लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०६१
← अध्यायः ६० | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः) अध्यायः ६१ [[लेखकः :|]] |
अध्यायः ६२ → |
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि लीनक्षारनिवासिनः ।
नागादस्य कथां चापि पापतापप्रणाशिनीम् ।। १ ।।
लीनक्षारे तु नगरे नागखेलकरः सदा ।
सर्पपालोऽभवद् वादी नागादनामकः खलु ।। २ ।।
वादिकुटुम्बकं तत्र वर्तते सर्पपालकम् ।
नकुलानां च सर्पाणां शीलानां युद्धदर्शकम् ।। ३ ।।
आरण्यकपशूनां च सरीसृपाणां पालकम् ।
वानराणां च ऋक्षाणां कुक्कुटानां च पालकम् ।। ४ ।।
पशूनादाय राष्ट्रेषु राष्ट्रान्तरेषु याति हि ।
पशुपक्षिसरीसृपखेलनैर्जीववृत्तिकाम् ।। ५ ।।
उत्पाद्य निर्वहत्येव ग्रामे ग्रामे भ्रमत्यपि ।
पक्षिपशून् भक्षयति पशुवद् वर्ततेऽपि च ।। ६ ।।
पोषणार्थं भ्रमत्तद्वै कुटुम्बं शर्करापुरम् ।
आययौ तत् सिन्धुतटे वृक्षषण्डे समीपतः ।। ७ ।।
मण्डपान्नातिदूरे च कथाशब्दाभिसारिणि ।
स्थले वासं विधायैव तस्थौ जीवनहेतवे ।। ८ ।।
मानवानां तु सम्मर्दे खेलं दर्शयति प्रगे ।
मध्याह्ने च तथा सायं जना ददति भोजनम् ।। ९ ।।
अन्नं वस्त्रं च पिष्टं चाऽक्षतान् वस्त्राणि दुग्धकम् ।
शर्करां च गुडं शाकं पात्रं फलं दलादिकम् ।। 4.61.१ ०।।
घृतं तैलं चेक्षुदण्डं घासं कणान् सुपोलिकाः ।
रोटकान् चणकान् भक्ष्यं ददत्येव दयावशाः ।।१ १।।
नागादनादयस्तेऽपि वादिटाः सर्पकीशयोः ।
सर्पनकुलयोश्चापि प्रदर्श्य खेलनं मुहुः ।। १२।।
लोकान् प्ररञ्जयन्त्येव वृत्तिनिर्वाहहेतवे ।
अथैवं खेलनं कृत्वा यथाकाले कथार्थिनः ।। १३।।
वादिटास्ते कथां श्रोतुं सायमायान्ति नित्यशः ।
पूजनं व्यासदेवस्य संहितायाश्च पूजनम् ।। १४।।
साधूनां लोमशादेश्च कुर्वन्त पूजनं शुभम् ।
उपदाश्चार्पयन्त्येव फलपुष्पाम्बरादिकम् ।। १६।।
एकदा स्वपशूनां ते सभारञ्जनहेतवे ।
व्यधुः खेलं सभारंगे सतां प्रसन्नताप्तये ।। १६।।
भल्लुकानां च ऋक्षाणां कीशानां वृश्चिकस्य च ।
कुक्कुटानां भोगिनां च नकुलानां च मेषयोः ।। १७।।
रञ्जिताः खेलनैः सन्तः प्रसादं ते ददुस्तदा ।
मिष्टान्नानि भोजनानि फलानि पिष्टकानि च । ।१८।।
शर्कराश्च पयः सूपौदनानि भाजिकास्तथा ।
पोलिकाः पूरिकाश्चापि शष्कुलीलड्डुकानपि ।। १९।।
पायसान्नमपूपानि शाकान्युच्चावचानि च ।
