लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०४६

← अध्यायः ४५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ४६
[[लेखकः :|]]
अध्यायः ४७ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कुसारजातियोषितः ।
सत्कथां पावनीं तत्र मोक्षदां भक्तिसंभृताम् ।। १ ।।
सिन्धुदेशे तु ये भक्ताः कृष्णनारायणाश्रिताः ।
अभवँस्ते मिलित्वा वै केचित् संघात्मकास्ततः ।। २ ।।
लक्ष्मीनारायणसंहितायाः पारायणे शुभे ।
कार्तिके शुक्लपक्षे वै प्रातश्चैकादशीदिने ।। ३ ।।
पूजनार्थं संहिताया आययुश्चोपदाकराः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा दासाश्च दासिकाः ।। ४ ।।
यावन्तः पुष्पहाराद्यैः कुंकुमाऽक्षतचन्दनैः ।
धूपदीपसुनैवेद्यैरानर्चुः संहिताश्रियम् ।। ५ ।।
आरार्त्रिकफलपुष्पाञ्जलिस्वर्णार्पणैस्तथा ।
मणिरत्नहीरकाद्यैः स्वर्णभूषाम्बरादिभिः ।। ६ ।।
ते स्वप्रकाशं व्यासं चाऽऽनर्चुः सर्वे तथाविधैः ।
दिव्योत्तमैरुपचारैस्ततः श्रीकृष्णकीर्तनम् ।। ७ ।।
चक्रुर्वाद्यविशेषाढ्यं तालिकानादगर्भितम् ।
'हरे कृष्ण बालकृष्ण कृष्णनारायण प्रभो ।। ८ ।।
अनादिश्रीकृष्णनारायण श्रीकान्त सद्विभो' ।
एवं धून्ये प्रभवति मग्नानां सर्वदेहिनाम् ।। ९ ।।
एकाग्रमानसानां वै तदाऽऽश्चर्यं महद्ध्यभूत् ।
विमानमागतं दिव्यं कोटिसूर्यसमप्रभम् ।।4.46.१०।।
तत्रैका द्योतिकानाम्नी कंसारी दिव्यविग्रहा ।
भूत्वाऽऽरुह्य विमाने सा ययौ धामाऽक्षरं परम् ।। १ १।।
श्रीबद्रीप्रियोवाच-
का सा वै द्योतिकानाम्नी कथं सा दिव्यविग्रहा ।
केन पुण्येन सा याता धामाऽक्षरं तु तद्वद ।। १२।।
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि साऽऽसीद् वै कर्मचारिणी ।
भृत्या दासी वेतनेन रायहरेर्नृपस्य वै ।। १ ३।।
जात्या शूद्रा हि कंसारी पात्रमञ्जनकारिणी ।
मार्जनादिपरा तत्र नृपराज्ञ्यास्तु किंकरी ।। १४।।
भक्ताऽऽसीत् पूजने कार्ष्णे कंसारी तु कुसारिणी ।
नित्यं सा शृणुते लक्ष्मीसंहितां नियमान्विता ।। १५।।
राज्ञीकार्याणि निर्वर्त्य देरहकार्याणि सर्वथा ।
राज्ञ्यालयसमस्तानि कार्याणि प्रविधाय सा ।।१६।।
कृतस्नानजपपूजा कृतदास्यसमस्तिका ।
कृतादरा भक्तिनिष्ठा कथायामुपतिष्ठते ।। १७।।
पुष्पहारेण सहितां पुष्पहारेण वाचकम् ।
कुंकुमाऽक्षतमुद्राभिः समर्चयति नित्यशः ।। १८।।
करमाला स्थिरचित्ता नत्वा व्यासं सभां ततः ।
श्रवणार्था सभायां सा निषीदति ह्यतन्द्रिता ।। १९।।
तस्याः पतिः कुसारोऽपि कृष्णसाराऽभिधः सदा ।
कथां श्रोतुं समायाति शीघ्रं याति च कर्मणे ।।4.46.२०।।
