्ति हि साधवः ।।४८।।
साध्व्यश्चापि समायान्ति भक्तां ज्ञात्वा तु सेविकाम् ।
कीर्तनानि प्रकुर्वन्ति रासान् महोत्सवान् शुभान् ।।४९।।
एवं वै भजमानायाः सेविकाया गृहे क्वचित् ।
निशार्धे संव्यतीते वै सुप्तेषु सर्वदेहिषु ।।3.229.५० ।।
दैत्योऽरण्यात् समायातः कश्चिदायसकुण्डलः ।
ताडवद्दीर्घदेहश्च कृष्णवर्णोऽतिरोमवान् ।।९१ ।।
युवा च बलवान् पुष्टो वटवृक्ष इवाऽपरः ।
स तां सुप्तां महासाध्वीं जगृहे त्वतिलाघवात् ।।५२।।
नीत्वा ययौ व्योममार्गे महारण्ये गतोऽभवत् ।
अवाततार निबिडे वृक्षषण्डेऽपि लाघवात् ।।५३।।
पृथ्व्यां निधाय तां रुटाणकीं सुरूपिणीं शनैः ।
प्रबोधयामास दैत्यः सापि बुबोध यावता ।।५४।।
ददर्श वनमध्ये स्वामानीतां वनवासिना ।
आयसकुण्डलनाम्ना दैत्येन स्ववशीकृताम् ।।५५।।
अथापि सा महाभक्ता धैर्यवती सतीश्वरी ।
महाभागवती दुर्गासमा देवी हि वैष्णवी ।।।५६।।
कृष्णबलवती साध्वी भयं प्राप्ता न वै मनाक् ।
सस्मार हृदये कृष्णं कान्तं जगत्पतिं पतिम् ।।५७।।
यद्यहं तव भक्ताऽस्मि त्वया नैजा कृताऽस्मि च ।
तवैव पातिव्रत्येन वर्तेऽहं श्रीसमा यदि ।।५८।।
त्वयि चास्मि त्वात्मनिवेदिनी वै सांख्ययोगिनी ।
त्वया करो गृहीतोऽस्ति मम चेत् स्वामिना सदा ।।५९।।
तव सन्तश्च साध्यश्च सेविता वै मया यदि ।
त्वदर्थकृतसर्वस्वा यदि चास्मि तव प्रिया ।।3.229.६०।।
तदा त्वायाहि विष्णो त्वं कृष्ण शीघ्रं पुरो भव ।
साक्षादागत्य रक्षां मे कुरु दैत्याद्धि दारुणात् ।।६१ ।।
यदि तेऽहं न जाताऽस्मि भवामि भक्तिवर्जिता ।
तर्हि दैत्यो बलिः स्पर्शं करोतु यदि ते रुचिः ।।६२।।
यथेष्टं कुरु कान्त त्वं यथेष्टं निजनाणके ।
यत्नं विधेहि भगवन्नौदासीन्यं च वाऽऽचर ।।६३।।
इत्युक्त्वा हृदये मह्यं पूजां दत्तवती तदा ।
दैत्योऽपि तां तदा वाचा रञ्जयन् बहुभावतः ।।६४।।
वार्तां कर्तुं तु विविधां प्रेरयत्येव चोत्सुकः ।
तथापि मौनमापन्ना मच्चित्ता न वदत्यपि ।।६५।।
दैत्यो ननर्त पुरतो बहुहास्यकृतिर्मुहुः ।
तथापि कृष्णचित्ता सा बहिर्मनो न वै व्यधात् ।।६६।।
अथ गृहेऽपि निद्रायां सर्वेऽभवन् जडा यथा ।
साधवश्चापि साध्व्यश्च जडाश्च महीमानकाः ।।६७।।
रुटाणक्याः पिता नाम्ना दुर्वारणोऽपि निद्रितः ।
माता नाम्ना खटमिष्टादेवी त्वासीद्धि निद्रिता ।।६८।।
अन्ये ग्रामजनाः सर्वे आसँस्तदाऽतिनिद्रिताः ।
कैश्चिज्ज्ञातं न हरणं रुटाणक्यास्तमोमये ।।६९।।
अथ महिष्यः पशवो गन्धदृष्टय एव ताः ।
विविदुर्दैत्यगन्धं च जाग्रन्निद्राविनिद्रिताः ।।3.229.७०।।
बुबुधुस्ता महिष्यो वै दैत्यं समागतं तथा ।
नीत्वा रुटाणकीदेवीं यान्तं व्योम्नि तमोमये ।।७१ ।।
रणकाटं रम्भणं च पश्वाक्रोशं प्रचक्रिरे ।
जजागरुः समस्तास्ते श्रुत्वा भयं समागतम् ।।७२।।।
चक्रुः परितः काष्ठानां वह्नीन् शार्दूलशंकया ।
दीर्घशब्दान् महानादान् चक्रुस्ते परितः खलु ।।७३।।
सिंहशंकामयाः सर्वे दैत्यं न विविदुस्तदा ।
एवं घटिका विगता कृतेऽपि रक्षणेऽभितः ।।७४।।
महिष्यो नाऽभवन् शान्ता गर्जन्ति विह्वला यथा ।
एका तु महिषी रूटाणक्यासनं द्रुतं ययौ ।।७५।।
शृंगाभ्यामासनं नीत्वा भ्रमणं प्रचकार सा ।