रन्धितान्नानि चणकान् संस्कृतान् पाचितान् शृताम् । ।4.61.२०।।
चटनीं दधिदुग्धानि तक्राणि कृसराणि च ।
महाभोज्यानि सर्वाणि वादिटेभ्यस्तु साधवः ।।२१ ।।
ददुः प्रसादरूपाणि पशुभ्योऽपि शुभानि च ।
प्रसादान्नानि सर्वाणि ददुः पयांसि यानि च ।।२२।।
हरेः पादामृतं वारि ददुस्तेभ्यो दयान्विताः ।
बुभुजुस्ते हृष्टचित्ता वादिटाः सर्वशस्तदा ।।२३।।
पशवोऽपि प्रसादेन तृप्ताः किं वादिटाः पुनः ।
पावनाः पापशून्यास्तेऽभवन् प्रसादभोजनात् ।। २४।।
कथानां श्रवणैश्चापि सत्त्वचित्तास्ततोऽभवन् ।
मोक्षार्थमर्थयामासुर्लोमशं श्रेयसे मुहुः ।।२५।।
लोमशः प्रददौ तेभ्यो मन्त्रं नाम हरेरपि ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।२६।।
प्रभोनारायणस्वामिन्माधवीन्रायणप्रभो ।
जयाकृष्णललितान्रायणराधापते विभो ।।२७।।
अथैवं प्राप्य मन्त्रं ते नामधुन्यं प्रमुक्तिदम् ।
वैष्णवाः परमा जाताश्चक्रुस्ते भजनं हरेः ।।२८।।
मासान्ते पावनानां वै प्रसन्नः श्रीनरायणः ।
चैत्रस्यैव श्वेतपक्षे तृतीयायां श्रियः पतिः ।।२९।।
भगवानाययौ तेषां श्रेयसे सविमानकः ।
अनादिश्रीकृष्णस्वामी वल्लभो हि महाप्रभुः ।।4.61.३ ०।।
विमानात् सहसा सायं चावातरत् सभास्थले ।
कथोत्तरं स्वयं कृष्णो जगाद वादिटान् हितम् ।।३ १ ।।
आयात वादिटा यूयं मोक्षार्थं मद्विमानके ।
ये सज्जास्त्विह मोक्षार्थं तेषां करोमि मोक्षणम् ।।३२।।
कृपया चागतस्त्वत्र वो ददामि कथाफलम् ।
इत्युक्ता मोहमापन्नाः स्वामिनिकृष्णमाधवे ।।३३।।
वादिटाश्चाबालवृद्धाः पञ्चाशन्नरयोषितः ।
शतेन सहिताः पक्षिपशुवृश्चिकभोगिनाम् ।। ३४।।
अन्यैश्च पशुभिः सर्वैः सहिताः श्रेय आर्थयन् ।
प्राहुः श्रीपरमात्मानं पश्वाद्या बालका हि नः ।।३५।।
तान् विहाय कथं कृष्ण यास्यामः श्रेयसे वयम् ।
तान् समुद्धर भगवन् शरणागतवत्सल ।।३६।।
एतेषां न भवेन्मुक्तिः प्रत्यक्षं मापतिं विना ।
तिर्यग्योनिगतानां वै ततस्त्वं तान् समुद्धर । ।३७।।
इत्यर्थितो हि भगवान्ननादिश्रीनरायणः ।
वादिटैः सह पश्वादीन् जलेन प्रोक्ष्य तत्क्षणम् ।।३८।।
दिव्यदेहान् विधायैव मुक्तरूपान् चतुर्भुजान् ।
देवाकृतीन् समस्ताँस्तान् विमाने न्यस्य यावतः ।।३९।।
सर्वेषां पश्यतां निन्ये धामाऽक्षरं निजं हरिः ।
नागादनादयः सर्वे कृपया सेवया श्रुतेः ।।4.61.४० ।।
ययुर्धामाऽक्षरं बद्रि भक्त्या प्रपत्तिरूपया ।
