लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०७३

← अध्यायः ७२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ७३
[[लेखकः :|]]
अध्यायः ७४ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि बन्दिजनस्य पावनीम् ।
कथां मोक्षकरीं कृष्णनारायणस्तवाऽन्विताम् ।। १ ।।
द्वेषरागजयनाम्नि नगरे पावनः परः ।
बन्दिजनोऽभवन्नाम्ना जयमानाभिधः सुखी ।। २ ।।
कुटुम्बसहितस्तत्र वसमानश्च जीविकाम् ।
बन्दिं सुवन्दनं राज्ञां कृत्वा निर्वहते सदा ।। ३ ।।
द्वेषरागजये ग्रामे राजाऽऽसीद् वज्रविक्रमः ।
बन्दिप्रियो हि बहुधा दानप्रियस्तथोत्तमः ।। ४ ।।
नित्यं रात्रौ दिवा प्रातर्बन्दिस्त्रियश्च बन्दिनः ।
वन्दनामिश्रिता गीतीर्गायन्ति तस्य सन्निधौ ।। १ ।।
विष्णुतुल्यमिन्द्रतुल्यं रुद्रतुल्यं शशिप्रभम् ।
रवितुल्यं चक्रवर्तितुल्यं मत्वा नराः स्त्रियः ।। ६ ।।
कल्पितास्तत्कथाः सर्वा गायन्ति सुप्रशंसिताः ।
जयमानो वन्दकस्तु नूत्नं नित्यं प्रगायति ।। ७ ।।
प्रसन्नोऽस्य विशेषेण जायते वज्रविक्रमः ।
पारितोषिकमस्मै स स्वर्णमुद्रां ददाति च ।। ८ ।।
जयमानो जयं दत्वा नत्वा तं नृपतिं गृहम् ।
नित्यं प्रयाति मुदितः काव्यं नूत्नं करोति च ।। ९ ।।
द्वितीये च दिने प्रातर्गत्वा गायति सन्निधौ ।
एवं सदा करोत्येव जीविकां लभते सदा ।। 4.73.१ ०।।
अथैकदा जयमानो ज्वरेणाऽतीव पीडितः ।
शेके गन्तुं न भूपाऽग्रे भूपश्च विह्वलोऽभवत् ।। १ १।।
प्रतीक्षमाणस्तं राजा न लेभे दर्शनं कवेः ।
उत्थाय स ययौ पद्भ्यां जयमानस्य मन्दिरम् ।। १२।।
जयमानश्चकाराऽस्य भूपस्य स्वागतादिकम् ।
आसनं प्रददावुपाविवेश नृपतिः स च ।। १ ३।।
पृष्ट्वा तु कुशलं वीक्ष्य ज्वरितं कविमुत्तमम् ।
बन्दिनो ज्वरशान्त्यर्थं वैद्यमाहूय चौषधम् ।। १४।।
कारयामास नृपतिस्तस्याऽग्रे त्ववसन्नृपः ।
मुहूर्तान्ते ज्वरो नष्टो नीरुग्णो जयमानकः ।। १५।।
नृपं बन्दिप्रियं तत्र ववन्दे तन्मनो विदन् ।
'अहो राजन् यथार्थं वै भवतो नाम विद्यते ।। १ ६।।
राजसे देववल्लोके रक्षसि द्युनिवासिवत् ।
शोभसे कृष्णवद् विष्णुतुल्यो ददासि सम्पदः ।। १७।।
दयां करोषि लक्ष्मीवन्निभालयसि ब्रह्मवत् ।
आयासि मेघवद् राजन् शृणोषि परमात्मवत् ।। १८।।
प्रेरयसि प्रभेशाभः प्रजां धरसि धर्मवत् ।
सुधांशुवत् पोषयसि प्रकाशसे तु चन्द्रवत्। ।। १९।।
सेवसे मातृवद् राजन् सुखाकरोषि रात्रिवत् ।
पितृवत् पालयसि श्रीसमो भवसि भूतले ।।4.73.२० ।।
कुबेरोऽन्य इवाऽभासि धनदाता धनेश्वरः ।
