लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०५०

← अध्यायः ४९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ५०
[[लेखकः :|]]
अध्यायः ५१ →

श्रीनरनारायण उवाच--
शृणु बद्रीप्रिये देवि कथां निन्दकयोषितः ।
बालवने पुरे त्वासीन्नास्तिका द्वेषकारिणी ।। १ ।।
द्विर्वदन्तीतिनाम्न्येव प्रसिद्धा शूद्रभामिनी ।
अनपत्या रुग्णपतिभार्या सर्वस्य निन्दिका ।। २ ।।
यस्य कस्यापि श्रैष्ठ्यं वाऽभ्युदयं सा शृणोति चेत् ।
खण्डयत्येव सामर्षा स्वभावाज्ज्वलनात्मिका ।। ३ ।।
तेजोद्वेषकरी चाप्यसहमानाऽन्यगौरवम् ।
निन्दत्येव सती लोकान् सज्जनाँश्च सतीस्तथा ।। ४ ।।
विप्रं गुरुं पितरौ च वृद्धान् कुटुम्बिनोऽपि च ।
नृपं राज्ञीं सतीं साध्वीं साधून्निन्दति वै वृथा ।। ५ ।।
एतादृश्यास्तु निन्दायाः पापं तस्या महद्ध्यभूत् ।
अनपत्या ततश्चास्ते रुग्णश्चास्याः पतिस्तथा ।। ६ ।।
निन्दनं खननं प्रोक्तं भाग्यस्य वंशजस्य च ।
वंशस्योच्छेदनं तेन पापेन जायते ततः ।। ७ ।।
नरके वसतिः स्याच्च निर्वंशस्य मृतस्य वै ।
पुण्यनाशो निन्दया स्याद् धर्मनाशोऽपि निन्दया ।। ८ ।।
यशोहानिर्निन्दया चाऽनृतं सर्वं हि निन्दया ।
मृषा क्षेपो निन्दया स्यादनर्थो निन्दया भवेत् ।। ९ ।।
अपराधो निन्दया स्याद् देवधर्मादिखण्डनम् ।
निन्दया शास्त्रनास्तिक्यं व्रतोत्सवादिखण्डनम् ।। 4.50.१ ०।।
एवमादीनि पापानि प्रजायन्ते हि निन्दया ।
निन्दास्वभाविनी नारी निन्दति स्वपतिं ह्यपि ।। ११ ।।
मातरं पितरं श्वश्रूं श्वशुरं निन्दति ह्यपि ।
योगिनं च महात्मानं गुरुं पूज्यं परेश्वरम् ।। १२।।
लक्ष्मीं राधां माणिकीं च ललितां चापि निन्दति ।
मुक्तान् मुक्तानिकाश्चापि मन्दिराणि हरेस्तथा ।। १ ३।।
देवालयान् दैविजनान् सत्पुरुषान् विनिन्दति ।
कथां मोक्षकरीं मोक्षं स्वगृहं च परगृहम् ।। १४।।
निन्दत्येषा चरित्राणि श्रीकृष्णस्यापि सर्वथा ।
पावनानि च कार्याणि तीर्थान्यपि च निन्दति ।। १५।।
यज्ञयागादिकं चेष्टापूर्त्तं चापि विनिन्दति ।
निन्दकः सर्वथा द्वेष्यकारणकः प्रजायते ।। १६।।
तस्मान्निन्दा महापापं दुष्टनिरयसदृशम् ।
अधोनिरयदा निन्दा महारौरवदायिनी ।। १७।।
वंशनाशकरी निन्दा बद्रिकेऽर्थविनाशिनी ।
एवंपापाभिसंव्याप्ता द्विर्वदन्ती तु शूद्रिका ।। १८।।
शुश्राव लोकमुखतो माहात्म्यं पापनाशकम् ।
संहितायाः कथाया वै कृष्णनारायणस्य च ।। १९।।