जयकारोऽभवत्तत्र महोत्सवो व्यवर्तत ।।४१।।
अथाऽन्यं च चमत्कारं शृणु बद्रीप्रिये तथा ।
आर्शफलाख्यनगराच्छ्रुत्वा कथामहोत्सवम् ।।४२।।
आययुर्व्यायामखेलकुशला द्वे शते नराः ।
नार्यश्चापि च खेलिन्यः सिंहाद्याः पशवो गजाः ।।४३।।
वाजिनः शरभा भल्लुका द्विपा गवयाः खराः ।
सारहास्यविदः सर्वे व्योमरज्ज्वादिदोलिनः ।।४४।।
वज्रकार्यविदो निरालम्बोड्डयनवेदिनः ।
महाबला नरा नार्यो देहकौशल्यदर्शिनः ।।४५।।
उद्याने ते निवासं वै चक्रुः खेलपरायणाः ।
नित्यं रात्रौ सुखेलानि कुर्वन्ति कारयन्त्यपि ।।४६।।
एकदा ते विना मूल्यं खेलनानि व्यधुर्निशि ।
सतां कथार्थिनां चापि मानवानां प्रदृष्टये ।।४७।।
रंगस्तत्र हि भक्तानां प्रभक्तानां महानभूत् ।
लक्षशो मानवा द्रष्टुं समायातास्तदा निशि ।।४८।।
गजानां वाजिनां चापि सिंहानां खेलनान्यपि ।
कृतवन्तश्च ते सारहास्यमण्डलिका नराः ।।४९।।
नारीणां गीतकार्याणि नर्तनानि व्यधुः स्त्रियः ।
पशूनां पक्षिणां यानि खेलनानि व्यधुश्च ते ।।4.61.५०।।
व्योमोड्डयनरूपाणि वह्निकार्याणि यान्यपि ।
यन्त्रखेलानि हृद्यानि चक्रिरे मानवादयः ।।५१ ।।
प्रसन्नास्तानि संवीक्ष्य वैष्णवाः साधवोऽपरे ।
नरा नार्यः प्रसन्नाश्च सञ्जाताः खेललोकनैः ।।५२।।
उपदा खेलकेभ्यश्च ददुः श्रीवैष्णवा जनाः ।
नृपाः प्रजाः श्रेष्ठिनश्च धनानि बहुधा ददुः ।।५३।।
खेलान्ते साधवस्तेभ्यो मोक्षाशिषो ददुः शुभाः ।
स्वतःप्रकाशो भगवान् प्रसादं बहुशोभनम् ।।५४।।
भोजनं प्रददौ तेभ्यो मिष्टान्नं चरणामृतम् ।
भुक्त्वा ते पावना जाता मानवाः पशुपक्षिणः ।।५५।।
प्रातः स्नात्वा च ते नद्या जले श्रीलोमशं ययुः ।
कथास्थानं पूजनार्थं व्यासस्य पुस्तकस्य च ।।५६।।
प्रातः प्रपूजनं चक्रुर्बहुभिर्वस्तुभिश्च ते ।
उपदाश्च पुरो धृत्वा चन्दनाद्यैरपूजयन् ।।।५७।।।
प्रार्थयन् श्रेयसे तेऽपि कथाश्रवणपाविताः ।
लोमशस्तत्र सर्वेभ्यो मनुं नाम ददौ मुदा ।।९८।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'प्रभोनारायणस्वामिन्माधवीन्रारायणप्रभो ।।९९।।
जयाकृष्णललितान्रायणराधापते विभो' ।
एवं मन्त्रं नामधुन्यं ददौ श्रीलोमशो मुनिः ।।4.61.६०।।
ते सर्वे सारहासस्था जेपुर्मन्त्रं विधानवत् ।
नामधुन्यं प्रचक्रुश्च मोक्षार्थं कृतनिश्चयाः ।।६१ ।।
सेवां सतां वैष्णवानां साध्वीनां चक्रिरे मुदा ।