राजसेवापरः पत्न्याः कार्यं शेषं करोति सः ।
पत्नी भावप्रपूर्णा सा कथाः शृणोति सर्वथा ।।२, ।।
श्रत्वा सन्धार्य रात्रौ स्वस्वामिने कथयत्यपि ।
एवंविधाऽऽदरपरा कथाश्रवणमात्रतः ।।२२।।
पावनी सा तु संभूता सर्वपापविवर्जिता ।
तया मन्त्रो हरेस्तत्र गृहीतो व्यासतः शुभः ।।२३।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
नित्यं मन्त्रं जपति सा तथा करोति कीर्तनम् ।।२४।।
 'हरेकृष्ण कृष्णनारायण श्रीपरमेश्वर ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम' ।।२५।।
एवं करोति भजनं भोजनं चैकवारकम् ।
प्रसादं वा फलाद्यं वा गृह्णात्येव न चापरम् ।।२६।।
एवं वै वर्तमानयाः कंसार्याः पापमोचनम् ।
पुण्यानामुदयः कृष्णनारायणप्रसन्नता ।।२७।।
सर्वं जातं स्वभावेन गुरोः करोति सेवनम् ।
स्वपनं गात्रसंवाहं वस्त्रक्षालनकादिकम् ।।२८।।
व्याससेवाप्रपुण्येन भक्तिबले प्रवर्धिता ।
व्यासासनादिक्लृप्त्या च सभास्थलादिमार्जनात् ।।२९।।
महापुण्यप्रतापेन कर्मक्षयो व्यजायत ।
देहत्यागसमयोऽस्याः प्राप्तस्तदा हरिः स्वयम् ।।4.46.३०।।
विमानं दिव्यमारुह्य स्वयं नेतुं समाययौ ।
दिव्यदृशां गोचरो वै कृष्णनारायणः प्रभुः ।।३१ ।।
किरीटी कुण्डली चक्री वासस्वी श्रीसमन्वितः ।
प्रभासयन् दिशाः सर्वा आगत्य तु कथास्थले ।।३२।।
अवतीर्य विमानात् स तां जग्राह करे हरिः ।
सापि देहं भौतिकं वै त्यक्त्वा नत्वा सभां तथा ।।३३।।
स्वतःप्रकाशं दिव्यं स्वं सद्गुरुं विष्णुरूपिणम् ।
लोमशं च मुनिं साधूनन्यान्नत्वा पुनः पुनः ।। ३४।।
याचित्वा च क्षमां दिव्यदेहा मुक्तानिका शुभा ।
दिव्या कार्ष्णी कृष्णतुल्या राधातुल्या मनोहरा ।।३५।।
भूत्वा विमानमारुह्य कृष्णनारायणान्विता ।
ययौ धामाऽक्षरं दिव्यं पश्यतां दिव्यचक्षुषाम् ।।३६।।
आश्चर्यं परमं तद्वै कथाश्रवणसत्फलम् ।
अभवद्वै तथा बद्रि महामोक्षप्रदं परम् ।।३७।।
कुसारिणी द्योतिका सा कंसारी कृष्णसारिणी ।
प्रसञ्जाता यथा लदमीर्दिव्ये धान्नि व्यराजत ।।३८।।
एवं तदा बहवो वै नरा नार्यश्च पावनाः ।
कथां श्रुत्वाऽभवन् लोके जीवन्मुक्ता हरेः प्रियाः ।।३९।।
अमृतं भेषजं बद्रि करोत्येव निरामयम् ।
कृष्णामृतं तु मायानां रोगान्नाशयति द्रुतम् ।।4.46.४० ।।
सतां सेवा गुरोः सेवा भक्तिश्च भजनं हरेः ।
आत्मनो दिव्यतां श्रेष्ठां कुर्वन्त्येव प्रमोक्षणम् ।।४१ ।।
शृणु बद्रीप्रिये देवि सायं त्वेकादशीतिथौ ।
ऊर्जे तत्र महाश्चर्यमपरं संव्यजायत ।।४२।।
कुलालस्य कुटुम्बं वै सेवायां सर्वथाऽभवत् ।
कुंभकारो नरराजस्तथा भार्याऽस्य रक्षिका ।।४३।।