द्विर्वदन्ती पतिं प्राह नाम्ना द्विर्गर्जनं तदा ।
शर्करानगरे कृष्णनारायणस्य गौरवम् ।।4.50.२० ।।
श्रूयते च चमत्कारः प्रत्यक्षदर्शनं तथा ।
कथायाः श्रवणं चापि सर्वपापविनाशनम् ।।२१।।
गच्छन्ति तीर्थयात्रार्थं मानवास्तत्र संघशः ।
न मन्येऽहं तादृशं वै माहात्म्यं तीर्थभूमिजम् ।।२२।।
तीर्थं व्रतं कथा यात्रा दानं सर्वं मृषा सदा ।
किं तीर्थेन कथया वा वृथा यान्ति जनाः खलाः ।।२३।।
गतानुगतिको लोको लुण्टको मिषमात्रकृत् ।
वृथा गायन्ति माहात्म्यं लोकाः कृष्णस्य तत्र वै ।।२४।।
स्वामिन् किं तद्भवेत् सत्यं मयाऽनृतं तु मन्यते ।
कपटं सर्वमेवैतज्जडानां तत् प्रतारणम् ।।२५।।
इत्युक्तः स पतिर्नाम्ना द्विर्गर्जनो जगाद ताम् ।
मैवं मैवमवोचस्तत् सत्यमेवाऽनृतं नहि ।।२६।।
सत्यो नारायणः कृष्णः सत्या कथाऽघहारिणी ।
सत्यः सर्वश्चमत्कारो माहालयं च ऋतं हरेः ।।२७।।
तीर्थं व्रतं कथा यात्रा दानं सर्वमृतं प्रिये ।
तीर्थेन कथयाऽघानां क्षालनं जायते प्रिये ।।२८।।
न लोको लुण्टकः पत्नि न गतानुगतोऽपि च ।
यत्र श्रीभगवद्वार्तायज्ञो भवति सर्वथा ।।२९।।
वार्षिकः स महायज्ञस्तत्रोद्धरन्ति पापिनः ।
निन्दिका नास्तिका त्वॆ तु पापा पापमयी सदा ।।4.50.३० ।।
पापमेव कल्पयसि निन्दनं प्रकरोषि च ।
किं त्वया निन्दया भार्ये प्राप्यते दुष्टवादिनि ।।३ १ ।।
मैवं पुनरवोचो मां न श्रोष्यामि हि निन्दनम् ।
निन्दाफलं महाघोरं भुज्यते त्वनपत्यता ।।।३२।।
पुनर्निन्दाफलेन त्वं प्रयास्यसि यमालयम् ।
इत्युक्ता सा द्विर्वदन्ती प्राहाऽनृतो यमालयः ।।३३।।
न यमा न यमावासो बालानां भयमेव तत् ।
असत्या वै यमाः सर्वे यमालयोऽनृतालयः ।।३४।।
एवमाह तदा तां च पतिः प्राह हितावहम् ।
दुष्टे! वीक्ष्य चमत्कारं सत्यॆ सर्वमवाप्स्यसि ।।३५।।
पापफलं भवत्येव कृष्णनिन्दोत्थमुल्बणम् ।
तदा ज्ञास्यसि सत्यं तद् यमालयं यमानपि ।।३६।।
विरराम पतिस्तूक्त्वा सापि नास्तिक्यभावतः ।
निन्दत्येव हरिं धर्मं कथां साधून् यमादिकान् ।।३७।।
तावदेवाम्बरात्तत्र यमदूतो विनिर्ययौ ।
श्रुत्वा वाक्यं द्विर्वदन्त्याः ऋद्धश्च दर्शनं गताः ।।३८।।
अदृश्यत करालोऽति पर्वतप्रायदेहवान् ।
दंष्ट्राकरालः कृष्णश्च कज्जलाभो भयावहः ।। ३९।।
ऊर्ध्वरोमा बहिर्दन्तो रक्तस्फारितनेत्रकः ।
महामुद्गरहेतिश्च ललज्जिह्वो विवस्त्रकः ।।4.50.४० ।।