सुवर्णं स्रावयस्यत्र वह्निःतुल्यः प्रतापवान् ।।२१।।
शासने धर्मराजाभो विभासि च दिशांपतिः ।
यत्र राजन् विद्यसे तद्वनं प्रजायते दिवम् ।।२२।
प्रजा स्वर्गायते चापि स्वर्गं तथेश्वरायते ।
यत्र राजन् वर्तसे गोलोकायते तु तत्स्थलम् ।।२३।।
सौधो वैकुण्ठायते स यत्र भ्रमसि भाग्यवान् ।
यत्र वससि क्षणवत् स्थलं मोक्षायतेऽपि तत् ।।२४।।
आज्ञापयसि क्ष्मेशाँश्च सुरेशानीश्वरानपि ।
सर्वे वहन्ति सततं सभया भृत्यका इव ।। २५।।
सर्वशास्त्राणि गायन्ति वज्रविक्रमसद्गुणान् ।
श्रुतं राजन् मया त्वद्य शर्करानगरेऽधुना ।।२६।।
लक्ष्मीनारायणसंहितायाः कथा प्रवर्तते ।
यस्यां प्रवर्ण्यतेऽनादिकृष्णनारायणः प्रभुः ।।२७।।
सर्वेश्वरेश्वरः स्वामीकृष्णनारायणो हि सः ।
सर्वावतारधर्ता च सर्वब्रह्माण्डरक्षकः ।।२८।।
सर्वराजाधिराजश्च सर्वलक्ष्मीरमापतिः ।
सर्वमुक्तपतिः सर्वदैवतानां च दैवतम् ।।२९।।
सर्वशक्तिपतिः सर्वसम्राड् ब्रह्माण्डधारकः ।
सर्वविष्णुशिवपूज्यः सर्वब्रह्माभिवन्दितः ।।4.73.३०।।
सर्वतीर्थनिवासश्च प्रज्ञापद्मावतीपतिः ।
सर्वेशानः सर्वदेहिनियन्ता सर्वमोक्षदः ।।३१ ।।
राधाजयापतिः कृष्णो बालकृष्णो हि गीयते ।
राजन् यथा सार्वभौमो भगवान् स विराजते ।।३२।।
तथा विराजते सार्वभौमोऽनन्यसमो भुवि ।
अहो भाग्यं परं मन्ये कृष्णवन्नृपतिर्गृहे ।।३३।।
अहो भाग्यं परं राजन् साधुवद् वर्तसे सदा ।
मृषा मिथ्या वर्तसे न सत्यव्रतः प्रवर्तसे ।।३४।।
सत्यं वदसि सत्यं च शृणोषि विन्दसे ऋतम् ।
सत्यं ब्रह्म चिन्तयसि मोक्षे स्थितोऽसि सर्वथा ।।३५।।
कालकवलतां प्राप्ताः पूर्वनृपतयोऽध्रुवाः ।
न तथा भाससे राजन् कालपाशातिगो ह्यसि ।।३६।।
मृत्युः सर्वेषु यश्चास्ते स नास्ति वज्रविक्रमे ।
वार्धक्यं याम्यकष्टानि न सन्ति वज्रविक्रमे ।। ३७।।
अनादिश्रीकृष्णनारायणतुल्यो विभासि मे ।
अहो कृष्ण अहो कृष्ण अहो कृष्ण हरे हरे ।। ३८।।
अहो राजन्नहो राजन्नहो राजन् हरे हरे ।
कृष्णनारायण कृष्णनारायण नरायण ।। २९।।
बालकृष्णाऽनादिकृष्णनारायण रमायण ।
अहो राजन्नहो कृष्णनारायण रमापते ।।4.73.४०।।
अहो विष्णो अहो श्रीमद्बालकृष्ण श्रियः पते ।
अहो भाग्यं मम राजन् कृष्ण कृष्ण हरे हरे ।।४१ ।।
अहो भाग्यं नृपतेश्च कृष्ण कृष्ण हरे हरे ।
अहो स्वामिन्नहो स्वामिन्नारायण जगत्पते ।। ४२।।
अहो यामिन्नहो यामिन्नारायण प्रभोपते ।
अहो कृष्णहरे स्वामिन् पद्मावतीसतीपते ।।४३।।
अहोऽक्षरपते स्वामिन् बदरीसुगुणापते ।