पुत्राः पुत्र्यः समस्ता वै पारायणपरायणाः ।
सर्वं कुटुम्बं नित्यं वै सेवते तत्सभास्थलम् ।।४४।।
क्षणे क्षणे जलपानं ददात्यतीव शीतलम् ।
पात्राणां भञ्जनं वायोव्यजनैः सुप्रदानकम् ।।४५।।
आस्तरणास्तरणादि रजसां मार्जनादिकम् ।
कथान्ते रिक्तभावे त्वास्तरणानां प्रमोडनम् ।।४६।।
रक्षणं च स्थले योग्ये कच्चरादिनिकासनम् ।
कथायाः श्रवणं चापि पूजनं दर्शनादिकम् ।।४७।।
कुलालस्य कुटुम्बं वै सर्वं प्रसेवते सभाम् ।
कथां शृणुते नित्यं तद् भजते पार्वतीपतिम् ।।४८।।
एवं ध्वस्ताऽघमेवाऽतो मन्त्रं जग्राह सद्गुरोः ।
व्यासात् प्राप्त्वा हरेर्नाममाहात्म्यं च ततः परम् ।।४९।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मन्त्रं जेपुः कुलालास्ते भजनं चक्रिरे मुदा ।।4.46.५०।।
 'हरेकृष्ण प्रभोकृष्ण बालनारायण प्रभो ।
अनादिश्रीकृष्णनारायण पारं कुरु प्रभो' ।।५१ ।।
मालावर्तनमाचक्रुः कृष्णनारायणेति च ।
सेवां चक्रुः सभायास्ते व्यासस्याऽमिततेजसः ।।५२।।
तेन दग्धानि पापानि तेषां च वासनाक्षयः ।
जन्ममृत्युप्रवाहस्याऽधिकारो नाशतां गतः ।।५३।।
सायं कथान्ते धुन्याऽन्ते भजनान्ते हरेः पुरः ।
सभान्तिके कुटुम्बं तत् समस्तं दिव्यभावनम् ।।५४।।
श्रीहरेः कृपया दिव्यदेहं जातं द्रुतं तदा ।
तावत् तत्र समायातं विमानं व्योममार्गतः ।।।५५।।
यत्र नारायणकृष्णो राधायुक्तोऽभवत् प्रभुः ।
प्रकाशयन् दिशः सर्वा विमानात् समवातरत् ।।५६।।
भूमौ तत्र कुलालाग्रे पश्यतां दिव्यचक्षुषाम् ।
सर्वान् विधाय भगवान् कुलालात् दिव्यविग्रहान् ।।५७।।
विमाने स्वे ह्यवस्थाप्य पराश्चर्यं प्रसारयन् ।
ययौ धामाक्षरं दिव्यं कृपालुर्भक्तवत्सलः ।।५८।।
कुलालानां स्थूलदेहा नाऽदृश्यन्त तदा भुवि ।
स्थूलास्ते दिव्यतां प्राप्ताः सेवया श्रीगुरोः सताम् ।।५ ९ ।।
वैष्णवानां सेवया च कथायाः सेवनात्तथा ।
भक्त्या ध्यानेन कृष्णस्य कार्ष्णतां ते ययुस्तदा ।।4.46.६०।।
लक्षशो वै जनास्तत्राश्चर्यमग्नास्ततोऽभवन् ।
अहो कथाया माहात्म्यं बद्रिके दिव्यमोक्षकृत् ।।६ १ ।।
शृणु रात्रौ ततो जातं महाश्चर्यं वदामि ते ।
रात्र्यारम्भे कीर्तनं वै चक्रिरे सर्ववैष्णवाः ।।६ २।।
एकादश्या जागरणे ययुः कृष्णैकतानताम् ।
वाद्ययुक्ते कीर्तने वै प्रेममग्नास्तदाऽभवन् ।।६३।।
तत्रैका स्वर्णकारस्त्री धातुध्मस्त्री तथाऽपरा ।
सुम्बालिकाऽभिधा चाद्या परा नाम्ना विनोदिनी ।।६४।।
कीर्तयन्त्यौ सहसैव तन्मय्यौ चित्तरोधताम् ।
प्राप्यैकतानतां लब्ध्वा समाधिं भेजतुर्द्रुतम् ।।६५।।
तयोरग्रेऽभवत्तेजोमयी मूर्तिः सनातनी ।