कथां नित्यं शुश्रुवुस्ते दानधर्मपरायणाः ।।६२।।
नित्यं ते भजनं चक्रुः कृष्णनारायणप्रभोः ।
मासान्ते पावनानां तु मोक्षदाता नरायणः ।।६३।।
महाविमानमादाय सूर्यभासं सुवर्णजम् ।
लक्ष्म्या श्रिया प्रज्ञया पद्मया मुक्तैर्युतं शुभम् ।।६४।।
आययौ मण्डपोद्यानमध्यदेशे ह्यवातरत् ।
विमानं तत्सूर्यतुल्यं व्यलोकयन् प्रजाजनाः ।।६५।।
सायाह्ने वै चैत्रशुक्लतृतीयायां द्रुतं जनाः ।
महाश्चर्यपरास्तत्र कथान्तेऽभित आययुः ।।६६।।
चक्रुस्ते दर्शनं स्वामिकृष्णनारायणस्य वै ।
सर्वेषां पश्यतां कृष्णः सारहासस्य मानवान् ।।६७।।
नरान्नारीः प्रावदद्वै त्वायान्त्वत्र विमानके ।
भवन्मोक्षायाष्ठगतोऽस्मि समारोहन्तु सत्वरम् ।। ६८।।
ये वाञ्छन्ति परं मोक्षं ते त्वायान्तु विमानके ।
इत्युक्ता बद्रिके सारहासमण्डलिनो जनाः ।।६९।।
नरा नार्यो बालिकाश्च बाला वृद्धास्तथाऽपरे ।
युवानश्च विमला ये गतमोहा निरञ्जनाः ।।4.61.७०।।
निर्दग्धवासना ये च कथाश्रवणपाविताः ।
सज्जा गन्तुमभवन् ये वैराग्यवेगशालिनः ।।७१।।
ते सर्वे त्वरिताश्चासन् समुत्सुका हि मुक्तये ।
चक्रुर्हलहलाशब्दान् विमानं प्रति दुद्रुवुः ।।७२।।
पार्वणेन कृष्णनारायणपादजलेन तान् ।
संप्रोक्ष्य दिव्यदेहान् वै कृत्वा तत्रैव तत्क्षणम् ।।७३।।
दिव्योड्डयनशक्ताँश्च कृत्वा धृत्वा विमानके ।
देहैस्तैरेव षोडशवर्षान् विधाय माधवः ।।७४।।
मानवानां शतं चापि नीत्वा धामाऽक्षरं ययौ ।
शतं तत्राऽवशिष्टाश्च पशुपक्षिसमन्विताः ।।७५।।
महाश्चर्यपरास्तेऽपि भजनं चक्रुरादरात् ।
तेऽपि पश्चाज्जातवेगा मोक्षार्थं निश्चयं व्यधुः ।।७६।।
कीर्तनं नित्यमेवैते चक्रुर्वै भक्तिभावतः ।
दध्युर्नारायणकृष्णं तन्मानसाश्च तत्पराः ।।७७।।
सतां सेवां प्रचक्रुश्च विशेषतः समर्पिताः ।
कथाश्रवणं चक्रुश्च नित्यं नित्यमतन्द्रिताः ।।७८।।
प्रार्थनां तेऽपि मोक्षार्थं चक्रुः श्रीलोमशाग्रतः ।
तथास्त्विति प्राह ऋषिश्चाशीर्वादान् ददौ ततः ।।७९।।
चैत्रस्य शुक्लैकादश्यां प्रातस्तेषां जनार्दनः ।
कृष्णनारायणो विष्णुर्मोक्षार्थं समुपागतः ।।4.61.८०।।
बद्रिके ते कृतस्नाना कृतार्हणाः सभास्थलम् ।
आयायुस्तत्र वै श्रुत्वा कथां तिष्ठन्ति यावता ।।८ १।।
तावद्विमानमाकाशादवातरत् सुवर्णजम् ।
दिव्यं श्रीबालकृष्णेन वाहितं सुविशालकम् ।।८२।।