वज्रकाठिन्यपुष्टश्च महाकपर्दिमालिकः ।
शंकुकर्णो द्विशृंगश्च दीर्घपाशाढ्यहस्तकः ।।४१ ।।
लोष्ठशृखलास्कन्धश्च बद्धाऽयोमेखलाकटिः ।
लोहदण्डं सशूलं च करे दधन् सरोषकः ।।४२।।।
उद्यम्य मुद्गरं वेगात् क्रुद्धस्ताडयितुं च ताम् ।
अभ्यायौ द्विर्वदन्तीं गर्जयन् सर्वतो दिशः ।।४३।।
तावत् सा तं विलोक्यैवाऽभवत् त्रस्ता सवेपथुः ।
शैथिल्यदेहबन्धाश्च त्यक्तविण्मूत्रमूर्छिता ।।४४।।
आक्रोशं दुःश्रवं कृत्वा पपात तत्र भूतले ।
रक्षां रक्षां करोत्वेवं वदमाना पपात सा ।।४५।।
प्रसारितांऽघ्रिहस्ता चोत्ताना व्यात्ताननाऽभवत् ।
स्वेदक्लिन्नाऽभवत् तावद् यमदूतेन वै क्रुधा ।।४६।।
ताडिता मुद्गरेणैव शिक्षार्थं द्विर्वदन्तिका ।
महाकष्टं च लेभे सा द्रुतं भग्नाऽस्थिकाऽभवत् ।।४७।।
चूर्णदेहा महामारमापन्ना मरणोन्मुखी ।
सञ्जाता सा तदा दूतः पस्पर्श तां करेण वै ।।४८।।
सम्पन्नदेहा सञ्जाता यथापूर्वशरीरिणी ।
पुनः सा गदया वह्नि ताडिता शिक्षणाय वै ।।४९।।
भग्नवंशा भग्नदेहा प्रभग्नमस्तक'ऽभवत् ।
विह्वला चूर्णितदेहा स्रवद्रक्ताऽभितोऽभवत् ।।4.50.५०।।
तथापि सा स्थिरप्राणा महाकष्टमवाप ह ।
पुनः करेण दूतस्तं पस्पर्श सा समन्ततः ।।५१।।
यथापूर्वशरीरा साऽभवत् तावद् यमानुगः ।
लोहदण्डेन तां पृष्ठे मारयामास वै बलात् ।।५२।।
प्रफुल्लपृष्ठभागा सा महामारप्रपीडिता ।
आक्रन्दनं महच्चक्रे मुक्तकण्ठाऽतिताडिता ।।९३।।
पाशेनाऽऽबध्य तां दूतस्तस्थौ नग्नां विधाय वै ।
प्रकाशं व्यक्तरूपोऽभूद् गोचरः सर्वदेहिनाम् ।।५४।।
आक्रन्दनं महच्छ्रुत्वा पतिः पार्श्वनिवासिनः ।
नरा नार्यः प्रपश्यन्तो महात्रासाऽतिविह्वलाः ।।५५।।
दूरे एव स्थितास्त्रस्ता नाऽऽययुः सन्निधौ भयात् ।
दूतदर्शनमात्रेण निर्बला विविशुर्गृहम् ।।५६।।
दूतस्तु तां महापापां सर्वेषां शृण्वतां तदा ।
गर्जयन् दिग्विभागाँश्च जगाद मर्मभेदकम् ।।५७।।
रण्डे दुष्टे पापकर्त्रि निन्दिके नास्तिकि खले ।
कथं निन्दसि धर्मं त्वं व्रतं पुण्यं हरिं कथाम् ।।५८।।
कस्मान्निन्दसि साधूँस्त्वं वंशविनाशकारिणि ।
जिह्वां ते कर्तयिष्यामि कर्णौ च नासिकां तथा ।।५९।।।
भेदयिष्यामि वक्षोजौ नाशयिष्यामि मस्तकम् ।
मूर्धजान् कर्तयिष्यामि पाटयिष्येऽर्धवर्ष्म ते ।।4.50.६०।।
त्वचं चोत्कर्तयिष्यामि पातयिष्यामि दन्तकान् ।
उदरं त्रोटयिष्यामि वह्निं दास्यामि गुह्यके ।।६१।।
लौहेन शंकुना देहं भेदयिष्यामि पापिनि ।