अनादिश्रीकृष्णनारायणस्य यौवनान्विता ।।६६।।
रमणीया सूर्यचन्द्रवह्निविद्युत्समप्रभा ।
देदीप्यमाना सुभगा पुष्टा सर्वांगसुन्दरी ।।६७।।
विमानं दिव्यतेजोमच्छोभनं परमाद्भुतम् ।
तत्राऽदृश्यत वै रात्रौ भूतले हरिसन्निधौ ।।६८।।
पार्षदैर्बहुभिर्युक्तं मुक्तानिकाभिशोभितम् ।
चक्षुष्मतां दर्शनार्हं सर्वेषां दृष्टिगोचरम् ।।६९।।
कृष्णनारायणो विष्णुः पश्यतां सर्वदेहिनाम् ।
पस्पर्श ते स्त्रियौ दक्षकरेण यावदेव हि ।।4.46.७०।।
तावद्विद्युत्समे श्वेते चोज्ज्वले ते बभूवतुः ।
दिव्यरूपे दिव्यभूषाधरे दिव्यसुविग्रहे ।।७१।।
तयोर्देहौ भौतिकौ तु तत्रैवाऽदृश्यतां गतौ ।
दिव्यदेहौ सुनिष्पन्नौ शुभौ राधारमासमौ ।।७२।।
युवत्यौ ते हरिं नत्वाऽऽरुरुहतुर्विमानकम् ।
अनादिश्रीकृष्णनारायणो द्रुतं हसन् हरिः ।।७३ ।।
स्वं विमानमधिरुह्य नीत्वा ते मुक्तयोषितौ ।
ययौ धामाऽक्षरं तूर्णं दिव्येनाऽम्बरवर्त्मना ।।७४।।
एवं तत्राश्चर्यमेतच्चमत्कारमयं ह्यभूत् ।
कथायाः कीर्तनादेश्च फलं मोक्षप्रदं शुभम् ।।७५।।
बद्रिके द्वादशीप्रातःकाले ब्राह्मे मुहूर्तके ।
आश्चर्यं परमं जातं शृणु त्वं संवदामि ते ।।७६।।
नाट्यकारोऽभवत्तत्र नाम्ना रञ्जनकोविदः ।
स कृत्वा जागरं स्नात्वा ब्राह्मे मुहूर्तके प्रगे ।।७७।।
नीत्वा पुष्पाणि च मालां चन्दनं कुंकुमं फलम् ।
अक्षतान् दर्भपत्राणि तिलान् गूढं च शर्कराः ।।७८।।
गोधूमान् श्वेतधोत्रं च स्वर्णमुद्रां च कम्बलम् ।
पूजार्थं संहितायाः स समाययौ तु मण्डपम् ।।७९।।
यां संहितां स्त्रीजनः प्रदक्षिणं करोति वै ।
नरा नत्वा पूजयित्वा यान्ति गुर्वर्चनाय च ।।4.46.८ ०।।
तत्र गायन् पूजनार्थं प्राप्तो रञ्जनकोविदः ।
नेमे चानर्च तां संहितां पुष्पादिभिरादरात् ।।८ १ ।।
प्रदक्षिणं चकाराऽपि ततश्चारार्त्रिकं व्यधात् ।
तत्क्षणे रुद्धचित्तोऽसौ तुर्यावस्थां विवेश ह ।।८२।।
भानहीनः पपाताऽस्य देहस्तत्रैव भूतले ।
तावद् दिव्यं समायातं विमानं प्रोज्ज्वलं शुभम् ।।८३।।
अम्बरात् सहसा भूमाववातरत् तडिद् यथा ।
तत्र नारायणकृष्णो दिव्यमूर्तिरदृश्यत ।।८४।।
सर्वेषां गोचरः साक्षाद् रमाराधापतिः प्रभुः ।
मायामुक्तं दिव्यदेहं हरिः रञ्जनकोविदम् ।।८५।।
मुक्तात्मानं विमाने स्वे नीत्वा धामाऽक्षरं ययौ ।
महाश्चर्यमभूत्तत्र बद्रिके प्रातरेव तत् ।।८६।।
तावत् कश्चित् समायातः कदर्यस्तत्र भूसुरः ।
पत्रपुष्पजलयुक्तः संहितापूजनाय वै ।।८७।।
श्लोकमुच्चारयन् तस्थौ सम्मर्दे योषितां तथा ।
'नमः संहितारूपाय माधवीस्वामिने नमः ।।८८।।