आहूता तु तदा सर्वै रूटाणकि रुटाणकि ।।७६ ।।
क्व गता त्वासनं चेयं महिषी नाशयत्यपि ।
समाहूता चापि यदा न प्रत्युवाच भामिनी । ।७७।।
न दृश्यते जनमध्ये गृहे साध्वीसतीष्वपि ।
तदा शंकास्पदा जाता नीता केनापि पुत्रिका ।।७८।।
अथ वै विह्वलाः सर्वे रुरुदुर्मार्गणाय च ।
परितो निर्ययुश्चापि सीम्नि क्वापि न ददृशुः ।।७९।।
प्रत्याययुर्गताशास्ते सस्मरुर्मां परेश्वरम् ।
साध्व्यश्च साधवः सर्वे नामसंकीर्तनं व्यधुः ।।3.229.८०।।
अनादिश्रीकृष्णनारायणार्यकृष्णमाधव ।
तदा ययावहं चक्रगरुडाभ्यां युतो वने ।।८ १ ।।
नृत्यन्तं दैत्यराजं तं चकर्ताऽहं सुलाघवात् ।
तत्तेजो मयि त्वाकृष्य कृत्वा तां गरुडोपरि ।।।८२।।
आनन्दयित्वा प्रीत्या तामनयं तद्गहं द्रुतम् ।
सापि दिव्यतमा जाता साध्वी मत्स्पर्शमात्रतः ।।।८३।।
दिव्यैश्वर्यवती लक्ष्मि यथा त्वं त्वादृशी हि सा ।
एवं तां व्योममार्गेण चाऽऽर्द्रशृंगपुरे गृहे ।।८४।।
अवस्थाप्य तथा सर्वभक्तेभ्यो दर्शनं मम ।
दत्वा तेजोमयं दिव्यं स्थित्वा च घटिकाऽधिकम् ।।८५।।
साधुसाध्वीकृतां सेवामंगीकृत्य च पायसम् ।
भोजनं पूजनं वारिपानं ताम्चूलकादिकम् ।।८६।।
भुक्त्वा गरुडवाहोऽहं गन्तुं सज्जोऽभवं यदा ।
तदा भक्ताः प्रेममग्नाः प्रार्थयामासुरुत्सुकाः ।।८७।।
सह त्वस्मान्नय कृष्ण यदि ते स्मोऽतिसेवकाः ।
रूटाणकी साधवश्च साध्व्यश्चापि तथाऽऽर्थयन् ।।८८ ।।
अहं लक्ष्मि तदा तेभ्यो मम मन्त्रं ददौ शुभम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।८९।।
पादजलं प्रसादान्नं पायसं च ददौ तदा ।
अपक्वान्मानवान् भक्तिं कर्तुमादिश्य तत्र च ।।3.229.९०।।
पक्वान् साध्वीः साधुजनान् रुटाणकीं तथा सतीम् ।
मातरं जनकं तस्यास्तथा तां महिषीमपि ।।९ १ ।।
विधाय दिव्यदेहाँश्च मुक्तान् मुक्तानिकास्तथा ।
निधाय गारुडे पृष्ठेऽनयं धामाऽक्षरं मम ।।९२।।
अन्यानपक्वान् कालेनाऽनयं वैकुण्ठमुत्तमम् ।
एवं लक्ष्मि मया रक्षा कृताऽऽभीर्या हि योषितः ।।९३।।
सा तु मुक्तानिका जाता ब्रह्मप्रिया मदक्षरे ।
रूपेश्वरीतिनाम्नाऽद्य वर्तते तव मण्डले ।।९४।।
युवती मम पत्नीयं पश्यैनां मद्विवाहिताम् ।
अन्याः साध्व्यो युवत्योऽत्र सन्ति दश स्त्रियो मम ।।९५।।
मन्दारकलिकाद्यास्तास्तव सख्योऽत्र योषितः ।
कुंकुमवापिकाक्षेत्रे ब्रह्मप्रिया मम प्रियाः ।।९६।।
दिव्यचक्षुष एवैतां कथां विदन्ति नेतरे ।
चमत्कारो मम दिव्यस्ते रमे कथितो मया ।।९७।।
भक्तानां रक्षणं चैवं करोमि सर्वथा सदा ।
पक्वानां मोक्षणं चापि धामाऽक्षरप्रदानकम् ।।९८।।
ये मां भजेयुः सततं सर्वस्वार्पणभावनाः ।
तेषामहं च ते मेऽपि सम्बद्धाः संभवन्ति हि ।।९९।।
मदर्पितानामवनं करोमि सर्वथा सदा ।
कालाद् यमात् कर्मतश्चेन्द्रियादिभ्यश्च दोषतः ।। 3.229.१० ०।।
पटनाच्छ्रवणादस्य चिन्तनात् कथनादपि ।
भुक्तिर्मुक्तिर्भवेदेव मम प्राप्तिः सुखप्रदा ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पूर्वजन्मनि धीवर्या रूटाणक्या आभीरीभक्तायाः साध्वीनां च दैत्याद् रक्षणं मोक्षण च श्रीहरिणा
कृतमित्यादिनिरूपणनामा नवविंशत्यधिकद्विशततमोऽध्यायः ।। २२९ ।।