कथं त्वं निन्दसि सर्वान् मृषावादान् प्रकत्थसे ।।६२।।
यमदूतान् यमं नैव गणयस्यतिनास्तिके ।
जीवतो मारयिष्यामि पुनर्नैवं कृथा यथा ।।६३।।
वदन्नेव ममारैनां पाशबद्धां वशंगताम् ।
स्पर्शेन सज्वरा चापि कुर्वन्मुहुर्गतज्वराम् ।।६४।।
हाहाकारो महान् जातो नगरे तत्र सर्वशः ।
रक्षको नहि तत्राऽऽसीद् बलवान् हरिमन्तरा ।।६५।।
सा तदाऽतिमहादुःखा ताड्यमाना निराश्रया ।
अनाथा नास्तिका स्वार्थरक्षार्थं त्वास्तिकाऽभवत् ।।६६।।
सस्मार श्रीकृष्णनारायणं त्रातारमच्युतम् ।
हृदये प्राञ्जलिर्भूत्वा दध्यौ श्रीपार्श्वगंप्रभुम् ।।६७।।
तावद् दूतो निजहेतीन् वृत्वा मारान्न्यवर्तत ।
तदा ज्ञातवती दुष्टा कृष्णस्मृतेर्बलं महत् ।।६८।।
अथ कष्टाऽतिमग्ना सा व्याजहार हरे हरे ।
कृष्णनारायणस्वामिन्नारायणनरायण ।।६९।।
तावद् दूतः स्थलं त्यक्त्वा दुद्राव दूरतो ययौ ।
अदृश्यतां गतो व्योम्नि दुर्वदन्ती सुखं गता ।।4.50.७०।।
स्वास्थ्यमासाद्य चोत्थाय धृत्वा वस्त्राणि वर्ष्मणि ।
गलितगर्वा लोकेन धिक्कृता च तिरस्कृता ।।७१ ।।
विवेश लज्जिता तूर्णं स्वं गृहं चाप्यघोमुखी ।
विवेद कृष्णमाहात्म्यं माहात्म्यं कृष्णसंस्मृतेः ।।७२।।
कृष्णनाम्नां च माहात्म्यं विवेद याम्यमारतः ।
अथ सा स्वपतिं प्राह श्रेयसे पापनुत्तये ।।७३।।
संहितायाः कथास्थानं गन्तव्यं तीर्थरूपि यत् ।
यत्र पारायणं मोक्षप्रदं पापघ्नमुत्तमम् ।।७४।।
अनादिश्रीकृष्णनारायणस्यास्ति कथामृतम् ।
तत्पानार्थं च साधूनां सेवार्थं गम्यमेव तत् ।।७५।।
याम्यदुःखविनाशार्थं गन्तव्यं तत्र सर्वथा ।
इत्युक्तः स्वपतिस्त्वाह तथास्त्वेवं कुरु प्रिये ।।७६।।
मयापि श्रेयसे तत्राऽऽगन्तव्यं मोक्षदे स्थले ।
इत्येवं बद्रिके कृत्वा निश्चयं तौ तु दम्पती ।।७७।।
सज्जावभवतां तूर्णं पद्भ्यां मार्गेण निर्गतौ ।
प्राप्य वै शर्कराभूमिं स्नात्वा सिन्धुजले ततः ।।७८।।
संहिताया मण्डपौ तौ गत्वा वृत्तान्तमात्मनोः ।
निवेदयामासतुर्वै लोमशाय महात्मने ।।७९।।
लोमशस्तत्समये च ददौ कृष्णपदामृतम् ।
वारि प्रसादं मिष्टं च व्रतं ददौ ततः परम् ।।4.50.८०।।
एकभुक्तं नित्यकथाश्रवणं साधुसेवनम् ।
प्रसादभोजनं चापि सभास्थानादिमार्जनम् ।।८१ ।।
वैष्णवानां देहसंवाहनादिकं च प्रत्यहम् ।
सेवाव्रतं ददौ ताभ्यां तथा मन्त्रं सुखप्रदम् ।।८२।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'कृष्णनारायणस्वामिन्नारायणनरायण ।।८३।।