सर्वेषां गोचरं रम्यं तस्मात् कृष्णो बहिर्मुदा ।
आगत्य सारहासस्थानवशिष्टान् हि मानवान् ।।८३।।
हरिः प्राह समायान्तु मोक्षपदं नयाम्यहम् ।
सारहासस्याऽग्रनेता नाम्ना मार्तण्डमण्डलः ।।८४।।
यो वै मोक्षं गतः पूर्वं तस्य पुत्रोऽर्कमण्डलः ।
तूर्णं करे जलं गृह्य संकल्पं प्र व्यधान्मुदा ।।।८५।।
यद्धनं चोपकरणान्युच्चावचानि यानि च ।
वाहनानि च यानानि वस्त्रभूषासमृद्धयः ।।८६।।
सारहासीयकं सर्वं धनादि विविधर्द्धिकम् ।
अत्र स्थितं त्वर्पयामि पारायणार्थमत्र यत् ।।८७।।
जीवत्पशून् पक्षिगणान् सरीसृपादिकानपि ।
अस्माभिः सह श्रीकृष्णनारायणो नयत्वपि ।।८८।।
मोक्षपदं प्रयान्त्येव पञ्चाद्या अपि येऽत्र ह ।
मानवाश्च नरा नार्यो बालाश्च बालिका अपि ।।८९।।
दिव्यदेहा विमानेन प्रयान्त्वक्षरधाम ते ।
शृण्वतां वै सदस्यानां जलं मुमोच वै क्षितौ ।।९० ।।
तावच्छ्रीकृष्णभगवान् जलं चिक्षेप तेषु तु ।
जलस्पर्शेन सहसा दिव्यदेहाः समुज्ज्वलाः ।।4.61.९ १ ।।
सारहासजना आसन् दिव्याश्च दिव्यविग्रहाः ।
पश्वाद्याश्च स्थिता वासे मृतास्ते पशुविग्रहाः ।।९२।।
दिव्यदेहा अभवँश्च देवतुल्याः समस्ततः ।
आरुरुहुर्विमानं ते सर्वे वै मुक्तविग्रहाः ।।९३।।
नरा नार्यश्च पश्वाद्याः सारहासगतास्तु ये ।
सर्वे विमानमारूढाः श्रीकृष्णाज्ञावशास्तदा ।।९४।।
जयशब्दं नामधुन्यं विमाने ते प्रचक्रिरे ।
कृष्णनारायणनीता ययुर्धामाऽक्षरं हरेः ।।९५।।
बद्रिके जयशब्दाश्च तदाऽऽसन् सर्वतो ह्यति ।
पुष्पाणां वृष्टयस्तत्र दिव्यानामभवन् शुभाः ।।९६।।
चन्दनानां वृष्टयश्चाऽभवन् मेघपथश्च्युताः ।
सतां सेवाफलं मन्त्रनामजापफलं तथा ।।९७।।
कथाश्रवणजन्यं च फलं श्रद्धासमन्वितम् ।
बद्रिके सारहासस्य मण्डलस्य प्रजीविनाम् ।।९८।।
प्राप्तं कृपात्मकं चापि कृष्णनारायणस्य ह ।
कृष्णस्य कृपया सर्वे मुक्तिं ययुः पराक्षरे ।।९९।।
पठनाच्छ्रवणादस्य स्मरणादपि मोक्षभाग् ।
सर्वेष्टसिद्धिरत्यर्था सम्मुखी सम्प्रपद्यते ।। 4.61.१ ००।।
संकल्पितं समस्तं वै लभ्येत श्रवणादपि ।
भुक्तिर्मुक्तिर्महास्वर्गं सर्वं करगतं भवेत् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वादिटस्य नागादननामकस्य सकुटुम्बस्य, सारहासमण्डलस्थानां मार्तण्डमण्डलादीनां समस्तानां च, कथाश्रवणसाधुसेवनभक्त्यादिभि-
मोंक्षणमित्यादिनिरूपणनामैकषष्टितमोऽध्यायः ।। ६१ ।।