दुःखहाश्रीपते राधामंजुलीमाणिकीपते ।।४४।।
मुक्तमुक्तानिकाहंसास्वामिन् जयादयापते ।
जयाललिताकान्तश्रीसर्वधामपते पते ।।४५।।
आत्ममोक्षपते लक्ष्मीसंहिताख्यकथापते ।
मामुद्धर कृपासिन्धो वज्रविक्रममुद्धर ।।४६।।
एवं ब्रह्मात्मभावेन जयमानस्तु वन्दकः ।
तुष्टाव कंभरालालं गोपालतनुजं प्रभुम् ।।४७।।
नृपतिं चापि तं कृष्णनारायणैक्यभावतः ।
राजा कृष्णाभिधाः श्रुत्वा तूर्णं निष्कल्मषोऽभवत् ।।४८।।
अज्ञानं विगतं राज्ञो मोहो नष्टोऽभवत्तदा ।
नष्टो रागो निजश्लाघाविषयो विरमोऽभवत् ।।४९।।
मिथ्याभिमाननाशेन प्रकाशोऽस्य व्यजायत ।
कथायाः श्रवणेच्छा च दर्शनेच्छा हरेस्तथा ।।4.73.५०।।।
कालमृत्युजराव्याधिनाशेच्छा च व्यजायत ।
वैराग्यश्चाऽभवत्तस्य नाशशीलाच्छरीरतः ।।५१ ।।
विवेकं प्राप्तवान् राजा श्रुत्वा मृषाप्रशंसनम् ।
अहोऽयं जायमानो मे कुरुते यत्प्रशंसनम् ।।५२।।
तदंशोऽपि मयि नास्ति मयि शक्तिर्न विद्यते ।
विद्यते नैव भक्तिश्च नारायणबलं न च ।।५३।।
कालपाशस्य योग्योऽहं मरिष्यामि क्षणान्तरे ।
कीटवद्वर्तमानोऽस्मि सृष्टौ मे गणनाऽस्ति न ।।।९४।।
नाऽहं मृत्युविहीनोऽस्मि कालस्य कवलोऽस्म्यपि ।
मायायां वर्तमानोऽस्मि मोक्षे नैव स्थितोऽस्मि च ।।।५५।।।
चिन्तयामि न चात्मानं न ब्रह्म न नरायणम् ।
न पालयामि सत्यं च मिथ्यायां संरतोऽस्मि च ।।९६।।
न वर्तेऽहं साधुवच्च कुतस्तरं तु कृष्णवत् ।
खण्डराजोऽपि नैवाऽस्मि सार्वभौमः कुतस्तरः ।।।५७।।
नाऽऽज्ञायां मम देहोऽस्ति देवाद्यास्तु कुतस्तराः ।
दुर्गुणोऽहं सदा चाऽस्मि सद्गुणस्तु कुतस्तरः ।।५८।।
बालिशोऽहं प्रमूर्खोऽहं मृषाकीर्तिप्रियोऽस्म्यहम् ।
मायाजाले विचित्तोऽहं प्रमत्तोन्मत्तवत्तथा ।।।५५।।
अहो नारायणः कृष्णः स्मर्यते न मया हरिः ।
इच्छामि भवितुं नारायणतुल्यो मृषाश्रवः ।।4.73.६०।।
पापं करोमि सततं पापात्मा कृष्णशत्रुवत् ।
महापाप्यतिपापात्मा कारयामि प्रशंसनम् ।।६१।।
नास्ति पूगीफलं हस्ते वाञ्च्छामि शेवधीशताम् ।
निर्मलं हृदयं नास्ति समिच्छामि सुरेशताम् ।। ३२।।
मलिनं सर्वथा वर्ष्म मन्ये शिवाधिकं खलः ।
कीदृशोऽहं पशुश्रेष्ठोऽधमो मिथ्याभिमानवान् ।। ६३ ।।
धन्योऽयं जयमानो हि भक्तोऽस्मि परमात्मनः ।
मम मोक्षकरश्चास्मि गुरुश्चाप्यस्ति मेऽधुना ।। ६४।।
प्रशंसामिषतो येनाऽऽहितं ज्ञानं मयि ध्रुवम् ।
विवेकश्चाहितस्तेन मृषागर्वविनाशकृत् ।। ६५।।
स्मारिता देवताः सर्वाः स्मारितः श्रीनरायणः ।
स्मारिता श्रीसंहितायाः कथा पापविमोचिनी ।। ६६।।