अनादिश्रीकृष्णनारायणभक्तपरायण' ।
एवं धुन्यं सदा कर्तुं शिक्षयामास नाम च ।।८४।।
तौ ततः पावनौ नित्यं धुन्यं विदधतः शुभम् ।
नष्टपापौ गतक्लेशौ कथाश्रवणपावितौ ।।८५।।
साधुसेवादिभिर्नष्टवासनौ संबभूवतुः ।
मासमात्रं श्रुतवन्तौ पारायणकथामृतम् ।।८६।।
दिवारात्रं सतां सेवां चक्रतुश्च यथोचिताम् ।
सर्वस्वार्पणभावौ तौ साधुप्रसादभोजिनौ ।।८७।।
भक्तिमन्तौ स्नेहवन्तौ बभूवतुर्नरायणे ।
कृतध्यानौ निमग्नौ च हरेर्मूर्तौ बभूवतुः ।।८८।।
निन्दापापं समस्तं तत् सत्सेवया लयं गतम् ।
महिमा साधुषु कृष्णनारायणे व्यवर्धत ।।८९।।
अथाऽऽयुःपूर्णतां प्राप्तौ गतसंसारबन्धनौ ।
द्विर्गर्जनो द्विर्वदन्ती ह्युभौ पारायणस्थले ।।4.50.९०।।
माघे वसन्तपञ्चम्यां वसन्तोत्सवनोत्तरम् ।
प्राप्तमूर्छौ द्रुतं त्यक्त्वा देहौ दिव्यौ बभूवतुः ।।९१ ।।
देहाभ्यां षोडशवर्षौ दिव्याभ्यां तैजसान्वितौ ।
पश्यतां सर्वलोकानां गोचरौ सुन्दरौ शुभौ ।।९२।।
दिव्यभूषणमालाढ्यौ दिव्यगन्धानुगन्धितौ ।
दिव्यवेषाभिसम्पन्नौ मुक्तौ तौ सम्बभूवतुः ।।९३।।
तावत्तत्र समायातं विमानं भास्वरं शुभम् ।
सौवर्णं तेजसा व्याप्तं व्योममार्गादवातरत् ।।९४।।
यत्र नारायणस्वामी कृष्णनारायणो हरिः ।
श्रिया साकं विमाने श्रीमाणिक्यया युतोऽभवत् ।।९५।।
दिव्यमालाम्बरभूषादिव्यशृंगारशोभनः ।
दिव्याभिश्च समस्ताभिः शक्तिभिः परिसेवितः ।।९६।।
हसन् प्रसादं जनयन् पश्यतां सर्वदेहिनाम् ।
तौ द्वौ मुक्तौ विमाने स्वे नीत्वा धामाऽक्षरं ययौ ।।९७।।
जयशब्दा जयनादास्तदाऽभवन् समन्ततः ।
एवं श्रीबद्रिके कृष्णनारायणः प्रियेश्वरः ।।९८।।
कथाश्रवणपुण्येन सतां सेवाफलेन च ।
निनाय तौ महाभक्तौ कृपया स्वाऽक्षरं पदम् ।।९९।।
शरणागतभक्तानां गणयत्येव नैव सः ।
दूषणान्यपराधान् श्रीकृष्णनारायणप्रभुः ।। 4.50.१० ०।।
दयालुः स दयां कृत्वा शरणागतरक्षकः ।
आपद्दुःखं वारयति नयत्यक्षरमुत्तमम् ।। १०१ ।।
पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।
भुक्तिः स्वर्गं बद्रि मुक्तिः कृष्णस्य कृपया भवेत् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सर्वनिन्दापरायणयोः द्विर्वदन्तीद्विर्गजनयोर्यमदूतदर्शनोत्तरं संहिताश्रवणार्थंगतयोः कृपालुर्भगवान् परममुक्तिं कृतवानित्यादिनिरूपणनामा पञ्चाशत्तमोऽध्यायः ।। ५० ।।