निर्मलानां हृदिस्थाय मोक्षदाय च ते नमः ।
नमो राधारमालक्ष्मीश्रीरूपायै मुहुर्मुहुः ।।८९।।
मोक्षदात्र्यै दिव्यमात्रे ज्ञानदायै च ते नमः ।
नमः श्रीकृष्णकान्तायै माणिक्यायै च ते नमः ।।4.46.९०।।
ब्रह्मविद्यास्वरूपायै धामशक्त्यै च ते नमः ।
नमः श्रीबदरीदेव्यै जयादेव्यै च ते नमः ।।९१ ।।
नमः प्रियायै दिव्यायै पारंगत्यै च ते नमः ।
नमो मात्रे महालक्ष्म्यै ललितायै च ते नमः ।।९२।।
ब्रह्मदात्र्यै परब्रह्मयोगदात्र्यै च ते नमः ।
इत्येवं स हरिकृष्णं तुष्टाव संहिताश्रियम् ।।९३।।
तावन्नार्यो ददुस्तस्मै पूजावसरमुत्तमम् ।
पुपूज परमात्मानं कदर्यो विप्रराट् तु सः ।।९४।।
संहितां पूजयामास कूर्दनं नर्तनं तथा ।
तालिकावादनं गालवादनं सक्थिशब्दनम् ।।९५।।
घुर्घुरावादनं चाऽऽस्ये चकार कीर्तनं तथा ।
क्षणं स्तब्धा दर्शका वै मानवास्तु तदाऽभवन् ।।९६।।
अथैवं कीर्तने मग्नश्चैकचित्तोऽतिरोधकृत् ।
मूर्तौ त्वेकात्मतां प्राप्तो ब्रह्मरन्ध्रे विवेश ह ।।९७।।
ब्रह्मरन्ध्रात् तस्य तेजः सहस्रसूर्यसदृशम् ।
निर्यातं सहसा तत्र ह्यन्धीकुर्वज्जगत्त्रयम् ।।९८।।
नेत्रमूर्छां गतः सर्वे नरा नार्यश्च बद्रिके ।
तावच्छान्तं चन्द्रसमं शनैर्दृश्य हि चाऽभवत् ।।९९।।
तत्राऽनादिकृष्णनारायणः स्वामी व्यदृश्यत ।
करे गृह्णन् कदर्यं तं नाम्ना श्रीरामसुन्दरम् ।। 4.46.१०० ।।
तावत्तत्र विमानं वै समायातं महाम्बरात् ।
कृष्णनारायणस्तत्र नीत्वा श्रीरामसुन्दरम् ।। १० १।।
दिव्यदेहं ययौ धामाऽक्षरं तूर्णं श्रियः पतिः ।
आश्चर्यं परमं सर्वयोषितां कृष्णदर्शनात् ।।१ ०२।।
अभवद् वै नराणां च प्रोत्साहः परमोऽभवत् ।
कदर्यस्य शरीरं तत् तत्रैव लीनतां गतम् ।। १०३ ।।
एतद्वै तन्महाश्चर्यं प्राप्ता दृष्ट्वा जनाः पुनः ।
कथायाः श्रवणादेतन्मोक्षणं पूजनात्तथा ।। १ ०४।।
सञ्जातं श्रीकदर्यस्य दिव्यदेहेन चाक्षरम् ।
निवासाय सदा जातं धाम यच्छाश्वतं प्रभोः ।। १ ०५।।
इत्येवं बद्रिके सिन्धुदेशे पारायणक्षणे ।
नित्यं नित्यं प्रजायन्ते देहिनां मोक्षणानि वै ।। १ ०६।।
पठनाच्छ्रवणादस्य चमत्कारस्य कीर्तनात् ।
भुक्तिर्मुक्तिर्भवेच्चापि दिव्या गतिः परं पदम् ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने
संहितायाः श्रवणेन पूजनेन च विद्योतानाम्न्याः कंसा-
रिण्याः, कुंभकारस्य नरराजस्य कुटुम्बस्य, स्वर्णकारस्त्रिया अम्बालिकायाः, धातुध्मस्त्रिया विनोदिन्याः, नाट्यकारस्य रञ्जनकोविदस्य, कदर्यस्य श्रीरामसुन्दरस्य, च श्रीकृष्णनारायणेन मोक्षणं कृतमित्यादिनिरूपणनामा षट्चत्वारिंशोऽध्यायः ।। ४६ ।।