अवश्यं पापनाशार्थं गच्छामि तत्कथास्थलम् ।
पावनीं साधुतां लब्ध्वा करिष्ये भजनं हरेः ।। ६७।।
तरिष्यामि भवाब्धिं च करिष्ये स्वात्ममोक्षणम् ।
मृषापापं क्षालयिष्ये ग्रहीष्ये सत्यवर्तनम् ।। ६८ ।।
नामश्रवणमात्रेण हृदयं पूततां गतम् ।
तत्कथाश्रवणात् किं किं स्यान्मे श्रेय उत्तमम् ।। ६९ ।।
जयमानो जयत्वेव मे विवेकप्रदो गुरुः ।
वन्दका वन्दिनः सन्तु तादृशा मोक्षदर्शकाः ।।4.73.७ ० ।।
अज्ञानहारका सन्तु न सन्तु शंखवादिनः ।
मिथ्यागालफटा मा च सन्तु सन्तु ऋतंवदाः ।।७ १ ।।
विचार्येत्थं नृपः प्राह शिष्यवद् बन्दिनं गुरुम् ।
अहो विवेकदानेन तारितोऽहं त्वया गृहे ।। ७२।।
प्रशंसा या त्वया प्रोक्ता श्रुता मयाऽतिरागिणा ।
श्रुतोत्तरं मम नष्टो रागस्तृष्णा लयं गता ।।।७३ ।।
मृषा सत्यं च यत्तत्त्वं प्रकाशितं तु मे हृदि ।
दासोऽस्मि ते गुरुस्त्वं च संसारोद्धारकृन्मम ।।७४।।
वद मे क्व हरिस्त्वास्ते कृष्णनारायणः प्रभुः ।
कथा क्व वर्तते लक्ष्मीनारायणीयसंभवा ।।७५ ।।
श्रवणेच्छा वर्तते मे मृषपापं व्यपोहितुम् ।
मोक्षेच्छा वर्तते बन्दिन् नय यत्र कथामृतम् ।। ७६ ।।
इत्येवं वदतस्तस्य नृपतेर्दर्शनं हरेः ।
अजायत प्रकाशे स्वहृदये परमात्मनः ।।७७।।
कृष्णनारायणस्तूर्णं प्रदर्श्य रूपमात्मनः ।
तिरोभवद्धि हृद्ये वृत्तीराकर्षयन् द्रुतम् ।।७८ ।।
मूर्तिदर्शनमात्रेण राजा परवशोऽभवत् ।
ननर्त बहुधा तत्र देहभानविवर्जितः ।।७९।।
अगायत हरिकृष्णकृष्णनारायणप्रभुम् ।
सतालगालवाद्येन कृष्णकृष्ण हरे हरे ।।4.73.८ ० ।।
जयमानोऽपि तेनैव सार्धं संकीर्तनं व्यधात् ।
प्रमोदसंभृतश्चापि राज्ञा सह ननर्त ह ।। ८१ ।।
अहो बद्रीप्रिये कृष्णनारायणस्य वै कृपा ।
कथाकृष्णप्रशंसाभिः कृष्णश्चोपस्थितोऽभवत् ।।८ २ ।।
एवं मुहूर्तमात्रं तौ नृत्यं गीतं प्रचक्रतुः ।
ततः शान्तौ सुखानन्दभृतौ विरेमतुः क्षणम् ।।८३ ।।
परस्परं च कथयामासतुः पारमेश्वरम् ।
दर्शनं च महानन्दं महासौभाग्यमात्मनोः ।।८४।।
शुश्रुवुश्चाऽन्यमनुजा नरा नार्यस्तदा गृहे ।
आयाता ये महाश्चर्यपरा द्रष्टं नृपं तदा ।।८५ ।।
राजा बन्दी बन्दिपत्नी बन्दिपुत्रास्तथा स्त्रियः ।
पुत्र्यश्च बान्धवाश्चापि शर्करानगरं प्रति ।।८६।।
गन्तुं सज्जा बभूवुस्ते नृपो राज्ञी च तत्सुताः ।
पुत्र्यो राज्ञ्यास्तथा लोकाः प्रजा नार्यो नरा अपि ।।८७।।
सहस्रशो मानवास्ते शर्करानगरं प्रति ।
गन्तुं सज्जा बभूवुश्चाऽमात्यप्रधानकर्मिणः । ।८८ ।।
दास्यो दासाः कर्मचारा भटाः संरक्षकास्तथा ।
गजवाहनसंयुक्ता अश्ववाराश्च निर्ययुः ।।८९ ।।
बहुस्वर्णं धनं धान्यं पुष्कलं सह जगृहुः ।
दानयोग्याऽम्बरपात्रभूषाकम्बलकानपि ।।4.73.९ ० ।।
सोत्सवा बहवो लोका हलहलेति वादिनः ।
निर्ययुस्ते तीर्थयात्राकृते कथास्थलीं प्रति ।। ९१ ।।
भजनं चक्रिरे मार्गे महोद्यानमुपाययुः ।
कथामण्डपसान्निध्ये सहस्रशस्तु ते जनाः ।। ९२।।
महोद्याने निवासांश्च यथायोग्यं प्रचक्रिरे ।
स्नात्वा तीर्थजले देवान् प्रपूज्य मण्डपं प्रति ।। ९३ ।।
ययुस्ते पूजनं चक्रुः संहितायाः कथोत्तरे ।
व्यासस्य पूजनं चक्रुर्लोमशस्य सतां तथा ।। ९४।।
आरार्त्रिकं प्रचक्रुश्चोपदा न्यधुः पुरस्तदा ।
व्यासाद्याः स्वागतं चक्रुर्ददुः प्रसादभोजनम् ।। ९५।।
अथ राजादयः सर्वे ययुर्निवासमुत्सुकाः ।
प्रातः सर्वे समागत्य व्यासात्तथैव लोमशात् ।। ९ ६।।
मन्त्रं धुन्यं स्रजं चैव जगृहुस्तौलसीं मुदा ।
वैष्णवास्ते ततो जाताः पावनाः शरणागताः ।। ९७।।
शुश्रुवुस्ते कथां नित्यं पुपूजुर्व्यासमन्वहम् ।
ऋषीन् साधून् सतीः साध्वीः सिषेविरे हरिं प्रभुम् ।। ९८ ।।
भेजिरे परमात्मानं बालकृष्णं नरायणम् ।
कृष्णनारायण कृष्णनारायण नरायण ।। ९९।।
चक्रिरे सर्वदा धुन्यं प्रसादं च जलामृतम् ।
सर्वे बुभुजिरे बालवृद्धयुवजनाः सदा ।। 4.73.१०० ।।
तेन जाताः पावनास्ते क्षपिताघौघसञ्चयाः ।
सात्त्वताः परमास्तेषां मासान्ते कृष्ण आययौ ।। १०१ ।।
प्रभुर्नारायणो दिव्यमूर्तिर्विमानमास्थितः ।
सर्वेषां पश्यतां भूमाववाततार चाम्बरात् ।। १०२ ।।
जलं चिक्षेप परितस्तेषामुपरि गोपजः ।
सर्वे दिव्यदृशो जाता भालयामासुरच्युतम् ।। १०३ ।।
उक्ता भगवता गन्तुं नृपाद्याश्चाऽक्षरं पदम् ।
सहस्राधिजनाः सज्जा बभूवुर्गन्तुमक्षरम् ।। १ ०४।।
दिव्यान् देहान् विधायैव नीत्वा विमानके च तान् ।
शेषाँस्त्यक्त्वा कृष्णनारायणोऽक्षरं जगाम ह ।। १ ०९।।
ज्येष्ठकृष्णस्य पञ्चम्यां निन्ये तानक्षरं हरिः ।
महाश्चर्यमिदं जातं ख्यातं सर्वं व्यजायत ।। १०६ । ।
बद्रिके शेषवर्गास्तु महाभागवतोत्तमाः ।
कथां श्रुत्वा ययुर्नैजं द्वेषरागजयं पुरम् ।। १ ०७।।
तेऽपि कालेन गोविन्दं भजित्वा चाऽक्षरं ययुः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्दिवं मिलेत् ।। १०८ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने जयमानाख्यबन्दिजनस्य स्तवनेन प्राप्तवैराग्यविवेकस्य वज्रविक्रमनृपतेस्तत्प्रजानां च कथाश्रवणादिभिर्मोक्षणमित्यादिनिरूपणनामा त्रिसप्ततितमोऽध्यायः ।। ७३ ।।